शतपथब्राह्मणम्/काण्डम् १२/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search

ब्राह्मण १ संवत्सरे समुद्रप्रतरणोपासनम्

१-संवत्सरे समुद्रप्रतरणोपासनम्-तत्र संवत्सरसम्बन्धिषु दीक्षणीयाद्यङ्गेषु तीर्थगाधप्रभृतिसमुद्रावयवत्वं सोपपत्तिकमुपपाद्य तत्तद्रूपेणोपासनविधानं, सोपपत्तिकं संवत्सरस्य पूरणप्रदर्शनं, संवत्सरस्य यथायथं त्रयोदशमासान्प्रकल्प्य तेषु प्रतिमासं पृष्ठयाभिप्लवावुपेतव्यावित्यभिधानम्, उक्तेऽर्थे विदुष आरुणेयस्य श्वेतकेतोः संमतिप्रदर्शनं चेति.

ब्राह्मण २

२-प्रतिमासमुपेतव्यतयोक्तयोः पृष्ठ्याभिप्लवयोराधियज्ञिकेनाधिदैविकेन च रूपेण निरूपणं तत्र चैतौ पृष्ठ्याभिप्लवौ देवानां रथचक्रे भवतो यजमानस्य पाप्मानमपहतश्चेति निरूपणं, यो दीक्षितानां सत्रे पाप्मानं कीर्तयेत्तस्यैते देवचक्रे शिरश्छिन्द्युरित्यादिकथनम् एते चक्रे समे भवतः स्तोमास्तु विषमाः कथमेतेषां साम्यमित्याशङ्क्य तत्समाधानकथनं, तत्र पैङ्ग्याचार्यमतेन पृष्ठ्याभिप्लवयोः सहेतुकं तन्त्रानुष्ठानकरणकथनमन्यथाऽनुष्ठानेऽनिष्टफलाभिधानं च फलनिर्देशपुरःसरं मासिमासि नवाग्निष्टोमसम्पत्तेरभिधानं, फलाभिधानसहितं मासिमासि एकविंशत्युक्थ्यानां सम्पत्तेरुपपादनं, फलाभिधानसहितं मासिमासि चतुस्त्रिंशदग्निष्टोमानां सम्पत्तेरुपपादनं, यतो देवा एतेन वीर्येणान्नेन सर्वान्कामानाप्नुवन्नतः संवत्सराय दीक्षितोऽप्येतस्मै कामाय पृष्याएतभिप्लवौ उपैवेयादित्युक्तसम्पत्तेर्निगमनं, स्वर्गं लोकमभिगन्तुमादित्यानामाङ्गिरसानां च परस्परं स्पर्द्धाकरणप्रदर्शनं, तत्प्रसङ्गेनाभिप्लवपृष्ठ्यशब्दयोर्निर्वचनं, तत्राभिप्लवस्य षट्पञ्चचतुस्त्रिद्व्येकाहःसम्पत्तेः सोपपत्तिकं निरूपणं, कौशाम्बेयस्य कौसुरबिन्देः प्रोतेररुणपुत्रस्योद्दालकस्य च शिष्यगुर्वोः प्रश्नोत्तरात्मकसंवादेन संवत्सरस्य दशाद्येकपर्यन्ताहःसम्पत्तेरुपसंहारक्रमेण सोपपत्तिकं निरूपणम् , एषोक्ता सम्पत्संवत्सरस्योपनिषद्भवतीत्यभिधाय तां वेदितुः फलाभिधानं चेत्यादि.

ब्राह्मण ३ बृहत्युपनिषद

३-बृहत्त्युपनिषद्-तस्यां च एष एव संवत्सरो बृहतीच्छन्दोरूपेणाभिसम्पन्न इत्युपासीतेति द्योतनं, तत्र संवत्सरस्य बृहत्यात्मनाऽभिसम्पत्तेः सोपपत्तिकं सफलं निरूपणं, ततः प्रकृतिभूतेनाभिप्लवेनैवातिरात्रात्तत्सर्वमभिपूरितं भवतीति सोपपत्तिकं प्रदर्शनं, विषुवतः पूर्वेषु षट्सु मासेषु पूर्वमभिप्लवमुत्तरं पृष्ठ्यमुपयन्त्युत्तरेषु षट्षु मासेषु पूर्वं पृष्ठ्यमुत्तरमभिप्लवमुपयन्तीति पितापुत्रयोरुपजीवनक्रमदृष्टान्तेन प्रतिपादनम् उक्तार्थं वेदितुः फलाभिधानं च, यदि दीक्षितचतुर्विंशमहरुपेत्य प्रेयात्तदा कथमनागूर्ती भवतीत्याशङ्कय तत्समाधानकथनं, ततः पुरुषविधस्य संवत्सरस्य विषुवानात्मा द्वादश मासा अङ्गानि तयोश्चाङ्गाङ्गिनो र्नातिरेको भवतीत्यादिप्रतिपादनम् , इदानीमस्य संवत्सरस्य महासुपर्णत्वं प्रतिपाद्य तदर्थं तदङ्गजातं चोपपाद्य तदीयाऽऽत्मपक्षयोरप्यन्योऽन्यमतिरेको न जायत इति प्रतिपादनं, विषुवतः पूर्वेष्वाभिप्लविकेषु षट्षु मासेषु त्रिविधा ये ऊर्ध्वाः स्तोमास्ते पार्ष्ठिकेष्वप्यहःसूर्ध्वा भवन्ति दशरात्रे ते स्तोमा ऊर्ध्वा एवोपेतव्या इत्यादिप्रदर्शनं, एतद्वेदितुः फलाभिधानं च, ततोऽह्नामभ्यारोहणसादृश्येनाशीराशंसननिरूपणम्, अह्नामभ्यारोहणे क्रमान्तरनिरूपणं, एतद्वेदितुः फलाभिधानं च, अस्य संवत्सरस्य विद्वदविद्वदनुष्ठानमभिलक्ष्य प्रशंसानिन्दारूपार्थवादकथनं, ततोऽस्य संवत्सरस्य परांच्यहानि कति-अवांच्यहानि च कतीत्येवम्प्रश्नपूर्वकं तेषां पराचामर्वाचां चाह्नामुपपादनं चेत्यादि.


ब्राह्मण ४ गवामयनीयसंवत्सरस्य पुरुषविधोपासनम्

४-गवामयनीयसंवत्सरस्य पुरुषविधोपासनम्-तत्र संवत्सरसत्रस्य प्रायणीयातिरात्राद्यङ्गेषु हस्ताद्यङ्गानां सम्पादनपुरःसरं सोपपत्तिकं पुरुषविधत्वं सम्पाद्य तद्रूपेणोपासनस्य द्योतनं, तत्र प्रसङ्गात् पैङ्ग्याचार्यमतेनाभिप्लवपृष्ठ्यशब्दयोर्निर्वचनम्, एवमध्यात्मतया प्रतिष्ठितं संवत्सरं वेदितुः फलनिरूपणं चेत्यादि.