शङ्करविजयः/द्वादशस्सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

॥अथ द्वादशस्स्सर्ग्ः॥


श्रीगोकर्ण यातुकामः कदाचि
च्छ्रीवल्याख्य्ं ग्रामवर्ये जगाम ।
शिष्टैर्जुष्टं वेदविद्भिर्महद्भि
श्रीमान्पूज्यो देशिकेन्द्रोऽस्मदीयः ॥ १ ॥

यतोऽपमृत्युर्वेहिरेव याति
भ्रान्त्या 1 प्रदेशं शनकैरलब्ध्वा ।
दृष्टा द्विजातीन्निजकर्मनिष्ठान्
दूरान्निषध्यान् यजतोऽप्रमत्तान् ॥ २ ॥

यस्मिन्सहस्रचत्रितयं द्विजानां
अग्न्याहिनां श्रुतिपाठकानाम् ।
वसत्यजस्त्रं श्रुतिचोदितासु
क्रियासु दक्ष प्रथितानुभावम् ॥ ३ ॥

मध्ये वसन्यस्य करोति भूषां
पिनाकपाणिगिरिजासहाय: !
हारस्य यष्टस्तरला यथाऽभूत्
रात्रेरिवेन्दुर्गगनाविरूढः ॥ ४ ॥

अधीयमानेषु सलक्षणं द्विजै-
र्वेदेषु पुण्येघु पदक्रमादिभिः ।
समं विमानाधिगतश्चतुर्मुरवः
शृणोति यत्रावहितास्तिरोहितः ॥ ५ ॥ ।



^1 का. प्रवेकं
192
शङ्करविजये

अध्यपन्वेदचण्णान्निशम्य
 ग्रामन्तराध्वर्णिन एत्य यत्र ।
स्तंभिक्षमाणा भवनेषु भिक्षाम् ॥ ६ ॥

चन्द्रा1 तपान्भर्तुमलं न यत्र
दिवातपे वृक्षगणैरुपेते ।
न्निग्धप्रवालायितस्तवैशाखै
फलप्रसू2 नोपनतैर्जनोऽवम् ॥ ७ ॥

आसाद्य यं पान्थजनाः परिश्रमं
सुगन्धिमन्दामृतवाहिना मुहु
र्निषवितं गन्धवहेन सर्वदा ॥ ८ ॥

यत्रान्निहोत्राहुतिगन्धलोभात्
एतन्निषेवोऽरिवलपापारी
त्यव जना' कचन तज्जुषन्ते ॥ ९ ॥

तत्र द्विज श्रुतियुत श्रुतिवाकयवादी
श्रौतादिकर्मनिरतो निजदारतुष्टः ।
सन्तर्पयन्नतिथिपूगमनल्पचेता
आस्ते दयालुहृदयो मृदुवाक् सुशीलः ॥ १० ॥

गावो हिरण्यं धरणी समग्रा
सद्वान्धवा ज्ञातिजनाश्च तस्य ।
सन्त्येव किं तैर्न हि तेोष एमिः
पुत्रो यदस्याजानि मुग्धचष्टः ॥ ११ ॥


^1  अ. चन्द्रातपा मेत्तुं ; का. चन्द्रातपोद्वेद ।

^2  अ. नावनतैः ।
193
द्वादशस्सर्गः

न वक्ति किञ्चिन्न शृणोति किञ्चित्
ध्यायन्निवास्ते किल मन्दचेष्टः ।
रूपेण मारो महसा विवस्वान्
मुखेन चन्द्रः क्षमया महीसमः ॥ १२ ॥

ग्रहग्रहात्किं जडुवद्विचेष्टते
किं वा स्वभाव दुत पूर्वकर्मणः ।
सञ्चिन्तयंस्तिष्ठति तत्पितानिशं
1समाधिमान् प्रष्टुमना वहुश्रुतान् ॥ १३ ॥

