वैशेषिकसूत्रोपस्कारः/षष्ठोऽध्यायः

विकिस्रोतः तः
← पञ्चमोऽध्यायः वैशेषिकसूत्रोपस्कारः
षष्ठोऽध्यायः
[[लेखकः :|]]
सप्तमोऽध्यायः →

षष्ठाध्याये प्रथमाह्निकम्[सम्पाद्यताम्]

<6-1-1>
संसारमूलकारणयोर्धर्माधर्मयोः परीक्षा षष्ठ्याध्यायार्थः। धर्माधर्मौ च "स्वर्गकामो यजेत" `न कलञ्जं भक्षयेत्' इत्यादिविधिनिषेधबलकल्पनीयौ विधिनिषेधवाक्ययोः प्रामाण्ये सति स्याताम्। तत्प्रामाण्यञ्च वक्तुर्यथार्थवाक्यार्थज्ञानलक्षणगुणपूर्वकत्वादुपपद्यते स्वतः प्रामाण्यस्य निषेधादतः प्रथमं वेदप्रामाण्यप्रयोजकगुणसाधनमुपक्रमते--
बुद्धिपूर्वा वाक्यकृतिर्वेदे ।। 1 ।।
वाक्यकृतिर्वाक्यरचना सा बुद्धिपूर्वा-वक्तृयथार्थवाक्यार्थज्ञानपूर्वा वाक्यरचनात्वात् नदीतीरे पञ्चफलानि सन्तीत्यस्मदादिवाक्यरचनावत्। वेद इतिवाक्यसमुदाय इत्यर्थः। तत्र समुदायिनां वाक्यानां कृतिः पक्षः। न चास्मदादिबुद्धिपूर्वकत्वेनान्यथासिद्धिः, "स्वर्गकामो यजेत" इत्यादाविष्टसाधनतायाः कार्य्यताया वा अस्मदादिबुद्ध्योचरत्वात्। तेन स्वतन्त्रपुरुषपूर्वकत्वं वेदे सिद्ध्यति। वेदत्वञ्चशब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वम् ।। 1 ।।
</6-1-1>

<6-1-2>
प्रकारान्तरेण वेदवाक्यानां बुद्धिपूर्वकत्वमाह--
ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम् ।। 2 ।।
ब्राह्मणमिह वेदभागस्तत्र यत्‌ संज्ञाकर्म नामकरणं तत् व्युत्पादकस्य बुद्धिमाक्षिपति, यथा लोके लम्बकर्ण-दीर्घनास-लम्बग्रीवादिनामकरणम् ।। 2 ।।
</6-1-2>

<6-1-3>
प्रकारान्तरमाह--
बुद्धिपूर्वो ददातिः ।। 3 ।।
"स्वर्गकामो गां दद्यात्" इत्यादौ यद्दानप्रतिपादनं तद्दानेष्टसाधनताज्ञानजन्यम्। ददातिरिति धातनिर्द्देशो धात्वर्थं दानमुपलक्षयति ।। 3 ।।
</6-1-3>

<6-1-4>
प्रमाणान्तरमाह--
तथा प्रतिग्रहः ।। 4 ।।
प्रतिग्रहप्रतिपादिका अपि श्रुतयो बुद्धिपूर्विकाः। प्रतिग्रहपदं स्वविषयां श्रुतिमुपलक्षयति। तेन भूम्यादिप्रतिग्रहप्रतिपादिकाः श्रुतयः प्रतिग्रहीतुः श्रेयःसाधनतापराः। कृष्णसारचर्मादिप्रतिग्रहप्रतिपादिकाः श्रुतयः प्रतिग्रहीतुरनिष्टसाधनताबोधिकाः। न चेष्टानिष्टसाधनते अर्वाचीनपुरुषबुद्धिगोचरौ भवितुमर्हतः ।। 4 ।।
</6-1-4>

