शतपथब्राह्मणम्/काण्डम् १२/अध्यायः २/ब्राह्मण २

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


१२.२.२.

तदाहुः - कस्मादुभयतोज्योतिषोऽभिप्लवा भवन्ति। अन्यतोज्योतिः पृष्ठ्य इति। इमे वै लोका अभिप्लवाः। उभयतोज्योतिषो वा इमे लोकाः – अग्निनेतः, आदित्येनामुतः। ऋतवः पृष्ठ्यः। अन्यतोज्योतिषो वा ऋतवः। एष एषां ज्योतिः। य एष तपति॥१२.२.२.१॥

देवचक्रे वा एत पृष्ठ्यप्रतिष्ठिते यजमानस्य पाप्मानं तृंहती परिप्लवेते। स यो हैवं विदुषां दीक्षितानां पापकं सत्रे कीर्तयति। एते हास्य देवचक्रे शिरश्छिंतः। दशरात्र उद्धिः। पृष्ठ्याभिप्लवौ चक्रे॥१२.२.२.२॥

तदाहुः – यत्समे एव चक्रे भवतः। अथैते विषमाः। स्तोमाः। कथमस्यैते समा स्तोमाः। उपेता भवन्तीति। यदेव षडन्यान्यहानि षडन्यानि। तेनेति ब्रूयात्॥१२.२.२.३॥

पृष्ठ्याभिप्लवौ तन्त्रे कुर्वीत । इति ह स्माह पैंग्यः। तयोः स्तोत्राणि च शस्त्राणि च संचारयेदिति। स यत्संचारयति। तस्मादिमे प्राणा नाना सन्त एकोतयः समानमूतिमनु सञ्चरन्ति। अथ यन्न संचारयेत्। प्रमायुको यजमानः स्यात्। एष ह वै प्रमायुकः। योऽन्धो वा बधिरो वा॥१२.२.२.४॥

नवाग्निष्टोमा मासि संपद्यन्ते। नव वै प्राणाः। प्राणानेवैष्वेतद्दधाति। तथा सर्वमायुर्यन्ति। तथा उ ह न पुराऽऽयुषोऽस्माल्लोकात्प्रयन्ति॥१२.२.२.५॥

एकविंशतिरुक्थ्याः। द्वादश वै मासाः संवत्सरस्य। पंचर्तवः। त्रयो लोकाः। तद्विंशतिः। एषएवैकविंशः। य एष तपति एतामभिसंपदम्। स एतया संपदा मासि मासि स्वर्गं लोकं रोहति। मासशः स्वर्गं लोकं समश्नुते। एकविंशं च स्तोमं बृहतीं च च्छन्दः॥१२.२.२.६॥

चतुस्त्रिंशदग्निष्टोमा मासि संपद्यन्ते। त्रयस्त्रिंशद्वै देवाः। प्रजापतिश्चतुस्त्रिंशः। सर्वासां देवतानामाप्त्यै। एक उक्थ्यः षोडशिमान्। अन्नं वा उक्थ्यः। वीर्यं षोडशी॥१२.२.२.७॥

एतेन वै देवा वीर्येणान्नेन सर्वान् कामानाप्नुवन्। सर्वान् कामानाश्नुवत। तथा उ एवैष एतेन वीर्येणान्नेन सर्वान् कामानाप्नोति। सर्वान् कामानश्नुते। तस्मात् पृष्ठ्याभिप्लवाउपैवेयात् – संवत्सराय दीक्षित एतस्मै कामाय॥१२.२.२.८॥

अथादित्याश्च ह वा अंगिरसश्च उभये प्राजापत्या अस्पर्द्धंत। वयं पूर्वे स्वर्गं लोकमेष्यामो वयं पूर्व इति॥१२.२.२.९॥

त आदित्याश्चतुर्भिः स्तोमैश्चतुर्भिः पृष्ठैर्लघुभिः सामभिः स्वर्गं लोकमभ्यप्लवन्त। यदभ्यप्लवन्त। तस्मादभिप्लवाः॥१२.२.२.१०॥