शिष्यैः प्रशिष्यैर्वहु2पुण्यभारै-
स्समागतं कञ्चन पूज्यपादम् ।
शुश्राव तं ग्राममनिन्दितात्मा
निनाय सूनुं निकटं स तस्य ॥ १४ ॥

न शून्यहस्तो नृपभिष्टदेवं
गुरुञ्च यायादिति शास्त्रवित्स्व​यम् ।
सोपायनः प्राप गुरुं व्यशिश्रणत्
फलं ननामास्य च पादपङ्कजे ॥ १५ ॥

अनी3नमत्तञ्च तदीयपादयो-
र्जडाकृतिं भस्मनिगूढवह्निवत् ।
स नोदतिष्ठत्पतितः पदाम्बुजे
प्रायस्स4 जाड्यं प्रकटं विधित्सति ॥ १६ ॥

उपात्तहस्तश्शनकैरवाङ्मुखं
तं देशिकेन्द्रः कृपयोद​तिष्ठिपत् ।
उत्थापिते स्वे तनये पिताब्रवी-
द्व​द प्रभो जोड्यममुष्य किंकृतम् ॥ १७ ॥


1अ. समागतान् । 2अ. पुस्त ।

3का. अनीनयत् । 4अ. स्व ।
194
शङ्करविजये

वर्षाण्यतीयुर्भगवन्नमुष्य
पञ्चाष्ट जातस्य विनावबोधम् ।
नाध्यैष्ट वेदानलिख​च्च नार्णान्
1अकारयं चोपनयं कथंचित् ॥ १८ ॥

क्रीडापरः क्रोशति बालवत्स​2
स्तथापि न क्रीडितुमेष 3धावति ।
4बालं हठान्मुग्धामिमं निरीक्ष्य
सन्ताडयन्तोऽपि न रोषमेति ॥ १९ ॥

भुङ्क्ते कदाचिन्न च जातु भुङ्क्ते
स्वेच्छाविचारी न करोति चोक्तम् ।
तथापि रुष्टे न तु ताड्यतेऽयं
स्वकर्मणा वर्धित एव नित्यम् ॥ २० ॥

इतीर​यित्वोपरते च विप्रे
पप्रच्छ तं शङ्करदेशिकेन्द्रः ।
कस्त्वं किमेवं जडवत्प्रवृत्ति-
स्स चाब्रवीद्वालवपुर्महात्मा ॥ २१ ॥

नाहं जडः किन्तु जडः प्रवर्तते
मत्सन्निधाने न विसन्दिहे गुरो ।
षडूर्मिषड्भावबिकारवर्जितं
सुखैकतानं परमस्ति तत्पदम् ॥ २२ ॥

ममेव भूयादनुभूतिरेषा
मुमुक्षुवर्गस्य 5निरूप्य विद्वान् ।
पद्यैर्वरैर्द्वादशभिर्बभाषे
चिदात्मतत्त्वं विधुत 6प्रपञ्चः ॥ २३ ॥


1अ. अचीकरं । 2अ. वर्ग: ।

3अ. याति । 4अ. बालाश्शठा ।

5का. निरूपणीया । 6अ. प्रपञ्चम् ।
195
द्वादशस्सर्गः

प्रकाशयन्ते 1परमात्मतत्वं
करस्थधात्रीफलवद्यदेकम् ।
श्लोकास्तु हस्ताम​लकाः प्रसिद्धा-
स्तत्कर्तुराख्यापि तथैव वृत्ता ॥ २४ ॥

विनोपदेशं स्वत एव जातं
परात्मबोधं द्विजवर्यसूनो ।
व्यस्मेष्ट संप्रेक्ष्य स देशिकेन्द्रो
न्यधात्स्वहस्तं कृपयोत्तमाङ्गे ॥ २५ ॥

पुराभवाभ्यासवशेन सर्वं
स वेत्ति सम्यङ् न च वक्ति किञ्चित् ।
नो चेत्कथं स्वानुभवैकगमे-
पद्यानि भाषेत निरक्षरास्यः ॥ २६ ॥

