शङ्करविजयः/नवमस्सर्गः
॥ अथ नवमस्सर्गः ॥
श्रीगन्धमादनगरिः प्रथितोऽम्बुराशौ
संतिष्ठते जलगतः स्थिरतामुपेतः ।
देवोऽपि तत्र गिरिजासहितस्समास्ते
क्षेत्रं ततः खलु पुरातनमेतदाहुः ॥ १ ॥
1आगत्य तत्र शिवमर्चयतेऽनुघस्त्रं
दिव्यप्रसूनसहितोऽप्सरसां निकायः ।
देवं समर्च्य दिवमेव किल प्रयाति
स ह्यष्टधा गुणगतश्शिवभक्तियोगात् ॥ २ ॥
तस्मिन्समर्चयति देवमनन्यभक्त्या
कुम्भोद्भवो मुनिरथाऽऽगमदुग्रतेजाः ।
देवं समर्चिचयिषुर्बहिरेव तस्थौ
पूजावसानसमयं प्रतिवीक्षमाणः ॥ ३ ॥
पूजां विधाय सहसाप्सरसां गणोऽयं
बाह्यस्थितं मुनिमवैक्षत पृष्टवांश्च ।
कस्त्वै किमर्थमिह चागमनं गिरौ ते ।
सोऽप्यब्रवीद्द्विजवरोऽयमनिन्द्यरूपः ॥ ४ ॥
दृष्ट्वा शिवं सह समर्चयितुं भवान्या
देवश्शिवो गिरिजया सह सन्निधत्ते ।
मर्त्यो न सञ्चरणयोग्य इहाद्रिमध्ये
देवाधिकारवसुधेयमतश्चरामः ॥ ५ ॥
1अ. आगम्य ।
मर्त्यो न शक्त इह सञ्चरणाय किं वा
योग्यत्वमेत्र मनुजस्य न वेत्युदीर्यम् ।
तच्च द्वयं खलु न सङ्गममैव युक्त्या
शक्तिर्न चेत्कथमिहागमनं मम स्यात् ॥ ६ ॥
योग्यत्वधर्मविरहोऽस्ति न चापि देव्य
स्सर्वत्र भूसुरजने ह्यधिकार एव ।
विप्राधिकारमखिलं खलु शास्त्रजातं
विप्रा वदन्ति निगमार्थविदो महान्तः ॥ ७ ॥
देवस्समोऽयमुभयोरपि दिव्यवध्वः
मर्त्यस्य देवनिवहस्य न काचिदत्र ।
संशीतिरस्ति यदिवेह सदाशिवोऽयं
पक्षे पतेत्पतितमेव मनुष्यजातम् ॥ ८ ॥
सख्योऽपसारयत दुर्वचनाधिराजं
वारांनिधौ क्षिपत वा कुरुतात्मनाथाम् ।
कुण्डीं विशुद्धसलिला1मपि यात शीघ्रं
क्षेत्नं यथा न पुनरेति तथा 2विधेयः ॥ ९ ॥
उक्तोऽप्ययं परुषवाक्यमनिन्दितात्मा
प्रोचे न किञ्चिदपि शांतमना जगाम ।
गच्छन्नसौ पथि निरूपितवानथेदं
क्षेत्रं तदा मनुजयोग्यमिद3 करिष्ये ॥ १० ॥
रामे प्लवङ्गसहिते प्रतियाति लङ्कां
तत्प्राप्तिमार्गमनुपश्यति कुम्भजातः ।
गन्धाद्विमन्तरगतं प्रविधाय सेतुं
प्राबन्धयज्जलनिधौ मुनिराप्तकार्यः ॥ ११ ॥
1का. मपयात । 2अ. विधेयम् ।
3अ. अहं ।बद्धेऽपे सेतुकरणे पुनराययुस्ता-
स्संसेवितुं पशुपतिं गिरिजासनाथम् ।
कुम्भोद्भवोऽपि विहेितोपहसः पुरस्ता-
