शतपथब्राह्मणम्/काण्डम् १/अध्यायः ८/ब्राह्मण १

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

१.८.१

मनवे ह वै प्रातः । अवनेग्यमुदकमाजह्रुर्यथेदम्पाणिभ्यामवनेजनायाहरन्त्येवं तस्यावनेनिजानस्य मत्स्यः पाणी आपेदे - १.८.१.[१]

स हास्मै वाचमुवाद । बिभृहि मा पारयिष्यामि त्वेति कस्मान्मा पारयिष्यसीत्यौघ इमाः सर्वाः प्रजा निर्वोढा ततस्त्वा पारयितास्मीति कथं ते भृतिरिति - १.८.१.[२]

स होवाच । यावद्वै क्षुल्लका भवामो बह्वी वै नस्तावन्नाष्ट्रा भवत्युत मत्स्य एव मत्स्यं गिलति कुम्भ्यां माग्रे बिभरासि स यदा तामतिवर्धा अथ कर्षूं खात्वा तस्यां मा बिभरासि स यदा तामतिवर्धा अथ मा समुद्रमभ्यवहरासि तर्हि वा अतिनाष्ट्रो भवितास्मीति - १.८.१.

शश्वद्ध झष आस । स हि ज्येष्ठं वर्धतेऽथेतिथीं समां तदौघ आगन्ता तन्मा नावमुपकल्प्योपासासै स औघ उत्थिते नावमापद्यासै ततस्त्वा पारयितास्मीति - १.८.१.[४]

तमेवं भृत्वा समुद्रमभ्यवजहार । स यतिथीं तत्समां परिदिदेष ततिथीं समां नावमुपकल्प्योपासांचक्रे स औघ उत्थिते नावमापेदे तं स मत्स्य उपन्यापुप्लुवे तस्य शृङ्गे नावः पाशं प्रतिमुमोच तेनैतमुत्तरं गिरिमतिदुद्राव - १.८.१.[५]

स होवाच । अपीपरं वै त्वा वृक्षे नावं प्रतिबघ्नीष्व तं तु त्वा मा गिरौ सन्तमुदकमन्तश्छैत्सीद्यावदुदकं समवायात्तावत्तावदन्ववसर्पासीति स ह तावत्तावदेवान्ववससर्प तदप्येतदुत्तरस्य गिरेर्मनोरवसर्पणमित्यौघो हताः सर्वाः प्रजा निरुवाहाथेह मनुरेवैकः परिशिशिषे - १.८.१.[६]

सोर्चंञ्छ्राम्यंश्चचार प्रजाकामः । तत्रापि पाकयज्ञेनेजे स घृतं दधिमस्त्वामिक्षामित्यप्सु जुहवांचकार ततः संवत्सरे योषित्सम्बभूव सा ह पिब्दमानेवोदेयाय तस्यै ह स्म घृतं पदे संतिष्ठते तया मित्रावरुणौ संजग्माते - १.८.१.[७]

तां होचतुः कासीति । मनोर्दुहितेत्यावयोर्ब्रूष्वेति नेति होवाच य एव मामजीजनत तस्यै वाहमस्मीति तस्यामपि त्वमीषाते तद्वा जज्ञौ तद्वा न जज्ञावति त्वेवेयाय सा मनुमाजगाम - १.८.१.[८]

तां ह मनुरुवाच कासीति । तव दुहितेति कथं भगवति मम दुहितेति या अमूरप्स्वाहुतीरहौषीर्घृतं दधि मस्त्वामिक्षां ततो मामजीजनथाः साशीरस्मि तां मा यज्ञेऽवकल्पय यज्ञे चेद्वै मावकल्पयिष्यसि बहुः प्रजया पशुभिर्भविष्यसि यामु मया कां चाशिषमाशासिष्यसे सा ते सर्वा समर्धिष्यत इति तामेतन्मध्ये यज्ञस्यावाकल्पयन्मध्यं ह्येतद्यज्ञस्य यदन्तरा प्रयाजानुयाजान्-१.८.१.[९]

तयार्च्चंञ्छ्राम्यंश्चचार प्रजाकामः । तयेमां प्रजातिं प्रजज्ञे येयं मनोः प्रजातिर्याम्वेनया कां चाशिषमाशास्त सास्मै सर्वा समार्ध्यत - १.८.१.[१०]