सुते निवृत्ते वचनं बभाषे
स देशिकेन्द्रः पितरं तदीयम् ।
वस्तुं न योग्यो भवता सहायं
न तेऽमुनार्थो जडिमास्पदेन ॥ २७ ॥

न सक्तिरस्यास्ति गृहदिगोचरा
नात्मीयदेहे ममतास्य विद्यते ।
2तदार्थ्य​तेऽन्यत्र ममत्ववेदनं
यदा न सा स्वे किमु बाह्यवस्तुषु ॥ २८ ॥

इतीरयित्वा भगवान्द्विजात्मजं3
ययौ गृहीत्वा दिशमीप्सितां पुनः ।
विप्रोऽप्यनुव्रज्य ययौ स्वमन्दिरं
कियत्प्रदेशं स्थिरधीर्बहुश्रुतः ॥ २९ ॥


1अ. परमार्थ । 2अ. तादात्म्यतोऽन्यत्र (?) ।

3अ. द्विजन्मजं ।
196
शङ्करविजये

जम्बूद्वीपं शस्यतेऽस्यां पृथिव्यां
तत्राप्येतन्मण्डलं भारताख्यम् ।
काश्मीराख्यं मण्डलं तत्र शस्तं
यत्रास्ते सा शारदा वागधीशा ॥ ३० ॥

द्वारैर्युक्तं मण्डपैस्सञ्च​तुर्भि-
र्देव्या गेहं यत्र सर्व​ज्ञपीठम् ।
यत्रारोहस्सर्व1विद्वज्जनानां
नान्ये सर्वे यत्प्रवेष्टुं क्षमन्ते ॥ ३१ ॥

प्राच्याः प्राचीं पश्चिमाः पश्चिमान्तां
ते चोदीच्यास्तामुदीचीं प्रपन्नाः ।
सर्वज्ञास्तद्द्वारमुद्घाटयन्तो
दक्षा नोऽद्धा नो तदुद्घाठको वा ॥ ३२ ॥

वार्तामुपश्रुत्य स दाक्षिणात्यो
मानं तदीयं परिपातुमिच्छन् ।
काश्मीरदेशाय ज​गाम हृष्टः
श्रीशङ्करो द्वारमपावरीतुम् ॥ ३३ ॥

द्वारं पिनद्धं किल दाक्षिणात्या
न सन्ति विद्वांस इतीह दक्षाः ।
तो किंवदन्ती विफलां विधातुं
जगाम देवीनिलयाय हृष्यन् ॥ ३४ ॥

वादिव्रातगजेन्द्रदुर्मदधठादुर्गर्वसर्वङ्कष-
श्रीमच्छङ्करदेशिकेन्द्रमृगराडायाते सर्वार्थवित् ।
दूरं गच्छत वादिदुश्च2र​गजास्सन्यासदंष्ट्रायुधो
वेदान्तोपवनाश्रयस्तदपरं द्वैतं वनं भक्ष्यति ॥ ३५ ॥


1अ. वित्सज्जनानां । 2अ. दुःशठ ।
197
द्वादशस्सर्गः

संश्रावयन्नध्वनि देशिकेन्द्र
श्रीदक्षिणद्वारभुवं प्रपेदे ।
कवाटमुद्घाट्य निवेष्टुकामं
ससंभ्रमं वादिजनो न्यरौत्सीत् ॥ ३६ ॥

अथाब्रवीद्वादिगणस्स देशिकं
किमर्थमेवं बहुसंभ्रमक्रिया ।
यदत्र कार्यं तदुदीर्यतां शनै-
र्न​ संभ्रमं कर्तुमलं तदीप्सितम् ॥ ३७ ॥

यःकश्चिदेतीति परीक्ष्यते चेत्
वेदाखिलं 1नोऽविदितं ममाण्वपि ।
इत्थं भवान्वक्तिं समुन्नतेच्छया
दत्वा परीक्षां व्रज देवतालंयम् ॥ ३८ ॥

