शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search

ब्राह्मण १ अग्निहोत्र प्रायश्चित्तयः

१-अग्निहोत्र प्रायश्चित्तयः-तत्र प्रथमं अग्निहोत्रस्य दीर्घसत्रात्मना जरामर्यसत्रात्मना च सफलं प्रशंसनं, दीर्घसत्रिणोऽग्निहोत्रं जुह्वतो यदि गार्हपत्यादीनामन्तरा सञ्चरणं भवेत्तदा प्रायश्चित्तिं कुर्यान्न वा कुर्यादिति संशयमुत्पाद्यापीष्ट्या यजेतेति पूर्वपक्षीकृत्य तदु तन्नाद्रियेतेति पूर्वपक्षं प्रत्याख्याय गार्हपत्यादीनां लोकात्मत्वमभिधाय तेषु लोकेषु वयांसि युक्तं चायुक्तं च सञ्चरन्ति नैव च काचनार्तिरस्तीत्यादिहेतुसहितं प्रायश्चित्तिं नैव कुर्यादिति राद्धान्तप्रतिपादनम् , अग्निहोत्रेऽधिश्रिते यदि श्वमेषशूकराणां त्रयाणाममेध्यानां पशूनां गार्हपत्यादीनामन्तरा गमनं भवेत्तदा एकेषां मतेन गार्हपत्याद्भस्मोद्धृत्य तद्भस्म निवपन्तो गार्हपत्यादाहवनीयं यन्तीदं विष्णुरिति मन्त्रेणेत्येकीयं मतं सकारणमभिधाय पुनः सकारणं तत्प्रत्याख्याय चेदं विष्णुरित्यनेनैव मन्त्रेण उदकस्थालीं वोदककमण्डलुं वाऽऽदाय गार्हपत्यादाहवनीयं यावत्प्राचीमुदकधारां निनयन्नियादिति सिद्धान्ततया सकारणं स्वमतप्रतिष्ठापनम्, अग्निहोत्रहविःस्कन्दने सप्रकारकं प्रायश्चित्तविधानं, स्थाल्या नीचीभावे भेदने वा सप्रकारकं प्रायश्चित्तविधानं, तत्र स्कन्नाभिमर्शने सार्थवादं मंत्रस्य विधानं, तत्रैव स्कन्नस्योपरि " भूर्भुवः स्वः" इत्येताभिर्व्याहृतिभिरपामासेचनस्य सार्थवादं विधानं, तत्रैव भिन्नस्थालीशकलानां भस्मोद्वापे प्रक्षेपस्य विधानम् , अग्निहोत्रार्थं दुह्यमाना गौर्यद्युपविशेत्तदा तां " उदस्थाद्देव्यदितिः" इत्यादिना यजुषोत्थाप्य दुग्ध्वा च स्वगृहमनभ्यागमिष्यते ब्राह्मणाय दद्यादिति मन्त्रार्थवादसहितमेकेषां मतेन प्रायश्चित्तविधानं, याज्ञवल्क्यमतेन त्वग्निहोत्रार्थं दुह्यमाना गौर्यद्युपविशेत्तदा तां जघनप्रदेशे दण्डेन विपिष्य तूष्णीमेवोत्थाप्य दुहीतेत्येवंविधमेव प्रायश्चित्तं कुर्यादिति सार्थवादं विधानम् , उक्तयाज्ञवल्कीयप्रायश्चित्तस्यारुणिमतं पुरस्कृत्यार्थवादेन दृढीकरणम् , अग्निहोत्रार्थं दुद्यमानाया गो: शब्दकरणे सप्रकारकं प्रायश्चित्तविधानं चेत्यादि.


ब्राह्मण २

२ - अग्निहोत्रार्थं दुह्यमानाया गोर्लोहित दोहे सप्रकारकं प्रायश्चित्तस्य विधानम्, अग्निहोत्रार्थं दुह्यमानं पयो यद्यमेध्यमापद्येत तदा कर्तव्यस्य प्रायश्चित्तस्य सप्रकारकमभिधानम्, अग्निहोत्रार्थं दुग्धं पयो यद्यमेध्यमापद्येत तदा कर्तव्यस्य प्रायश्चित्तस्य सप्रकारकमभिधानम्, अग्निहोत्राय पयोऽधिश्रित सद्यद्यमेध्यमापद्येत तदा कर्तव्यस्य प्रायश्चित्तस्य मप्रकारकनाभिधानम् , अग्निहोत्रार्थे हविष्यधिश्रिते सति यदि यजमानो म्रियेत तदा कर्तव्यस्य प्रायश्चित्तस्य सप्रकारकमभिधानं, एतदेव प्रायश्चित्तं सर्वस्मिन्हविर्यज्ञे कर्तव्यमित्यतिदेशकथनम, अग्निहोत्रार्थं स्रुच्युनीतं पयो यदि स्कन्देत्तदा कर्तव्यस्य प्रायश्चित्तस्य सप्रकारकमभिधानं, यस्यां स्रुच्युन्नीतं तस्याः स्रुचो नीचीभावे भेदने वा कर्तव्यस्य प्रायश्चित्तस्य सप्रकारकमभिधानम् , अत्र उन्नीतस्य साकल्येन स्कन्दने उक्तप्रायश्चित्तानुष्ठानोत्तरं स्थालीस्थेन परिशिष्टेन जुहुयादित्येकीयं मतं प्रतिपाद्य तत्सकारणं प्रत्याख्याय च स्वमतेन कर्तव्यस्य होमस्य सोपपत्तिकं सप्रकारकमभिधानम्, अग्निहोत्रार्थं स्रुच्युन्नीतं पयो यद्यमेध्यमापद्येत तदा कर्तव्यस्य प्रायश्चित्तस्य सप्रकारकमभिधानं, तत्रैकीयं मतं निरस्य स्वमतप्रतिष्ठापनं च, अग्निहोत्रार्थं स्रुच्युन्नीतं पयो यद्युपरिष्टादववर्षेत्तदा कर्तव्यस्य प्रायश्चित्तस्य सप्रकारकमभिधानं चेत्यादि.


