शतपथब्राह्मणम्/काण्डम् १२/अध्यायः २/ब्राह्मण ३
१२.२.३.
स वा एष संवत्सरो बृहतीमभिसंपन्नः। द्वावार्क्ष्यतामह्नां षडहौ। द्वौ पृष्ठ्याभिप्लवौ। गोआयुषी। दशरात्रः। तत् षट्त्रिंशत्। षट्त्रिंशदक्षरा वै बृहती। बृहत्या वै देवाः स्वर्गे लोकेऽयतन्त। बृहत्या स्वर्गं लोकमाप्नुवन्। तथा उ एवैष एतद् बृहत्यैव स्वर्गे लोके यतते। बृहत्या स्वर्गं लोकमाप्नोति। अथ यो बृहत्यां कामः। तमेवैतेनैवम्विदवरुंधे॥१२.२.३.१ ॥
यद्वै चतुर्विंशमहः। दशरात्रस्य वै तत्सप्तमं वा नवमं वा। अभिप्लवात् पृष्ठ्यो निर्मितः। पृष्ठ्यादभिजित्। अभिजितः स्वरसामानः। स्वरसामभ्यो विषुवान्। विषुवतः स्वरसामानः। स्वरसामभ्यो विश्वजित्। विश्वजितः पृष्ठ्यः। पृष्ठ्यादभिप्लवः। अभिप्लवात् गोआयुषी। गोआयुर्भ्यां दशरात्रः॥१२.२.३.२॥
अथैतदहरार्क्ष्यत्, यन्महाव्रतम्। पंचविंशो ह्येतस्य स्तोमो भवति। नाक्षराच्छन्दो व्येत्येकस्मात्। न द्वाभ्याम्। न स्तोत्रियया स्तोमः॥१२.२.३.३॥
अभिप्लवं पूर्वं पुरस्तात् विषुवत उपयन्ति। पृष्ठ्यमुत्तरम्। पुत्रा वा अभिप्लवः। पिता पृष्ठ्यः। तस्मात् पूर्ववयसे पुत्राः पितरमुपजीवन्ति। पृष्ठ्यमुपरिष्टात् विषुवतः पूर्वमुपयन्ति। अभिप्लवमुत्तरम्। तस्मादुत्तरवयसे पुत्रान् पितोपजीवति। उप ह वा एनं पूर्ववयसे पुत्रा जीवन्ति। उपोत्तरवयसे पुत्रान् जीवति। य एवमेतद्वेद॥१२.२.३.४॥
तदाहुः – यच्चतुर्विंशमहरुपेत्य प्रेयात्। कथमनागूर्ती भवतीति। यदेवादः प्रायणीयमतिरात्रमुपयन्ति। तेनेति ब्रूयात्॥१२.२.३.५॥
तदाहुः – यत् द्वादश मासाः संवत्सरस्य। अथैतदहरत्येति। यत् वैषुवतम्। अवरेषामेता ३ त्परेषा ३ मिति। अवरेषां चैव परेषां चेति ह ब्रूयात्। आत्मा वै संवत्सरस्य विषुवान् । अंगानि मासाः। यत्र वा आत्मा तदंगानि। यत्रो अंगानि तदात्मा। न वा आत्मा अंगान्यतिरिच्यते। नात्मानमंगान्यतिरिच्यन्ते। एवमु हैतत् अवरेषां चैव परेषां च भवति॥१२.२.३.६॥
अथ ह वा एष महासुपर्ण एव। यत् संवत्सरः। तस्या यान् पुरस्तात् विषुवतः षण्मासानुपयन्ति। सः अन्यतरः पक्षः। अथ यान् षडुपरिष्टात् सः अन्यतरः। आत्मा विषुवान्। यत्र वा आत्मा तत्पक्षौ। यत्र वा पक्षौ तदात्मा। न वा आत्मा पक्षावतिरिच्यते। नात्मानं पक्षावतिरिच्येते। एवमु है तत्। अवरेषां चैव परेषां च भवति॥१२.२.३.७॥
