शतपथब्राह्मणम्/काण्डम् ११/अध्यायः १

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

ब्राह्मणं १

१ आधानस्य स्वाभिमतकालस्य विसर्जनद्वारा यज्ञादीनां संवत्सराद्यात्मना निरूपणम्, अमावास्यायाः संवत्सरात्मके यज्ञे प्रवेशद्वारात्मना चन्द्रस्य च तद्द्वारपिधायकत्वात्मना प्रशंसनम्, अमावास्यायामाधानकर्तव्यताया विधानम्, उक्तद्वारादिकल्पनोपजीवनेनामावास्याधानस्य सदृष्टांतं सनिगमनमुपपादनम्, उक्तामावास्याधानप्रशंसार्थं आपस्तम्बतैत्तिरीयशाखान्तरगतं नक्षत्राधानमनूद्य तस्य दूषणं, आधानोपक्रमस्य विवक्षितामावास्याविशेषस्य प्रदर्शनं, तस्मिन्नह्नि चन्दो भूम्यां वसति तदुपजीविनो देवाद्या अपीमं लोकमधिवसन्तीत्यभिधानं, एतेनामावास्यातिशयेन तस्यामाधानमतिप्रशस्तमित्युक्त्वा तस्योक्तार्थस्य निगमनं, उक्तामावास्यायां ऋक्षविशेष सम्बन्धरूपगुणस्य विधानं फलविशेषे. हेत्वमिधानं च, इत्थममावास्याधानं बहुशः प्रशस्य तन्निगमनं, इत्थमाधानेन गार्हपत्याद्यग्निस्वरूपसिद्धौ तन्निष्पाद्यानां दर्शपूर्णमासानामनियमेन प्रारंभे प्राप्ते तस्य नियमनं चेत्यादि.

ब्राह्मणं २

२ एवमाधानस्यामावास्यालक्षणं प्रारंभकालं नियम्य दर्शपूर्णमासयोरप्युपवसथकालस्य निर्णिनीषयाऽऽदौ च तत्रत्यानामाहुतीनां संख्याविशेषमुपजीव्य स्तोतुमुपोद्घातकथनं, एवमग्नेर्यज्ञयोनित्वप्रदर्शनद्वारा तत्सकाशाद्यज्ञस्योत्पत्तिमुपोद्घातत्वेन प्रतिपाद्य तत्रत्यानामाहुतीनामग्नेरुत्पद्यमानानां दशसंख्यासम्पादनस्य सप्रयोजनं निरूपणं, सहेतुकां न्यूनां नवसंख्यामुपजीव्य प्रशंसनं, प्रधानानन्तरभाविस्विष्टकृद्यागापेक्षयाऽधिकामेकादशसंख्यामुपजीव्य प्रशंसनं, इत्थमिष्टिविषये स्विष्टकृतः सम्पत्तिमभिधाय पशुयागविषयो विशेषो विद्यत इत्यभिप्रेत्य तद्विशेषमुपजीव्य प्रशंसनं, दर्शपूर्णमासयोरनुयाजसंख्योपजीवनेन सम्पत्तेरभिधानम्, इत्थमेकैकं प्रशस्य स्विष्टकृदनुयाजानां सम्भूय प्रशंसनम्, एवमेकेन न्यूनत्वं चतुर्भिरतिरिक्तत्वं च प्रतिपाद्य तद्द्वारा प्रशस्याधुना द्वाभ्यां न्यूनत्वं पञ्चभिरतिरिक्तत्वं च प्रतिपाद्य तद्द्वारा प्रशंसनं, प्रकृतायाः सम्पत्तेर्निगमनं, यावज्जीवं दर्शपूर्णमासाभ्यां यजेत त्रिंशतं वा वर्षाणीति पक्षद्वयं तस्य प्रतिपादनं, तत्राजिप्राप्तियोग्यस्य कालस्य विधानं, संवत्सरात्मकयज्ञसम्बधिनीनां रात्रीणामाप्तये पञ्चदश वर्षाणि पुनरह्नामाप्तये च पञ्चदश वर्षाणि ताभ्यां यष्टयमिति विधानम्, एवमुक्ताहोरात्रविभागेन संवत्सरप्राप्तिमनूद्य सोपपत्तिकं तत्प्रशंसनम्, उक्तार्थं विदित्वा यष्टुः फलप्रतिपादनं, प्रतिपादितस्यार्थस्य निगमनं चेत्यादि.


