शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ६/ब्राह्मण १

विकिस्रोतः तः

१३.६.१.१

पुरुषो ह नारायणोऽकामयत अतितिष्ठेयं सर्वाणि भूतान्यहमेवेदं सर्वं स्यामिति स एतं पुरुषमेधं पञ्चरात्रम्यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत तेनेष्ट्वात्यतिष्ठत्सर्वाणि भूतानीदं सर्वमभवदतितिष्ठति सर्वाणि भूतानीदं सर्वं भवति य एवम्विद्वान्पुरुषमेधेन यजते यो वैतदेवं वेद - १३.६.१.१

तस्य त्रयोविंशतिर्दीक्षाः द्वादशोपसदः पञ्च सुत्याः स एष चत्वारिंशद्रात्रः सदीक्षोपसत्कश्चत्वारिंशदक्षरा विराट्तद्विराजमभिसम्पद्यते ततो विराडजायत विराजो अधि पूरुष इत्येषा वै सा विराडेतस्या एवैतद्विराजो यज्ञं पुरुषं जनयति - १३.६.१.२

ता वा एताः चतस्रो दशतो भवन्ति तद्यदेताश्चतस्रो दशतो भवन्त्येषां चैव लोकानामाप्त्ये दिशां चेममेव लोकं प्रथमया दशताप्नुवन्नन्तरिक्षं द्वितीयया दिवं तृतीयया दिशश्चतुर्थ्या तथैवैतद्यजमान इममेव लोकम्प्रथमया दशताप्नोत्यन्तरिक्षं द्वितीयया दिवं तृतीयया दिशश्चतुर्थ्यैतावद्वा इदं सर्वं यावादिमे च लोका दिशश्च सर्वं पुरुषमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै - १३.६.१.३

एकादशाग्निषोमीयाः पशव उपवसथे तेषां समानं कर्मैकादश यूपा एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते - १३.६.१.४

एकादशिनाः सुत्यासु पशवो भवन्ति एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते - १३.६.१.५

यद्वेवैकादशिना भवन्ति एकादशिनी वा इदं सर्वं प्रजापतिर्ह्येकादशिनी सर्वं हि प्रजापतिः सर्वं पुरुषमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै - १३.६.१.६

स वा एष पुरुषमेधः पञ्चरात्रो यज्ञक्रतुर्भवति पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः सम्वत्सरो यत्किं च पञ्चविधमधिदेवतमध्यात्मं तदेनेन सर्वमाप्नोति - १३.६.१.७

तस्याग्निष्टोमः प्रथममहर्भवति अथोक्थ्योऽथातिरात्रोऽथोक्थ्योऽथाग्निष्टोमः स वा एष उभयतोज्योतिरुभयतऽउक्थ्यः - १३.६.१.८

यवमध्यः पञ्चरात्रो भवति इमे वै लोकाः पुरुषमेध उभयतोज्योतिषो वा इमे लोका अग्निनेत आदित्येनामुतस्तस्मादुभयतोज्योतिरन्नमुक्थ्य आत्मातिरात्रस्तद्यदेता उक्थ्यावतिरात्रमभितो भवतस्तस्मादयमात्मान्नेन परिवृढोऽथ यदेष वर्षिष्ठोऽतिरात्रोऽह्नां स मध्ये तस्माद्यवमध्यो युते ह वै द्विषन्तं भ्रातृव्यमयमेवास्ति नास्य द्विषन्भ्रातृव्य इत्याहुर्य एवं वेद - १३.६.१.९

तस्यायमेव लोकः प्रथममहः अयमस्य लोको वसन्तऋतुर्यदूर्ध्वमस्माल्लोकादर्वाचीनमन्तरिक्षात्तद्द्वितीयमहस्तद्वस्या ग्रीष्मऋतुरन्तरिक्षमेवास्य मध्यममहरन्तरिक्षमस्य वर्षाशरदावृतू यदूर्ध्वमन्तरिक्षादर्वाचीनं दिवस्तच्चतुर्थमहस्तद्वस्य हेमन्तऋतुर्द्यौरेवास्य पञ्चममहर्द्यौरस्य शिशिर ऋतुरित्यधिदेवतम् - १३.६.१.१०

अथाध्यात्मम् प्रतिष्ठैवास्य प्रथममहः प्रतिष्ठो अस्य वसन्तऋतुर्यदूर्ध्वं प्रतिष्ठाया अवाचीनं मद्ध्यात्तद्द्वितीयमहस्तद्वस्य ग्रीष्मऋतुर्मध्यमेवास्य मध्यममहर्मध्यमस्य वर्षाशरदावृतू यदूर्ध्वम्मध्यादवाचीनं शीर्ष्णस्तच्चतुर्थमहस्तद्वस्य हेमन्त ऋतुः शिर एवास्य पञ्चममहः शिरोऽस्य शिशिर ऋतुरेवमिमे च लोका सम्वत्सरश्चात्मा च पुरुषमेधमभिसम्पद्यन्ते सर्वं वा इमे लोकाः सर्वं सम्वत्सरः सर्वमात्मा सर्वं पुरुषमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै - १३.६.१.११