<6-1-5>
इदानीं "शास्त्रदेशितं फलभनुष्ठातरि" इति जैमिनीयं सूत्रं संवादयन्नाह--
आत्मान्तरगुणानामात्गान्तरेऽकारणत्वात् ।। 5 ।।
आत्मन्तरगुणानां यागहिंसादिपुण्यपापानाम् आत्मान्तरे यौ सुखदुःखात्मकौ गुणौ तयोरकारणत्वात्। एवञ्च प्रत्यात्मनिष्ठाभ्यामेव धर्माधर्माभ्यां सुःखदुखे न व्यधिकरणाम्यामन्यथा येन यागहिंसादिकं न कृतं तस्य तत् फलं स्यादिति कृतहानिरकृताभ्यागमश्च प्रसज्यते।
ननु नायं नियमः पुत्रेष्टिपितृयज्ञादौ व्यभिचारात्। तथाहि पुत्रेण कृतस्य श्राद्धादेः पितरि फलश्रवणात्, पित्रा च कृतायाः पुत्रेष्टेः पुत्रे फलश्रवणात्। न च स्वर्गभागिपितृकत्वस्य तेजस्विपुत्रकत्वस्य च फलस्य पुत्रपितृगामितया सामानाधिकरण्यमेवेति वाच्यम्, श्रुतिविरोधात् पितृतृप्त्यादेः पुत्रतेजस्वितादेरेव फलस्य श्रवणात् फलान्तरस्य च गौरवपराहतत्वात्। अस्तु तर्ह्यपूर्वं फलं कर्त्तरि स्वर्गस्तु पितरीति चेन्न, व्यापारस्य फलसामानाधिकरण्यनियमात्, अन्यथा श्राद्धानन्तरं मुक्ते पुत्रे पितुः स्वर्गो न स्यात्। न स्यादिति चेन्न मुक्ते पितरि साङ्गादपि श्राद्धात् फलं न स्यादिति तुल्यत्वात्। मैवम्। `शास्त्रदेशित फलमनुष्ठातरि' इत्यस्योत्सर्गत्वात् क्वचिद् बलवता वाधकेनापोद्यत्वात्, प्रकृते च पितृपुत्रगतफलश्रवणस्यैव बाधकत्वात्। तथा सत्यतिप्रसह्ग इति चेन्न तादृशश्रुतेरेवातिप्रसङ्गनिवारकत्वात्।
यत्तु महादानादौ स्वर्गमात्रमेव फलं तच्च यदुद्देशेन क्रियते तद्गतमपि फलं जनयतीति।
तत्तुच्छम्, तत्रोत्सर्गे बाधकाभावात् बाधकाभावसहितोत्सर्गस्यनियमत्वात्, राजादीनामुपवासाद्यनुष्ठानानापत्तेः परिद्वारैत्र तत्तत्कर्मणां स्वगतफलमुद्दिश्यानुष्ठानसम्भवात्। सम्यग्गृहस्थाश्रमपरिपालनाय ब्रह्मलोकावाप्तिकपे च फले नियम एव प्रातिस्विकफलाभिप्रायेण तूत्सर्गाबिधानात्।
३बृत्तिकारास्तु `शास्त्रदेशितम्' इत्यादिर्नियम एव। पित्रादीनान्तु यत् फलं तच्छ्राद्धादौ ब्राह्मणानामाशीर्मन्त्रानुभावात्, `कृतार्थास्ते पितरो भूयासुः' इति पितृयज्ञे। पुत्रेष्टौ तु सन्तुष्टानामृत्विजामाशीर्दानात्-`तेजस्वी वर्चस्व्यन्नादस्ते पुत्रो भूयात्' इत्यादेः,--जाह्गलिकमन्त्रपाठादिव सर्पदष्टस्य विषापहारणमित्याहुः ।। 5 ।।
</6-1-5>

