वैशेषिकसूत्रोपस्कारः/सप्तमोऽध्यायः

विकिस्रोतः तः
← षष्ठोऽध्यायः वैशेषिकसूत्रोपस्कारः
सप्तमोऽध्यायः
[[लेखकः :|]]
अष्टमोऽध्यायः →

सप्तमाध्याये प्रथमाह्निकम्[सम्पाद्यताम्]

<7-1-1>
संसारमूलकारणतया सर्वोत्पत्तिमन्निमित्तकारणतया भोगसाधनतया चोत्पत्तितः प्रत्यात्मनियतत्वेन परादृष्टस्यापि परस्योपयोगित्वेन च धर्माधर्मौ परीक्ष्येदानीं गुणान् परीक्षिषुस्तेषामुद्देशं लक्षणञ्च स्मारयन्नाह--
उक्ता गुणाः ।। 1 ।।
उद्दिष्टा लक्षिता गुणाश्चेत्यर्थः। तत्र रूपादयः सप्तदश कण्ठरवेणोक्ताः चशब्दसमुच्चिताः सप्त, तेन चतुर्विशतिरपि गुणा उक्ताः। तत्र नित्यवृत्ति-नित्यवृत्तिसत्तासाक्षाद्‌व्याप्यजातिमत्त्वं गुणत्वम्, समवायिकारणावृत्तिनित्यवृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं वा, असमवायिकारणवृत्तिनित्यवृत्तिसाक्षाद्व्याप्यजातिमत्त्वं वा, कार्य्यासमानाधिकरणकर्मावृत्तिजातिमत्त्वं वा ।। 1 ।।
</7-1-1>

<7-1-2>
तत्र गुणत्वेन गुणपरीक्षा सप्तमाध्यायार्थः। तत्र प्रथमाह्निके नित्यतया गुणपरीक्षा, अनित्यतया गुणपरीक्षा, पाकजगुणपरीक्षा, सङ्ख्याद्यनेकवृत्तिगुणपरीक्षा, परिमाणपरीक्षा, चेति पञ्चप्रकरणानि, तत्र रूपादीनाञ्चतुर्णामनित्यत्वमाह--
पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च ।। 2 ।।
पृथिव्यादीनां वायवन्तानामवयविनां रूपादयश्चत्वारो गुणा अनित्याः। यद्यप्यन्येऽपि गुणा अवयविषु वर्त्तमाना अनित्या एव, तथापि तेषामन्यतोऽपि विनाशः। रूपादयश्चत्वारो गुणा आश्रयनाशादेव नश्यन्ति न तु विरोधिगुणान्तरात्। द्रव्यानित्यत्वादिति। द्रव्यस्याश्रयभूतस्यानित्यत्वादाश्रितानामनित्यत्वमिमित्यर्थः ।। 2 ।।
</7-1-2>

<7-1-3>
मित्याक्षेपबललभ्यमित्याह--
एतेन नित्येषु नित्यत्वमुक्तम् ।। 3 ।।
रूपादीनामेव चतुर्णां नित्येष्वाश्रयेषु वर्त्तमानानां नित्यत्वमुक्तम्। एतेनेति। आश्रयानित्यत्वेनानित्यत्वाभिधानेनेत्यर्थः। वृत्तिकृतस्तु नित्येष्वनित्यत्वमुक्तमित्यकारप्रश्लेषस्तथाच पार्थिवपरमाणुष्वरिनसंयोगान्नाश इति व्याचक्रुः ।। 3 ।।
</7-1-3>

<7-1-4>
तत् किं पार्थिवेऽपि नित्यवृत्तिरूपादीनां नित्यत्वमेवेत्यतो विशिनष्टि--
अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात् ।। 4 ।।
आप्यपरमाणौ रूपरसस्पर्शा नित्याः, तैजसपरमाणौ रूपस्पर्शौ, वायुपरमाणौ स्पर्शो नित्यः। ननु नित्येऽपि वर्तमानानां रूपादीनामनित्यत्वे को विरोधः शब्दबुद्ध्यादीनाभिव, इत्यतश्चकारेण गुणान्तराप्रादुर्भावो हेत्वन्तरं सूचितम्। शब्दे हि तीव्रमन्दादिभावेन गुणान्तरप्रादुर्भावोऽनुयते, ज्ञानादौ च ज्ञानादिविरोधी संस्कारादिः. आप्यतैजसवायवीयपरमाणुषु रूपादिविरोधि गुणान्तरं न प्रादुर्भवति, यदि प्रादुर्भवेत्तदा तदरिब्धेष्वपि द्व्यणुकादिप्रक्रमेणाऽऽप्याद्यवयविष्वपि पूर्वविजातीयं रूपाद्यनुभूयेत। नहि शुक्लरूपविजातीयं रूपं तोयतेजसोनं वा शीतोष्णस्पर्शविजातीयौ स्पर्शौ, उष्णं जलं शीतो वायुरित्यादिप्रतीतिस्तूपाधिनिबन्धनेति भावः ।। 4 ।।
</7-1-4>

<7-1-5>
पूर्वं पृथिवीमन्तर्भाव्यानित्येष्वनित्या इत्युक्तमिदानीमाप्यादिष्वेवाह--
अनित्येष्वनित्या द्रव्यानित्यत्वात् ।। 5 ।।
अबाद्यवयविरूपादय आश्रयनाशादेव नश्यन्ति न तु विरोधिगुणान्तरादपीत्यर्थः ।. 5 ।।
</7-1-5>