ब्राह्मणं ३

३ पौर्णमासयागे दर्शयागे च निवृत्ते क्रमेणानुनिर्वाप्यस्य हविषोऽनुष्ठानप्रकारसहितं विधानं, वैमृधस्य हविषोअनुनिर्वपणमनूद्य तत्प्रशंसनं, दर्शयागे विहितमनुनिर्वाप्यं हविरनूद्य तत्प्रशंसनम्, अनुनिर्वाप्यपक्षस्य निगमनम्, अनुनिर्वाप्याभावपक्षस्याभिधानम्, उक्तस्य प्रयोजनस्यानुनिर्वाप्यमन्तरेणापि सिद्धिं वक्तुं तस्यानुवदनं, दर्शयागेऽनुनिर्वाप्यस्यापि प्रयोजनस्यार्थवादपुरःसरं समर्थनं, इममेव पक्षमुपोद्बलयितुमनुनिर्वाप्यपक्षे दोषप्रदर्शनं, अनुनिर्वाप्यस्योपसंहरणं, अनुनिर्वाप्यरहितयोरेवैतयोरनुष्ठानस्य पापहतिहेतुत्वेन प्रजातिहेतुत्वेन च प्रशंसनं, अनुनिर्वापपक्षे तस्य प्रातिस्विकं यत्किञ्चिद्दक्षिणात्वेन दातव्यमिति शङ्कासमाधानसहितं विधानं, प्रकृतस्यार्थस्योपसंहरणं, वर्तिष्यमाणप्रयोगजातस्य विषयप्रदर्शनं चेत्यादि.

ब्राह्मणं ४

४ दर्शयागे पुरस्ताञ्चन्द्रदर्शने नैमित्तिकी त्रिहविष्काऽभ्युदयेष्टिः--तत्र अभ्युदयनिमित्तस्य कर्मणो विधित्सया तन्निमित्तस्य संभावनाया आदौ कथनं, एवं निमित्तसंभावनामुक्त्वा चन्द्रदर्शने सति कालविशेषोपजीवनेन कर्तव्याया बतचर्याया निरूपणं तत्कालविधानं च, उक्तव्रतचर्याकरणाशक्तौ हविर्निर्वापोत्तरकाल च कर्तव्यप्रकारनिरूपणं, उभयत्राप्युक्तात्प्रकारात्प्रकारान्तरकथनं, तत्र तयोश्चर्वाधारतया उपसर्जनत्वमयुक्तमित्यभिधानं, विहितांकी नैमित्तिकीमभ्युदयेष्टिमनूद्य प्रयोजनकथनेन तस्याः प्रशंसनं, अस्यामभ्युदयेष्टौ यथाशक्ति दक्षिणां दद्यादिति विधानं, चन्द्रोदये दोषदर्शनान्निर्दिष्टपक्षकथनं चेत्यादि.

ब्राह्मणं ५

५ दर्शयागे पश्चाच्चन्द्रदर्शने नैमित्तिकी त्रिहविष्काऽभ्युदितेष्टिः--तत्र दर्शयागे पश्चाच्चन्द्रदर्शने पूर्ववन्नैमित्तिक्यास्त्रिहविष्काभ्युदितेष्टेर्विधित्सया तन्निमित्तस्य सम्भावनाया आदावुपपादनं, चन्द्रगतं दोषमुपन्यस्य तद्धेतुत्वेन चन्द्रदर्शनात्प्रागेवोपवसथः शुद्धायाममायां कार्य इति प्रतिपादनं, दर्शयागस्यातिक्रांतकालत्वे दोषमुपन्यस्य तत्रानुष्ठानप्रकारनिरूपणं, अस्या इष्टेस्त्रिहविष्कत्वं प्रतिपाद्य क्रमेण तेषां हविषां प्रदर्शनं, तानि हवींषि क्रमेणानूद्य तेषु देवतासम्बन्धादिकस्योपपादनं, अस्या इष्टेः फलप्रदर्शनं, अस्यामिष्टौ चोदकप्राप्तेष्वङ्गेषु विशेषस्य विधानं, तत्र आज्यभागयोः स्विष्टकृति च याज्याऽनुवाक्यासु याथाकाम्यत्वस्य प्रदर्शनं, दक्षिणाद्रव्यं विधाय तस्य प्रशंसनं, अन्यदपि द्रव्यं देयमिति प्रदर्शनं, एतावदेवेति दक्षिणाद्रव्यस्य नियमो नाभिप्रेत इति कथनं, उक्तनिमित्ताभावेऽपि पशुकामनयैषेष्टिः कार्येति विधानं चेत्यादि.