त्तासाञ्च तस्य पुनरप्यभवद्विवादः ॥ १२ ॥
साधरणं पदमिदं न मनुष्ययोग्यं
देवादिसेव्यमिति यद्भ्रूवते भवत्यः ।
मर्त्याङ्गना भवत मर्त्यविदूषिकास्त-
च्छापं ददाविति मुनी रुषितो महात्मा ॥ १३ ॥
शान्तः पुमानित न पीडनमस्य कार्यं
शान्तोऽपि पीडनवशात्क्रुधमुद्वहेत्सः ।
शीतस्सुखोऽपि मथितः खलु चन्दनद्रु-
स्तीव्रं हुताशजनको भवति क्षणेन ॥ १४ ॥
संप्रार्थितश्चरणयोः पतिताः पुरस्ता
दन्वग्रहीत्करुणया किल कुम्भयोनिः ।
श्रीपार्वतीपतिपदाम्बुजभक्तियुक्ता-
स्तत्पूजनासु निरता भवतेति मन्दम् ॥ १५ ॥
यश्चोद्वहेत्स तु भविष्यति पूजकोऽस्मिन्
कन्या भवत्कुलभवास्सुकुमारगात्रीः ।
तस्मात्ततः प्रभृति तत्कुलकन्यकानां
भर्तार एव पशुपं किल पूजयन्ति ॥ १६ ॥
उद्दिश्य सेतुमनघं बहुपातकस्सन्
आजन्मनस्स्वकृतपातकराशिमुञ्चैः ।
सङ्कीर्तयन् व्रजाति यः परिमुच्यतेऽसौ
सेतुं विलोक्य सहसाखिलपातकेभ्यः ॥ १७ ॥
यः पातकी व्रजतु कीर्तयतु स्वपापं
छत्रादि वर्तवतु जीवतु मैक्षवृत्त्या ।
रामस्य कीर्तिमिव मूर्तिमतीं स पश्येत्
सेतुं भवाब्धितरणेऽपि च सेतुभूतम् ॥ १८ ॥
श्रीगन्धमादनगिरौ किल वारिराशौ
स्नात्वानुघस्त्रमनुतर्प्य च देवतादीन् ।
संदृश्य गन्धकुसुमादिभिरर्चयेद्यः
श्रीरामनाथमभिवान्छितमेति मर्त्यः ॥ १९ ॥
नापर्वणीति वचनं न निषेधतीह
स्रानं तदन्यविषयं पुरुषोत्तमादेः ।
तस्मात्प्रशस्तमिह माघनिमज्जनञ्च
कुर्वीत पुण्यदिवसेष्विह पुण्यमिच्छुः ॥ २० ॥
सूर्योपरागदिवसे विहितोपवासः
स्नात्वा पुमान्यदि ददीत किमप्यनन्तम् ।
सेतौ गवादि ददतो न फलं गणेयं
शेषेण नैकलपनेन किमन्यमर्त्यैः ॥ २१ ॥
सेतुर्वरो विविधपातकपुञ्जहन्ता
शैलोऽपि तत्र रघुनन्दननामधेयः ।
यत्रापि सेतुमभिनद्भगवान् स कोट्या
चापस्य तीर्थमिदमुत्तममाहुरार्याः ॥ २२ ॥
1क्रुध्यन्प्रभुं निहतवानपि2 राक्षसेन्द्रं
तद्बुद्धिमांस्त्रिषु पदेषु बिभेद सेतुम् ।
नूनं स्वकीयघनुषा न 3तु राक्षसाना-
मत्रागमं निविविवारयिषुः प्रभुत्वात् ॥ २३ ॥
1का. प्रभुः । 2 अ. अधि ।
3अ. ननु ।आत्मात्मजाया क्षणदाचराणां
1शिरोविलेखे मनसात्र पश्यन् ।
मन्ये बिभेद स्वशरासनेन
.... त्रिधासौ कृतकृत्य 2आयन् ॥ २४ ॥
