शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ७/ब्राह्मणं ४

विकिस्रोतः तः

११.७.४

स यत्पशुना यक्ष्यमाणः। एकारत्निं यूपं कुरुत इममेव तेन लोकं जयत्यथ यद्द्व्यरत्निमन्तरिक्षलोकमेव तेन जयत्यथ यत्त्र्यरत्निं दिवमेव तेन जयत्यथ यच्चतुरत्निं दिश एव तेन जयति स वा एष त्र्यरत्निर्वैव चतुररत्निर्वा पशुबन्धयूपो भवत्यथ योऽत ऊर्ध्वः सौम्यस्यैव सोऽध्वरस्य - ११.७.४.१

तदाहुः। यजेदाज्यभागौ ना३ इति यजेदित्याहुश्चक्षुषी वा एते यज्ञस्य यदाज्यभागौ
किमृते पुरुषश्चक्षुर्भ्यां स्यादिति यावद्वै भागिनं स्वेन भागधेयेन न निर्भजन्त्यनिर्भक्तो वै स तावन्मन्यतेऽथ यदैव तं स्वेन भागधेयेन निर्भजन्त्यथैव स निर्भक्तो मन्यते स यत्रैतद्धोताऽन्वाहास्ना रक्षः संसृजतादिति तदेनं स्वेन भागधेयेन निर्भजति - ११.७.४.२

एतद्वै पशोः संज्ञप्यमानस्य। हृदयं शुक्समवैति हृदयाच्छूलं तद्ये सह हृदयेन पशुं श्रपयन्ति पुनः पशुं शुगनुविष्यन्देत पार्श्वत एवैनत्काष्ठे प्रतृद्य श्रपयेत् - ११.७.४.३


उपस्तृणीत आज्यम्। तत्पृथिव्यै रूपं करोति हिरण्यशकलमवदधाति तदग्ने रूपंकरोति वपामवदधाति तदन्तरिक्षस्य रूपं करोति हिरण्यशकलमवदधाति तदादित्यस्य रूपं करोत्यथ यदुपरिष्टादभिघारयति तद्दिवो रूपं करोति सा वा एषा पञ्चावत्ता वपा भवति पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः संवत्सरस्य तस्मात्पञ्चावत्ता वपा भवति - ११.७.४.४