शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ६

विकिस्रोतः तः
Jump to navigation Jump to search


ब्राह्मण १

१ पुरुषमेधः - तत्र प्रथमं तावदतिष्ठाफलवतः पुरुषमेधस्य क्रतोरुत्पत्तेराख्यायिकया सोपपत्तिकमभिधानम्, तस्यैतस्य पुरुषमेधस्य त्रयोविंशतिर्दीक्षा द्वादशोपसदः पञ्च सुत्याश्च भवन्ति ताश्च सर्वा मिलित्वा पुरुषमेधश्चत्वारिंशद्रात्रो भवतीत्यभिधाय तस्य चत्वारिंशत्त्वसामान्याद्विराडात्मना प्रशंसनम्, एतस्मिन्नुक्तेऽर्थे मन्त्रसंवादप्रदर्शनं च, इदानीमेवाभिहिताया विराजश्चत्वारो दशकवर्गा भवन्तीति सप्रयोजनं सोपपत्तिकमभिधानं, तत्रोपवसथेऽह्नि एकादश यूपा एकादशाग्नीषोमीयाः पशवश्च भवन्ति तेषां कर्म च समानमित्येतत्प्रतिपाद्य तद्गतैकादशसंख्यायात्रिष्टुबात्मना प्रशंसनं, तथा सुत्यास्वैकादशिनाः पशवो भवन्तीति प्रतिपाद्य तद्गतैकादशसंख्यायाः पूर्ववत्त्रिष्टुबात्मना प्रशस्य प्रजापत्यात्मना प्रशंसनं, पुरुषमेधाख्योऽयं यज्ञक्रतुः पञ्चरात्रो भवतीति प्रतिपाद्य पंचविधयज्ञपशुऋत्वादिसम्पत्त्या प्रशंसनम् , एवं यज्ञविराजोऽधिदैवाध्यात्ममुपासनमभिधाय पुरुषमेधिकेषु सौत्येष्वहःसु कर्तव्या अहःसंस्था अभिधाय च तासामाध्यात्माधिदैवोपासनस्य सफलं सार्थवादं निरूपणम्, उक्तार्थं वेदितुः फलनिरूपणं च, पुरुषमेधिकानां सौत्यानामह्नां लोकर्तुरूपेणाधिदेवतसम्पत्तेर्ऋत्वात्मरूपेणाध्यात्मसमात्तेश्च सोपपत्तिकं निरूपणं चेत्यादि.

ब्राह्मण २

२ पुरुषमेधशब्दस्याधिदैविकमाधियाज्ञिकं च निर्वचनम्, तत्र पुरुषमेधस्य मध्यमेऽहनि पुरुषपशूनालभते इति सार्थवादं विधानं, ते च ब्राह्मणादयः पुरुषपशवो मन्त्रब्राह्मणे एकैकस्यां कण्डिकायां दश दश पशवोऽभिहितास्ताननूद्यालभत इत्यभिधायैतस्या दशसंख्याया विराडात्मना प्रशंसनम्, एवं दशदशपश्वभिधायिका एकादश कण्डिकास्तद्गतान्पशूननूद्यालभत इत्यभिधाय तस्या एकादशसंख्यायास्त्रिष्टुबात्मना प्रशंसनं, मध्यमेऽग्निष्ठे यूपे अष्टाचत्वारिंशतं पशून्नियुज्यालभत इत्यभिधायैतस्या अष्टाचत्वारिंशत्सख्याया जगत्यात्मना प्रशंसनम्, इतरेषु यूपेष्वेकादशैकादश पशून्नियुज्यालभत इति प्रतिपाद्यैतस्या एकादशसंख्यायास्त्रिष्टुबात्मना प्रशंसनम् , उत्तमांश्चाष्टौ पशूनालभत इत्यभिधायैतस्या अष्टसंख्याया गायत्र्यात्मना प्रशंसनम्, एतेषामुत्तमानामष्टानां पशूनां प्राजापत्यत्वं प्रतिपाद्य तद्रूपेण प्रशंसनम्,
पशूनुपाकरिष्यन्नध्वर्युः " देव सवितः-तत्सवितुः-विश्वानि देव" इत्येतास्तिस्रः सावित्रीराहुतीर्जुहोतीति सार्थवादं विधानम् , " ब्रह्मणे ब्राह्मणं क्षत्राय राजन्यं मरुद्भ्यो वैश्यं तपसे शूद्रम्" इत्येतान्पशूंस्तदेवताश्चेतरपशुतद्देवतानामुपलक्षकत्वेनानूद्य तेषां सोपपत्तिकं प्रयोजननिरूपणं, पूर्वं या विहितास्तिस्रः सावित्र्य आहुतयस्ता आज्येन होतव्या इति सार्थवादं विधानम्, नियुक्तान्पुरुषान्ब्रह्मा दक्षिणतः " सहस्रशीर्षा पुरुषः " इत्येतेन षोडशर्चेन नारायणेन पुरुषसूक्तेनाभिष्टौतीति सार्थवादं विधानम, ते च सर्वे पशवः संज्ञपनवर्जिताः केवलं पर्यग्निकृता बभूवुरतस्तद्देवत्या आहुतय आज्येन होतव्याः पर्यग्निकृतांस्तान्पशूंस्तूत्सृजेदेवेत्यशरीरिवाङ्नारायणसंवादद्वारा सोपपत्तिकं सार्थवादं निरूपणम्, ऐकादशिनैः पशुभिरेनं यज्ञं संस्थापयतीति विधायैतस्या एकादशसंख्यायास्त्रिष्टुबात्मना प्रशंसनम्, उदयनीयेष्ट्यां संस्थितायां तिस्रो मैत्रावरुणीः-तिस्रो वैश्वदेवीः पञ्च बार्हस्पत्याः-एवमेकादश वशा अनूबन्ध्या आलभत इति सार्थवादं विधायैतस्या एकादशसंख्यायास्त्रिटुबात्मना प्रशंसनं, ततस्त्रैधातव्युदवसानीयेष्टिर्भवतीति स्तावकार्थवादातिदेशसहितमभिधानं, विजयमध्यात्प्राच्यादिक्रमेण चतुर्दिक्षु यदुत्पन्नं द्रव्यं तत्तेनैव क्रमेण होतृ ब्रह्माध्वर्यूद्गातृभ्यः प्रदेयं सपुरुषं भूमिब्राह्मणस्ववर्जं यथा भवेत्तथेति दक्षिणादानविधानं, तत्रापि यदि ब्राह्मणः पुरुषमेधेन यजेत तदा सर्वस्वं दद्यादिति सार्थवादं विधानं, तत आत्मन्यग्नी समारोह्योत्तरनारायणेनादित्यमुपस्थाय चानपेक्षमाणोऽरण्यमभिप्रेयादिति सप्रयोजनं विधानं, यदि वा ग्रामे विवत्सेत्तदाऽरण्योरग्नी समारोह्य पूर्ववदुत्तरनारायणेनैवादित्यमुपस्थाय गृहेषु प्रत्यवस्येद्यानभ्याप्नुयात्तांश्च यज्ञक्रतूनाहरेतेति च विधानं, स एष पुरुषमेधः सर्वस्मै नानुवक्तव्यः किन्तु ज्ञातप्रियानूचानेभ्य एव ब्रूयादिति सकारणं पुरुषार्थप्रतिषेधकथनं चेत्यादि