सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ४

विकिस्रोतः तः

ब्राह्मण १

१ प्रजापतेर्भोक्तृत्वस्याहवनीयरूपत्वेनाभिधानं आन्नेन संस्कारप्रकारनिरूपणं, तत्र चित्याग्निरूपस्यान्नस्य प्रजापतिशरीरात्मकत्वमित्येतस्यार्थस्योपपादनं, अन्नसंस्काराद्युक्तस्यार्थस्याधुनातनानुष्ठातरि नियोजनं, चित्याग्नेरुपरि उख्याग्निनिधानमन्त्रे “ वौषट् " इत्यक्षरद्वयं श्रूयते तस्य यथाक्रममग्निपरत्वप्रदर्शनं, अन्नस्य शरीरसम्मितत्वस्यान्वयव्यतिरेकाभ्यां प्रदर्शनं, अग्निचित्याग्निद्वन्द्वस्य यजुःसामर्ग्वेदत्रयपरिभाषासिद्धार्क्यमहाव्रतोक्थनामभिर्व्यपदेश्यत्वस्य तत्तन्नामावयवनिर्वचनद्वारा प्रदर्शनं, एतस्याग्निद्वयस्य चेन्द्राग्न्यात्मना स्तोतुमादाविन्द्राग्निसृष्टेरभिधानं, तत्र प्रथमेष्टकाचितावुपधेययो रुक्मपुरुषयोरिन्द्राग्न्यात्मना प्रशंसनं, इष्टकापुरीषचितिद्वयमिन्द्राग्न्यात्मना प्रशस्य तत्रेष्टकानां पाके पुरीषस्यापाके च कारणाभिधानं, एवं विभिन्नयोरुक्मपुरुषयोरिष्टकापुरीषचित्योरिन्द्राग्नित्वेनोक्तयोरैक्यस्येष्टकासम्पत्त्याऽक्षरसम्पत्त्या चोपपादनं, अक्षरगतैकत्वस्य मन्त्रसंवादेन दृढीकरणं, उक्तमग्नेरिन्द्राग्न्यात्मकत्वमुपजीव्य वर्णत्रयात्मना तत्प्रशंसनं. उक्तं वर्णत्रयात्मकत्वमुपजीव्य कर्मणः श्रीयशोऽन्नादत्वलक्षणफलस्य पुरावृत्तकथनेन प्रदर्शनं, उक्तस्य श्रीयशःप्रभृतिक फलस्य संवादेन दृढीकरणं, एतदर्थं वेदितुः फलकथनं, प्रजापतिरूपाहवनीयाग्नेस्तत्र हूयमानमहाव्रतीयग्रहरसस्य च यद्द्वन्द्वं तस्य पूर्ववदर्क्यमहाव्रतोक्थनामत्रयेणाभिधेयत्वं वक्तुं ग्रहग्रहणस्य स्तुतशस्त्रपठनस्य वषट्कारान्ते तद्रसहोमस्य च क्रमेण प्रदर्शनं, तदिदमग्निरसद्वयमेकं सदपि त्रेधाऽर्क्यादिनामत्रयेणाम्नायत इत्यभिधानं, प्रजापतिरूपस्याग्नेः सप्तदशावयवत्वं प्रतिपाय तयो: सावित्रवैश्वकर्मणहोमयोः कलाष्टकद्वयात्मना प्रशंसनं, तेषामेव कलापरपर्यायाक्षरणां शरीरे संस्थानवर्णनं, तत्र प्रसङ्गादेतस्मै प्राणायैताः कला अन्नमभिहरन्ति यदा चैताः कला अन्नमभिहर्तुमनीश्वरा भवन्ति तदाऽयं प्राणः एता एव कला जग्ध्वोत्क्रामतीत्याद्यभिधानं, अग्न्यात्मकस्य प्रजापतेर्भोक्तुः सप्तादशात्मकत्वमुक्तं तद्भोग्यस्याप्यन्नस्य सप्तदशसंख्योपेतत्वस्यामिधानं, यथा पूर्वं देवाः सप्तदशाय प्रजापतये संस्कृतवन्तस्तथाऽयमध्वर्युः स्तोत्रशक्थान्ते अस्मिन्नग्नावेतं सोमरसादिकं वषट्कृते जुहोतीति प्रतिपादनं, तत्र वौषडित्यक्षरद्वयस्याग्न्यन्नरूपत्वप्रदर्शनं, अधियज्ञं प्रजापतिसौम्याध्वरयोर्द्वन्द्वस्य अधिदैवमादित्यचन्द्रमसोर्व््यस्य-अध्यात्मम्प्राणान्नयोर्द्वयस्य चार्क्यादिनामत्रयभाक्त्वमिति प्रतिपादनं, अधिदैवाध्या. त्मद्वयेन समुदितार्थस्योपसंहारश्चेत्यादि.