<6-1-6>
अदुष्टानां यथाशास्त्रमनुवर्तमानानां भोजनात् तृप्तानामाशीर्दानात् तत् फलं न तु दुष्टानां पात्रत्वेन निषिद्धानामपि कुण्डगोलकप्रभृतीनामित्याह--
तद्‌दुष्टभोजने न विद्यते ।। 6 ।
तदित्याशीर्दानफलं परामृशति, दुष्टा ब्राह्मणाः पात्रानधिकारिणोयत्र श्राद्धे भोज्यन्ते तत्र पितरि तत् फलं न विद्यते न भवतीत्यर्थः। श्राद्धफलमेव वा न भवति पितरीत्यर्थः ।। 6 ।।
</6-1-6>

<6-1-7>
के ते दुष्टा इति दुष्टलक्षणमाह--
दुष्टं हिंसायाम् ।। 7 ।।
हिंसायामिति निषिद्धकर्ममात्रोपलक्षणम्। तेन निषिद्धे कर्मणि प्रवृत्तं पुरुषं दुष्टं विजानीयादित्यर्थः ।। 7 ।।
</6-1-7>

<6-1-8>
न केवलं दुष्टब्राह्मणस्य श्राद्धे निमन्त्रितस्य भोजनेन फलाभावः किन्तु पापमपि भवतीत्याह--
तस्य समभिव्याहारतो दोषः ।। 8 ।।
तस्य निषिद्धे कर्मणि प्रवृत्तस्य ब्राह्मणस्य समभिव्याहारात् एकपङ्‌क्तिभोजनसहशयनसहाध्ययानादिलक्षणात् दोषः पापमित्यर्थः ।। 8 ।।
</6-1-8>

<6-1-9>
तत् किमदुष्टसमभिव्याहारादपि दोष एव? नेत्याह--
तददुष्टे न विद्यते ।। 9 ।।
तत् पापमदुष्टे यथाशास्त्रं व्यवहरमाणे ब्राह्मणे श्राद्धे भोजिते न विद्यते न भवतीत्यर्थः ।। 9 ।।
</6-1-9>

<6-1-10>
ननु सत्पात्राप्रतिलम्भो यत्र श्राद्धदानादौ प्रथमं दुष्टा एव निमन्त्रिताः क्रमेण तु सत्पात्रप्रतिलम्भे किं विधेयभित्यत्राह--
पुनर्विशिष्टे प्रवृत्तिः ।। 10 ।।
श्राद्धे प्रतिग्रहे वा विशिष्टा यथाशास्त्रमनुवर्तमाना यदि लम्यन्ते तदा निमन्त्रितानपि निन्द्यान् परिहृत्य तानेव भोजयेत्। `न निमन्त्रितान्‌प्रत्याचक्षीत' इति तु सत्पात्रपरम्। निन्द्यांस्तु निमन्त्रितान् द्रविणदानादिना सन्तोषयेत् ।। 10 ।।
</6-1-10>

<6-1-11>
यत्र स्वापेक्षया विशिष्टा न लभ्यन्ते श्राद्धदानादौ तत्राह--
समे हीने वा प्रवृत्तिः ।। 11 ।।
समे स्वसदृशे, हीने स्वापेक्षया गुणादिना न्यूने, अदुष्टे पात्रे श्राद्धदानादौ प्रवृत्तिस्तेषामेवाशीर्दानात् पितरि सुखमित्यर्थः। निषिद्धानां परं त्यागो न त्वदुष्टानां समहीनानामपीति भावः ।। 11 ।।
</6-1-11>

