शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ४/ब्राह्मण ३

विकिस्रोतः तः



१२.४.३.

तदाहुः – यत् पूर्वस्यामाहुत्यां हुतायाम्। अथाग्निरनुगच्छेत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। यं प्रतिवेशं शकलं विंदेत्। तमभ्यस्याभिजुहुयात्। दारौ दारावग्निः इति। वदन्। दारौ दारौ ह्येवाग्निम्। यद्यु अस्य हृदयं व्येव लिखेत्। हिरण्यमभिजुहुयात्। अग्नेर्वा एतद्रेतः, यद्धिरण्यम्। य उ वै पुत्रः, स पिता। यः पिता, स पुत्रः। तस्माद्धिरण्यमभिजुहुयात्। एतदेव तत्र कर्म॥१२.४.३.१॥

तदाहुः – यस्याहवनीय उद्धृतः। पुराऽग्निहोत्रादनुगच्छेत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। गार्हपत्यादेवैनं प्रांचमुद्धृत्य, उपसमाधाय, अग्निहोत्रं जुहुयात्। स यद्यपि शतमेव कृत्वः पुनः पुनरुद्धृतोऽनुगच्छेत्। गार्हपत्यादेवैनं प्रांचमुद्धृत्योपसमाधायाग्निहोत्रं जुहुयात्। एतदेव तत्र कर्म॥१२.४.३.२॥

तदाहुः – यस्य गार्हपत्योऽनुगच्छेत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। तं हैक उल्मुकादेव निर्मन्थन्ति। यतो वै पुरुषस्यांततो नश्यति। ततो वै स तस्य प्राश्चित्तिमिच्छते इति वदन्तः। तदु तथा न कुर्यात्। उल्मुकं ह वैवादाय चरेयुः। उल्मुकस्य वाऽवव्रश्चम्। इत्थमेव कुर्यात्। उल्मुकादंगारमादाय। तमरण्योरभिविमथ्नीयात्। उप ह तं काममाप्नोति। य उल्मुकमथेय। उपो तं, योऽरण्योः। एतदेव तत्र कर्म॥१२.४.३.३॥

तदाहुः – यस्याग्नावग्निमभ्युद्धरेयुः। किं तत्र कर्म। का प्रायश्चित्तिरिति। ईश्वरौ वा एतौ संपाद्याशांतौ यजमानस्य प्रजां च पशूंश्च निर्द्दहतः। तदभिमन्त्रयेत। समितं संकल्पेथां संप्रियौ रोचिष्णू सुमनस्यमानौ। इषमूर्जमभिसंवसानौ॥ सं वां मनांसि संव्रता समु चित्तान्याकरम्। अग्ने पुरीष्याधिपा भव त्वन्न इषमूर्जं यजमानाय धेहि इति। शांतिमेवाभ्यामेतद्वदति। यजमानस्य प्रजायै पशूनामहिंसायै॥१२.४.३.४॥

यद्यु अस्य हृदयं व्येव लिखेत्। अग्नयेऽग्निमतेऽष्टाकपालं पुरोडाशं निर्वपेत्। तस्यावृत्। सप्तदश सामिधेनीरनुब्रूयात्। वार्त्रघ्नावाज्यभागौ।विराजौ संयाज्ये। अथैते याज्यानुवाक्ये। अग्निनाऽग्निः समिध्यते कविर्गृहपतिर्युवा। हव्यवाड् जुह्वास्यः इति। अथ याज्या। त्वं ह्यग्नेऽग्निना विप्रो विप्रेण सन्त्सता। सखा सख्या समिध्यसे इति। शांतिमेवाभ्यामेतद्वदति। यजमानस्य प्रजायै पशूनामहिंसायै। एतदेव तत्र कर्म॥१२.४.३.५॥

तदाहुः - यस्याहवनीयेऽननुगते गार्हपत्योऽनुगच्छेत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। तं हैके तत एव प्रांचमुद्धरन्ति। प्राणा वा अग्नयः। प्राणानेवास्मा एतदुद्धराम इति वदंतः। तदु तथा न कुर्यात्। यो हैनं तत्र ब्रूयात्। प्राचो न्वा अयं यजमानस्य प्राणान् प्रौत्सीत्. मरिष्यत्ययं यजमानः। इति ईश्वरो ह तथैव स्यात्॥१२.४.३.६॥

अथ हैके प्रत्यंचमाहरन्ति। प्राणोदानाविमाविति वदंतः।तदु तथा न कुर्यात्। स्वर्ग्यं वा एतत्, यदग्निहोत्रम्। यो हैनं तत्र ब्रूयात्। प्रति न्वा अयं स्वर्गाल्लोकादवारुक्षत्। नास्येदं स्वर्ग्यमिव भविष्यति इति। ईश्वरो ह तथैव स्यात्॥१२.४.३.७॥

अथ हैकेऽन्यं गार्हपत्यं मन्थन्ति। तदु तथा न कुर्यात्। यो हैनं तत्र ब्रूयात्। अग्नेर्न्वा अयमधिद्विषन्तं भ्रातृव्यमजीजनत। क्षिप्रेऽस्यद्विषन्भ्रातृव्यो जनिष्यते। प्रियतमं रोत्स्यति। इति। ईश्वरो ह तथैव स्यात्॥१२.४.३.८॥

अथ हैके अनुगमय्यान्यं मन्थन्ति। तस्याशां नेयात्। अपि यत्परिशिष्टमभूत्। तदजीजसत। नास्य दायादश्चन परिशेक्ष्यत इति। ईश्वरो ह तथैव स्यात्॥१२.४.३.९॥

इत्थमेव कुर्यात्। अरण्योरग्नी समारोह्य उदङ्ङुदवसाय निर्मथ्य जुह्वद्वसेत्। तथा ह न कांचन परिचक्षां करोति। नवावसान उ अस्याभितो रात्रं हुतं भवति॥१२.४.३.१०॥
इति द्वितीयप्रपाठके पंचमं ब्राह्मणम्॥