<7-1-6>
ननु पृथिव्यामयविरूपायामपि रूपादयोऽग्निसंयोगादेवोत्पद्यन्ते नश्यन्ति च, तत् कथमाश्रयनाशमात्रनाश्या इत्यत आह--
कारणगुणपूर्वकाः पृथिव्यां पाकजाः ।। 6 ।।
पाकजा इति। रूपरसगन्धस्पर्शा इत्यर्थः। कारणगुणपूर्वका इति। रूपाअयस्य घटादेर्यत् समवायिकारणं कपालादि तद्गुणपूर्वका। तथाच कपालरूपं कारणैकार्थसमवायप्रत्यासत्त्या घटरूपाद्यसमवायिकारणम्। एवं रसादावपि। रूपरसगन्धम्पर्शाः रूपत्वादिगुणत्वसाक्षाद्व्याप्यजातिमन्तः।
ननु चक्षुर्ग्राह्यत्वमेव रूपत्वमुपाधिरिति चेत् इन्द्रियपातमात्रेण रूपमिति प्रत्ययानुदयप्रसङ्गात्। अननुसंहितोपाधेरुपहितप्रत्ययायोगादिति। उपाधिश्चात्र चक्षुस्तच्चातीन्द्रियं ग्राह्यत्वञ्च ग्रहणविषयत्वं तदप्यचाक्षुषं रूपत्वविशिष्टप्रतीतेश्च चाक्षुषत्वात्. चक्षुर्मात्रबहिरिन्द्रियग्राह्यगुणत्वं रूपत्वम्। अतीन्द्रियरूपाव्याप्तिरिति चेन्न चक्षुर्मात्रबहिरिन्द्रियग्राह्यजातिमत्त्वस्य विवक्षितत्वात् तादृशी च जाती रपत्वं नीलत्वादिका चेति। नन्वेकैका एव नीलपीतादिव्यक्तयो नित्या न तु तत्र नीलत्वादिजातय एकव्यक्तिकत्वादिति चेन्न नीलतरनीलतमादिप्रत्ययानुदयप्रसङ्गात्। दावल्यादिसम्भेदाभावकृतस्तत्र तारतम्यव्यवहार इति चेन्न प्रमाणाभावात्, श्यामं रूपं नष्टं रक्तमुत्पन्नमिति प्रतीतेश्च। न च सा समवायोत्पत्तिविनाशकृतेति वाच्यम् समवायस्य तत्रानुल्लेखात्, तस्य नित्वत्वाच्च घटादेरप्यनित्यतायामेवंसत्यनाश्वासापत्तेः समवायानित्यत्वेनैव तत्राप्यन्यथासिद्धेः सुवचत्वात्।
ननु नीलपीतादयो गुणा द्रव्याभिन्ना एव धर्मधर्मिणोरभेदादिति चेन्न रूपं घटः स्पर्शो घट इत्यादिव्यवहारप्रसङ्गात्। ननु नेदमनिष्टं यतो भवत्येव शुक्लः पटो नीलः पट इत्यादिप्रतीतिरिति चेन्न मतुब्लोपादभेदोपचाराद्वा प्रतीत्युपपत्तेः। भेदे प्रमाणे सति कल्पनेयं यथाकथञ्चिदुपपद्यते इति चेन्न चन्दनस्य रूपं चन्दनस्य गन्ध इत्यादिव्यपदेशबलाद्भेदसिद्धेः, पटस्य रूपाभेदे पटवद्रूपमपि त्वगिन्द्रियेण गृह्येत, पटमानयेत्युक्ते यत्‌किञ्चिद्रूपमानयेत् रूपमानयोत्युक्ते यत्‌किञ्चिद् द्रव्यमानयेत्। अस्तु तर्हि भेदाभेद; अत्यन्तभेदेऽत्यन्ताभेदे च सामानाधिकरण्यानुपपत्तेरिति चेन्न अवच्छेदभेदं विना विरुद्धयोर्भेदाभेदयोरेकत्रासम्भवात्। अन्योन्याभावत्वमव्याप्यवृत्तिवृत्तिनित्याभाववृत्तधर्मत्वादत्यन्ताभावत्ववदिति चेन्न एकत्र संयोगतदत्यन्ताभावयोः प्रतीतिबलादत्यन्ताभावस्याव्याप्यवृत्तित्वाभ्युपगमात्, अन्योन्याबावे तु तथाप्रतीतेरभावात्।
तदेतद्रूपं पृथिव्यां नानाप्रकारकम्, पाथसि तेजसि च शुक्लमेव। क्वचित् पटादौ च चित्रमपि रूपमधिकम् अन्यथा तदचाक्षुषत्वापातात् नपवत एव चाक्षुषद्रव्यत्वात्। न च विजातीयरूपै रूपानारम्भः, नोलपीतादीनामारम्भे रूपत्वेनैव साजात्यस्यापेक्षितत्वात् अन्यथा तचाक्षुषत्वापत्तेरुक्तत्वात्। न चावयवरूपोपग्रहेणैवावयविग्रहः अवयवानामपि चित्रतया नीरूपत्वप्रसङ्गात्, यत्र वा पाकात् परमाणुषु चित्रं रूपं तत्रैव तत्परम्परारब्धपटादौ चित्ररूपोपपत्तेः। न च हरीतक्यां रसोऽपि चित्र इति वाच्यम् हरीतक्या नीरसत्वेऽपि दोषाभावात्, षड्रसत्वव्यवहारस्तु तत्तद्रसगुणकारितया। एवं गन्धोऽपि न चित्रः सौरभासौरभवदवयवद्वयस्यानारम्भकत्वात्। कर्कट्यादौ क्वचिदवयवे तैक्त्यं क्वचिन्माधुर्यं तथाच कतमो रसः कर्कट्यामिति चेन्माधुर्यमेव। गुणविरोधेन कथं तथा स्यादिति चेत् तदवयवे तैक्त्याभावात्। तथाऽनुभवः कथमिति चेत् कर्कटीभक्षणक्षुभितरसनाग्रवर्त्तिपित्तद्रव्यस्य तिक्ततापलस्मात्, तत एव कदाचिन्मुखमपि तिक्तायते। हरीतक्यामपि कथमियं न गतिरिति चेन्न तदवयवेषु कषायमाधुर्यलवणादिनानारसानुभवादित्यलं पल्लवेन। तच्च रूपं नयनसहकारि। नन्वेवं वायौ रूपाभावस्य तमसश्च कथं चाक्षुषतेति चेन्न भावग्रह एव रूपस्य नयनसहकारित्वात्, विषयालोकचक्षुषां त्रयाणामपि रूपाणि चाक्षुषप्रतीतिप्रयोजकानि।
रसोऽपि रसत्वजातिमान्। रसस्वं रसनेन्द्रियमात्रजन्यसाक्षात्कारविषयजातिः तादृशजातिमत्त्वञ्च रसत्वम्। सोऽयं जीवनपुष्टिबलारोग्यहेतुः रसनसहकारी। रसनेन्द्रियग्राह्यगुणत्वव्याप्यजातिमत्त्वं रसत्वम्, तथासति नातीन्द्रियरसाव्याप्तिः।
घ्राणणात्रग्राह्यो गुणो गन्धः। घ्राणमात्रग्राह्यगुणत्वव्याप्यजातिमत्त्वं गन्धत्वम्, स च सुरभिरसुरभिश्चेति द्विविधः। यद्वा पृथिवीवृत्तिमात्रवृत्तिगुणत्वसाक्षाद्‌व्याप्यजातिमत्त्वं गन्धत्वम्।
एवं स्पर्शोऽपि स्पर्शत्वजातिमान् गुणः। त्वगिन्द्रियमात्रग्राह्यगुणत्वसाक्षाद्‌व्याप्य जातिमत्त्वं स्पर्शत्वम्। द्रव्यचतुष्टयवृत्तिश्चायम्। अनुष्णाशीतशीतोष्णभेदात् त्रिविधः।
इदानीं प्रसङ्गात् पाकजप्रक्रिया चिन्त्यते--तत्र कार्यकारणसमुदाय एव पच्यते इति पिठरपाकवादिनः।
पालवः--परमाणव एव स्वतनत्राः पच्यन्ते, तत्रैव पूर्वरूपनाशाग्रिमरूपाद्युत्यत्तिः कारणगुणपक्रमेण चावयविनि रूपाद्‌युत्पद्यते इति पीलुपाकवादिनः।
अत्रेदं तत्त्वम्। आपाके निःक्षिप्तस्य घटादेरामद्रव्यस्य वह्निना नोदनादभिघाताद्वा तदारम्भकेषु परमाणुषु द्रव्यारम्भकसंयोगविरोधिविभागेनारम्भकसंयोगनाशे द्रव्यनाशावश्यम्भावात्। दृश्यते हि स्थाल्यामाहितानां तण्डु लादीनामप्यधःसन्तापनमात्रेण भर्जनात्तदानीमेव नाशः, क्षीरनीरादीनाञ्चात्यन्तमुल्बणता। तथा चापाके वह्निज्वालाजालाभिहतानां द्रव्याणामवस्थानमिति महती प्रत्याशा। किञ्च यदि द्रव्यनाशस्तदा मध्यभागे पाकानुपत्तिः, न हि दृढतरावयवान्तरावरुद्धे मध्यभागे तेजःसंयोगासम्भावना येन तत्र श्यामादिनिवृत्तिः स्यात्, तथा च श्यामा अवयवाः अवयवी च रक्त इति महद्वैशसम्। ननु सच्छिद्राण्येवावयविद्रव्याणि, कथमन्यथा कुम्भादावन्तर्निहितानां तैलघृतादीनां स्यन्दनं श्रपणञ्च, तथा च मध्यभागेऽपि तेजःसंयोगः स्यादेवेति चेन्न मूर्त्तानां समानदेशताविरोधात्, अवयवान्तरसंयुक्ते मध्यभागे तेजःसंयोगासम्भवात्। ननु यदि द्रव्यनाशः कथं तर्हि स एवायं घट इति प्रत्यभिज्ञा, कथं वा सर्वास्ववस्थास् आपाकादौ घटादेस्तादृशस्यैव दर्शनम्, घटादेरुपरि निहितानां शरावोदञ्चनादीनां तथैव दर्शनं घटादिस्फुटने हि तेषां पातः स्यात्, कथं वा यावन्त एवापाके निहितास्तावन्त एव पुनः प्राप्यन्ते परमाणुभिर्द्व्यणुकादिप्रक्रनेण न्यूनानामिधकानां वा तदानीमारम्भसम्भवात्, कथं वा तावत्परिमाणान्येव घटादीन्यापाकोत्तोर्णान्युपलभ्यन्ते, रेखोपरेखादिचिह्निविलोपो वा कथं न भवेत्,? तथा चावयविष्वेव पाक इति चेत् मैवम्, सूच्यग्रेण घटादौ त्रिचतुरत्रसरेणुविभागे सति द्रव्यारम्भकसंयोगनाशे द्रव्यनाशे सर्वासामनुपपत्तीनामुभयसमाधेयत्वात् न हि तत्र द्रव्यं न नश्यतीति पिठरपाकवादिनोऽपि वक्तुमुत्सहन्ते।
तत्रापि घटादयो न नश्यन्ति कतिपयावयवनाशेऽप्यवशिष्टावयवमाश्रित्य कार्यावस्थानसम्भवादन्यथा प्रत्यभिज्ञानाद्यनुपपत्तिरेवेति मीमांसकाः।
ते तु तावदवयवास्थानयोग्यस्य घटादेः स्वल्पेष्ववयवेषु कथं वृत्तिः स्यादिति प्रष्टव्याः। अविनष्ट एव पटे परिमाणसङ्कोचवदेतदुपपत्स्यते इति तेषामुत्तरमिति चेन्न कठिनतरावयवानां काष्ठपाषाणस्तम्भकुम्भकुम्भादीनां सङ्कोचविकाशयोरदर्शनात्। घटादिनाशकाभिमतेन तत्परिमाणमेव नश्यतीति चेन्न परिमाणम्याश्रयनाशैकनाश्यत्वात् घटादिप्रत्यभिज्ञानवत् सूचीदलनस्थले परिमाणस्यापि प्रत्यभिज्ञायमानत्वात्, त्वन्मते तन्नाशस्याप्यनुपपत्तेरिति दिक्।
येषा मते द्रव्यारम्भकसंयोगप्रतिद्वन्द्वीतदप्रतिद्वन्द्वी च विभाग एकयैवावयवप्रक्रियया जन्मते तेषां द्व्यणुकनाशमारभ्य नवमक्षणे द्वणुकान्तरे रक्ताद्युत्पत्तिरेकस्मिन्नेव परमाणौ क्रियाचिन्तनात्। तथा हिवह्निना नोदनाद् द्व्यणुकारम्भके परमाणौ कर्म, ततो विभागस्ततो द्रव्यारम्भकसंयोगनाशस्ततो द्व्यणुकनाशः नष्टे द्व्यणुके केवले परमाणावग्निसंयोगाच्छ्यामादिनिवृत्तिः। श्यामादौ निवृत्ते अन्यस्मादग्निसंयोगाद्रक्ताद्युत्पत्तिः। रक्तादावुत्पन्ने परमाणुक्रियानिवृत्तियानिवृत्तिस्तदनन्तरमदृष्टवदात्मसंयोगात् परमाणौ कर्म ततो विभागः ततो द्व्यणुकोत्पत्तिः उत्पन्ने द्व्यणुके कारणगुणप्रक्रमेण रक्ताद्युत्पत्तिः इति नव क्षणाः। यदि पूर्वक्रियानिवृत्तिक्षण एव क्रियान्तरमुत्पद्यते तदा, यदि तु पूर्वक्रियानिवृत्त्यनन्तरकाले क्रियान्तरमुत्पद्यते तदा दश क्षणाः।
विभागजविभागाद्युपगमेऽपि यदि द्रव्यारम्भकसंयोगनाशविशिष्टं कालमपेक्ष्य विभागजो विभागस्तदा दशक्षणाः यदि तु द्रव्यनाशविशिष्टं कालमपेक्ष्य विभागेन विभागान्तरं जन्यते तदैकादशक्षणा प्रक्रिया। तथा हि-द्व्यणुकनाशविभागजविभागावित्येकः कालःततःपूर्वसंयोगनाशस्यामादिनिवृत्ती उत्तरसंयोगरक्ताद्युत्पत्ती उत्तरसंयोगेन विभागजविभागक्रियानिवृत्ती ततो द्रव्यारम्भानुगुणा परमाणुक्रिया, क्रियातो विभागो विभागात् पूर्वसंयोगनिवृत्तिस्ततो द्रव्यारम्भकः संयोगस्ततो द्रव्योत्पत्तिः उत्पन्ने द्रव्ये रक्तीद्यत्पत्तिः इति दशक्षणाः।
यदा तु द्रव्यविनाशविशिष्टं कालमपेक्ष्य विभागेन विभागो जन्यते तदैकक्षणवृद्ध्या एकादश क्षणाः। तथा हि--द्रव्यविनाशः ततो विभागजविभागश्यामादिनिवृत्ती ततः पूर्वसंयोगनाशः तत उत्तरसंयोगरक्ताद्युत्पत्ती ततो विभागजविभागकर्मणीर्निवृत्तिः ततः परमाणौ द्रव्यारम्भानुगुणा क्रिया ततो विभागः पूर्वसंयोगनिवृत्तिः द्रव्यारम्भकसंयोगोत्पत्तिः द्व्यणुकोत्पत्तिः रक्ताद्युत्पत्तिश्चेत्येकादश क्षणाः। एकस्मिन्नेव परमाणौ क्रियाक्रियोपरमचिन्तनादेवम्। परमाण्वन्तरे यदि द्रव्यारम्भानुगुणा क्रिया चिन्त्यते तदा द्व्यणुकविनाशमारभ्य पञ्चमे षष्ठे सप्तमेऽष्टमे वा रक्ताद्यत्पत्तिरूपनीया। विवृञ्चैतत् कणादरहस्ये ।। 6 ।।
</7-1-6>