<6-1-12>
श्राद्धे दानादौ च सम्प्रदानसाद्गुण्येन धर्मोत्पत्तिमभिधाय तादृशादपादानादपि धर्मोत्पत्तिमतिदिशति--
एतेन हीनसमविशिष्टधार्मिकेभ्यः परस्वादानं व्याख्यातम् ।। 12 ।।
यथोत्तरं धर्मोत्कर्षः, हीनग्दपि भूम्यादिप्रतिग्रहे, समादपि, स्वापेक्षया विशिष्टादपि धार्मिकात् धर्म इत्यर्थः। परस्वादानं परस्मात् स्वस्य धनस्यादानं प्रतिग्रहः।
वृत्तिकारास्तु परस्वादानं चौर्यादिना परस्वग्रहणं व्याख्यातम्। तथाच श्रुतिः-`शूद्रात् सप्तमे वैश्याद्दशमे क्षत्रियात् पञ्चदशे ब्राह्मणात् प्राणसंशये'इति। क्षुधापीडितमात्मानं कुटुम्बं पा रक्षितुं सप्त दिनान्याहारमप्राप्य शूद्रभक्ष्यापहारः कार्यः, एवं दशदिनान्याहारमप्राप्य वैश्यात्, पञ्चदश दिनान्याहारमप्राप्य क्षत्रियात्, प्राणसंशये ब्राह्मणात् भक्ष्यापहरणं न दोषायेत्याहुः ।। 12 ।।
</6-1-12>

<6-1-13>
न केवलं प्राणसंशये परस्वादानं न निषिद्धं किन्तु तस्यां दशायामपहर्तुं ये न प्रयच्छन्ति तेषां वधोऽपि कार्यो न तावता धर्महानिरधर्मप्रादुर्भावो वेत्याह--
तथा विरुद्धानां त्यागः ।। 13 ।।
तस्यां दशायां विरुद्धानां विपरीतमाचरतां त्यागो वधः कार्यं इत्यर्थः। तदुक्तम्--
कर्मणा येन केनापि मृदुना दारुणेन वा।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ।। इति 13।।
</6-1-13>

<6-1-14>
ननु चाविशेषेणैव परस्य वधः, नेत्याह--
हीने परे त्यागः ।। 14 ।।
यदि स्वस्माद्धीनः परो भवति योऽपहर्तु न ददाति तस्य शूद्रादेस्त्यागो वधः ।। 14 ।।
</6-1-14>

<6-1-15>
सममधिकृत्याह--
समे आत्मत्यागः परत्यागो वा ।। 15 ।।
यदि स्वसदृशो ब्राह्मण एव विरोधी भवति तदात्मन एवोपवासादिना त्यागोऽवसादः कर्तव्यः। यदि स्वस्य कुटुम्बस्य वा रक्षाप्रकारो न दृश्यते विरोधश्च समो भवति तदा तस्यैव त्यागो वध इत्यर्थः ।। 15 ।।
</6-1-15>

<6-1-16>
तत् किं स्वापेक्षया यदि विशिष्टो भवति विरोधी तदा तस्यापि वध एव कार्यः! नेत्याह--
विशिष्टे आत्मत्याग इति ।। 16 ।।
स्वापेक्षया विशिष्टे वेदाध्ययनादिना उत्कृष्टे विरोधिनि आत्मन एव त्यागो विधेयः। प्राणसंशये सत्यप्यात्ममरणमेवाभिप्रेयात् न तु ब्राह्मणं हन्यादित्यर्थः। इति राह्निकपरिसमाप्तौ ।। 16 ।।
</6-1-16>
इति श्रीशाङ्करे व्यैशेषिकसूत्रोपस्कारे षष्ठाध्यायस्य
प्रथममाह्निकम्।

षष्ठाध्याये द्वितीयाह्निकम्[सम्पाद्यताम्]