षड्भाववादी कणभुङ्मतश्रित्
पप्रच्छ तं स्वीयरहस्यमेकम् ।
संयोगभाजः परमाणुयुग्मात्
जातञ्च सूक्ष्मं द्व्य​णुकं मतं नः ॥ ३९ ॥

यस्मादणुत्वं तदपाश्रितं त-
ज्जायेत कस्माद्व​द सर्वविञ्चेत् ।
नो चेत्प्रभुत्वं तव वक्तुमेतत्
सर्वज्ञभाषा विहिता कथं ते ॥ ४० ॥

या द्वित्वसंख्या परमाणुनिष्ठा
सा कारणं तस्य गतस्य मात्रा ।
इतीरिते तद्वचनं प्रपूज्य
स्वयं 2ह्यवर्धिष्ट कणादलक्षी ॥ ४१ ॥


1अ. नाविदितं । 2का. न्यवर्तिष्ट ।
198
शङ्करविजये

1तत्रास नैयायिक आत्तगर्वः
कणादपक्षाञ्च​रणाक्षपक्षे ।
मुक्तेर्विशेषं वद सर्वविच्चेत्
नो चेत्प्रतिज्ञां त्यज सर्ववित्वे ॥ ४२ ॥

2आद्यन्तनाशे गुणसंहतर्या
स्थितिर्न​भोवत्कणभक्षपक्षे ।
मुक्तिस्तदीये चरणा...क्षे
सानन्दसंवित्साहि ... विमुक्तिः ॥ ४३ ॥

पदार्थभेदः स्फुट एव सिद्ध
स्तथेश्वरस्सर्वजगद्विधाता ।
स ईशवादीत्युदितेऽभिनन्द्य
नैयायिकोऽपि न्यवृतद्विरोधात् ॥ ४४ ॥

तं कापिलः स्माह च मूलयोनिः
किं वा स्वतन्त्रा चिदधिष्ठिता वा ।
जगन्निदानं वद सर्ववित्त्वा-
न्नो चेद्विशेषस्तव दुर्लभः स्यात् ॥ ४५ ॥

सा विश्वयोनिर्बहुरूपभागिनी
स्वयं स्वतन्त्रा त्रिगुणात्मिका सती ।
इत्येव सिद्धान्तगतिस्तु कापिली
वेदान्तपक्षे परतन्त्रता मता ॥ ४६ ॥

3ततो भदन्तो न्यरुणत्स...र्वो
दत्वा परीक्षां व्रज धाम देव्याः ।
बौद्धास्तथा संप्रथिताः पृथिव्यां
बाह्यार्थविज्ञानकशून्यवादैः ॥ ४७ ॥


1अ. तटापि । 2अ. अत्यन्त ।

3अ. तथागतोऽथ ।
199
द्वादशस्सर्गः

बाह्यार्थवादो द्विविधस्तदन्तरं
वाच्यं विवक्षुर्यदि देवतालयम् ।
विज्ञानवादस्य च किं विभेदकं
भवन्मतं ब्रूहि ततः परं व्रज​ ॥ ४८ ॥

सौन्त्रान्तिको वक्ति हि वेद्यजातं
लिङ्गाधिगम्यं त्वितरोऽक्षगम्य​म् ।
तयोस्तयोर्भङ्गुरता विशिष्टा
भेदः किया.. वेदनिवेद्यभागी ॥ ४९ ॥

विज्ञानवादी क्षणिकत्वमेषा-
मङ्गीचकारापि बहुत्वमेषः ।
वेदान्तवादी स्थिरसंविदेके-
त्यङ्गीचकारेति महान्विशेषः ॥ ५० ॥

अथाब्रवीद्दिग्वसनानुसारी
रहस्यमेकं वद सर्वविच्चेत् ।
यदस्तिकायोत्तरशब्दवाच्यं
तत्किं भतेऽस्मिन्वद देशिकाशु ॥ ५१ ॥