ब्राह्मणं ६

६ सृष्टिब्राह्मणम्--तत्र दर्शपूर्णमासयोः सर्वात्मकलक्षणवैराजपदप्राप्तिसाधनत्वस्य विवक्षया तदुपोद्घातत्वेनाख्यायिकया सृष्टेः प्रतिपादनं, तत्राप्यखिलजगत्कारणमयस्य प्रजापतेरुपादानस्याण्डस्योत्पत्तेरभिधानं, तस्मादण्डात्संवत्सरेऽतीते प्रजापतेरुत्पत्तेरभिधानं, एतदृष्टान्तेनाधुनातनलोकिक्याः सर्वसृष्टेः साधारण्येन संवत्सरसाध्यत्वप्रतिपादनं, स प्रजापतिरुत्पत्त्यनंतरं संवत्सरेऽतीते व्याजिहीर्षया यत् “ भूर्भुवः स्वः" इति भाषितवांस्तस्माद्व्याहृतित्रयाद्भूरादिवाच्यलोकत्रयं सृष्टमभूदित्यादिप्रतिपादनं, प्रजापत्युक्तेः कुमारोक्तेश्चान्यदपि साम्यमस्तीति कार्यकारणभावपुरःसरं प्रतिपादनं, हेमन्तशिशिरयोः समासाभिप्रायेण पञ्चसंख्यर्तुसृष्टेरभिधानं, ततः प्रजापतेः सहस्रायुष्ट्वं सदृष्टान्तं सकारणमुपपाद्य तस्मिन्नेवायुषि तत्कर्तृकदेवासुरसृष्टेरभिधान, तत्रासुरान्दृष्ट्वा पापा एते मया सृष्टा इति विचार्य प्रजापतिना तदानीमेव ते पराभवं प्रापिता इति यथायथमुपपादनं, उक्तार्थदार्ढ्याय ऋचः संवादप्रदर्शनं, प्रकृतां सृष्टिमनुसन्धायाहोरात्रसमुदायरूपस्य संवत्सरस्य सृष्टेरभिधानं, एतद्वेदितुः फलाभिधान, संवत्सरप्रजापत्योरेकात्म्यस्य प्रतिपादनं, प्रजापतेरधिदेवतानां सृष्टेरभिधानं ततस्ता अधिदेवता अपि पुरुषार्थं साधयितुं प्रजापतिवद्ववृतिरे तत एतं दर्शपूर्णमासयागं दृष्ट्वा तेन सार्वात्म्यमकामयन्तेत्यभिधाय तस्य सार्वात्म्यस्याबात्मकत्वद्वारोपपादनं, इत्थं परमेष्ठी स्वयं सार्वात्म्यं प्राप्य पितुरपि तत्प्राप्तये एतेनायाजयदित्यभिधानं, प्राणरूपताप्राप्तिर्वाग्रूपताप्राप्तिश्च दर्शपूर्णमासयोः फलमिति प्रतिपादनं, अन्नादादिरूपफलप्राप्तिहेतुताया अप्यभिधानं, उक्तमर्थजातं सम्भूयानूद्येदानीन्तनयजमानस्यापि दर्शपूर्णमासयागेन तादृक्फलप्राप्तिर्भवतीत्यभिधानं, प्रागादिचतसृणां मुख्यदिशां द्युलोकादीनां च सृष्टिमभिधाय तेषामुभयेषां प्रयाजाज्यभागस्विष्टकृदनुयाजरूपाभिरेकादशभिराहुतिभिर्जयो जात इत्यभिधानं, चतुर्भिः पत्नीसंयाजयागैराग्नेय्याद्यवान्तरदिशां जयो जात इति सहेतुकं प्रतिपादनं, इडया जेतव्यं प्रतिपाद्योक्ताया आधिदैविक्याः सम्पत्तेर्निगमनं, दर्शपूर्णमासयोरध्यात्मसम्पत्तेरभिधानं, तत्र पञ्चप्रयाजानां प्राणपञ्चकत्वं-आज्यभागयोश्चक्षुर्द्वितयत्वं-स्विष्टकृतः पायुरूपत्वं-त्रयाणामनुयाजानामण्डाभ्यां सह शिश्नरूपत्रितयत्वं --चतुर्णां पत्नीसंयाजानां बाहुद्वयोरुद्वयरूपत्वं-याज्याऽनुवाक्यानां हविषां च क्रमेण धातुद्वयरूपत्वं-मांसस्य हवीरूपत्वं चेत्यादिकस्य सोपपत्तिकमभिधानम्, अस्या अधिदैवाध्यात्मसम्पत्तेः फलनिरूपणं, तान्येतानि प्रयाजानुयाजादीनि प्राच्योदीच्यान्यंगजातानि तत्प्रतिनियतावयवरूपतया यज्ञशरीरनिष्पादकानीति सर्वेष्टितन्त्रसाधारणानीति प्रतिपाद्यान्येषां प्रधानहविषामावापोद्धारयोग्यतायाः प्रतिपादनं, उक्तानामङ्गाहुतीनां सम्भूय यज्ञपुरुषावयवभूतषोडशकलारूपत्वेन प्रशंसनं चेत्यादि