<5-2-1>
एवं पूर्वाह्निके वैदिकी प्रमा गुणजन्येति तदुत्पत्तौ गुणाभिधानम्, `शासत्रदेशितं फलमनुष्ठातरि' इति विवेचनम्, निषिद्धाचरणेऽपि प्रत्यवायानुत्पत्तिः कस्याञ्चिद्दशायामित्यस्य विवेचनञ्च वृत्तम्। अधुना `यतोऽभ्युदयनिःश्रेयससिद्धिः' इति द्वितीयं सूत्रं व्याचिख्यासुर्विशेषतो धर्मात्पत्तिपरीक्षायां वर्त्तिष्यमाणायामाह--
दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय ।। 1 ।।
दृष्टप्रयोजनानि कृषिवाणिज्यराजसेवादीनि, अदृष्टप्रयोजनानि यागदानब्रह्मचर्यादीनि, एतेषां कर्मणां मध्ये यत्र दृष्टं प्रयोजनं नोपलभ्यते तत्रादृष्टं प्रयोजन ंकल्पनीयं, तच्चाभ्युदयाय तत्त्वज्ञानाय। यद्वा अभ्यदयायेति चतुर्थी प्रथमार्थे तेन फलमभ्युदय इत्यर्थः। अदृष्टं फलमपूर्वमेव तद् यदि योगजं तदाऽभ्युदय आत्मसाक्षात्कारः। यदि च यागदानादिजं तदाऽभ्युदयः स्वर्गः। तत्रापि यथा दोग्धि पचतीत्यादिक्रिया सद्यःफलिका, वपति कर्षतीत्यादिक्रिया च विलम्बभाविफला तथा यजति ददाति ब्रह्मचर्यं चरतीत्यादिक्रिया तावत् सद्यःफलिका न भवति तादृशस्य फलस्यानुपलब्धेः। न च धार्मिकतया ज्ञानाञ्जाभादिकमेव फलम्, प्रच्छन्न ब्रह्मचर्यादि चरतां तत्‌फलानुद्देशात् तस्माच्चिरभाविस्वर्गादिकमेव फलं तच्चाशुतरविनाशिन्याः क्रियाया न साक्षादित्यान्तरालिकं क्रियाफवयोः समानाधिकरणमपूर्व पर्यवस्यति ।। 1 ।।
</5-2-1>

<5-2-2>
अदृष्टफलानि कर्माणि परिसञ्चष्टे--
अभिषेचनो-पवास-ब्रह्मचर्य-गुरुकुलवास-वानप्रस्थ-यज्ञ-दान-प्रोक्षण-दिङ्-नक्षत्र-मन्तर्-काल-नियमाश्चादृष्टाय ।। 2 ।।
अदृष्टायेत्यदृष्टलक्षणाय फलाय, अदृष्टद्वारा स्वर्गापवर्गलक्षणाय फलाय वा। एतेनादृष्टफलकश्रौतस्मात्तसकलकर्मोपसंग्रहः। तत्राभिषेचनं स्नानं `गङ्गायां स्नायात्' इत्यादिविधिविधेयः ब्रह्मचर्यः सामान्यत एव धर्मसाधनम्। गुरुकलवासो ब्रह्मचारिणां वेदाध्ययनमहानाम्न्यादिव्रतार्थः। वानप्रस्थं वयः परिणामे वनं प्रस्थितानां यत् कर्म। यज्ञो `राजसूयवाजपेयादिः'। दानं `गां दद्यात्' इत्यादिविधिविधेयम्। प्रोक्षणं-`व्रीहीन् प्रोक्षति' इत्यादिविधिविधेयम्। दिक् `प्राचोनप्लवने यजेत' `प्राङ्मुखोऽन्नानि भुञ्जीत' इत्यादिविधिविधेया। नक्षत्रं श्राद्धादौ मघादि। मन्त्र-आपोहिष्ठेत्यादिः। कालः--`मासि मासि वोऽशनम्' `अमावास्यायामपराह्णे दद्यात्' `ग्रीष्मे पञ्चतपाः' `वसन्तेऽग्नीनादधीत' इत्यादिविधिविधेयः। नियमोः वर्णाश्रमिणां यथाशास्त्रमनुष्ठानम्। तदेवं धर्मस्य आत्मा समवायिकारणम्, श्रद्धा स्वर्गादिलक्षणप्रयोजनज्ञानञ्च निमित्तकारणमनुसन्धेयम् ।। 2 ।।
</5-2-2>