<7-1-7>
पार्थिवपरमाणुरूपादीनां तेजःसंयोगासमवायिकारणकत्वं साधयितुमाह--
एकद्रव्यत्वात् ।। 7 ।।
पाकजानामिति शेषः। अत्र च गुणत्वे कार्यत्वे सतीति विवक्षितम्। तदयं प्रयोगः-पार्थिवपरमाणुरूपादयः संयोगासमवायितकारणकाः कार्यगुणत्वे सति नित्यनिष्ठाद्विष्ठगुणत्वात् शब्दवत्, बुद्धद्यादिवच्च। संयोगजत्वमात्रं वा साध्यं तेन विभागजशब्दे न व्यभिचारः वायुसंयोगस्य शब्दमात्रे निमित्तकारणत्वात्। पार्थिवरूपादीनाञ्च तेजोऽन्वयव्यतिरेकदर्शनात् तेजःसंयोगासमवायिकारणकत्वं पक्षधर्मताबलात् सिध्यति ।। 7 ।।
</7-1-7>

<7-1-8>
रूपरसगन्धस्पर्शानेकग्रन्थेन व्युत्पाद्य परिमाणस्य सर्वसिद्धत्वेन सङ्ख्यायाञ्च विप्रतिपत्तिबाहुल्यादुद्दशक्रममतिक्रम्य सूचीकटाहन्यायेन प्रथमं परिमाणपरीक्षामारभमाण आह--
अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते ।। 8 ।।
नित्ये,-इति विषयेण विषयिणं नित्यत्वप्रतिपादकं चतुर्थाध्यायमुपलक्षयति। उपलब्ध्यनुपलब्धी इति यथायोगमन्वयः `येन यस्याभिसम्बन्धो दूरस्थस्यापि तस्य सः' इति न्यायेन। तथा चाणोरनुपलब्धिरिति लभ्यते। तदेवं स्थूलो नीलः कलश इति प्रात्यक्षिकप्रत्यये यथा नीलं रूपं विषयस्तथा परिमाणमपि, तेन च परिमाणेन परमाणुपर्यन्तं परिमाणमुन्नीयते द्रव्यत्वाच्च। किञ्च द्रव्यप्रत्यक्षतायां रूपवत् परिमाणमपि कारणं, न हि महत्त्वमन्तरेण द्रव्यं प्रत्यक्षं भवति। तथा च द्रव्यप्रत्यक्षकारणत्वेन स्वयञ्च प्रत्यतयापरिमाणं गुणीऽस्तीति निश्चीयते। यदि हि घटादिस्वरूप परिमाणं स्यात् तदा महदानयेत्युक्ते घटमात्रमानयेत् तथा च प्रैषसंप्रतिपत्ती विरुध्येताम्। एवं घटपदात् परिमाणं प्रतीयेत परिमाणपदाद्वा घट इति।
मानव्यवहारासाधारणकारणत्वम्, द्रव्यसाक्षात्कारकारणविषयनिष्ठसामान्यगुणत्वं वा महत्त्वत्वम्। मानव्यवहारो हस्तवितस्त्यादिव्यवहारो न तु पलसङ्ख्यादिव्यवहारः। तच्च परिमाणञ्चतुर्विधं--महत्त्वमणुत्वं दीर्घत्वं ह्रस्वत्वञ्च। तत्र परममहत्त्वपरमदीर्घत्वे विभुचतुष्टयवर्त्तिनी, परमाणुत्वपरमह्रस्वत्वे परमाणुवर्त्तिनी, अवान्तराणुत्वावान्तरह्रस्वत्वे द्व्यणुकवर्त्तिनी, त्रसरेणुमारभ्य महावयविपर्यन्तं महत्त्वदीर्घत्वे। एवञ्च सर्वाण्यपि द्रव्याणि परमाणुद्वयवन्ति। बिल्वामलकादावणुत्वव्यावहारः समिदिक्षुदण्डादिषु च ह्रस्वत्वव्यहारो भाक्तः। भक्तिश्चात्रे प्रकर्षभावाभावः। आमलके यः प्रकर्षभावस्तस्याभावः कुवले, बिल्वे यः प्रकर्षभावस्तस्याभाव आमलके, स च गौणमुख्योभयभागित्वाद् भक्तिपदवाच्य। दीर्घत्वह्रस्वत्वे नित्ये न वर्त्तेते इत्येके। परिमाण एव ते न भवत इत्यपरे। महत्सु दीर्घमानीयतामितिवद् महत्सु वर्त्तलं त्रिकोणञ्चानीयतामितिनिर्धारण बलाद्वर्तुलत्वादीनामप्यापत्तेरिति तेषामाशयात् ।। 8 ।।
</7-1-8>