अन्वंच इवांगिरसः सर्वैः स्तोमैः सर्वैः पृष्ठैर्गुरुभिः सामभिः स्वर्गं लोकमस्पृशन्। यदस्पृशन्। तस्मात् पृष्ठ्यः॥१२.२.२.११॥

अभिप्लवः षडहः। षड्ढ्यहानि भवन्ति। अभिप्लवः पञ्चाहः। पञ्च ह्यहानि भवन्ति। यद्ध्येव प्रथममहः। तदुत्तमम्। अभिप्लवश्चतुरहः। चत्वारो हि स्तोमा भवन्ति। त्रिवृत् पञ्चदशः सप्तदश एकविंश इति। अभिप्लवस्त्र्यहः। त्र्यावृद्धि ज्योतिर्गौरायुः। अभिप्लवो द्व्यहः। द्वे ह्येव सामनी भवतः। बृहद्रथन्तरे एव। अभिप्लव एकाहः। एकाहस्य उ हि स्तोमैस्तायते। चतुर्णामुक्थ्यानां द्वादश स्तोत्राणि द्वादश शस्त्राण्यतियन्ति। स सप्तमोऽग्निष्टोमः। एवमु सप्ताग्निष्टोमाः सम्पद्यन्ते॥१२.२.२.१२॥

प्रोतिर्ह कौशांबेयः कौसुरिबिंदिरुद्दालके आरुणौ ब्रह्मचर्यमुवास। तं हाचार्यः पप्रच्छ। कुमार कति ते पिता संवत्सरस्याहान्यमन्यतेति॥१२.२.२.१३॥

दशेति होवाच। दश वा इति होवाच। दशाक्षरा विराट्। वैराजो यज्ञः॥१२.२.२.१४॥

कति त्वेवेति। नवेति होवाच। नव वा इति होवाच। नव वै प्राणाः। प्राणैरु यज्ञस्तायते॥१२.२.२.१५॥

कति त्वेवेति। अष्टेति होवाच। अष्टौ वा इति होवाच। अष्टाक्षरा गायत्री। गायत्रो यज्ञः॥१२.२.२.१६॥

कति त्वेवेति। सप्तेति होवाच। सप्त वा इति होवाच। सप्त च्छंदांसि चतुरुत्तराणि। छन्दोभिरु यज्ञस्तायते॥१२.२.२.१७॥

कति त्वेवेति। षडिति होवाच। षड्वा इति होवाच। षड् ऋतवः संवत्सरः। संवत्सरो यज्ञः। समानमेतदहः – यत् प्रायणीयोदयनीयौ॥१२.२.२.१८॥

कति त्वेवेति। पञ्चेति होवाच। पञ्च वा इति होवाच। पांक्तो यज्ञः। पांक्तः पशुः। पंचर्तवः संवत्सरस्य। संवत्सरो यज्ञः। समानमेतदहः – यत् चतुर्विंशमहाव्रते॥१२.२.२.१९॥

कति त्वेवेति। चत्वारीति होवाच। चत्वारि वा इति होवाच। चतुष्पादाः पशवः। पशवो यज्ञः। समानमेतदहः – यत् पृष्ठ्याभिप्लवौ॥१२.२.२.२०॥

कति त्वेवेति। त्रीणीति होवाच। त्रीणि वा इति होवाच। त्रीणि च्छंदांसि। त्रयो लोकाः। त्रिसवनो यज्ञः। समानमेतदहः – यदभिजिद्विश्वजितौ॥१२.२.२.२१॥

कति त्वेवेति। द्वे इति होवाच। द्वे वा इति होवाच। द्विपाद्वै पुरुषः। पुरुषो यज्ञः। समानमेतदहः – यत्स्वरसामानः॥१२.२.२.२२॥

कति त्वेवेति। एकमिति होवाच। अहरेवेति। तदेतदहरहरिति सर्वं संवत्सरम्। सैषा संवत्सरस्योपनिषत्। स यो हैवमेतां संवत्सरस्योपनिषदं वेद। आ हास्मात् श्रेयान् जायते। सात्मा भवति। संवत्सरो भवति। संवत्सरो भूत्वा देवानप्येति॥१२.२.२.२३॥