शतपथब्राह्मणम्/काण्डम् १/अध्यायः ३/ब्राह्मण १

विकिस्रोतः तः


१.३.१ अथ द्रव्यसंस्काराः

स वै स्रुचः सम्मार्ष्टि । तद्यत्स्रुचः सम्मार्ष्टि यथा वै देवानां चरणं तद्वा अनु मनुष्याणां तस्माद्यदा मनुष्याणां परिवेषणमुपकॢप्तं भवति - १.३.१.[१]

अथ पात्राणि निर्णेनिजति । तैर्निर्णिज्य परिवेविषत्येवं वा एष देवानां यज्ञो भवति यच्छृतानि हवींषि कॢप्ता वेदिस्तेषामेतान्येव पात्राणि यत्स्रुचः - १.३.१.[२]

स यत्सम्मार्ष्टि । निर्णेनेक्त्येवैना एतन्निर्णिक्ताभिः प्रचराणीति तद्वै द्वयेनैव देवेभ्यो निर्णेनिजत्येकेन मनुष्येभ्योऽद्भिश्च ब्रह्मणा च देवेभ्य आपो हि कुशा ब्रह्म यजुरेकेनैव मनुष्येभ्योऽद्भिरेवैवम्वेतन्नाना भवति - १.३.१.[३]

अथ स्रुवमादत्ते । तं प्रतपति प्रत्युष्टं रक्षः प्रत्युष्टा अरातयो निष्टप्तं रक्षो निष्टप्ता अरातय इति वा - १.३.१.[४]

देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसंगाद् बिभयांचक्रुस्तद्यज्ञमुखादेवैतन्नाष्ट्रा रक्षांस्यतोऽपहन्ति - १.३.१.[५]

स वा इत्यग्रैरन्तरतः सम्मार्ष्टि । अनिशितोऽसि सपत्नक्षिदिति यथानुपरतो यजमानस्य सपत्नान्क्षिणुयादेवमेतदाह वाजिनं त्वा वाजेध्यायै सम्मार्ज्मीति यज्ञियं त्वा यज्ञाय सम्मार्ज्मीत्येवैतदाहैतेनैव सर्वाः स्रुचः सम्मार्ष्टि वाजिनीं त्वेति स्रुचं तूष्णीं प्राशित्रहरणं - १.३.१.[६]

स वा इत्यग्रैरन्तरतः सम्मार्ष्टीति । मूलैर्बाह्यत इतीव वा अयं प्राण इतीवोदानः
प्राणोदानावेवैतद्दधाति तस्मादितीवेमानि लोमानीतीवेमानि - १.३.१.[७]

स वै सम्मृज्य सम्मृज्य प्रतप्य प्रतप्य प्रयच्छति । यथावमर्शं निर्णिज्यानवमर्शमुत्तमं परिक्षालयेदेवं तत्तस्मात्प्रतप्य प्रतप्य प्रयच्छति - १.३.१.[८]

स वै स्रुवमेवाग्रे सम्मार्ष्टि । अथेतराः स्रुचो योषा वै स्रुग्वृषा स्रुवस्तस्माद्यद्यपि बह्व्य इव स्त्रियः सार्धं यन्ति य एव तास्वपि कुमारक इव पुमान्भवति स एव तत्र प्रथम एत्यनूच्य इतरास्तस्मात्स्रुवमेवाग्रे सम्मार्ष्ट्यथेतराः स्रुचः - १.३.१.[९]

स वै तथैव सम्मृज्यात् । यथाग्निं नाभिव्युक्षेद्यथा यस्मा अशनमाहरिष्यन्त्स्यात्तं पात्रनिर्णेजनेनाभिव्युक्षेदेवं तत्तस्मादु तथैव सम्मृज्याद्यथाग्निं नाभिव्युक्षेत्प्राङिवैवोत्क्रम्य - १.३.१.[१०]

तद्धैके । स्रुक्सम्मार्जनान्यग्नावभ्यादधति वेदस्याहाभूवन्त्स्रुच एभिः सममार्जिषुरिदं वै किंचिद्यज्ञस्य नेदिदं बह्मा अशनमाहरेत्तम्पात्रनिर्णेजनं पाययेदेवं तत्तस्मादु परास्येदेवैतानि - १.३.१.[११]

अथ पत्नीं संनह्यति । जघनार्धो वा एष यज्ञस्य यत्पत्नी प्राङ्मे यज्ञस्तायमानो यादिति युनक्त्येवैनामेतद्युक्ता मे यज्ञमन्वासाता इति - १.३.१.[१२]

योक्त्रेण संनह्यति । योक्त्रेण हि योग्यं युञ्जन्त्यस्ति वै पत्न्या अमेध्यं यदवाचीनं नाभेरथैतदाज्यमवेक्षिष्यमाणा भवति तदेवास्या एतद्योक्त्रेणान्तर्दधात्यथ मेध्येनैवोत्तरार्धेनाज्यमवेक्षते तस्मात्पत्नीं संनह्यति - १.३.१.[१३]

स वा अभिवासः संनह्यति । ओषधयो वै वासो वरुण्या रज्जुस्तदोषधीरेवैतदन्तर्दधाति तथो हैनामेषा वरुण्या रज्जुर्न हिनस्ति तस्मादभिवासः संनह्यति - १.३.१.[१४]

स संनह्यति । अदित्यै रास्नासीतीयं वै पृथिव्यदितिः सेयं देवानां पत्न्येषा वा एतस्य पत्नी भवति तदस्या एतद्रास्नामेव करोति न रज्जुं हिरो वै रास्ना तामेवास्या एतत्करोति - १.३.१.[१५]