तीर्थेऽत्र मज्जनकृतां फलमन्यतीर्था-
ज्जायेत कोटिगुणितन्त्विति सूचनाय ।
कोट्या ध्रुवं स्वधनुषो बिभिदे स राम-
स्सेतुं विभेदनविधौ बहुसाधनोऽपि ॥ २५ ॥
धनुष्कोठौ तीर्थे मुनिजननिषेव्येऽमितफले
कृतस्नाना धन्या जहति दुरितं दुष्परिहरम् ।
विधूतांहोजालाः परिचितसुरा नन्दनवने
सदा सङ्क्रीडन्ते प्रचुरतरभोगैरुपचितः ॥ २६ ॥
आसाद्य 3तीर्थमिदमक्षयपुण्यघस्त्रे
स्नात्वा बलेन ददतोऽस्य फलं न मेयम् ।
दत्तं 4पणं द्विगुणतामुपयाति काला-
त्तीर्थे वितीर्णमधुनैव बहुत्वमेति ॥ २७ ॥
रामेत्युदीर्य बहुशः खलु तीर्थदृश्वा
मुच्येत दोषनिवहात्किमु मज्जनादेः ।
आयान्ति तीर्थतनवो मुनयोऽप्यमुष्मा-
देष्यन्निहन्तुमनसो5 दुरितं प्रमादात् ॥ २८ ॥
आदिश्यैवं भिक्षुराजस्सशिष्य
स्सेतुं दृष्ट्वा पुण्यतीर्थं निषेप्य ।
पश्यन्देशान्मातुलीयं जगाम
गेहं दाहं तस्य पुस्तेन सार्धम् ॥ २९ ॥
1अ. विलेखान् । 2अ. आसीत् ।
3अ. पुण्यं । 4अ. फलं ।
5अ. अनघा ।
Sankara--9श्रुत्वा किञ्चित्खेदमापेदिवान् स
मत्वा मत्वा धैर्यमापेदिवान्सः ।
श्रावं श्रावं मातुलेयस्य तीव्रं
दाहं गेहस्यानुकम्पां व्यधत्त ॥ ३० ॥
विश्वस्य मां निहितवानसि पुस्तमारं
तञ्चाद:द्धुतवहः परितः प्रमादात् ।
तावान्न मे सदनदाहकृतोऽनुतापो
यावांस्तु पुस्तकविनाशकृतो मम स्यात् ॥ ३१ ॥
इत्थं ब्रुवन्तं 1तमथाभ्यमाणीत्
पुस्तं गतं बुद्धिरवस्थिता मे ।
उक्त्वा समारब्ध पुनश्च टीकां
कर्तुं स धीरो यतिवृन्दवन्द्यः ॥ ३२ ॥
दृष्ट्वा बुद्धिं मातुलस्तस्य भूयो
भीतः प्रास्यद्भोजनं तन्मतिघ्नम् ।
किञ्चिद्द्रव्यं पूर्ववन्नोऽक्षमिष्2
ठीकां कर्तुं केचिदेव ब्रुवन्ति ॥ ३३ ॥
इत्थं स तीर्थनिकरं परिषेव्य शान्तो
द्रष्टुं ययौ स्वगुरुमेव पुनस्स तस्मै ।
देशाय यत्र वसति स्म स देशिकेन्द्र-
स्तस्मै नमो व्यधित 3वृत्तमथोऽभ्यधत्त ॥ ३४ ॥
शिरःकपालं किल देशिकस्य खण्डं जनाः प्राहुरदो जिघृक्षुः ।
कश्चित्सिषेवे बहुघस्रमेनं योगी जितात्मा बडुसिद्धिकामः ॥ ३५ ॥
1अ. मथ न्यगादीत् । 2अ. नाक्षमिष्ट ।
3अ. अथ; का. अथाभ्यधात्सः ।तत्तादृशं सिद्धिदमीक्षमाणस्संसेव्य संमन्त्र्य मिथस्तमेति ।