<7-1-9>
इदानीं परिमाणकारणानि परिसञ्चष्टे--
कारणबहुत्वाच्च ।। 9 ।।
चकारो महत्त्वप्रचयौ समुच्चिनोति। परिमाणमुत्पद्यते इति सूत्रशेषः। तत्र कारणवहुत्वं त्र्यणुके महत्त्वदौर्घत्वे जनयति महत्त्वप्रचययोस्तत्कारणेऽभावात्। तच्च बहुत्वमीश्वरापेक्षाबुद्धिजन्यं तद्‌बुद्धेरनेकविषयत्वेऽप्यदृष्टविशेषोपग्रहो नियामकः। एवं परमाणुद्वयगतं द्वित्वं द्व्यणुके परिमाणोत्पादकं वक्ष्यते। द्वाभ्यां तन्तुम्यामप्रचिताभ्यामारब्धे पटे केवलं महत्त्वमेवासमवायिकारणं बहुत्वप्रचययोस्तत्राभावात् यत्र च द्वाभ्यां तूलकपिण्डाभ्यां तूलकपिण्डारम्भस्तत्र परिमाणोत्कर्षदर्शनात् प्रचयः कारणं बहुत्वस्याभावात्, महत्त्वस्य सत्त्वेऽपि परिमाणोत्कर्षं प्रत्यप्रयोजकत्वात्। एनञ्च सति यदि महत्त्व तत्र कारणं तदा न दोषः। तदुक्तं--`द्वाभ्यामेकेन सर्वैर्वा' इति। प्रचयश्च आरम्भकः संयोगः। स च स्वाभिमुखकिञ्चिदवयवासंयुक्तत्वे सति स्वाभिमुखकिञ्चिदवयवसंयोगलक्षणः। स चावयवसंयोगः स्वावयवप्रशिथिलसंयोगापेक्षः परिमाणजनकः `गुणकर्मारम्भे सापेक्ष' इति वचनात् ।। 9 ।।
</7-1-9>

<7-1-10>
महत्त्वदीर्घत्वे व्युत्पाद्याणुत्वं व्युत्पादयति--
अतो विपरीतमणु ।। 10 ।।
अतः प्रत्यक्षसिद्धान्महतः परिमाणाद्यद्विपरीतं तदणुपरिमाणमित्यर्थः। वैपरीत्यञ्चाप्रत्यक्षत्वात् कारणवैपरीत्याच्च। महत्त्वे हि महत्त्वबहुत्वप्रचयानां कारणत्वम्। अणुत्वे च कारणगतस्य द्वित्वस्येश्वरापेक्षाबुद्धिजन्यस्य कारणत्वम्। एतेन दीर्घत्वविपरीतं ह्रस्वत्वमित्यपि द्रष्टव्यम्। वैपरीत्यञ्चात्रापि पूर्ववत् ।। 10 ।।
</7-1-10>

<7-1-11>
इदानीं कुवलामलकादावणुत्वव्यवहारो भाक्त इति दर्शयति--
अणु महादिति तस्मिन् विशेषभावाद् विशेषाभावाच्च ।। 11 ।।
इति शब्दो व्यवहारपरतां दर्शयति। तेन बिल्वापेक्षया कुवलमणु कुवलापेक्षयामलकं महत् आमलकापेक्षया बिल्वं महदिति तावद्‌व्यवहारोऽस्ति, तत्र महति तेषु ध्यवहारो मुख्यः। कुत एवमत आह--विशेषभावात् महत्त्वविशेषस्यैव तरतमादिभावेन भावात्, अणुव्यवहारस्तु तेषु भाक्तः। कुत एवमत आह--विशेषभावात् अणुत्वविशेषस्य तत्राभावात्। अणुत्वं हि कार्यं द्व्यणुकमात्रवृत्ति, नित्यं तु परमाणुवृत्ति, कुवलादौ तदभावात्।
यद्वा विशेषस्य महत्त्वकारणस्वैवावयवबहुत्वमहत्त्वप्रचयानां कुवलाद्यववयवेयु रूपावात् सद्भावात्, विशेषाभावाद् विशेषस्य अणुत्वकारणस्य महत्त्वासमानाधिकरणद्वित्वस्य कुवलाद्यवयवेष्वभावादसद्भावादित्यर्थः ।। 11 ।।
</7-1-11>

<7-1-12>
अणुत्वव्यवहारो भाक्त इत्यत्र हेतुमाह--
एककालत्वात् ।। 12 ।।
महत्त्वमणुत्वञ्च द्वयमप्येकस्मिन् कालेऽनुभूयते, ते च महत्त्वाणुत्वे परस्परविरोधिनी नैकत्राश्रये सह सम्भवतः, अतो महत्त्वकारणसद्‌भावान्महत्त्वप्रत्ययस्तत्र मुख्योऽणुत्वप्रत्ययप्रयोगौ च भाक्तावित्यर्थः ।। 12 ।।
</7-1-12>

<7-1-13>
महत्त्वप्रत्ययस्य मुख्यत्वे हेतमाह--
दृष्टान्ताच्च ।। 13 ।।
दृश्यते तथा वस्तुगत्या महत्स्वेव कुवलामलकबिल्वेषु स्थूलरथूलतरस्थूलतमव्यवहारेण भवितव्यमित्यर्थः। यथा वस्तुगत्या शुक्लेष्वेव पटशङ्खस्फटिकादि षुशुक्लशुक्लतरशुक्लतमव्यवहारः ।। 13 ।।
</7-1-13>

<7-1-14>
नन्वणु महत्परिमाणमिति व्यवहारबलान्महत्त्वे अपि परिमाणे महत्त्वम णुत्वेऽप्यणुत्वमस्तीति ज्ञायते तत् कयं द्रव्यमात्रवृत्तित्वमनयोः कथं वा गुणे गुणवृत्तित्वविरोधो नापद्यत इत्यत आह--
अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणैर्व्याख्यातः ।। 14 ।।
यथा गुणकर्मणी नाणुत्वप्रहत्त्ववती नथाऽणुत्वकहत्त्वे अपि नाणुत्वमहत्ववती इत्यर्थः। प्रयोगश्च भाक्तो द्रष्टव्यः ।। 14 ।।
</7-1-14>

<7-1-15>
ननु यथा गुणा गुणवन्तः,-कथमन्यथा महान् शब्दः द्वौ शब्दौ एकः शब्दः चतुर्विशतिर्गुणा इत्यादिव्यवहारः। कर्माण्यपि च कर्मवन्ति प्रतीयन्ते कथमनय्था शीघ्रं गच्ति द्रुतं गच्छतीति व्यवहारः तथा चाणुत्वमहत्त्वे अपि तद्वती स्यातामित्यत आह--
कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः ।। 15 ।।
कर्मभिः कर्माणि न तद्वन्ति गुणैश्च गुणा न तद्वनत्स्तथाऽणुत्वमहतत्वेपि न न तद्रती। व्यवहारस्त् सर्वत्र भाक्त इत्यर्थः ।। 15 ।।
</7-1-15>

<7-1-16>
ननु महान्ति कर्माणि अणूनि कर्माणि महान्तो गुणाः अणवा गुणा इत्यादिव्यवहारादणुत्वमहत्त्ववन्ति कर्माणि तदुभयवन्तश्च गुणाः प्रसक्ता इत्यत आह--
अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः ।। 16 ।।
यथाऽणुत्वमहत्त्वे नाणुत्वमहत्त्ववती तथा न कर्माणि तदुभयवन्ति न ववा गुणास्तदुभयवन्त इत्यर्थः। प्रयोगस्तु पूवद्भाक्त इति भावः ।। 16 ।।
</7-1-16>