तत्राह देशिकवरः शृणु रोचते चेत्
जीवादिपञ्चकमभीष्टमुदाहरन्ति ।
तच्छब्दवाच्यमिति जैनमते प्रशस्ते
यद्यस्ति 1वोढुमपरं कथयाशु तन्मे ॥ ५२ ॥

दत्तोत्तरे वादिगणे तु बाह्मे
बभाण कश्चित्किल जमिनीयः ।
शब्दः किमात्मा वद जैमिनीये
द्रव्यं गुणो वेति ततो व्रज त्वम् ॥ ५३ ॥


1अ. बोद्धुं ।
200
शङ्करविजये

नित्या वर्णास्स1र्वगाः श्रोत्रवेद्या
यत्तद्रूपं शब्दजालञ्च नित्यम् ।
द्रव्यं व्यापीत्य​ब्रुवज्जैमिनीयाः
इत्येवं तं प्रोचिवान् देशिकेन्द्रः ॥ ५४ ॥

शास्त्रेषु सर्वेष्वपि दत्तवन्तं
प्रत्युत्तरं तं समपूजयंस्ते ।
द्वारं समुद्घाट्य ददुश्च​ मार्गे
ततो विवेशान्तरभूमिभागम् ॥ ५५ ॥

अथारुरुक्षौ मुनिपुङ्गवेऽस्मिन्
सर्वज्ञपीठं बहुवेदि2सेव्यम् ।
मास्मिन् प्रविक्षो मुनिपुङ्गव त्वं
विद्यासु सर्वासु परीक्षणीयः ॥ ५६ ॥

प्रादुर्बभूवेत्थमनङ्ग3सङ्ग्रहा
प्रसन्नगम्भीरपदा सरस्वती ।
शृण्वत्सु सर्वेषु सविस्म​यं तदा
महीध्रदर्या इव देवतामुखात् ॥ ५७ ॥

श्रुत्वा गिरं पार्श्वनिवासिनो जनाः
तमाहुराचार्यममत्सरग्रहाः ।
न मानुषी वागियमक्षरात्मिका
विनिर्गता केवलमम्बिकामुखात् ॥ ५८ ॥

त्वाञ्चान्तरा यवनिकां परमेश्वरीञ्च​
कांचिन्निधेहि भगवंस्तदनुक्रमेण ।
अग्र्यां गिरं प्रविहितां वितरेः परीक्षितां
सर्वज्ञपीठमनुसङ्गय जोषमास्स्व ॥ ५९ ॥


1अ. सर्वशः । 2अ. देवि ।

3अ. सुग्रहा ।
201
द्वादशस्सर्गः

आभाषते यव​निकां 1दृढमाबबन्धु-
र्मध्ये तयोर्भगवती मुनिदेशिकेशम् ।
पप्रच्छ तं भगवती निखिलाश्च विद्याः
तस्योत्तरं क्रमत आह मुनीन्द्रवर्यः ॥ ६० ॥

विद्याश्चतुष्षष्टिरिति प्रकाशाः
परीक्ष्यमाणासु च तासु तत्क्रमात् ।
वात्स्यायनप्रोक्तमसौ न वेत्ती-
त्यालोच्य तत्प्रश्नमथाकरोत्सा ॥ ६१ ॥

कलाः कियत्यो वद पुष्पधन्वनः
किमासिका किञ्च पदं समाश्रिताः ।
पूर्वे च पक्षे कथमन्यथा स्थितिः
कथं युवत्यां कथमेव पूरुषे ॥ ६२ ॥

नेतीरितः किञ्चिदुवाच शङ्करः
विचिन्तयन्नास्त चिरं विचक्षणः ।
तासामनुक्तौ भविताल्पवेदिता
भवेत्तदुक्तौ मम धर्मसंक्षयः ॥ ६३ ॥