देनानि भूयांसि किलागुरस्य ते जातहादौ भगवानथोचे ॥ ३६ ॥
योगिन् ! न्यसेविषि चिरं बहुमानतोऽहं
किश्चेप्सितं तव ददानि यदत्र शक्यम् ।
मर्त्यं हि तत्परहिताय शरीरमाप्यं
नो चेत्प्रयोजनमनेन किमस्ति लोके ॥ ३७ ॥
अखण्डमूर्धन्यकपालमाहुस्संसिद्धिदं साधकपुङ्गवेभ्यः ।
विना भवन्तं बहवो न सन्ति तद्वत्पुमांसो भगवान्पृथिव्याम् ॥ ३८ ॥
तान्याचितुं न क्षमते प्रनो मे
को वेषधारी स्वशरीरमुज्झेत् ।
भवान्विरक्तो न शरीरमानी
परोपकाराय घृतात्मदेहः ॥ ३९ ॥
जनाः परक्लेशकथानभिज्ञा
नक्तंदिवं स्वार्थकृतात्मचित्ताः ।
रिपुं निहन्तुं कुलिशाय वज्री
दधीचिमार्दत्किल वाञ्छितास्थिः ॥ ४० ॥
वपुर्धरन्ते परतुष्टिहेतोः केचित्प्रशान्ता दयया परीताः ।
अस्मादृशाः केचन सन्ति लोके स्वार्थैकनिष्ठा दयया विहीनः ॥ ४१ ॥
इत्युक्तवन्तं भगवानथाब्रवी-
न्मिथस्समायाहि करोमि ते मतम् ।
नाहं प्रकाशं वितरीतुमुत्सहे
शिरःकपालं विजनं समाश्रय ॥ ४२ ॥
शिष्या विदन्ति यदि चिन्तितकार्यमेत-
द्योगिन् मदेकशरणा विहतं विदध्युः ।
को वा सहेत वपुरेतदपोहितुं स्वं
को वा क्षमेत निजनाथशरीर1मोषम् ॥ ४३ ॥
तौ सेविदं व्यतनुतामिति संप्रहृष्टौ
योगी जगाम मुदितो निलयं मनस्वी ।
श्रीशङ्करोऽपि निजघामनि जोषमास्त
नो2 चेद कञ्चिदपि भावमसौ सनोगम् ॥ ४४ ॥
शूली त्रिपुण्ड्री परितो विलोकी
कङ्कालमालाकृतगात्रभूषः ।
संरक्तनेत्रो मदघूर्णिताक्षो
योगी ययौ देशिकवासभूमिम् ॥ ४५ ॥
शिष्येषु 3शिष्टेष्वपि दूरगेषु
स्नानादिकार्याय विविक्तभाजि ।
श्रीदेशिकेन्द्रे च सनन्दनाख्ये
भीत्या स्वदेहं व्यवधाय गूढे ॥ ४६ ॥
तं भैरवाकारमुदीक्ष्य देशिक
स्त्यक्तुं शरीरं व्यधिन स्वयं मनः ।
आत्मानमात्म4न्युदयुङ्क्त योजयन्
समाहितात्मा करणानि संहरन् ॥ ४७ ॥
त्रिशूलमुद्यम्य निहन्तुकामं
गुरुं यतात्मा तमुदैक्षतान्तः ।
स्थितश्चुकोप ज्वलिताग्निकल्प-
स्स नन्दनो नाम गुरोर्हितैषी ॥ ४८ ॥
1अ. मोक्षम् । 2अ. नोवाच ।
3अ. शिष्टेषु विदूरगेषु । 4का. न्यधियुक्त ।स मन्त्रसिद्धो नृहरेर्नृसिह्मो
बभूव रोषाद्विनिहन्तुकामः ।
ददार तं क्रूर 1नखो नखाग्रे
र्यथा हिरण्यं 2परिपात्यभक्तम् ॥ ४९ ॥