<7-1-17>
अणुत्वमहत्त्वप्रक्रियां दोर्घत्वहस्वत्वयोरतिदिशति--
एतेन दीर्घत्वह्रस्वत्वे व्याख्याते ।। 17 ।।
ह्रस्वत्वदीर्घत्वे अपि न ह्रस्वत्वदीर्घत्ववती महत्त्वोत्पादकमेव दीर्घत्वोत्पादकमणुत्वोत्पादकमेव ह्रस्वत्वोत्पादकम्। कारणेक्यात् कथं कार्य्यभेद इति चेन्न, प्रागभावभेदेन पाकजवदुपपत्तेः। यत्रैव महत्त्वं तत्र दोर्घत्वं यत्राणुत्वं तत्र ह्रस्वत्वं यत्र नित्यमणुत्वं तत्र नित्यह्रस्वत्वमित्याद्यतिदेशार्थः ।। 17 ।।
</7-1-17>

<7-1-18>
इदानीं विनाशकमाह--
अनित्येऽनित्यम् ।। 18 ।।
एतच्चतुर्विधमपि परिमाणं विनाशिनि द्रव्ये वर्त्तमानमाश्रयनाशादेव नश्यति न तु विरोधिगुणान्तरात्। घटे सत्यपि तत्परिमाणं विनश्यति कथमन्यथा कम्बुभङ्गेऽपि स एवायं घट इति प्रत्यभिज्ञेति चेन्न। आश्रयनाशेन तत्र घटनाशावश्यकत्वात् न हि परमाणुद्वयसंयोगनाशाद् द्व्यणुके नष्टे तदाश्रितस्य त्रसरेणोस्तदाश्रितस्य चूर्णशर्करादेरविनाश इति युक्तिरभ्युपगमो वा। कथं तर्हि प्रत्यबिज्ञेति चेत्? सैवेयं दीपकलिकेतिप्रत्यभिज्ञानवद् भ्रान्तत्वात्। प्रदीपप्रत्यभिज्ञाऽपि प्रमैव ह्रस्वत्वदीर्घत्वं परमुत्पादविनाशशालिनी इति चेन्न तद्विनाशस्याश्रयविनाशमन्तरेणानुपपत्तेरुक्तत्वात् ।। 18 ।।
</7-1-18>

<7-1-19>
तत् किं पार्थिवपरमाणुरूपादिवत् परमाणुगतमणुत्वं राब्दबुद्व्यादिवदाकाशादिगतं महत्त्वमपि महत्त्वमपि नश्यतीत्यत आह--
नित्ये नित्यम् ।। 19 ।।
नित्येष्वाकाशादिषु परमाणुषु च यत् परिमाणं तन्नित्यं विनाशकाभावात् ।। 19 ।।
</7-1-19>

<7-1-20>
परमाणुपरिमाणस्य वैशेषिकसिद्धां संज्ञामाह--
नित्यं परिमण्डलम् ।। 20 ।।
परिमण्डलमेव पारिमाण्डल्यम्, तदुक्तम्-"अन्यत्रपारिमाण्डल्यादिभ्यः" इति ।। 20 ।।
</7-1-20>

<7-1-21>
ननु कुवलामलकादिषु समिदिक्षुप्रभृतिषु च व्यवह्रियमाणमणुत्वं ह्रस्वत्वं वा यदि न पारमार्थिकं तदा परिमार्थिकयोस्तयोः कि प्रमाणगत आह--
अविद्या च विद्यालिंगम् ।। 21 ।।
विद्यालिङ्गमविद्या। तदयमर्थः-कुवलामलकादावणुत्वज्ञानं समिदिक्षुप्रभृतिषु ह्रस्वत्वज्ञानं तावदविद्या तत्र पारमार्थिकाणुतवह्रस्वत्वयोरभावात्। सर्वत्राप्रमा प्रमापूर्विकैव भवतीत्यन्यथाख्यातिवादिभिरभ्युपगमात्, तथाच सत्यमणुत्वज्ञानं सत्यञ्च ह्रस्वत्वज्ञानमनुमेयमित्यर्थः। एवञ्च भाक्तः शब्दप्रयोगो मुख्यमन्तरेण न भवतीति मुख्येऽणुत्वह्रस्वत्वे क्वचिदवश्यं मन्तव्ये ।। 21 ।।
</7-1-21>

<7-1-22>
द्रव्यत्वेन हेतुनाऽऽकाशादीनामनुमितस्य परिमाणस्य स्वरूपमाह--
विभवान्महानाकाशस्तथा चात्मा ।। 22 ।।
विभवः सर्वमूर्त्तसंयोगित्वं तच्च परममहत्त्वमन्तरेणानुपपद्यमानं परममहत्त्वमनुमापयति। दृश्यते चेह वाराणस्यां पाटलिपुत्रे च युगपदेव शब्दोत्पत्तिस्तत्र चैकमेवाकाशं समवायिकारणमित्याकाशस्य व्यापकत्वं सिद्धम्। व्यापकत्वञ्च परममहत्परिमाणयोग एव, नानाऽऽकाशकल्पने गौरवमित्येक एवाकाशोऽभ्युपगन्तव्यः। आकाशस्य प्रदेश इति तु व्यपदेशः प्रदेशवद्भिर्घटादिभिः सयोगनिबन्धनो भाक्तः। भक्तिश्च प्रदेशवद्द्रव्यसंयोगित्वम्। तथात्मेति। यथाकाशंविभवात् सर्वमूर्त्तसयोगित्वात् परममहत् तथात्मापि परममहान्। यद्यात्मनः सकलमूर्तसंयोगित्वं न भवेत् तदा तेषु तेषु मूर्त्तेषु अदृष्टवदात्मसंयोगात् क्रिया नोत्पद्येत व्यधिकरणम्यादृष्टस्य प्रत्यासत्त्यपेक्षया क्रियाजनकत्वात्. सा च प्रत्यासत्तिरदृष्टवदात्मसंयोग एव। एवं संञ्चारिणि शरीरे तत्र तत्र ज्ञानसुखादीनामुत्पत्तिरात्मनो वैभवमन्तरेणानुपपन्नेत्यात्माऽपि व्यापकः। स च नाकाशवदेक एव व्यवस्थादर्शनादित्युक्तमिति भावः। तच्च महत्त्वं सातिशयं नित्यञ्च परमाण्वणुत्ववत्। एवमाकाशादौ परमदीर्घत्वं परमाणुषु च परमहस्वत्वमूहनीयम् ।। 22 ।।
</7-1-22>

<7-1-23>
ननु मनो विभु सर्वदा निःस्पर्शद्रव्यत्वादाकाशवत् ज्ञानाद्यममवायिकारणसंयोगाधारत्वादात्मवदित्याकाशात्मनोः साहचर्येण मनोऽपिकिं नोक्तमत आह--
तदभावादणु मनः ।। 23 ।।
तस्य विभवस्य सर्वमूर्तसंयोगित्वस्याभावादणु मनः। सकलमूर्त्तसंयोगित्वे तु युगपदनेकेन्द्रियसंयोगे ज्ञानयौगपद्यं स्यात्, तथा च व्यासंगो न स्यात्। अनुमाने तु मनो यावन्न सिद्धं तावदाश्रयासिद्धे मनःसिद्धिदशायान्तु धर्मिग्राहकमानबाधिते। ननु विभवाभावादेव नाणुत्वं सिध्यति धटादौ व्यभिचारादिति चेन्न विभवाभावेनाव्यापकत्वसाधनात्। तथा चैकस्मिन्देहे मनस्तावदेकं नानाकल्पने गौरवापत्तेः। एकस्याप्यवयवकल्पने कल्पनागौरवान्निः। स्पर्शत्वेनानारम्भकत्वाच्चेत्यादियुक्तेरणुत्वसिद्धेरिति भाव ।। 23 ।।
</7-1-23>

<7-1-24>
दिशः परममहत्त्वे युक्तिमाह--
गुणैर्दिग् व्याख्याता ।। 24 ।।
गुर्णैः सकलद्वीपवर्त्तिपुरुषसाधारणपूर्वापरादिप्रत्ययरूपैः सकलमूर्तनिष्ठापरत्वापरत्वलक्षणैः दिर्गापि व्यापकत्वेन व्याख्यातेत्यर्थः। परत्वापरत्वयोरुत्पत्तौ संयुक्तसंयोगभूयस्त्वाल्पीयस्त्वविषयापेक्षा बुद्धेः कारणत्वस्य वक्ष्यमाणत्वात्। नानादिक्कल्पनस्य कल्पनागौरवप्रतिहतत्वात्। कथं तर्हि दश दिश इति प्रतीतिव्यपदेशाविति चेन्न तत्तदुपाधिनिबन्धनत्वादित्युक्तत्वात् ।। 24 ।।
</7-1-24>