ब्राह्मण ३

३ अग्निहोत्रहोमे पूर्वस्यामाहुत्यां हुतायां सत्यां यदाऽऽहवनीयोऽनुगच्छेत्तदा " दारौ दारावग्निः” इति वदन् काष्ठं वा हिरण्यं वाऽभिजुहुयादित्येतस्य प्रायश्चित्तस्य सार्थवादं विधानम् , अग्निहोत्रहोमे सकृच्छतकृत्वो वोद्धृतस्याप्याहवनीयस्यानुगमने सप्रकारकं प्रायश्चित्तविधानं, सर्वत्र गार्हपत्यस्यानुगमने सप्रकारकं प्रायश्चित्तविधानं, तत्रैकीय मतमभिधाय तन्निरस्य च स्वमतप्रतिष्ठापनं च, प्रमादादुद्धृतस्याग्नेः पूर्वोद्धृतस्याहवनीयस्योपर्यभिनिधाने किञ्चनानिष्टं फलं प्रदर्श्य तच्छान्त्यै " समितं सङ्कल्पेथाम्" इत्यादिद्वाभ्यामृग्भ्यामुपस्थानं कुर्यादग्नयेऽग्निमतेऽष्टाकपालं पुरोडाशं निर्वपेदित्येवंविधं प्रायश्चित्तं विधायोक्तस्याग्नेरग्निमतोऽष्टाकपालस्य पुरोडाशस्य सप्तदश सामिधेनीः--वार्त्रघ्नावाज्यभागौ--विराजौ संयाज्ये-"अग्निनाऽग्निः समिध्यते "- " त्वं ह्यग्नेऽअग्निना" इत्येते याज्यानुवाक्ये इत्यादिविशेषेति कर्तव्यताया निरूपणम्, आहवनीयेऽननुगते गार्हपत्योऽनुगच्छेच्चेत्तदैकेषां मतेन विद्यमानादाहवनीयादेव गार्हपत्यस्य प्राञ्चमुद्धरणं-पुनरेकेषां मतेन प्रत्यगर्थात्सकलस्याहवनीयस्य गार्हपत्यस्थाने आहरणं-पुनरेकेषां मतेनान्यस्य गार्हपत्यस्य मन्थनं-पुनरेकेषां मतेन विद्यमानमाहवनीयमनुगमय्यान्यस्य गार्हपत्यस्य मन्थनम्-एवं भिन्नभिन्नैकदेशीयमतेनैतस्मिन्प्रायश्चित्ते . पक्षचतुष्टयं प्रतिपाद्य सकारणं तत्पक्षचतुष्टयमपि निरस्य स्वमतेनारण्योरग्नी समारोह्योदङ्ङुदवसाय निर्मथ्य जुह्वद्वसेदित्येवंविधं प्रायश्चितं कुर्यादिति सफलं विधानं चेत्यादि. .


ब्राह्मण ४

४ रासभस्यान्तरा गमने प्रज्ञातानां दर्शपूर्णमासाग्रयणचातुर्मास्यादीनामिष्टीनां कालातिपत्तौ, स्तोत्रशस्त्रविपर्यासं स्वजनमरणे च प्रायश्चित्ततया कर्तव्यायाः पथिकृदिष्टेः सेतिकर्तव्यताविशेषं विधानम्, आहवनीयादीनां परस्परं संसर्गे वा ग्रामाग्निना संसर्गे च प्रायश्चित्ततया कर्तव्याया विविच्येष्टेः सेतिकर्तव्यताविशेषं विधानं, यश्च द्विषतो भ्रातृव्याद्व्याविवृत्सेत स तत्कामः सन्नेतयेष्ट्या यजेतेत्यस्या इष्टेः काम्यत्वप्रदर्शनं च, आहवनीयादीनां दावाग्निना संसर्गे प्रायश्चित्ततया कर्तव्यायाः संवर्गेष्टेः सेतिकर्तव्यताविशेषं विधानं , यश्च द्विषतो भ्रातृव्यात्संविवृक्षेत स तत्कामः सन्नेतयेष्ट्या यजेतेत्यस्या इष्टेः काम्यत्वप्रदर्शनं च, आहवनीयादीनां वैद्युताग्निना संसर्गे प्रायश्चित्ततया कर्तव्याया असुमतीष्टेः सेतिकर्तव्यताविशेषं विधानं, तत्र याज्यानुवाक्ययोः फलविशेषद्योतनं च, आहवनीयादीनामशुन्यायतनैरमेध्यैरग्निभिः संसर्गे प्रायश्चित्ततया कर्तव्यायाः शुचीष्टेः सेतिकर्तव्यताविशेषं विधाने, तत्र याज्यानुवाक्ययोः फलविशेषद्योतनं च, आहवनीयेऽनुद्धृते यद्यादित्योऽस्तमियात्तदा कर्तव्यस्य वैश्वदेव्याहुत्यात्मकस्य प्रायश्चित्तस्येतिकर्तव्यतासहितं सार्थवादमभिधानं, आहवनीयेऽनुद्धृते यद्यादित्योऽभ्युदयमियात्तदा कर्तव्यस्य वैश्वदेव्याहुत्यात्मकस्य प्रायश्चित्तस्येतिकर्तव्यतासहितं सार्थवादमभिधानं चेत्यादि.