<5-2-3>
एवं धर्मसाधनमभिधाय अधर्मसाधनमपि समुच्चिन्वन्नाह--
चातुराश्रम्यमुपधा अनुपधाश्च
चतुर्णामाश्रमाणां समानं यद्धर्मसाधनं तत्तावत् पूर्वसूत्रेणैवोक्तमिति शेषः। उपधाः भावस्य श्रद्धाया दोषाः, अनुपधाः श्रद्धाया भावस्यादोषाः तेऽपि धर्माधर्मयोः साधनानि यथास्वमूहनीयानि। उपधापदेनाधर्मसाधनानि सर्वाण्युपसंगृहीतानि ।। 3 ।।
</5-2-3>

<5-2-4>
उपादानुपधे लक्षणतो विवेचयन्नाह--
भावदोष उपधाऽदोषोऽनुपधा ।। 4 ।।
भावः--इच्छा--रागः प्रमादोऽश्रद्धामदमानासूयाप्रभृतयो भावदोषा उपधापदेनोच्यन्ते, श्रद्धा मनःप्रसादो देशितकर्मानुष्ठानाध्यवसाय इतिकर्तव्यतापरिच्छेदश्चानुपधा। तदेतयोर्धर्माधर्मनिमित्तकारणत्वमुक्तम् ।। 4 ।।
</5-2-4>

<5-2-5>
शुच्यशुचिनी चोपधानुपधे। तत्र शुच्यशुचिनी विवेचयति--
यदिष्टरूपरसगन्धस्पर्शं प्रोक्षितमभ्युक्षितञ्च तच्छुचि ।। 5 ।।
इष्टं श्रुत्या स्मृत्या च यद्रूपादिकं विहितं यस्य द्रव्यस्य तत्तथा। तत्र रूपम्-`अरुणया एकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणाति' `श्वेतं छागलमालभेत' इत्यादौ। प्रोक्षितं मन्त्रेणोदकसिक्तम्। अभ्युक्षितं विना मन्त्रमुदकसिक्तम्। चकारान्त्यायतो लब्धम् तच्च `याजनाध्यापनप्रतिग्रहैर्ब्राह्मणो घनमर्जयेत्' इत्यादिनियमविधिबोधितम् ।। 5 ।।
</5-2-5>

<5-2-6>
अशुचिलक्षणमाह--
अशुचीति शुचिप्रतिषेधः ।। 6 ।।
यद्द्रव्यं शुचि तद्विपरीतमशुचीत्यर्थः। अशस्तरूपरसगन्धस्पर्शममन्त्रप्रोक्षितमनभ्युक्षितं निषिद्धजलाभ्युक्षितं वा अन्यायागतम् कृषिवाणिज्यागतं ब्राह्मणस्य द्रव्यमशुचीत्यर्थः ।। 6 ।।
</5-2-6>

<5-2-7>
अशुच्यन्तरमाह--
अर्थान्तरञ्च ।। 7 ।।
प्रशस्तरूपरसगन्धस्पर्शमपि प्रोक्षितमभ्युक्षितं न्यायार्जितञ्च यत्तत्रापि वागदुष्टञ्च भावदुष्टं च यत्तदप्यशुचीत्यर्थः ।। 7 ।।
</5-2-7>