तद्रोमकूपेषु समं हुताशः
प्रजज्वलुर्भीषितसर्वलोकाः ।
ज्वलन्सहेतिभृशमुत्पपात
प्रासादमुख्यं विहिताट्टहासः ॥ ५० ॥
प्रसादमारुह्य स सिंहनादं
ननाद चोच्चैर्भुवनं 3वितेने ।
पृथ्वी चकम्पे भुवनान्तरीया
वार्धिस्तथाद्रिर्द्युसतोऽप्यवीक्षन् ॥ ५१ ॥
आकर्णयंस्तं निनदं बहिर्गता
उपागमन्नाकुलचित्तवृत्तयः ।
व्यलोकयन्भैरवमग्रतो मृतं
ततो विमुक्तञ्च गुरुं सुखोषितम् ॥ ५२ ॥
कल्पान्तरुद्रमिव वह्निकणान्वमन्तं
सिंहाकृतिं झटिति विस्मृतमर्त्यभावम् ।
तुष्टाव तं गुरुवरः शमयन्रुषाग्निं
वाक्पाथसा जगदिदं परिपातुमिच्छन् ॥ ५३ ॥
नरहरे हर कोपमनर्थदं तव रिपुर्निहतो भुवि वर्तते ।
कुरु कृपां मयि देव सनातनीं जगदिदं भयमेति भवद्रुषा ॥ ५४ ॥
1का. तरैः । 2अ. परियान् ।
3का. विधाय ।तव वपुः किल सत्त्वमुदाहृतं तव हि कोपनमण्वपि नोचितम् ।
तदिह शान्तिमवाप्नुहि शर्मणे हरगुणं हरिराश्रयसे कथम् ॥ ५५ ॥
1स किल भीतिषु देवतमं स्मरन्
सकलभीतिमपोह्य सुखी पुमान् !
भवति किं प्रवदामि । तवे2क्षणे
परमदुर्लभमेव तदीक्षणम् ॥ ५६ ॥
स्मृतवतस्तव पादसरोरुहं
मृतितुदं पुरुषस्य विमुक्तता
तव करामिहतो मृतभैरवो
न हि स एष पुनर्भवमेष्यति ॥ ५७ ॥
दितिजसूनुममुं व्यसनार्दितं
सकृदरक्षदुदारगुणो भवान् ।
सकलगत्वमुदीरितमस्फुटं
प्रकटमेव विंचित्सुरभूत्पुरः ॥ ५८ ॥
सृजसि विश्वमिदं रजसात्मभूः
स्थितिविधौ श्रितसत्त्व उदायुधः ।
अवसि तद्धरणे 3तमसावृतो
हरसि देव तदा हरसंज्ञितः ॥ ५९ ॥
न च जनिर्न गुणास्तव तत्त्वतो
जगदनुग्रहणाय भवादिकम् ।
तव पदं खलु वाङ्मनसातिगं
श्रुतिवचश्चकितं तव बोधकम् ॥ ६० ॥
1अ. सकल । 2अ. तवैक्षणैः ।
3अ. आदतो ।नरहरे तव नामपरिश्रवात्
प्रथमगुह्यकदुष्टपिशाचकाः ।
अपसरन्ति विभो सुरनायका
न हि पुरःस्थितये प्रभवन्त्यपि ॥ ६१ ॥
द्विजकुलं श्रुतिराह तवाऽऽस्यजं
नृपकुलं तव बाहुयुगोत्थितम् ।
विशमिमं नरसिह्म तवोरुजं
चरणजं वृषलं चरमं विंदुः ॥ ६२ ॥
श्रुतिसमीरितकर्मफलेक्षण-
प्रतिभुवं 1प्रविहाय विदं जनम् ।
यजति देव भवन्तमिहादरात्
न हि यजिः फलदा क्षमतेऽध्रुवा ॥ ६३ ॥
सर्वार्थसाधनविधावदशप्रदीप-
मन्विष्य दैत्यहतमेष भवांस्तिरोगम् ।