ब्राह्मण २

२-संवत्सररूपप्रजापतेरग्नीषोमात्मकत्वमभिधाय यावन्ति मे ज्योतींषि तावत्यो मे इष्टका विधेया इति प्रजापतेरुक्तेः प्रतिपादनं, श्रुत्या च लोकोपकाराय ज्योतिःशब्दार्थस्तत्संख्या च स्वयमेवोच्यत इत्यभिधानम्, उक्ताया अहोरात्रसंख्याया इष्टकासु प्रदर्शनं, संवत्सररूपस्याग्नेः पक्षगततिथ्यर्द्धमासमुहूर्तान्दर्शयितुमुपोद्घातकथनं, विभक्तयोर्द्वयोरात्मनोः पूर्वोक्तानां अहोरात्रसंख्याकानां परिश्रितामिष्टकानां च विभज्य प्रदर्शनम् , एवमुत्तरत्र त्रिचतुःप्रभृतिचतुर्विंशतिपर्यन्तात्मविभागेषु तत्तदात्मसंख्याया विंशत्यधिकसप्तशतसंख्याकानामेव परिश्रिद्यजुष्मतीनां विभज्य प्रदर्शनं, तत्र त्रिप्रभृत्यात्मान्तरकल्पने कारणाभिधानं, सहैव तत्र तत्र सप्तैकादशत्रयोदशचतुर्दशसप्तदशैकोनविंशत्येकविंशतिद्वाविंशतित्रयोविंशतिधाऽत्मान्तरव्यूहनं न कृतमित्यभिधानं, चतुर्विंशतिधा ब्यूहनोत्तरमात्मविभागो नास्तीति कथनं, उक्तव्यूहपञ्चदशकस्य पञ्चदशतिथ्यात्मना प्रशंसनं, चतुर्विंशतिविभागानामर्द्धमासात्मना प्रशंसनं, मुहूर्तानां प्रदर्शनपूर्वकं मुहूर्तशब्दनिर्वचनं, लोकम्पृणाशब्दनिरुक्तिसहितं लोकम्पृणेष्टकानां मुहूर्तपरत्वस्य कथनं, सूर्य एवादौ अहोरात्रादिसंवत्सरान्तकालेन सर्वं वस्तु पचत्यनन्तरमयमग्निरमुना सूर्येण पक्वं वस्तु पचतीति भरद्वाजमुनिसंवादसहितं निरूपणं, प्रतिमासगतमुहूर्ताः संवत्सरे सम्भूयैतावन्तः स्युरिति तत्परिगणनं, त्रय्याः सर्वभूतात्मकत्वस्य छन्दःप्रभृतिसर्वाश्रयत्वस्य प्रतिपादनं, त्रय्याः सर्वभूतात्मकत्वादेव त्रयीमेव विद्यामात्मानमभिसंस्करबै इति प्रजापतिर्विचार्य द्वादशबृहतीसहस्रसम्मिता ऋचो विभक्तवानिति प्रतिपादनम्, ऋचां न्यूनाधिकसंख्यायाः संशयस्य निराकरणं, त्रिंशता विभागैर्विभक्तानां द्वादशसहस्रबृहतीनामृचामष्टशताधिकदशसहस्रसम्मितपंक्तित्वं सम्पाद्य तत्र ऋचां त्रिंशत्तमे भागे तत्रापि पंक्तिष्ववस्थानस्य प्रशंसनम् , ऋग्वेदवद्यजुःसामवेदयोरपि विभागस्य पंक्तित्वसम्पादनस्य च प्रदर्शनं, वेदत्रयगतानां सकलानां पंक्तीनां सम्भूयाशीत्यात्मना सम्पादनम्, उक्तरीत्या प्रजापतेः संवत्सरात्मकत्वं स्पष्टमुक्तमिति प्रदर्शनं, यदुक्तं प्रजापतेः संवत्सरस्याहोरात्रमुहूर्तात्मकत्वं वेदत्रयरूपत्वं च तस्य सर्वस्य प्रजापतिकर्तृकोपधानवचनव्याजेन विभज्य प्रदर्शनं, हन्त त्रयीमेव विद्यामात्मानममिसंस्करवै इति प्रजापतिना प्रतिज्ञातस्य नियमनम् , एवमग्निं चितवतः प्रजाप्रतित्वस्य निदर्शनं, यत्प्रजापतेरुखायां सिक्ते स्वात्मनि संवत्सरमन्त्ररूपे परिश्रिद्यजुष्मतीष्टकोपधानेनादित्ये प्रतिष्ठितत्वं तस्य सर्वस्येदानीन्तने यजमाने नियोजनं, फलं च तस्य तद्भवतीत्यमिधानं, उक्तमर्थजातं विदुषः फलाभिधानं, ज्ञानपूर्वकमनुष्ठानं केवलं च ज्ञानमित्युभयार्थप्रदर्शनं चेत्यादि.