स वै न ग्रन्थिं कुर्यात् । वरुण्यो वै ग्रन्थिर्वरुणो ह पत्नीं गृह्णीयाद्यद्ग्रन्थिं कुर्यात्तस्मान्न ग्रन्थिं करोति - १.३.१.[१६]

ऊर्ध्वमेवोद्गूहति । विष्णोर्वेष्योऽसीति सा वै न पश्चात्प्राची देवानां यज्ञमन्वासीतेयं वै पृथिव्यदितिः सेयं देवानां पत्नी सा पश्चात्प्राची देवानां यज्ञमन्वास्ते तद्धेमामभ्यारोहेत्सा पत्नी क्षिप्रेऽमुं लोकमियात्तथो ह पत्नी ज्योग्जीवति तदस्या एवैतन्निह्नुते तथो हैनामियं न हिनस्ति तस्मादु दक्षिणत इवैवान्वासीत - १.३.१.[१७]

अथाज्यमवेक्षते । योषा वै पत्नी रेत आज्यं मिथुनमेवैतत्प्रजननं क्रियते तस्मादाज्यमवेक्षते- १.३.१.[१८]

सावेक्षते । ऽदब्धेन त्वा चक्षुषावपश्यामीत्यनार्त्तेन त्वा चक्षुषावपश्यामीत्येवैतदाह अग्नेर्जिह्वासीति यदा वा एतदग्नौ जुह्वत्यथाग्नेर्जिह्वा इवोत्तिष्ठन्ति तस्मादाहाग्नेर्जिह्वासीति सुहूर्देवेभ्य इति साधु देवेभ्य इत्येवैतदाह धाम्ने धाम्ने मे भव यजुषे यजुष इति सर्वस्मै मे यज्ञायैधीत्येवैतदाह - १.३.१.[१९]

अथाज्यमादाय प्राङुदाहरति । तदाहवनीयेऽधिश्रयति यस्याहवनीये हवींषि श्रपयन्ति सर्वो मे यज्ञ आहवनीये शृतोऽसदित्यथ यदमुत्राग्रेऽधिश्रयति पत्नीं ह्यवकाशयिष्यन्भवति न हि तदवकल्पते यत्सामि प्रत्यग्घरेत्पत्नीमवकाशयिष्यामीत्यथ यत्पत्नीं नावकाशयेदन्तरियाद्ध यज्ञात्पत्नीं तथो ह यज्ञात्पत्नीं नान्तरेति तस्मादु सार्धमेव विलाप्य प्रागुदाहरत्यवकाश्य पत्नीं यस्यो पत्नी न भवत्यग्र एव तस्याहवनीयेऽधिश्रयति तत्तत आदत्ते तदन्तर्वेद्यासादयति - १.३.१.[२०]

तदाहुः । नान्तर्वेद्या सादयेदतो वै देवानां पत्नीः संयाजयन्त्यवसभा अह देवानां पत्नीः करोति परः पुंसो हास्य पत्नी भवतीति तदु होवाच याज्ञवल्क्यो यथादिष्टं पत्न्या अस्तु कस्तदाद्रियेत यत्परः पुंसा वा पत्नी स्याद्यथा वा यज्ञो वेदिर्यज्ञ आज्यं यज्ञाद्यज्ञ निर्मिमा इति तस्मादन्तर्वेद्येवासादयेत् - १.३.१.[२१]

प्रोक्षणीषु पवित्रे भवतः । ते तत आदत्ते ताभ्यामाज्यमुत्पुनात्येको वा उत्पवनस्य बन्धुर्मेध्यमेवैतत्करोति - १.३.१.[२२]

स उत्पुनाति । सवितुस्त्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिरिति सो
ऽसावेव बन्धुः - १.३.१.[२३]

अथाज्यलिप्ताभ्यां पवित्राभ्यम् । प्रोक्षणीरुत्पुनाति सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः इति। सोऽसावेव बन्धुः। तद्यदाज्यलिप्ताभ्यां पवित्राभ्याम् । प्रोक्षणीरुत्पुनाति तदप्सु पयो दधाति तदिदमप्सु पयो हितमिदं हि यदा वर्षत्यथौषधयो जायन्त ओषधीर्जग्ध्वापः पीत्वा तत एष रसः सम्भवति तस्मादु रसस्यो चैव सर्वत्वाय - १.३.१.[२४]

अथाज्यमवेक्षते । तद्धैके यजमानमवख्यापयन्ति तदु होवाच याज्ञवक्ल्यः कथं नु न स्वयमध्वर्यवो भवन्ति कथं स्वयं नान्वाहुर्यत्र भूयस्य इवाशिषः क्रियन्ते कथं न्वेषामत्रैव श्रद्धा भवतीति यां वै कां च यज्ञ ऋत्विज आशिषमाशासते यजमानस्यैव सा तस्मादध्वर्युरेवावेक्षेत - १.३.१.[२५]

सोऽवेक्षते । सत्यम् वै चक्षुः सत्यं हि वै चक्षुस्तस्माद्यदिदानीं द्वौ विवदमानावेयातामहमदर्शमहमश्रौषमिति य एव ब्रूयादहमदर्शमिति तस्मा एव श्रद्दध्याम तत्सत्येनैवैतत्समर्धयति - १.३.१.[२६]

सोऽवेक्षते । तेजोऽसि शुक्रमस्यमृतमसीति स एष सत्य एव मन्त्रस्तेजो ह्येतच्छुक्रं
ह्येतदमृतं ह्येतत्तत्सत्येनैवैतत्समर्धयति - १.३.१.[२७]