पुंयोगदोषविरहात्खत एव मान-
मादाय मत्खतनुराहृत वेदराशिम् ॥ ६४ ॥
भूत्वा पयोधिमथने कमठः पुरा त्वं
संमज्जतो नु मथिमन्दरपर्वतस्य ।
पृष्ठं व्यदाः सकललोकहितं चिकीर्षुः
श्रीमन्नुनुत्सुरिव गात्रगतां च कण्डूम् ॥ ६५ ॥
दंष्ट्रान्तरे भुवमिमां जलधौ निमग्ना
मारोप्य मार्गगतदैत्यवरं निहत्य ।
उद्धृत्य पूर्वमिव तां समतिष्ठिपत्स्वां
भूदारमूर्तिरुदमज्जदुदन्वतोऽग्रे ॥ ६६ ॥
1अ. प्रविधाय विदन् जनः ।
प्रह्लाददैत्यतनयेन हरेर्विभुत्वे
प्रोक्ते तदीयवचनं 1मतमेव कुर्वन् ।
स्तम्भं विदार्य सहसोत्थितवान्नखाग्रै-
र्वक्षोऽसुरस्य भगवान् बिभिदे विशालम् ॥ ६७ ॥
भूत्वा वटुः किल भवन् बलियज्ञशालां
गत्वा पदत्रयमयाचत वासहेतोः ।
पश्चात्क्रमेण ववृधे दिप्रभे च पादै-
र्लोकांस्त्रिभिर्बलिमथो भगवान्बवन्ध ॥ ६८ ॥
तातस्य मारणरुषा जमदग्निपुत्रो
भूत्वावधीर्नरहरे कृतवीर्यसूनुम् ।
2यश्चाविभः करसहस्रमभूत्पुरस्तात्
द्रव्यं ग्रहीतुमनसां किल तस्कराणाम् ॥ ६९ ॥
राजन्यकं समभिषिक्तमिह त्रिसप्त-
दारान्प्रभो पृथुबलं 3बहु बाहुवीर्यः ।
श्रीजामदग्न्यवपुरुत्परशुर्निहृत्य
4श्रीकाश्यपाय पृथिवीमददः 5किलैषाम् ॥ ७० ॥
पौलस्त्यपीडित 6सुरार्थनया पृथिव्यां
पुत्रो भवान् दशरथस्य बभूव साक्षात् ।
प्राप्ताभिषेकविहतेर्वनमीयुषस्ते
सीतां जहार इरिणच्छलतो दशास्यः ॥ ७१ ॥
कान्तारपर्वतनदीतटदुर्गदेशान्
गत्वा व्यचेष्ट भगवान् दयितां दयालुः ।
गच्छन् क्वचित्पतगराजमपश्यदार्तं
संलृनपक्षतिमचेष्टममन्ददेहम् ॥ ७२ ॥
1अ. ऋतमेव, क. जितमेव । 2अ. यश्चाविभः ।
3अ. पृथु । 4अ. कश्यपाय ।
5अ. किलेमाम् । 6अ. घरा ।श्रीमज्जटायुवचनादधिगम्य सीतां
वृत्तान्ततो रवितनूजसखित्वमाप ।
हत्वैन्द्रमुद्धतबलं पवनस्य सूनुं
संप्राहिणोद्दशमुखस्य पुराय देवः ॥ ७३ ॥
संपुप्लुवे जलनिधिं स जगाम लङ्कां
सीतामलोकत ददावथ चाङ्गुलीयम् ।
नत्वा बभञ्ज वनमक्षकमाजिहिंस
लङ्कां ददाह पुनरादित मूर्धरत्नम् ॥ ७४ ॥
आदाय मूर्घमणिमम्बुनिधिं स तीर्त्वा
रामाय वृत्तमखिलं कथयाम्बभूव ।
रामो ययौ कपिभिरुद्धतवायुवेगै-
स्तीर्त्वाम्बुधिं विहितसेतुपथेन लङ्काम् ॥ ७५ ॥