ब्राह्मण ३

३ संवत्सररूपप्रजापतेर्मृत्युरूपत्वं प्रतिपाद्य तद्रूपोपासकस्य फलप्रतिपादनं, संवत्सररूपप्रजापतेरन्तकरूपत्वमभिधाय तद्रूपोपासकस्य फलाभिधानं, चयनस्यामृतत्वफलवद्यज्ञक्रतूनाममृतत्वं फलमिति निरूपणं, यथाविध्यनुष्ठितचयनस्याप्येतदेवामृतत्वं फलमिति वक्तुं तद्विपरीतानुष्ठाने फलं न सेत्स्यतीति पुरावृत्तकथनं, देवकृतं तादृशमनुष्ठानमिदानीन्तनानुष्ठानेन सममिति संवादेन प्रदर्शनं, अमृतत्वप्राप्त्यर्थं देवानां तपःकरणप्रदर्शनं, इदानीन्तनानामग्निचितां शरीरसाहित्येनामृतत्वाभावस्य प्रश्नप्रतिवचनाभ्यां प्रदर्शनं, कर्म कुर्वतां विदुषामविदुषां च शरीरपरित्यागोत्पत्ती समाने कुतः कर्मविद्याभ्यां ज्ञाने विशेष इत्याशंक्योभयेषां फलव्यतिरेकस्य प्रदर्शनं, चयनस्यामृतत्वं फलमुक्तं; तत्रामृतशब्दस्यार्थविवरणं, देवाः फलसाधनत्वेन यदकार्षुस्तदेवेदानीन्तनैरपि कृतमिति साधनगतैकत्वस्य प्रदर्शनं, चयनेन " संवत्सरं प्रजापतिमग्निमाप्नोति" इति यदुक्तं तस्यैव पुनर्विशदीकरणं, परिश्रिदादिभी रात्र्यहरादिप्राप्तेरेव क्रमेण विवरणं, तत्र परिश्रितां संख्यायाः स्थानविशेषेण तद्विभागस्य चाभिधानं, यजुष्मतीनां संख्यायाः पञ्चस्वपि चितिषु तद्विभागस्य च प्रदर्शनं, पञ्चचितिगतानां यजुष्मतीनां सर्वासां सम्भूय परिगणनम् , एतासामेवाहरर्द्धमासर्तुरूपताया विभज्य प्रदर्शनं. एवं सम्पादनस्य प्रयोजनकथनम् , लोकम्पृणाभिर्मुहूर्तप्राप्तेः संख्यासाम्यादुपपादनं तासामुपधानप्रदेशसंख्याविशेषस्य च प्रदर्शनं, अत्र केचनाहवनीय एव सकला अपि लोकम्पृणा उपधेया इत्याहुस्तेषां मतमनूद्य तस्य दूषणम् , “ अग्निं चिनुते" इत्यत्रैकवचनान्ताग्निशब्दव्यवहारः कथमित्याशंक्य तस्योपपादनं, केषांचिन्मतेन दोषनिरूपणं, भूमिकारचनापूर्वकं निर्ऋतिदेवत्यानां तिसृणामिष्टकानामप्यत्रैव सन्दर्शनं कर्तव्यमित्यनिष्टमापाद्य तस्य सकारणं निराकरणं, आसां नैर्ऋतीनां तिसृणामिष्टकानां सप्तत्यधिकशतोत्तरैकादशसहस्रसम्मितेष्टकाभ्यो नातिरेकेनोपधानमित्यस्यार्थस्य प्रश्नोत्तराभ्यां निरूपणं, विदित्वाऽनुष्ठातुः केवलवेदितुश्च फलप्रतिपादनं चेत्यादि.


ब्राह्मण ४ प्राजापत्यात्मकसमष्टिरूपं सहस्ररूपोपासनम्

४ प्रजापत्यात्मकसमष्टिरूपं सहस्ररूपोपासनम्--तत्र संवत्सररूपस्याग्नेस्तदवयवानां च सहस्ररूपत्वेनोपासनस्य तत्फलस्य च प्रदर्शनं तत्रादौ प्रजापतिवृत्तान्तेन सहस्रप्रसङ्गस्याभिधानं, सहस्रोपासनायाः प्रसङ्गमुक्त्वा तदुपायस्य कथनं, यतः सहस्रसंवत्सरावरोधे मनुष्यस्य विद्यैव साधनमतस्तस्या उपासनाया अभिधानम् , उपासनायाः फलनिरूपणं, सर्वेषु व्यापारेष्वप्येतदुपासनं कर्तुं युज्यत इत्यभिधानं, विदुषः किञ्चिदपि व्यापारमात्रं व्यर्थं न भवतीत्यर्थे मन्त्रपादसंवादमुक्त्वा तस्य व्याख्यानं चेत्यादि.


ब्राह्मण ५ व्यष्टिरूपाग्निविषयकमुपासनम्

५ व्यष्टिरूपाग्निविषयकमुपासनम्--तत्र रहस्यार्थानामुपदेशा वक्ष्यन्त इति प्रतिज्ञापूर्वकं वाय्वादित्यरूपेणाग्न्युपासनस्य ससम्प्रदायमभिधानं, संवत्सरे शिरःपक्षपुच्छावयवाग्न्युपासनायाः सोपपत्तिकं फलसहितमभिधानं, प्रकारान्तरेणापि पञ्चचितिरूपसम्पत्तेस्तथैव तदुपासनायाश्च प्रदर्शनं चेति.