शतपथब्राह्मणम्/काण्डम् १२/अध्यायः १/ब्राह्मण १

विकिस्रोतः तः
Jump to navigation Jump to search

१२.१.१.

गवामयनब्राह्मणम्

अयं वै यज्ञो योऽयं पवते। तमेत ईप्सन्ति, संवत्सराय दीक्षन्ते। तेषां गृहपतिः प्रथमो दीक्षते। अयं वै लोको गृहपतिः। अस्मिन् वै लोक इदं सर्वं प्रतिष्ठितम्। गृहपता उ वै ससत्रिणः प्रतिष्ठिताः प्रतिष्ठायामेवैतत् प्रतिष्ठाय दीक्षन्ते। - १२.१.१.१

अथ ब्रह्माणं दीक्षयति। चन्द्रमा वै ब्रह्मा। सोमो वै चन्द्रमाः। सौम्या ओषधयः। ओषधीस्तदनेन लोकेन संदधाति। तस्मादेतावंतरेणान्यो न दीक्षेत। स यद्धैतावन्तरेणान्यो दीक्षेत। ओषधीस्तदनेन लोकेन नाना कुर्यात्। उच्छोषुका ह स्युः। तस्मादेतावन्तरेणान्यो न दीक्षेत॥१२.१.१.२॥

अथोद्गातारं दीक्षयति। पर्जन्यो वा उद्गाता। पर्जन्यादु वै वृष्टिर्जायते। वृष्टिं तदोषधिभिः संदधाति। तस्मादेतावंतरेणान्यो न दीक्षेत। स यद्धैतावंतरेणान्यो दीक्षेत। वृष्टिं तदोषधिभिर्नाना कुर्यात्। अवर्षुको ह स्यात्। तस्मादेतावंतरेणान्यो न दीक्षेत॥१२.१.१.३॥

अथ होतारं दीक्षयति। अग्निर्वै होताऽधिदेवतम्। वागध्यात्मम्। अन्नं वृष्टिः। अग्निं च तद्वाचं चान्नेन सन्दधाति। तस्मादेतावन्तरेणान्यो न दीक्षेत। स यद्धैतावन्तरेणान्यो दीक्षेत। अग्निं च तद्वाचं चान्नेन नाना कुर्यात्। अशनायुका ह स्युः। तस्मादेतावन्तरेणान्यो न दीक्षेत। एतांश्चतुरोऽध्वर्युर्दीक्षयति॥१२.१.१.४॥

अथाध्वर्युं प्रतिप्रस्थाता दीक्षयति। मनो वा अध्वर्युः। वाग् होता। मनश्च तद्वाचं च सन्दधाति। तस्मादेतावन्तरेणान्यो न दीक्षेत। स यद्धैतावन्तरेणान्यो दीक्षेत। मनश्च तद्वाचं च नाना कुर्यात्। प्रमायुका ह स्युः। तस्मादेतावन्तरेणान्यो न दीक्षेत॥१२.१.१.५॥

अथ ब्रह्मणे ब्राह्मणाच्छंसिनं दीक्षयति। तं हि सोऽनु। अथोद्गात्रे प्रस्तोतारं दीक्षयति। तं हि सोऽनु। अथ होत्रे मैत्रावरुणं दीक्षयति। तं हि सोऽनु। एतांश्चतुरः प्रतिप्रस्थाता दीक्षयति॥१२.१.१.६॥

अथाध्वर्यवे प्रतिप्रस्थातारं नेष्टा दीक्षयति। तं हि सोऽनु। एतेषां वै नवानां क्लृप्तिमन्वितरे कल्पन्ते। नव वै प्राणाः। प्राणानेवैष्वेतद्दधाति। तथा सर्वमायुर्यन्ति। तथा उ ह न पुराऽऽयुषोऽस्माल्लोकात् प्रयंति॥१२.१.१.७॥

अथ ब्रह्मणे पोतारं दीक्षयति। तं हि सोऽनु। अथोद्गात्रे प्रतिहर्तारं दीक्षयति। तं हि सोऽनु। अथ होत्रेऽच्छावाकं दीक्षयति। तं हि सोऽनु। एतांश्चतुरो नेष्टा दीक्षयति॥१२.१.१.८॥

अथाध्वर्यवे नेष्टारमुन्नेता दीक्षयति। तं हि सोऽनु। अथ ब्रह्मण आग्नीध्रं दीक्षयति। तं हि ऽनु। अथोद्गात्रे सुब्रह्मण्यां दीक्षयति। तं हि सोऽनु। अथ होत्रे ग्रावस्तुतं दीक्षयति। तं हि सोऽनु। एतांश्चतुर उन्नेता दीक्षयति॥१२.१.१.९॥

अथोन्नेतारं स्नातको वा ब्रह्मचारी वाऽन्यो वा दीक्षितो दीक्षयति। न पूतः पावयेत् इति ह्याहुः। सैषाऽनुपूर्वदीक्षा। स यत्र हैवं विद्वांसो दीक्षन्ते। दीक्षमाणा हैव ते यज्ञं कल्पयन्ति। यज्ञस्य क्लृप्तिमनु सत्रिणां योगक्षेमः कल्पते। सत्रिणां योगक्षेमस्य क्लृप्तिमन्वपि तस्यार्द्धस्य योगक्षेमः कल्पते। यस्मिन्नर्द्धे यजन्ते॥१२.१.१.१०॥

तेषां वा उन्नेतोत्तमो दीक्षते। प्रथमोऽवभृथादुदायतामुदैति। प्राणो वा उन्नेता। प्राणमेवैष्वेतदुभयतो दधाति। तथा सर्वमायुर्यन्ति। तथा उ ह न पुराऽऽयुषोऽस्माल्लोकात्प्रयन्ति। सैषाऽनुपूर्वदीक्षा। स यत्र हैवं विद्वांसो दीक्षेरन्। तदेव दीक्षेत॥१२.१.१.११॥