<7-1-25>
कालस्य व्यापकत्वमाह--
कारणे कालः ।। 25 ।।
परापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रप्रत्ययकारणे द्रव्ये काल इति समाख्या। न चैतादृशः प्रत्यय सर्वदेशपुरुषसाधारणः कालस्य व्यापकतामन्तरेण सम्भवतीति तस्य व्यापकत्वं परममहत्त्वयोग इत्यर्थः।
यद्वा इदानीं जात इत्यादिप्रतीतिबलात् सर्वोत्पत्तिमन्निमित्तकारणत्वं कालस्य प्रतीयते तदपि व्यापकत्वाधीनं निमित्तकारणस्य समवाय्यसमवायिकारणप्रत्यासन्नत्वनियमात्।
यद्वा अतीतानागतवर्तमानव्यवहारः सार्वत्रिक इति सर्वगत एव कालः।
यद्वा क्षणलवमुहूर्त्तयामदिनाहोरात्रपक्षमासर्त्वयनसंवत्सरादिव्यवहारकारणे द्रव्ये कालाक्येति व्यवहारस्य सार्वत्रिकत्वात् कालः सार्वत्रिक इति परममहान्, तस्य नानात्वकल्पना च कल्पनागौरवप्रतिहतेत्युक्तम् ।। 25 ।।
</7-1-25>
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे सप्तमाध्यायस्य
आद्यमाह्निकम्।

सप्तमाध्याये द्वितीयाह्निकम्[सम्पाद्यताम्]

<7-2-1>
द्वितीयाह्निके एकानेकवृत्तिगुणपरीक्षाप्करणम् अनेकमात्रवृत्तिगुणपरीक्षाप्रकरणम्। प्रसङ्गाच्छब्दार्थसम्बन्धपरीक्षाप्रकरणम्। विशेषगुणरहितविभुसंयोगासमवायिकारणकैकवृत्तिगुणपरोक्षाप्रकरणम् समवायपरीक्षाप्रकरणञ्चेति। तत्र महत्त्वैकार्थसमवायाधीनं संख्यादीनामपि प्रत्यक्षत्वमिति चोद्देशक्रममतिक्रम्य परिमाणनिरूपणानन्तरं संख्यां पृथक्त्वञ्च परीक्षितुमाह--
रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम् ।। 1 ।।
रूपरसगन्धस्पर्शेति,-संख्यादिप़ञ्चकभिन्नगुणोपलक्षणम्। व्यतिरेकादिति व्यभिचारात्। तदयमर्थः--एको घट इति विशिष्टप्रतीतिर्विशेषणजन्या, तच्च, विशेषणं न रूपादि, तद्व्यतिरेकेण जायमानत्वात्, न च घटत्वादिकमेव निमित्तम्, पटेऽपि जायमानत्वात्। न चैकत्वं सत्तावत् सामान्यम्, सत्तया सहान्यूनानतिरिक्तवृत्तित्वात्। न च द्रव्यमात्रसामान्यं तत्, द्रव्यत्वेनान्यूनानतिरिक्तदेशत्वात्। न चान्यूनानतिरिक्तदेशत्वेऽपि प्रतीतिभेदाद्भेद; प्रतीतिभेदस्य स्वरूपकृतत्वे सत्ताऽपि भिद्येत, विषयभेदकृतत्वे तु विषयभेदानुपपत्तेरुक्तत्वात्, अन्यथा घटत्वकलसस्वयोरपि भेदापत्तेः। न च स्वरूपाभेद एकत्वमिति बूषणमतं युक्तम्, घटस्वरूपाभेदश्चेदेकत्वं तदा पटादावेकत्वप्रत्ययो न स्यात्। स्वरूपभेदो द्वित्वादिकमित्यपि भूषणमतमनुपपन्नम् स्वरूपभेदस्य त्रिचतुरादिसाधारण्येन व्यवहारवैचित्र्यानुपपत्तेरिति भावः ।। 1 ।।
</7-2-1>

<7-2-2>
एकत्वतुल्यतयैकपृथक्‌त्वमपि साधयितुमाह--
तथा पृथक्‌त्वम् ।। 2 ।।
अपोद्धारव्यवहारस्तावदस्ति--इदमस्मात् पृथगन्यदर्थान्तरमित्याकारः। अपवृज्यावधिमपेक्ष्य य उद्धारो निर्धारणं स ह्यपोद्धारः, तत्र च न रूपादि तन्त्रं व्यभिचारादवध्यनिरूप्यत्वाच्च। नन्वन्योन्याभाव एव पृथक्‌त्वम्, इदमस्मात् पृथगन्यदर्थान्तरमितिवद्भिन्नमिति प्रतीतेरन्योन्या भावावलम्बनत्वात्। न, पृथगादिशब्दानां पर्यायत्वेऽपि नान्योन्याभावार्थत्वं तत्र पञ्चमीप्रयोगानुपपत्तेः, इदमस्मात् पृथक् इदामिदं न भवतीतिप्रतीत्योभिन्नविषयत्वात्। न चान्योन्याभाववानर्थः पृथक्त्वन् अघटः पट इत्यत्रापि पञ्चमीप्रयोगापत्तेः। ननु पृथगिति विशिष्ट इति-प्रतीत्योरेकाकारत्वाद्वैशिष्ट्यमेव पृथक्त्वमिति चेन्न मैत्रस्य दण्डवैशिष्ट्यदशायां मैत्रात् पृथगयंमैत्र इत्यपि प्रतीत्यापत्तेः। अत एव वैधर्म्यमपि न पृथक्त्वं पाकरक्ते घटे श्याभाद् घटात् पृथगयं घट इति व्यवहारापत्तेः, तद्विरोधिधर्मवत्त्वमेव हि तद्वैधर्म्यं तच्च श्यामानन्तरं रक्ततादशायामपि। न च सामान्यमेव पृथक्त्वं सामान्यस्यावध्यनिरूप्यत्बात्। जातिसङ्करप्रसङ्गाच्च-सन्मात्रवृत्तित्वे सत्तया, द्रव्यमात्रवृत्तित्वे द्रव्वत्धेनान्यूनानतिरिक्तवृत्तित्वापत्तेः ।। 2 ।।
</7-2-2>

<7-2-3>
नन्वेकमेकत्वं-रूपादिभ्यः पृथक् पृथक्त्वमिति व्यवहारादेकत्वेऽप्येकत्वं, पृथक्त्वेऽपि पृथक्त्वमेवं तत्र तथापीत्यत आह--
एकत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः ।। 3 ।।
यथाऽणुत्वमहत्त्वे नाणुत्वमहत्त्ववती तद्‌व्यवहारस्तत्र भाक्तस्तथैकत्वैकपृथक्त्ववती तद्‌व्यवहारस्तत्र भाक्त इत्यर्धः। "कर्मभिः कर्माणि" "गणैर्गुणाः" इत्यपि दृष्टान्तसूत्रद्वय पूर्वदृष्टान्तसूत्रेणैकवाक्यतापन्नमेवात्र प्रतिभासते यथा कर्माणि न कर्मवन्ति गुणाश्च न गुणवन्तस्तष्टौकत्वेकपृथक्त्वे न तद्वती इत्यर्थः ।। 3 ।।
</7-2-3>

<7-2-4>
ननु गुणेषु कर्मसु च साधारण एवैकत्वव्यवहारः किमत्र विनिगमकं यद्द्रव्येष्वेवैकत्वं न गुणादिष्विस्यत्राह--
निःसंख्यत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते ।। 4 ।।
सर्वेषामेकत्वं सर्वैकत्वं तन्न विद्यते, कुरु इत्यत आह--निःसंख्यत्वात् कर्मगुणानामिति। संख्याया निष्कान्ताः निःसंख्यास्तेषां भावो निसंख्यत्वम्, तथा च कर्माणि गुणाश्च निःसंख्यानि, संख्याया गुणत्वेन गणेषु तावत् संख्या न न विद्यते न वा कर्मसु, गुणानां कर्मसु निषेधात् अन्यथा द्रव्यत्वप्रसङ्गात्। साधितञ्च संख्याया गुणत्वमेकत्वस्य च संख्यात्वमिति भावः ।। 4 ।।
</7-2-4>

