शतपथब्राह्मणम्/काण्डम् १२/अध्यायः १/ब्राह्मण ४

विकिस्रोतः तः

१२.१.४ अध्यात्मविद्ब्राह्मणम्

पुरुषो वै संवत्सरः। तस्य पादावेव प्रायणीयोऽतिरात्रः। पादाभ्यां हि प्रयन्ति। तयोर्यच्छुक्लंतदह्नो रूपम्। यत्कृष्णं तद्रात्रेः। नखान्येवौषधिवनस्पतीनां रूपम्। ऊरू चतुर्विंशमहः। उरोऽभिप्लवः। पृष्ठं पृष्ठ्यः॥१२.१.४.१॥

अयमेव दक्षिणो बाहुरभिजित्। इम एव दक्षिणे त्रयः प्राणाः स्वरसामानः। मूर्द्धा विषुवान्। इम एवोत्तरे त्रयः प्राणाः स्वरसामानः॥१२.१.४.२॥

अयमेवोत्तरो बाहुर्विश्वजित्। उक्तौ पृष्ठ्याभिप्लवौ। याववांचौ प्राणौ ते गोआयुषी। अङ्गानि दशरात्रः। मुखं महाव्रतम्। हस्तावेवोदयनीयोऽतिरात्रः। हस्ताभ्यां ह्युद्यन्ति। तयोर्यच्छुक्लं तदह्नो रूपम्। यत्कृष्णं तद्रात्रेः। नखान्येव नक्षत्राणां रूपम्। स एष संवत्सरोऽध्यात्मं प्रतिष्ठितः। स यो हैवमेतं संवत्सरमध्यात्मं प्रतिष्ठितं वेद। प्रतितिष्ठति प्रजया पशुभिरस्मिन् लोके अमृतत्वेनामुष्मिन्॥१२.१.४.३॥