शतपथब्राह्मणम्/काण्डम् १/अध्यायः ३/ब्राह्मण ५

विकिस्रोतः तः

१.३.५ सामिधेन्यनुवचनम्

इन्धे ह वा एतदध्वर्युः । इध्मेनाग्निं तस्मादिध्मो नाम समिन्धे सामिधेनीभिर्होता तस्मात्सामिधेन्यो नाम - १.३.५.[१]

स आह । अग्नये समिध्यमानायानुब्रूहीत्यग्नये ह्येतत्समिध्यमानायान्वाह - १.३.५.[२]

तदु हैक आहुः । अग्नये समिध्यमानाय होतरनुब्रूहीति तदु तथा न ब्रूयादहोता वा एष पुरा भवति यदैवैनं प्रवृणीतेऽथ होता तस्मादु ब्रूयादग्नये समिध्यमानायानुब्रूहीत्येव - १.३.५.[३]

आग्नेयीरन्वाह । स्वयैवैनमेताद्देवताया समिन्धे गायत्रीरन्वाह गायत्रं वा अग्नेश्छन्दः स्वेनैवैनमेतच्छन्दसा समिन्धे वीर्यं गायत्री ब्रह्म गायत्री वीर्येणैवैनमेतत्समिन्धे - १.३.५.[४]

एकादशान्वाह । एकादशाक्षरा वै त्रिष्टुब्ब्रह्म गायत्री क्षत्रं त्रिष्टुबेताभ्यामेवैनमेतदुभाभ्यां वीर्याभ्यां समिन्धे तस्मादेकादशान्वाह - १.३.५.[५]

स वै त्रिः प्रथमामन्वाह । त्रिरुत्तमां त्रिवृत्प्रायणा हि यज्ञास्त्रिवृदुदयनास्तस्मात्त्रिः प्रथमामन्वाह त्रिरुत्तमां - १.३.५.[६]

ताः पञ्चदश सामिधेन्यः संपद्यन्ते पञ्चदशो वै वज्रो वीर्यं वज्रो वीर्यमेवैतत्सामिधेनीरभिसंपादयति तस्मादेतास्वनूच्यमानासु यं द्विष्यात्तमङ्गुष्ठाभ्यामवबाधेतेदमहममुमवबाध इति तदेनमेतेन वज्रेणावबाधते - १.३.५.[७]

पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशो वै संवत्सरो भवन्नेति तद्रात्रीराप्नोति - १.३.५.[८]

पञ्चदशानामु वै गायत्रीणाम् । त्रीणि च शतानि षष्टिश्चाक्षराणि त्रीणि च वै शतानि
षष्टिश्च संवत्सरस्याहानि तदहान्याप्नोति तद्वेव संवत्सरमाप्नोति - १.३.५.[९]

सप्तदश सामिधेनीः । इष्ट्या अनुब्रूयादुपांशु तस्यै देवतायै यजति यस्या इष्टिं निर्वपति द्वादश वै मासाः संवत्सरस्य पञ्चर्तव एष एव प्रजापतिः सप्तदशः सर्वं वै प्रजापतिस्तत्सर्वेणैव तं काममनपराधं राध्नोति यस्मै कामायेष्टिं निर्वपत्युपांशु देवतां यजत्यनिरुक्तं वा उपांशु सर्वं वा अनिरुक्तं तत्सर्वेणैव तं काममनपराधं राध्नोति यस्मै कामायेष्टिं निर्वपत्येष इष्टेरुपचारः - १.३.५.[१०]

एकविंशतिं सामिधेनीः । अपि दर्शपूर्णमासयोरनुब्रूयादित्याहुर्द्वादश वै मासाः संवत्सरस्य पञ्चर्तवस्त्रयो लोकास्तद्विंशतिरेष एवैकविंशो य एष तपति सैषा गतिरेषा प्रतिष्ठा तदेतां गतिमेतां प्रतिष्ठां गच्छति तस्मादेकविंशतिमनुब्रूयात् - १.३.५.[११]

ता हैता गतश्रेरेवानुब्रूयात् । य इच्छेन्न श्रेयान्त्स्यान्न पापीयानिति यादृशाय हैव सतेऽन्वाहुस्तादृङ्वा हैव भवति पापीयान्वा यस्यैवं विदुष एता अन्वाहुः सो एषा मीमांसैव न त्वेवैता अनूच्यन्ते - १.३.५.[१२]

त्रिरेव प्रथमां त्रिरुत्तमामनवानन्ननुब्रूयात् । त्रयो वा इमे लोकास्तदिमानेवैतल्लोकान्त्सन्तनोतीमांल्लोकान्त्स्पृणुते त्रय इमे पुरुषे प्राणा एतमेवास्मिन्नेतत्संततमव्यवच्छिन्नं दधात्येतदनुवचनम् - १.३.५.[१३]

स यावदस्य वचः स्यात् । एवमेवानुविवक्षेत्तस्यैतस्य परिचक्षीत साम्यवान्यादनवानन्ननुविवक्षंस्तत्कर्म विवृह्येत सा परिचक्षा - १.३.५.[१४]

स यद्येतन्नोदाशंसेत ।अप्येकैकामेवानवानन्ननुब्रूयात् तदेकैकयैवेमांल्लोकांत्संतनोत्येकैकयेमांल्लोकान्त्स्पृणुतेऽथ यत्प्राणं दधाति गायत्री वै प्राणः स यत्कृत्स्नां गायत्रीमन्वाह तत्कृत्स्नं प्राणं दधाति तस्मादेकैकामेवानवानन्ननुब्रूयात् - १.३.५.[१५]

ता वै संतता अव्यवच्छिन्ना अन्वाह । संवत्सरस्यैवैतदहोरात्राणि संतनोति तानीमानि
संवत्सरस्याहोरात्राणि संततान्यव्यवच्छिन्नानि परिप्लवन्ते द्विषत उ चैवैतद्भ्रातृव्याय नोपस्थानं करोत्युपस्थानं ह कुर्याद्यदसंतता अनुब्रूयात्तस्माद्वै संतता अव्यवच्छिन्ना अन्वाह - १.३.५.[१६]