सैषा निदानेना यदिडा । स यो हैवं विद्वानिडया चरत्येतां हैव प्रजातिं प्रजायते यां मनुः प्राजायत याम्वेनया कां चाशिषमाशास्ते सास्मै सर्वा समृध्यते - १.८.१.[११]

सा वै पञ्चावत्ता भवति । पशवो वा इडा पाङ्ता वै पशवस्तस्मात्पञ्चावत्ता भवति - १.८.१.[१२]

स समवदायेडाम् । पूर्वार्धं पुरोडाशस्य प्रशीर्य पुरस्ताद्ध्रुवायै निदधाति तां होत्रे प्रदाय दक्षिणात्येति - १.८.१.[१३]

स होतुरिह निलिम्पति । तद्धोतौष्ठयोर्निलिम्पते मनसस्पतिना ते हुतस्याश्नामीषे प्राणायेति - १.८.१.[१४]

अथ होतुरिह निलिम्पति । तद्धोतौष्ठयोर्निलिम्पते वाचस्पतिना ते हुतस्याश्नाम्यूर्ज उदानायेति - १.८.१.[१५]

एतद्ध वै मनुर्बिभयांचकार । इदं वै मे तनिष्ठं यज्ञस्य यदियमिडा पाकयज्ञिया यद्वै म इह रक्षांसि यज्ञं न हिंस्युरिति तामेतत्पुरा रक्षोभ्यः पुरा रक्षोभ्य इत्येव प्रापयत तथो एवैनामेष एतत्पुरा रक्षोभ्यः पुरा रक्षोभ्य इत्येव प्रापयतेऽथ यत्प्रत्यक्षं न प्राश्नाति नेदनुपहूताम्प्राश्नामीत्येतदेवैनां प्रापयते यदोष्ठयोर्निलिम्पते - १.८.१.[१६]

अथ होतुः पाणौ समवद्यति । समवत्तमेव सतीं तदेनां प्रत्यक्षं होतरि श्रयति तयात्मंञ्छ्रितया होता यजमानायाशिषमाशास्ते तस्माद्धोतुः पाणौ समवद्यति - १.८.१.[१७]

अथोपांशूपह्वयते । एतद्ध वै मनुर्बिभयांचकारेदं वै मे तनिष्ठं यज्ञस्य यदियमिडा पाकयज्ञिया यद्वै म इह रक्षांसि यज्ञं न हन्युरिति तामेतत्पुरा रक्षोभ्यः पुरा रक्षोभ्य इत्येवोपांशूपाह्वयत तथो एवैनामेष एतत्पुरा रक्षोभ्यः पुरा रक्षोभ्य इत्येवोपांशूपह्वयते - १.८.१.[१८]

स उपह्वयते । उपहूतं रथन्तरं सह पृथिव्योप मां रथन्तरं सह पृथिव्या ह्वयतामुपहूतं वामदेव्यं सहान्तरिक्षेणोप मां वामदेव्यं सहान्तरिक्षेण ह्वयतामुपहूतं बृहत्सह दिवोप मां बृहत्सह दिवा ह्वयतामिति तदेतामेवैतदुपह्वयमान इमांश्च लोकानुपह्वयत एतानि च सामानि - १.८.१.[१९]

उपहूता गावः सहर्षभा इति । पशवो वा इडा तदेनां परोऽक्षमुपह्वयते सहर्षभा इति समिथुनामेवैनामेतदुपह्वयते - १.८.१.[२०]

उपहूता सप्तहोत्रेति । तदेनां सप्तहोत्रा सौम्येनाध्वरेणोपह्वयते - १.८.१.[२१]

उपहूतेडा ततुरिरिति । तदेनां प्रत्यक्षमुपह्वयते ततुरिरिति सर्वं ह्येषा पाप्मानं तरति तस्मादाह ततुरिरिति - १.८.१.[२२]

उपहूतः सखा भक्ष इति । प्राणौ वै सखा भक्षस्तत्प्राणमुपह्वयत उपहूतं हेगिति तच्छरीरमुपह्वयते तत्सर्वामुपह्वयते - १.८.१.[२३]