<7-2-5>
तर्हि कथमेकं रूपमेको रस इत्यादिज्ञानमित्यत आह--
भ्रान्तं तत् ।। 5 ।।
गुणकर्मसु यदेकत्वज्ञानं तद् भ्रान्तमित्यर्थः। सूत्रे च ज्ञानमिति शेषः आक्षिप्तपूर्वपक्षत्वात् प्रयोगस्तु भाक्तः स्वरूपाभेद एव च भाक्तः न च तदेवैकत्वमुक्तोत्तरत्वात् ।। 5 ।।
</7-2-5>

<7-2-6>
ननु द्रव्येष्वप्ययमेकत्वप्रयोगो भाक्तोऽस्तु प्रत्ययस्तु तत्र भ्रान्तः किमेकत्वेनेत्यत आह--
एकत्वाभावाद् भक्तिस्तु न विद्यते ।। 6 ।।
यदि पारमार्थिकमेकत्वं क्वचिन्नाभ्युपगन्तव्यं तदा न प्रयोगो भाक्तः मुख्यपूर्वकत्वाद्भक्तेः, न वा प्रत्ययो भ्रान्तः प्रमापूर्वकत्वाद् भ्रमस्य, प्रमितं ह्यारोप्यते नाप्रमितम् असत्ख्यातेर्निरासाद् अन्यथा ख्यातेः साधनादिति भावः ।। 6 ।।
</7-2-6>

<7-2-7>
कार्यकारणयोस्तन्तुपटयोरेकत्वमेकपृथक्त्वञ्च, यत एवैकत्वमत एवैकपृथक्त्वमपि न हि स्वस्मादेव स्वं पृथगिति सम्भवति, न हि पटे पाट्यमाने प्रत्येकं तन्तूनामाकर्षे तद्भिन्नः पट उपलभ्यते, यदि तन्तुभिन्नः पटः स्यात् तदा तद्भिन्नतयोपलभ्येत घटवत्, एवं घटेऽपि भग्ने कपालद्वयातिरिक्तस्यानुपलम्भात् घटोऽपी कपालद्वयात्मक एव। तदुक्तं-"नान्योऽवयव्यवयवेभ्यः" इति तदिदं साङ्ख्यीयं मतं प्रसङ्गान्निराचिकीर्षुराह--
कार्यकारणयोरेकत्वैकपृथक्त्वाभावादेकत्वैकपृथक्त्वं न विद्यते ।। 7 ।।
कार्यं कारणञ्च द्वयमेकं न भवति, कुत एतदित्याह--एकत्वाभावादभेदाभावात्। तर्हि यदेव कार्यं तदेव कारणं तन्तवः पट इति बहुत्वैकत्वयोः सामानाधिकरण्यानुपपत्तेः। भवत्येव सामानाधिकरण्यमेकस्यामपि पाथः कणिकायामाप इति प्रयोगात् एकस्यामपि योषिति दारा इति प्रयोगदिति चेन्न तत्रावयवबहुत्वमादायोपपत्तेः। पाथः परमाणौ तु प्रकृतिगतं रूपादिबहुत्वमादायेत्येके। शब्दस्वाभाव्यमिदमपर्यनुयज्यमित्यपरे। न च रण्डाकरण्डावस्थितास्तन्तवः पटव्यपदेशं लभन्ते, न वा धारणाकर्षणे तन्तवः प्रत्येकं कर्तुमीशते, न वा कार्य कारणञ्च द्वयमप्येकपृथक्त्वाश्रयः परस्परावधिकत्वप्रतीतेः। कुत इत्यत आह-एकपृथकत्वाभावात् एकपृथक्त्वमवैधर्म्यं तदभावात् कार्यकारणयोरन्योन्यवैधर्म्यानुभवात् तन्तुत्वपटत्वयोः घटत्वकपालत्वयोश्च भिन्नबुद्धिव्यपदेशयोः सार्वलौकिकत्वात्। कथं तर्हि रूपरसगन्धस्पर्शानां न भेदेनोपलम्भः? अत्यन्तसारूप्यात्, क्वचिच्चित्रपटादौ भेदोपलम्भोऽपि, सह्ख्यापरिमाणादिभेदस्य चातिस्फुटत्वात् ।। 7 ।।
</7-2-7>