हत्वा दशाननमथो सबलं सवित्रं
सीतामवाप्य दनुजं विदधेऽधिराजम् ।
आदाय शुद्धचरितां जनकात्मजां तां
आरोप्य पुष्पकमनेन ययावयोध्याम् ॥ ७६ ॥
बह्वीस्समा वसुमतीमनुशिष्य सम्यक्
भुक्त्वा च भोगमखिलं 1भुवि देववत्सः |
आरोप्य 2राजधुरमात्मगतां तनूजे
स्वीयैस्समं निजपदं प्रतिपेदिवांस्त्वम् ॥ ७७ ॥
भूत्वा दाशरथिर्गतो मुनिवनं भङ्क्त्वा धनुर्जानकीं
3मेजे प्राप्तपदच्युतिर्वनगतरसख्यञ्च भानोस्सुते ।
हत्वा वालिनमम्बुधिं कपिगणैर्बध्वा जघान द्विषं
जानक्या सहितो भवान्पुनरगाद्रम्यामयोध्यां किल ॥ ७८ ॥
1अ. दिवि । 2अ. राज्य ।
3अ. लेभे ।भूयश्चानकदुन्दुभेर्नरहरे श्रीरोहिणीगर्भगो
1दुष्टाक्रान्तधरार्थिनों हलधरः श्रीरामसंज्ञोऽभवः ।
हालापानमदान्धकारितमनास्संरक्तनेत्रो युवा
कालिन्दीं विमला2म्भसं हलमुखेना3कर्ष मूचेजुषा ॥ ७९ ॥
तस्मादेव सुरार्थितस्सुरहितं कर्तुं विकारोज्झितो
देवक्यामजनिष्ट दुष्टनृपतिव्याजेन जातान्भुवि ।
दैत्यान्हन्तुमनाः पदाब्जशरणांस्त्रातुं दयालुब्धवान्
हत्वा कंसममोचयञ्च जनकं सर्वान्यदून्वर्धयन् ॥ ८० ॥
विप्रेषु दूरचरितेषु कलौ विवृद्धे
नष्टोत्तरे 4च निजवर्त्मनि धर्महानौ ।
कल्क्याख्यया द्विजवरस्य गृहे विशिष्टे
सर्वं पुनर्नवयितुं भवितासि देव ॥ ८१ ॥
देवावतारतनवः कथिता दशेह
कष्टं विनाश्य शुभया दृशया अवन्तु ।
पृथ्व्यादिभूतगणव5त्परितोषनिष्ठा-
स्ताभ्यो नमो जगदमूः परिपालयन्तु ॥ ८२ ॥
एवं विशिष्टनुतिभिर्नुहरौ प्रशान्ते
स्वं भावमेत्यं मुनिरेष बभूव शान्तः ।
स्वप्नानुभूतमिव शान्तमना 6स्तमेन-
मात्मानमात्मगुरवे प्रणतश्चकार ॥ ८३ ॥
चित्तानुवर्ती निजधर्मचारी
भूतानुकम्पी तनुवाग्विभूतिः ।
कश्चिद्विनेयोऽजनि देशिकस्य
यं तोठकाचार्यमुदाहरन्ति ॥ ८४ ॥
1अ. दैत्या । 2अ. हसन् ।
3अ. आकृष्ट आवीरुषा । 4अ. निगमवर्त्मनि ।
5का. परितोऽपि । 6अ. स्व ।स्नात्वा पुरा क्षिपति कम्बलवस्त्र1मुख्यै
रुच्चासनं मृदुशतैस्स ददाति नित्यम् ।
सन्तक्ष्य दन्तपरिशोधनकाष्ठमग्र्यं
2बाह्यावनिं गतवते सलिलादिकञ्च ॥ ८५ ॥
श्रीदेशिकाय गुरवे 3तनुमार्द्रवस्त्रं
विश्राणयत्यनुदिनं विनयोपपन्नः ।
श्रीपादपद्मयुगमर्दनकोविदश्च