ब्राह्मणं ७

७ दर्शपूर्णमासयागीयव्रतोपायनमीमांसा-तत्र प्रतिज्ञापूर्वकं दर्शपूर्णमासयागे व्रतोपायनविषये मीमांसाकरणं, तत्राशनानशनयोर्दोषं प्रदर्श्य तदा कि कुर्यादित्यपेक्षायामारण्यमोषध्यादिकमश्नीयादिति स्थापनम्, एतदारण्याशनमपि पूर्वपक्षीकृत्य तत्र सम्भवत्पक्षान्तराण्युपन्यस्य तद्दूषणम्, अशनपक्षे दोषस्य दुष्परिहारत्वादनशनपक्षोक्तदोष एव परिशिष्यत इत्यभिधानं, अस्यापि दोषस्य प्रश्नपूर्वकं स्वयं श्रुत्यैव परिहारः क्रियत इत्यभिधानं, पर्वरात्रौ विहितं स्वयं होममनूद्य तस्य प्रशंसनं चेत्यादि.


ब्राह्मणं ८

८ उक्तविघं व्रतमुपेयुषो यजमानस्य हवीरूपताप्रतिपादनद्वारा तस्मिन्निष्क्रयणहेतुतां दर्शपूर्णमासयागस्य प्रतिपादयितुमाख्यायिकया यज्ञोत्पत्तेरभिधानं, तत्रासुराणां कृत्यप्रतिपादनं, प्रसङ्गादतिमानो न कर्तव्य इति सकारणमसुरदृष्टान्तेन प्रतिपादनम्, इत्थमसुरैः कृतमुक्त्वा देवैः कृतस्य प्रदर्शनं, तत्र सहेतुकं प्रजापतियज्ञयोस्तादात्म्यव्यवहारस्योपपादनम्, इत्थमाख्यायिकया सिद्धमर्थं प्रकृते योजयित्वा तस्य दृष्टान्तेन सकारणमुपपादनं, कृत्स्नयज्ञस्य निष्क्रयणप्रकारस्य सोपपत्तिकं निरूपणं, तत्र प्रसङ्गादन्वाहार्यनामनिर्वचनम्, उक्तार्थस्य निगमनं, निष्क्रीतस्य यज्ञस्योपयोगकथनं चेत्यादि.