सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ७

विकिस्रोतः तः

ब्राह्मणं १

१ पशुबन्धयाग: - तत्र दर्शपूर्णमासवन्नित्यं प्रतिसंवत्सरं यष्टव्यस्यपशुयागस्य विधानम्, उक्तपशुयागस्य साभिप्रायं पशुफलसाधनत्वमभिधाय दर्शपूर्णमासवन्नित्यत्वं प्रतिपादयितुमकरणे प्रत्यवायजनकत्वस्य प्रतिपादनम्, एवं दोषमुपन्यस्य पशुबन्धस्य तत्परिहारहेतुत्वाभिधानम्, अस्य पशुबन्धयागस्यायुर्हेतुत्वममिधातुमात्मनिष्क्रयणसाधनत्वस्य सोपपत्तिकं निरूपणं चेति.


ब्राह्मणं २

२-पशुबन्धस्येष्टिसवविधत्वेन द्वैविध्याभिधायकं ब्राह्मणम् - तत्र प्रथमं पशु. बन्धस्येष्टिविधत्वं सवविधत्वं चेति द्वैविध्यं प्रदर्श्य क्रमात्तयोः स्वरूपवर्णनं, तत्र सवविधत्वस्यैव मीमांसापूर्वकं सिद्धान्ततया प्रतिष्ठापनम् , तथाऽत्र सवनत्रयमुपपाद्य तदुपजीवनेन दक्षिणाकालं विधातुं शाग्वान्तरीयं दक्षिणाकालमनूद्य च तस्य प्रत्याख्यानम्, ततः स्वमतेन दक्षिणाकालं विधाय सप्रकारकं दक्षिणादानविधानम्, षड्ढोतृहोमस्य विधित्सया तस्य दीक्षारूपतां सम्पादयितुं प्रश्नमुद्भाव्य तदुत्तरत्वेन षड्ढोतृसंज्ञका एकाऽऽज्याहुतिः पञ्च वाऽऽज्याहुतयो होतव्या इति विधाय तत्र मन्त्रस्य विनियोजनम् , कः पुनरवभृथ इत्याशङ्क्य तत्समाधानकथनम्, निरूढपशुबन्धरूपपालाशयूपस्य - प्रकृतिभूतपलाशद्रव्यवृक्षस्य विधित्सयोपोद्घातकथनम्, तत्र पशुबन्धस्य विसोमत्वं ससोमत्वं चेति प्रागुक्तं पक्षद्वयमनूद्य तत्रान्तिमे पक्षे पलाशवृक्षस्यैव यूपं कुर्वीतेत्यभिधानम् ,
उक्तपक्षस्य निगमनं चेत्यादि.


ब्राह्मणं ३

३-इत्थं यूपस्य पालाशत्वं प्रतिपाद्य तत्रापि बहुसारस्य पशुविरोधित्वमल्पसारस्य पशुसमृद्धिकरणत्वं चेत्यर्थस्य प्रदर्शनम्, इत्थमल्पसारस्य यूपार्हतामुक्त्वा तस्यैव सन्निवेशमुपजीव्य दोषप्रदर्शनम् , उक्तयूपवृक्षे अपनत्युपनत्योः क्रमेणान्नविरोधित्वस्यान्नसमृद्धिकरत्वस्य च प्रदर्शनं चेति.

ब्राह्मणं ४

४. इत्थं यूपार्हं वृक्षं तत्स्वरूपं चाभिधायेदानीं यूपस्य तत्तत्फलाभिधानपुरःसरं विकल्पेन एकद्वित्रिचतुररत्न्यात्मकप्रमाणविधानम्, इतोऽधिकारत्निप्रमाणविशेषस्य सोमयागविषयत्वप्रतिपादनं, तत आज्यभागयोरवश्यकर्तव्यतायाः सदृष्टान्तं निरूपणं, पश्ववयवपाकविषये कस्यचिद्विशेषस्य प्रतिपादनम्, वपावदानस्य पञ्चावत्तत्वप्रकारसम्पादनद्वारा पृथिव्यादिलोकत्रयात्मनाऽग्न्यादित्यात्मना च प्रशंसनं, चेति.