छायेव देशिकमसौ भृशमन्विधाय ॥ ८६ ॥
गुरोस्समीपे न तु जातु जृम्भते
प्रसारयेन्नो चरणौ निषीदति ।
4नापेक्षते वा बहु वा न भाषते
न पृष्ठदर्शी पुरतोऽस्य तिष्ठति ॥ ८७ ॥
तिष्ठन्गुरौ तिष्ठति संप्रयाते
गच्छन् बुवाणे विनयेन शृण्वन् ।
5अनुच्यमानो विहितं विधत्ते
यञ्चाहितं तत्कुरुते न तस्य ॥ ८८ ॥
भगन्दरो नाम वमन्नजस्रं
रक्तं विरक्तानपि बाधमानः ।
संबाधते देशिकशङ्करं स्म
उपेक्षितो व्याधिरनल्पतापः ॥ ८९ ॥
1का. मुख्यमुच्चासनं मृदु शनैः । 2अ. बाह्यादिकं ।
3अ. तनुमार्जवस्त्रं । 4अ. नावेक्षते ।
5अ. अनुच्यमानोऽपि हिते ।तच्छोणिताक्तवसनं प्रतिघस्रमेष
कासारतीरगशिलातलपृष्ठभागे ।
नेनेक्ति भक्तिवशगो न जुगुप्सतेऽसौ
यावन्मलं तदपगच्छति तावदद्धा ॥ ९० ॥
किञ्चित्समाधाय पुरोक्तमंशुकं
निर्णेतुकामस्सरसीतटं प्रगे ।
प्रयाति संक्षाल्य विशुद्धबुद्धये
जिघ्रत्यभीक्ष्णं पुनरेव धावति ॥ ९१ ॥
एवं यतात्मा वसनं दिनेदिने
प्रक्षाल्य 1संवेष्ट्य ददाति भूयसे ।
शोकोऽपि किञ्चिन्मनसीति वर्तते
नाशक्नुवं किञ्चिइपीह वेदितुम् ॥ ९२ ॥
प्रक्षाल्यमानं वसनं यथात्मन-
श्शिरस्समाहन्ति शिलाञ्च कर्कशाम् ।
भक्त्या परं क्षालयतो महात्मनः
पद्यात्मना सा परिणाममीयुषी ॥ ९३ ॥
श्रीमद्गुरोः पादसरोजमूला-
त्तदा2श्रया तत्करुणावसाना ।
भक्तिर्लता तोटकवृत्तवृन्त-
हृद्यानि पद्यानि फलान्यवाप ॥ ९४ ॥
1अ. संशोध्य ; क-का. संशोष्य । 2अ. तदाश्रयात् ।
भक्त्युकर्षात्प्रादुरासन्यतोऽस्मा-
त्पद्यान्येवं तोटकाख्यानि सन्ति ।
तस्मादाहुस्ताठकाचार्यमेनं
लोके शिष्टाः शिष्ट1वर्यं मुनीन्द्रम् ॥ ९५ ॥
अद्यापि तत्प्रकरणं प्रथितं पृथिव्यां
तत्संज्ञया लघु महार्थमनल्पनीति ।
शिष्टैर्गृहीतमतिशिष्टपदानुविद्धं
वेदान्तवेद्यपरतत्त्वनिवेदनं यत् ॥ ९६ ॥
यत्रा2स्त्यसुराङ्गनाविवदनं चापस्य कोट्याह्वयं
तीर्थं वर्णितमुग्रभैरवजयः 3श्रीतोटकेड्येडनम् ।
श्रीमच्छङ्करदेशिकेन्द्रविजये व्यासाद्रिणा निर्मिते
सर्वोऽयं नवमो गतोऽत्र महितः सानन्दनो नन्दनः ॥ ९७ ॥
। इति श्रीशङ्करविजये व्यासाचलीये नवमत्सर्गः ।
1अ. वंश्यं । 2अ. श्रीतोटकस्येडनं ।