<5-2-8>
इदानीं धर्माधर्मौ प्रति सहकार्यन्तरमाह--
अयतस्य शुचिभोजनादभ्युदयो न विद्यते नियमाभावात् विद्यते वाऽर्थान्तरत्वात् यमस्य ।। 8 ।।
अयतस्य यमरहितस्यासंयतस्येति यावत्। "हस्तौ पादौ प्रक्षाल्याचम्य वाग्यतो भुञ्जीत, भोक्ष्यमाणः प्रयतोऽपि द्विराचामेत्" इत्यादिबोधितयमरहितस्य भोजनं नाभ्युदयाय किन्तु पापाय। कुत एवमित्यत आह-निंयमाभावात्। नियमस्य सहकारिणोऽबावात्। नियमे सति यत्तदाह-विद्यते वा। यथोक्तयमसाहित्येन भोजने भवत्येवाभ्युदयः। कुत इत्यत आह-अर्थान्तरत्वाद् यमस्य। भोजनादर्थान्तरं यतो यमः। तथा च सहकारिकारणं विना न फलसिद्धिस्तस्मिन् सति फलसिद्धिरित्यर्थः ।। 8 ।।
</5-2-8>

<5-2-9>
ननु यममात्रमेव तन्त्रं तर्हि भोजनमतन्त्रमेवेत्यत आह--
असति चाभावात् ।। 9 ।।
यमे सत्यपि शुचिभोजनेऽसति अभावादभ्युदयस्येति शेषः। तथा च यमो भोजनञ्च द्वयमेव पुण्यकारणमित्यर्थः। भोजनमित्युपलक्षणम् यागदानस्नानहोमादीनामपि श्रौतस्मार्तकर्मणां यमनियमौ सहकारिणौ ।। 9 ।।
</5-2-9>

<5-2-10>
धातुं दोषनिदानमाह--
सुखाद्रागः ।। 10 ।।
स्रक्चन्दनवनितादिविषयसेवनजन्मनः सुखादुत्तरोत्तरं तज्जातीये सुखे तत्साधने वा राग इच्छा सञ्जायते। अहिकण्टकादिजन्मनो दुःखात् तत्र तत्साधने वा द्वेष इत्यपि द्रष्टव्यम्। रागद्वेषमीहाः प्रवर्तकत्वेन दोषा इत्यभिधीयन्ते। तथा च गौतमीयं सूत्रम्--`प्रवर्त्तनालक्षणा दोषाः' अo 1 आo 1 सूo 18 इति ।। 10 ।।
</5-2-10>

<5-2-11>
अत्र सुखदुःखे एव यदि रागद्वेषौ जनयतः तदा तयोर्नाशे कथं तौ स्यातामत आह--
तन्मयत्वाच्च ।। 11 ।।
रागद्वेषौ भवत इति शेषः। विषयाभ्यासजनितो दृढतरः संस्कारविशेषस्तन्मयत्वं यद्वशात् कामातुरस्य कामिनीमलभमानस्य सर्वत्र कामिनीदर्शनम्। एकदा भूजङ्गदृष्टस्य तत्र दृढतरसंस्कारतः सर्वत्र भुजङ्गदर्शनम्। तदुक्तम्--
तन्मयत्वं तत्प्रकाशो बाह्याभ्यन्तरतस्तथा। इति ।। 11 ।।
</5-2-11>

<5-2-12>
हेत्वन्तरं समुच्चिनोति--
अदृष्टाच्च ।। 12 ।।
रागद्वेषाविति शेषः। यद्यप्यदृष्टं साधारणकारणम् तथापि क्वचित्तौ प्रति असाधारणतामप्यनुभजति। यथा तज्जन्मानुभूतकामिनीसुखस्यापि यौवनोद्भेदे कामिनीरागः, अननुभूतभुञ्जङ्गदंशदुःखानामपि भुजङ्गेषु द्वेष इत्याद्‌युन्नेयम्। न च प्राग्भवीयः संस्कार एवात्र निबन्धनम्, तत्कल्पने तदुद्बोधकल्पने च प्रामाणाभावात् अदृष्टस्यावश्यकल्पनीयत्वात् ।। 12 ।।
</5-2-12>

