शतपथब्राह्मणम्/काण्डम् १२/अध्यायः २/ब्राह्मण १

विकिस्रोतः तः
Jump to navigation Jump to search

१२.२.१ सम्वत्सरे समुद्रप्रतरणोपासनम्।

समुद्रं वा एते प्रतरन्ति। ये संवत्सराय दीक्षन्ते। तस्य तीर्थमेव प्रायणीयोऽतिरात्रः। तीर्थेन हि प्रस्नांति। तद्यत्प्रायणीयमतिरात्रमुपयन्ति। यथा तीर्थेन समुद्रं प्रस्नायुः।तादृक्तत्॥१२.२.१.१॥

गाधमेव प्रतिष्ठा चतुर्विंशमहः। यथोपपक्षदघ्नं वा कंठदघ्नं वा यतो विश्रम्य प्रस्नांति। प्रस्नेयोऽभिप्लवः। प्रस्नेयः पृष्ठ्यः॥१२.२.१.२॥

गाधमेव प्रतिष्ठाऽभिजित्। यथोपपक्षदघ्नं वा कण्ठदघ्नं वा यतो विश्रम्योत्क्रामन्ति। ऊरुदघ्न एव प्रथमः स्वरसामा। जानुदघ्नो द्वितीयः। कुल्फदघ्नस्तृतीयः। द्वीपः प्रतिष्ठा विषुवान्। कुल्फदघ्न एव प्रथमोऽर्वाक्सामा। जानुदघ्नो द्वितीयः। ऊरुदघ्नस्तृतीयः॥१२.२.१.३॥

गाधमेव प्रतिष्ठा विश्वजित्। यथोपपक्षदघ्नं वा कण्ठदघ्नं वा यतो विश्रम्य प्रस्नान्ति। प्रस्नेयः पृष्ठ्यः। प्रस्नेयोऽभिप्लवः। प्रस्नेयो गोआयुषी। प्रस्नेयो दशरात्रः॥१२.२.१.४॥

गाधमेव प्रतिष्ठा महाव्रतम्। यथोपपक्षदघ्नं वा कण्ठदघ्नं वा यतो विश्रम्योत्स्नान्ति। तीर्थमेवोदयनीयोऽतिरात्रः। तीर्थेन ह्युत्स्नान्ति। तद्यदुदयनीयमतिरात्रमुपयन्ति। यथा तीर्थेन समुद्रं प्रस्नाय तीर्थेनोत्स्नायुः। तादृक्तत्॥१२.२.१.५॥

तदाहुः – कति संवत्सरस्यातिरात्राः। कत्यग्निष्टोमाः। कत्युक्थ्याः। कति षोडशिनः। कति षडहा इति। द्वावतिरात्रौ। षट्शतमग्निष्टोमाः। द्वे चत्वारिंशे शते उक्थ्यानाम्। इति नु य उक्थ्यान् स्वरसाम्न उपयन्ति॥१२.२.१.६॥

अथ येऽग्निष्टोमान्। द्वादशशतमग्निष्टोमाः। द्वे चतुस्त्रिंशे शते उक्थ्यानाम्। द्वादश षोडशिनः। षष्टिः षडहाः। इति नु संवत्सरस्याप्तिः॥१२.२.१.७॥

द्वादश वै मासाः संवत्सरस्य। तेषामेतत्तेजः, इंद्रियं – यत्पृष्ठानि। तद्यन्मासि मासि पृष्ठान्युपयन्ति। मासश एव तत्संवत्सरस्य तेज आप्नुवन्ति। अथ कथं त्रयोदशस्य मासस्य तेज आप्नुवन्ति इति। उपरिष्टात् विषुवतो विश्वजितं सर्वपृष्ठमग्निष्टोममुपयन्ति। एवमु त्रयोदशस्य मासस्य तेज आप्नुवन्ति॥१२.२.१.८॥

एतद्ध स्म वै तद्विद्वानाह श्वेतकेतुरारुणेयः। संवत्सराय न्वा अहं दीक्षिष्य इति। तं ह पितोपेक्ष्योवाच। वेत्थ न्वायुष्मन् संवत्सरस्य गाधप्रतिष्ठा इति। वेदेति होवाच। तद्ध तद्विद्वानुवाच॥१२.२.१.९॥