आलोच्य किञ्चिन्मनसा निदध्यौ
मृतं युवानं निकटे महीपम् ।
देवीं ययाचे स दिनानि सप्त
देह्यम्ब पश्चाद्व​दितास्मि सर्वम् ॥ ६४ ॥

कृत्वा समाधिं तरुकोटरे स्वां
तनुं न्यधात्कञ्चन रक्षणाय ।
त्यक्त्वा तदा योगबलेन जीवं
लात्वा महीपस्य विवेश देहम् ॥ ६५ ॥


1अ. निबिडां वबन्धुः ।
202
शङ्करविजये

अङ्गुष्ठमारभ्य समीरणं नयन्
करन्ध्रमार्गाद्बहिरेत्य योगवित् ।
करन्ध्रमार्गेण शनैः प्रविष्टवान्
मृतस्य यावच्चरणाग्रमेकधीः ॥ ६६ ॥

गात्रं परासोर्वसुधाधिपस्य
शनैस्समस्पन्दत हृत्प्रदशे ।
तथोदमीलन्नयनं क्रमेण
तथोदतिष्ठच्च यथापुरेदम् ॥ ६७ ॥

पौरा अमात्यास्तन​याः स्वबान्धवाः
दृष्ट्वा महिष्यस्सहसोत्थितं मृतम् ।
जहुश्शुचं मोद​मवापुरुत्तमं
मृते समायाति न कस्य जायते ॥ ६८ ॥

पूजां व्यधुः केचन दैवतानां
केचिद्ददुर्गामपरे हिरण्यम् ।
कृते महीपस्य तदाथ हृष्टाः
सोपायनाः केचिदुपासताग्रे ॥ ६९ ॥

पुरेव भोगान्बुभुजे महीभृत्
स भोगिनीभिस्सहितो व्यरंस्त ।
कन्दर्पशास्त्रानुगतः प्रवीणो
वात्स्यायनं तच्च निरैक्षताद्धा ॥ ७० ॥

वात्स्यायनप्रोदितसूत्रजातं
तदीयभाष्यञ्च 1निवीक्ष्य सर्वम् ।
स्वयं व्यधत्ताभिनवार्थगर्भ-
निबन्धमेकं नृपवेषधारी ॥ ७१ ॥


1अ. निरीक्ष्य सम्यक् ।
203
द्वादशस्सर्गः

वात्स्यायनीयमधिगत्य रहस्यमर्थं
त्यक्त्वा तनुं नरपतेः स्वकमाविवेश ।
गात्रं पुरोदितनयेन स देशिकेन्द्रः
संज्ञामवाप च पुरेव समुत्थिताेऽभूत् ॥ ७२ ॥

योऽपालयत्परशरीरनिवेशकाले
गात्रं स्वकीयतनुवद्दिनसप्तकं तत् ।
जाग्रद्दिवानिशमतन्द्रित एव भक्त्या
तं सच्चकार व​सनाशनभोगजातैः ॥ ७३ ॥

राजा जनानां हितकारिचेष्टो
जगाम कालं पुनरामयेन ।
पुरेव वार्तेति ससार लोके
शुशोच तीव्रं महिषीगणोऽस्य ॥ ७४ ॥

अभिषिषेचुरथात्मजमीश्वरं
प्रकृतयः पुनरेत्य विचक्षणाः ।
तमधिग​म्य जनो मुमुदे भृशं
से ववृधे मतिमान् जितशात्रयः ॥ ७५ ॥

घस्त्रेऽष्टमे 1जवानिकां विनिबध्य दातुं
प्रश्नोत्तर स भगवान्निषसाद चाग्रे ।
देव्यास्समस्तजनसंसदि निर्विशङ्कं
प्रारब्धवेदितुमनाः प्रतिवाचनीशाः ॥ ७६ ॥