तदाहुः – यत् पुरस्तात् विषुवत् ऊर्ध्वान् स्तोमान् षण्मासानुपयन्ति। षडुपरिष्टादावृत्तान्। कथमस्यैत ऊर्ध्वाः स्तोमा उपेता भवंतीति। यमेवामुमूर्ध्वस्तोमं दशरात्रमुपयन्ति। तेनेति ब्रूयात्। देवेभ्यो ह वै महाव्रतं न तस्थे। कथमूर्ध्वै स्तोमैर्विषुवन्तमुपागात। आवृत्तैर्मामिति॥१२.२.३.८॥
ते ह देवा ऊचुः। उप तं यज्ञक्रतुं जानीत। य ऊर्ध्वस्तोमः। येनेदमाप्नवामेति। त एतमूर्ध्वस्तोमं दशरात्रमपश्यन् संवत्सरविधन् तस्य यः पृष्ठ्यः षडहः। ऋतवः सः। इमे लोकाश्छन्दोमाः। संवत्सरो दशममहः।तेनैनदाप्नुवन्। तदेभ्योऽतिष्ठत। तिष्ठते ह वा अस्मै महाव्रतम्। य एवमेतद्वेद॥१२.२.३.९॥
अथ वा अतोऽह्नामभ्यारोहः। प्रायणीयेनातिरात्रेणोदयनीयमतिरात्रमभ्यारोहन्ति। चतुर्विंशेन महाव्रतम्। अभिप्लवेन परमभिप्लवम्। पृष्ठ्येन परं पृष्ठ्यम्। अभिजिता विश्वजितम्। स्वरसामभिः परान् स्वरसाम्नः। अथैतदहरनभ्यारूढम्। यत् वैषुवतम्। अभि ह वै श्रेयांसं रोहति। नैनं पापीयानभ्यारोहति। य एवमेतद्वेद॥१२.२.३.१०॥
अथ वा अतोऽह्नां निवाहः। प्रायणीयोऽतिरात्रश्चतुर्विंशायाह्ने निवहति। चतुर्विंशमहरभिप्लवाय। अभिप्लवः पृष्ठ्याय। पृष्ठ्योऽभिजिते। अभिजित् स्वरसामभ्यः। स्वरसामानो विषुवते। विषुवान् स्वरसामभ्यः। स्वरसामानो विश्वजिते। विश्वजित् पृष्ठ्याय। पृष्ठ्योऽभिप्लवाय अभिप्लवो गोआयुर्भ्याम्। गोआयुषी दशरात्राय। दशरात्रो महाव्रताय। महाव्रतमुदयनीयायातिरात्राय। उदयनीयोऽतिरात्रः स्वर्गाय लोकाय प्रतिष्ठाया अन्नाद्याय॥१२.२.३.११॥
तानि वा एतानि यज्ञारण्यानि यज्ञकृंतत्राणि। तानि शतं शतं रथाह्न्यानि। अन्तरेण तानि ये विद्वांस उपयन्ति। यथाऽऽरण्यान्यां मुग्धाँश्चरतोऽशनाया वा पिपासा वा पाप्मानो रक्षांसि सचेरन्। एवं हैवैनानशनाया वा पिपासा वा पाप्मानो रक्षांसि सचंते। अथ ये विद्वांसो यथा प्रवाहात्प्रवाहं अभयादभयम्। एवं हैव ते देवतायै देवतामुपसंयन्ति। ते स्वस्ति स्वर्गं लोकं समश्नुवते॥१२.२.३.१२॥
तदाहुः – कति संवत्सरस्याहानि पराञ्चि। कत्यर्वांचीति। स यानि सकृत्सकृदुपयन्ति। तानि परांचि। अथ यानि पुनः पुनः। तान्यर्वांचि इति ह त्वेवैनान्युपासीत। षडहयोर्हि आवृत्तिमन्वावर्तंते॥१२.२.३.१३॥