शतपथब्राह्मणम्/काण्डम् १/अध्यायः ३/ब्राह्मण ४
१.३.४ परिधिपरिधानम्
ते वा आर्द्राः स्युः । एतद्ध्येषां जीवमेतेन सतेजस एतेन वीर्यवन्तस्तस्मादार्द्राः स्युः - १.३.४.[१]
स मध्यममेवाग्रे । परिधिं परिदधाति गन्धर्वस्त्वा विश्वावसुः परिदधातु विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडित इति - १.३.४.[२]
अथ दक्षिणां परिदधाति । इन्द्रस्य बाहुरसि दक्षिणो विश्वस्य अरिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडित इति - १.३.४.[३]
अथोत्तरं परिदधाति । मित्रावरुणौ त्वोत्तरतः परिधत्तां ध्रुवेण धर्मणा विश्वस्यारिष्ट्यै यजमानस्यपरिधिरस्यग्निरिड ईडित इत्यग्नयो हि तस्मादाहाग्निरिड ईडित इति - १.३.४.[४]
अथ समिधमभ्यादधाति । स मध्यममेवाग्रे परिधिमुपस्पृशति तेनैतानग्रे समिन्धेऽथाग्नावभ्यादधाति तेनो अग्निं प्रत्यक्षं समिन्धे - १.३.४.[५]
सोऽभ्यादधाति । वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि अग्ने बृहन्तमध्वर इत्येतया गायत्र्या गायत्रीमेवैतत्समिन्धे सा गायत्री समिद्धान्यानि छन्दांसि समिन्धे छन्दांसि समिद्धानि देवेभ्यो यज्ञं वहन्ति - १.३.४.[६]
अथ यां द्वितीयां समिधमभ्यादधाति । वसन्तमेव तया समिन्धे स वसन्तः समिद्धोऽन्यानृतून्त्समिन्ध ऋतवः समिद्धाः प्रजाश्च प्रजनयन्त्योषधीश्च पचन्ति सोऽभ्यादधाति समिदसीति समिद्धि वसन्तः - १.३.४.[७]
अथाभ्याधाय जपति । सूर्यस्त्वा पुरस्तात्पातु कस्याश्चिदभिशस्त्या इति गुप्त्यै वा
अभितः परिधयो भवन्त्यथैतत्सूर्यमेव पुरस्ताद्गोप्तारं करोति नेत्पुरस्तान्नाष्ट्रा रक्षांस्यभ्यवचरानिति सूर्यो हि नाष्ट्राणां रक्षसामपहन्ता - १.३.४.[८]
अथ यामेवामूं तृतीयां समिधमभ्यादधाति । अनुयाजेषु ब्राह्मणमेव तया समिन्धे स ब्राह्मणः समिद्धो देवेभ्यो यज्ञं वहति - १.३.४.[९]
अथ स्तीर्णां वेदिमुपावर्तते । स द्वे तृणे आदाय तिरश्ची निदधाति सवितुर्बाहू स्थ इत्ययं वै स्तुपः प्रस्तरोऽथा ते भ्रुवावेव तिरश्ची निदधाति तस्मादिमे तिरश्च्यौ भ्रुवौ क्षत्रं वै प्रस्तरो विश इतरं बर्हिः क्षत्रस्य चैव विशश्च विधृत्यै तस्मात्तिरश्ची निदधाति तस्माद्वेव विधृती नाम - १.३.४.[१०]
तत्प्रस्तरं स्तृणाति । ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्य इति साधुं देवेभ्य इत्येवैतदाह यदाहोर्णम्रदसं त्वेति स्वासस्थं देवेभ्य इति स्वासदं देवेभ्य इत्येवैतदाह - १.३.४.[११]
तमभिनिदधाति । आ त्वा वसवो रुद्रा आदित्याः सदन्त्वित्येते वै त्रया देवा यद्वसवो
रुद्रा आदित्या एते त्वासीदन्त्वित्येवैतदाहाभिनिहित एव सव्येन पाणिना भवति - १.३.४.[१२]
अथ दक्षिणेन जुहूं प्रतिगृह्णाति । नेदिह पुरा नाष्ट्रा रक्षांस्याविशानिति ब्राह्मणो
हि रक्षसामपहन्ता तस्मादभिनिहित एव सव्येन पाणिना भवति - १.३.४.[१३]
अथ जुहूं प्रतिगृह्णाति । घृताच्यसि जुहूर्नाम्नेति घृताची हि जुहूर्हि नाम्ना सेदम्प्रियेण धाम्ना प्रियं सद आसीदेति घृताच्यस्युपभृन्नाम्नेत्युपभृतं घृताची ह्युपभृद्धि नाम्ना सेदं प्रियेण धाम्ना प्रियं सद आसीदेति घृताच्यसि ध्रुवा नाम्नेति ध्रुवां घृताची हि ध्रुवा हि नाम्ना सेदं प्रियेण धाम्ना प्रियं सद आसीदेति प्रियेण धाम्ना प्रियं सद आसीदेति यदन्यद्धविः - १.३.४.[१४]
स वा उपरि जुहूं सादयति । अध इतराः स्रुचः क्षत्रं वै जुहूर्विश इतराः स्रुचः क्षत्रमेवैतद्विश उत्तरं करोति तस्मादुपर्यासीनं क्षत्रियमधस्तादिमाः प्रजा उपासते तस्मादुपरि जुहूं सादयत्यध इतराः स्रुचः - १.३.४.[१५]
सोऽभिमृशति । ध्रुवा असदन्निति ध्रुवा ह्यसदन्नृतस्य योनाविति यज्ञो वा ऋतस्य योनिर्यज्ञे ह्यसदंस्ता विष्णो पाहि पाहि यज्ञं पाहि यज्ञपतिमिति तद्यजमानमाह पाहि मां यज्ञन्यमिति तदप्यात्मानं यज्ञान्नान्तरेति यज्ञो वै विष्णोस्तद्यज्ञायैवैतत्सर्वं परिददाति गुप्त्यै तस्मादाह ता विष्णो पाहीति - १.३.४.[१६]