<5-2-13>
सहकार्यन्तरमाह--
जातिविशेषाच्च ।। 13 ।।
तथाहि मनुष्यजातीयानामन्नादौ रागः, मृगजातीयानां तृणादौ, करभजातीयानां कण्टकादौ। तत्रापि तत्तज्जातितिष्पादकमदृष्टमेव तन्त्रम् द्वारमात्रन्तु जातिर्जन्मविशेषः। एवं पारावतादीनामुत्करे रागः। तथा महिषजातीयानां तुरङ्गमे द्वेषः सारमेयाणां शृगाले नकुलानां भुजङ्गमे इत्याद्‌युन्नेयम् ।। 13 ।।
</5-2-13>

<5-2-14>
धर्माधर्मकारणत्वं प्रवृत्तिद्वारेत्याह--
इच्छाद्वेषपूर्विका धर्माधर्मप्रवृत्तिः ।। 14 ।।
विहिते कर्मणि रागनिबन्धना-निषिद्धे कर्मणि हिंसादौ द्वेषनिबन्धना प्रवृत्तिः, रागनिबन्धना यागादौ प्रवृत्तिर्धर्म प्रसूते द्वेषनिबन्धना हिंसादौ प्रवृत्तिरधर्मम्। तावेतौ रागद्वेषौ संसारमनुवर्तयतः। तथाच गौतमीयं सूत्रम्-`ग्रवृत्तिर्वाग्बुद्धिशरीरारम्भः' अo 1 आo 1 सूo 17 इति। वागारम्भो वाचिकी प्रवृत्तिः, सत्यं प्रियं हितमिति पुण्या, असत्यमप्रियमहितमिति पापा। बुद्धिः बुध्यते ज्ञायतेऽनेनेति मन उच्यते, तेन मानसी प्रवृत्तिर्भूतदयादिः। शारीरी प्रवृत्तिर्दान परिचरणमित्यादिका दशविधा पापा दशविधा पुण्या चेति ।। 14 ।।
</5-2-14>

<5-2-15>
इदानीं धर्माधर्मयोः प्रयोजनं प्रोत्याबावमाह--
तत्संयोगो विभागः ।। 15 ।।
ताभ्यां धर्माधर्माभ्यां संयोगो जन्म अपूर्वाभिः शरीरेन्द्रियवेदनाभिः सम्बन्धः संयोग इहोच्यते। विभागस्तु शरीरमनोविभागो मरणलक्षणः। तथा चायं जन्ममरणप्रबन्धः संसारः प्रेत्यभावापरनामा धर्माधर्माभ्यामित्यर्थः। अस्यैव च प्रेत्यभावस्याजरञ्जरीभाव इति वैदिकी संज्ञा ।। 15 ।।
</5-2-15>

<5-2-16>
मोक्षं निरूपयितुमाह--
आत्मकर्मसु मोक्षो व्याख्यातः ।। 16 ।।
अयमेव शरीरमनोविभागः आत्मकर्मसु सत्सु मोक्षो भवतीत्यर्थः। तत्रात्मकर्माणि तावत्‌ श्रवणं मननं योगाभ्यासो निदिध्यासनमासनं प्राणायामः शमदमसम्पत्तिः आत्मपरात्मसाक्षात्कारो देहदेशान्तरोपभोग्यपूर्वोत्पन्नधर्माधर्मपरिज्ञानं तद्भोगानुरूपनानादेहनिर्माणं तयोर्भोगेन प्रक्षयो रागद्वेषलक्षणदोषतुषारदमादग्रिमधर्माधर्मयोरनुत्पादात् दुःखापायलक्षणोऽपवर्गस्तत्र षट्‌पदार्थोयतत्त्वज्ञानमाद्यमात्मकम् ।। 16 ।।
</5-2-16>
इति श्रीशाह्करे वैशेषिकसूत्रोपस्कारे षष्ठाध्यायस्य
द्वितीयमाह्निकम्।
समाप्तश्चायं षष्ठाध्यायः।