अथ प्रतिपद्यते । इडोपहूतोपहूतेडोपो अस्मां इडा ह्वयतामिडोपहूतेति तदुपहूतामेवैनामेतत्सतीं प्रत्यक्षमुपह्वयते या वै सासीद्गोर्वै सासीच्चतुष्पदी वै गौस्तस्माच्चतुरुपह्वयते - १.८.१.[२४]

स वै चतुरुपह्वयमानः । अथ नानेवोपह्वयतेऽजामितायै जामि ह कुर्याद्यदिडोपहूतेडोपहूतेत्येवोपह्वयेतोपहूतेडेति वेडोपहूतेति तदर्वाचीमुपह्वयत उपहूतेडेति तत्पराचीमुपो अस्मां इडा ह्वयतामिति तदात्मानं चैवैतन्नान्तरेत्यन्यथेव च भवतीडोपहूतेति तत्पुनरर्वाचीमुपह्वयते तदर्वाचीं चैवैनामेतत्पराचीं चोपह्वयते - १.८.१.[२५]

मानवी घृतपदीति । मनुर्ह्येतामग्रेऽजनयत तस्मादाह मानवीति घृतपदीति यदेवास्यै घृतं पदे समतिष्ठत तस्मादाह घृतपदीति - १.८.१.[२६]

उत मैत्रावरुणीति । यदेव मित्रावरुणाभ्यां समगच्छत स एव मैत्रावरुणो न्यङ्गो ब्रह्मा देवकृतोपहूतेति ब्रह्मा ह्येषां देवकृतोपहूतोपहूता दैव्या अध्वर्यव उपहूता मनुष्या इति तद्दैवांश्चैवाध्वर्यूनुपह्वयते ये च मानुषा वत्सा वै दैव्या अध्वर्यवोऽथ य इतरे ते मानुषाः - १.८.१.[२७]

य इमं यज्ञमवान्ये च यज्ञपतिं वर्धानिति । एते वै यज्ञमवन्ति ये ब्राह्मणाः शुश्रुवांसोऽनूचाना एते ह्येनं तन्वत एत एनं जनयन्ति तदु तेभ्यो निह्नुते वत्सा उ वै यज्ञपतिं वर्धन्ति यस्य ह्येते भूयिष्ठा भवन्ति स हि यज्ञपतिर्वर्धते तस्मादाह ये च यज्ञपतिं वर्धानिति - १.८.१.[२८]

उपहूते द्यावापृथिवी पूर्वजे ऋतावरी देवी देवपुत्रे इति तदिमे द्यावापृथिवी उपह्वयते ययोरिदं सर्वमध्युपहूतोऽयं यजमान इति तद्यजमानमुपह्वयते तद्यदत्र नाम न गृह्णाति प्रोऽक्ष्ं ह्यत्राशीर्यदिडायाम्मानुषं ह कुर्याद्यन्नाम गृह्णीयाद्व्यृद्धं वै तद्यज्ञस्य यन्मानुषं नेद्व्यृद्धं यज्ञे करवाणीति तस्मान्न नाम गृह्णाति - १.८.१.[२९]

उत्तरस्यां देवयज्यायामुपहूत इति । तदस्मा एतज्जीवातुमेव परोऽक्षमाशास्ते जीवन्हि पूर्वमिष्ट्वाथापरं यजते - १.८.१.[३०]

तदस्मा एतत्प्रजामेव परोऽक्षमाशास्ते । यस्य हि प्रजा भवत्यमुं लोकमात्मनैत्यथास्मिंलोके प्रजा यजते तस्मात्प्रजोत्तरा देवयज्या - १.८.१.[३१]

तदस्मा एतत्पशूनेव परोऽक्षमाशास्ते यस्य हि पशवो भवन्ति स पूर्वमिष्ट्वाथापरं यजते - १.८.१.[३२]

भूयसि हविष्करण उपहूत इति । तदस्मा एतज्जीवातुमेव परोऽक्षमाशास्ते जीवन्हिपूर्वमिष्ट्वाथ भूयोभूय एव हविष्करोति - १.८.१.[३३]