संख्यां कलानां मकरध्वजस्य
स्वरूपभेदं वपुष स्थितानाम् ।
स्त्रीपुंसयोः स्थानविभागमाख्य-
द्देशं स शुक्लेतरपक्षयोश्च ॥ ७७ ॥


1अ.यवनिकां ।
204
शङ्करविजये

निवेदिते कामकलारहस्ये
विद्यासु सर्वासु समीक्षितासु ।
सर्वज्ञपीठं निविविक्षमाणे
तस्मिन्नभाषिष्ट च वागधींशा ॥ ७८ ॥

शुद्धाः कुलीना विदिताखिलार्थाः
पीठं समारोढुमिदं प्रशस्तम् ।
योग्या न योग्या इतरेऽप्रशस्ता
स्तिष्ठ क्षणं त्वं कुरु साहसं मा ॥ ७९ ॥

त्वञ्चाङ्गनास्समुपभुज्य कलारहस्य-
प्रावीण्यभाजनमुमूभूर्यतिधर्मनिष्ठः ।
आरोढुमीदृशपदं कथमर्हसि त्वं
सर्वज्ञतेव​ विमलत्वमपीह हेतुः ॥ ८० ॥

नास्मिन् शरीरे कृतकिल्बिषोऽहं
जन्म प्रभृत्यम्ब न संशयोऽत्र ।
व्यधायि देहान्तरसंश्रयाद्य
न्न तेन लिप्येत हि कर्मणान्यत् ॥ ८१ ॥

एवं निरुत्तरपदां स विधाय देवीं
सर्वज्ञपीठमधिरुह्य ननन्द सभ्यः ।
मात्रा गिरामपि तथा पुरुषैश्च सभ्यै-
स्संभावितो रुचितदेशमयं जगाम ॥ ८२ ॥

एकश्शाखी शङ्कराख्यश्चतुर्धा
स्थानं भेजे पापशान्त्यै जनानाम् ।
शिष्यैः स्कन्धैश्शिष्य​शाखैर्महद्भि-
र्ज्ञानं पुष्पं यत्र मोक्षप्रसृतिः ॥ ८३ ॥

205
द्वादशस्सर्गः

सङ्काेचयन्वादिमुखाम्बुजानि
विकासयन्केव​लमात्मपक्षम् ।
आनन्दयन् संसृतिमार्गतान्तान्
श्रीशङ्करेन्दुर्जयनति प्रकामम् ॥ ८४ ॥

शुक्ले च कृष्णे च समानतेजाः
पक्षे वहिश्चान्तर​मन्धकारम् ।
अपानुदन् शङ्करदेशिकेन्द्रो
जयत्यपूर्वं क्षितिमार्गचारी ॥ ८५ ॥

गोबृन्दैर​भिभासयन्नभिमतानर्थान्विाशष्टार्थदान्
व्याेमव्यापिपदे स्थितो निरवधावुत्थाय गोत्रोत्तमान् ।
सङ्गृह्णन्वसुधातले विपुलभास्सारं सुसंपूजितः
श्रीमच्छङ्करभास्करो विजयते मुष्णन् जनानां तमः ॥ ८६ ॥

श्रीमच्छङ्करदेशिकेन्द्रचरणद्वन्द्वाम्बुजन्मान्वयि-
श्रद्धाभक्तिव​शेन केवलमियं तद्गोचरा सत्कथा ।
न ख्यात्यै न च पूजनाय कथिता नो भूमिवित्ताप्तये
वाचं मे पवितुं तदीयचरिताम्भोभिस्सदा तद्व​दाम् ॥ ८७ ॥

यत्रोच्यते वादिगुणानुयोग-
व्याजेन सिद्धान्तरहस्यमद्धा ।
स द्वादशोऽगाद्विज​येऽत्र सर्गः
श्रीशाङ्करे व्यासगिरिप्रणीते ॥ ८८ ॥

॥ इति श्रीशङ्करविजये व्यासाचलीये द्वादशस्सर्गः ॥

समाप्तोऽयं ग्रन्थः ।