तदस्मा एतत्प्रजामेव परोऽक्षमाशास्ते यस्य हि प्रजा भवत्येक आत्मना भवत्यथोत दशधा प्रजया हविष्क्रियते तस्मात्प्रजा भूयो हविष्करणम् - १.८.१.[३४]

तदस्मा एतत्पशूनेव परोऽक्षमाशास्ते । यस्य हि पशवो भवन्ति स पूर्वमिष्ट्वाथ भूयोभूय एव हविष्करोति - १.८.१.[३५]

एषा वा आशीः जीवेयं प्रजा मे स्याच्छ्रियं गच्छेयमिति तद्यत्पशूनाशास्ते तच्छ्रियमाशास्ते श्रीर्हि पशवस्तदेताभ्यामेवैतदाशीर्भ्यां सर्वमाप्तं तस्माद्वा एते अत्र द्वे आशिषौ क्रियते - १.८.१.[३६]

देवा म इदं हविर्जुषन्तामिति । तस्मिन्नुपहूत इति तद्यज्ञस्यैवैतत्समृद्धिमाशास्ते यद्धि देवा हविर्जुषन्ते तेन हि महज्जयति तस्मादाह जुषन्तामिति - १.८.१.[३७]

तां वै प्राश्नन्त्येव । नाग्नौ जुह्वति पशवो वा इडा नेत्पशूनग्नौ प्रवृणजामेति तस्मान्नाग्नौ जुह्वति - १.८.१.[३८]

प्राणेष्वेव हूयते । होतरि त्वद्यजमाने त्वदध्वर्यौ त्वदथ यत्पूर्वार्धम्पुरोडाशस्य प्रशीर्य पुरस्ताद्ध्रुवायै निदधाति यजमानो वै ध्रुवा तद्यजमानस्य प्राशितं भवत्यथ यत्प्रत्यक्षं न प्राश्नाति नेदसंस्थिते यज्ञे प्राश्नानीत्येतदेवास्य प्राशितं भवति सर्वे प्राश्नन्ति सर्वेषु मे हुतासदिति पञ्च प्राश्नन्ति पशवो वा इडा पाङ्क्ता वै पशवस्तस्मात्पञ्च प्राश्नन्ति - १.८.१.[३९]

अथ यत्र प्रतिपद्यते । तच्चतुर्धा पुरोडाशं कृत्वा बर्हिषदं करोति तदत्र पितॄणां भाजनेन चतस्रो वा अवान्तरदिशोऽवान्तरदिशो वै पितरस्तस्माच्चतुर्धा पुरोडाशं कृत्वा बर्हिषदं करोति - १.८.१.[४०]

अथ यत्राहोपहूते द्यावापृथिवी इति । तदग्नीध आदधाति तदग्नीत्प्राश्नात्युपहूतापृथिवी मातोप मां पृथिवी माता ह्वयतामग्निराग्नीध्रात्स्वाहोपहूतो द्यौष्पितोप मां द्यौष्पिता ह्वयतामग्निराग्नीध्रात्स्वाहेति द्यावापृथिव्यो वा एष यदाग्नीध्रस्तस्मादेवं प्राश्नाति - १.८.१.[४१]

अथ यत्राशिषमाशास्ते । तज्जपति मयीदमिन्द्र इन्द्रियं दधात्वस्मान्रायो मघवानः सचन्तामस्माकं सन्त्वाशिषः सत्या नः सन्त्वाशिष इत्याशिषामेवैष प्रतिग्रहस्तद्या एवात्रर्त्विजो यजमानायाशिष आशासते ता एवैतत्प्रतिगृह्यात्मन्कुरुते १.८.१.[४२]

अथ पवित्रयोर्मार्जयन्ते । पाकयज्ञिययेव वा एतदिडयाचारिषुः पवित्रपूता यदत ऊर्ध्वमसंस्थितं यज्ञस्य तत्तनवामहा इति तस्मात्पवित्रयोर्मार्जयन्ते - १.८.१.[४३]

अथ ते पवित्रे प्रस्तरेऽपिसृजति । यजमानो वै प्रस्तरः प्राणोदानौ पवित्रे यजमाने तत्प्राणोदानौ दधाति तस्मात्ते पवित्रे प्रस्तरेऽपिसृजति - १.८.१.[४४]