<7-2-8>
अनित्ययोरेकत्वेकपृथक्त्वयोः कारणगुणपूर्वकत्वमाह--
एतदनित्ययोर्व्याख्यातम् ।। 8 ।।
अनित्ययोः सङ्ख्यापृथक्त्वयोः कारणगुणपूर्वकत्वं यद्वाख्यातं तदनित्ययोरेकत्वैकपृथक्त्वयोरेव बोद्धव्यम्, अन्येषां सङ्ख्यापृथक्त्वानामपेक्षाबुद्धिजन्यत्वात्, यथाऽनित्ययोस्तेजोरूपस्पर्शयोः कारणगुणपूर्वकत्वं तथैकत्वैकपृथक्त्वपसङ्ख्यानम्, उपसङ्ख्यानान्तरञ्च-`तत्समानाधिकरणञ्च द्विपृथक्त्वादिपरार्द्धपृथक्त्वपर्यन्तम्'।
तदयं द्वित्वाद्युत्पादविनाशक्रमः-समानजातीययोरसमानजातीययोर्द्रव्ययोश्चक्षुःसन्निकर्षे सतितन्निष्ठैकत्वसङ्ख्यायोर्यत्सामान्यमेकत्वं तयोर्निर्विकल्पकानन्तरं तद्विशिष्टगुणबुद्धित्वमुत्पद्यते, सैव चापेक्षाबुद्धिस्तया तयोर्द्रव्ययोर्द्वित्वमुत्पद्यते उत्पन्नस्य च द्वित्वस्य यत्सामान्यं द्वित्वत्वं तदालोचनं तेनालोचनेनापेक्षाबुद्धेर्नाशो द्वित्वत्वविशिष्टं द्वित्वगुणविषया विशिष्टबुद्धिश्चैकदा भवति, तदग्रिमक्षणे च द्वित्वगुणस्यापेक्षाबुद्धिविनाशाद्विनाशः द्वे द्रव्ये इति द्वित्वविशिष्टद्रव्यज्ञानञ्च युगपदुत्पद्यते, ततस्तस्माद् द्वित्वविशिष्टद्रव्यज्ञानात् संस्कारः।
तदयं संक्षेपः-उत्पत्स्यमानद्वित्वाधारेणेनद्रियसन्निकर्षः? ततः एकत्वगुणगत सामान्यज्ञान 2 तत एकत्वत्वसामान्यविसिष्टैकत्वगुणसमूहालम्बनरूपाऽपेक्षाबुद्धिः 3ततो द्वित्वगुणोत्पत्तिः 4 तद्गतसामान्यस्य ज्ञानं 5 ततस्तत्सामान्यविशिष्टद्वित्वगुणज्ञानं 6 ततो द्वित्वगुणविशिष्टद्रव्यज्ञानं 7 ततः संस्कारः 8 इतीनद्रियसन्निकर्षमारभ्य संस्कारपर्यन्तमष्टौ क्षणाः।
विनाशक्रमरत्-एकत्वत्वसामान्यज्ञानस्यापेक्षाबुद्धितो विनाशः द्वित्वत्वसामन्यज्ञानादपेक्षाबुद्धेर्विनाशः द्वित्वसामान्यज्ञानस्य च द्वित्वगुणबुद्धितो विनाशः द्वित्वगुणबुद्धेश्च द्वित्वविष्टद्रव्यज्ञानात् तस्य च संस्कारात् विषयान्तरज्ञानाद्वेति।
नन्वेकत्वज्ञानात्तद्विशिष्टद्रव्यज्ञानमेव कथं नोत्पद्यते तत्सामाग्रीसत्त्वात्, न हि गुणज्ञाने सति द्रव्यज्ञाने विलम्बोऽस्ति तथा च तत एवापेक्षाबुद्धेर्विनाशे तन्नाशाच्च तदग्रिमक्षण एव द्वित्वनाश इति द्वे द्रव्ये इति विशिष्टज्ञानपूर्वक्षण एव द्वित्वविनाशापत्त्या द्वित्वविशिष्टद्रव्यज्ञानस्यानुत्पत्तिरेवेति चेन्न द्वित्वाद्युपत्तिसामग्र्यनभिभूताया एवापेक्षाबुद्धेर्द्रव्यविशिष्टज्ञानजनकत्वनियमात् फलवलेन तथा कल्पनात्। ननु तथापि स्वजनितसंस्कारेणैवापेक्षाबुद्धिविनाशे पुनः स दोषस्तदवस्थ एव, द्वित्वविशिष्टज्ञानपूर्वक्षण एव द्वित्वनाशस्य सम्भवादिति चेन्न केवल गुणज्ञानस्य संस्काराजनकत्वात् न हि केवलो गुणः क्वापि स्मर्यते, सर्वत्र द्रव्योपरागेणैव गुणस्मरणात्। ननु भवत्वेवं तथापि विशिष्टबुद्धिकालेऽपि द्वित्वनाशे विशिष्टप्रतीत्यनुदयस्तदवथ एव, नहि वर्तमानावभासिनी विशिष्टप्रतीतिर्विशेषणनाश्काले सम्भवति तथाऽदर्शनादिति चेन्न विशेषणज्ञानविशेष्येन्द्रियसन्निकर्षतदुभयासंसर्गाग्रहस्य विशिष्टज्ञानसामग्र्याः प्रकृतेऽपि सम्भवात्। यदि तु विशेषणेन्द्रियसन्निकर्षोऽपि मृग्यते तदा पूर्वक्षणे तस्यापि सत्त्वात् पूर्वक्षणवर्त्तिन एव सन्निकर्षस्य कारणत्वेनाभ्युपगमात् विशेषणं विशिष्टज्ञानागोचरोऽपि सम्भवति विशिष्टज्ञानविषयत्वमात्रमेव हि विशेषणत्वे तन्त्रं न तु विशिष्टज्ञानाविषयत्वमपि। उपलक्षणस्यात्येवं विशेषणत्वापत्तिरिति चेन्न प्रत्याय्यव्यावृत्तिसामानाधिकरण्यस्य विशेषणत्वे तन्त्रत्वात्, उपलक्षणन्तु तद्व्यधिकरणम्। एवं यदा देवदत्तगृहे काकवत्ता तदा काको विशेषणं, यदा तु उपरि भ्रमन् असन् तदोपलक्षणम्। एवं सति रूपवति रस इत्यादौ रूपादेरपि विशेषणत्वापत्तिरिति चेन्न इष्टत्वात्। तर्हि तत्रापि रसो वर्तेतेति चेन्न विशिष्टवृत्तेर्विशेषणवृत्तित्वानावश्यकत्वात्, न हि विशेषणं विशिष्टमित्येकं तत्त्वम्। द्वित्वनाशकाले विशेषणसम्बन्धो नास्ति कुतो विशिष्टप्रत्यय इति चेन्न अतद्व्यावृत्तेरेव वैशिष्ट्यपदार्थत्वात्, तद्भानन्तु तत्रापीति न किञ्चिदनुपपन्नमित्याचार्याः। एवं द्वित्वोत्पत्तिविनाशवत्त्रित्वोत्पत्तिविनाशावप्यूहनीयौ।
द्वित्वमपेक्षाबुद्धिनाशनाश्यम्, आश्रयनाश-विरोधिगुणान्तराभावे गुणस्य सतोऽविनाशित्वात् चरमज्ञानवत्, चरमज्ञानस्यादृष्टनाशनाश्यत्वात्।
क्वचिदाश्रयनाशादपि नश्यति यत्र द्वित्वाधारावयवकर्मसमकालमेकत्वसामान्यज्ञानम्। यथा अवयवकर्मसामान्यज्ञाने विभागापेक्षाबुद्धी संयोगनाशगुणोत्पत्ती द्रव्यनाशद्वित्वसामान्यज्ञाने तत्रद्रव्यनाशाद्‌द्वित्वनाशः, सामान्यज्ञानादपेक्षाबुद्धिनाशः, अपेक्षाबुद्धिनाशस्य द्वित्वनाशसमानकालत्वात् कार्यकारणसमानभावाभावात्।
यदा तु द्वित्वाधारावयवकर्मापेक्षाबुद्ध्योर्यौगपद्यं तदा द्वाभ्यामाश्रयनाशापेक्षाबुद्धिनाशाभ्यां द्वित्वनाशः। तद्यथा अवयवकर्मापेक्षाबुद्धी विभागोत्पत्तिद्वित्वोत्पत्ती संयोगनाशद्वित्वसामान्यज्ञाने द्रव्यनाशापेक्षाबुद्धिनाशौ ताभ्यां द्वित्वनाशः प्रत्येकं सामर्थ्यग्रहात्। इयञ्च प्रक्रिया ज्ञानयोर्बद्यषातकपक्षे परमुपपद्यते स एव च पक्षः प्रामाणिकः।
ननु द्वित्वत्रित्वादीनां सामग्रीसाम्ये कथं कार्यवैलक्षण्यं? द्वाभ्यामेकत्वाभ्यां द्वित्वं त्रिभिरेकत्वैस्त्रित्वमिति चेन्न एकत्वे द्वित्वाद्यभावात्। समवायिकारणगतमेव द्वित्वत्रित्वादिके तन्त्रमिति चेन्न द्वित्वाद्युत्पत्तेः पूर्वं तत्र द्वित्वाद्यभावात्, तत्रापि कारणचिन्ताया अनिवारणात् अपेक्षाबुद्धावेकत्वेषु च तादृशविशेषस्यानुपलम्भबोधित्वात्, फलबलेन तत्कल्पने, वा द्वित्वादिव्यवहारोऽपि तत एवास्तु किं द्वित्वादिना। अदृष्टविशेषाद्विशेष इति चेदेवं सति द्वित्वारम्भकयाऽपि सामग्र्या कदाचित्त्रित्वं चतुष्ट्वञ्चोत्पद्येतेत्यनियमप्रसङ्गः।
अत्रोच्यते-प्रागभावविशेषाद्विशेषोपपत्तेः, यथा तुल्यया सामग्र्या पाकजानां रूपरसगन्धस्पर्शानाम्। प्रगभावोऽपि साधारण एवेति चेन्न स्वस्वप्रागभावस्यैव कार्यं प्रति कारणत्वावधारणात्। यद्वा शुद्धयाऽपेक्षाबुद्ध्या द्वित्वं द्वित्वसहितया त्रित्वमिति नेवम्। शतं पिपीलिकानां मया हतमित्यादौ समवायिकारणाभावे द्वित्वं तावन्नोत्पद्यते तथाच गौणस्तत्र सङ्ख्याव्यवहारो द्रष्टव्यः। सेनावनादौ नियतापेक्षाबुद्ध्यभावाद्धहुत्वमात्रमुत्पद्यते न तु शतसहस्त्रदिसङ्ख्येति श्रीधराचार्याः। एवं सति शतसहस्रादिकोटिकस्तत्रसंशयो न स्यात्, न स्याच्च महती महत्तरा सेनेति नैवमित्युदयनाचार्याः।
अत्रैवमालोचनीयम्-त्रित्वादिपरार्द्धपर्यन्ता सङ्ख्यैव बहुत्वम्, तद्भिन्नं वा वा सङ्ख्यान्तरम्? नाद्यः सेनावनादावपि शतसहस्रादिसङ्ख्योत्पत्तिनियमात्। न द्वितीयः त्रित्वादिविलक्षणस्य बहुत्वस्याननुभवात्। तथाच प्रतिनियतैकत्वानालम्बनापेक्षाबुद्धिजनितशतादिसङ्ख्यैव बहुत्वं शताद्यभिव्यक्तिस्तु तत्र न भवति तादृशव्यञ्जकाभावात्।
वयन्तु ब्रूमः-त्रित्वादिसमानाधिकरणं सङ्ख्यान्तरमेव बहुत्वं त्रित्वादिजनकापेक्षाबुद्धिजन्यं प्रागभावभेदादेवं भावः कथमन्यथा-`बहवस्तावत् सन्ति शतं वा सहस्रं वेति विशिष्य न जानीम्' इति। यथैकद्रव्ये महत्त्वं दीर्घत्वञ्च तथैकत्रैवाधिकरणे त्रित्वादिकं बहुत्वञ्च। भवति हि `शतं वा सहस्रं वा चूतफलान्यानयामीति?' प्रश्ने बहवस्तावदानीयन्तां किं विशेषजिज्ञासयेति। एवञ्च द्वित्त्वसहितापेक्षाबुद्ध्या त्रित्वं त्रित्वसहितापेक्षाबुद्ध्या चतुष्ट्वमेवमुत्तरोत्तरोत्तरम् बहुत्वोत्पत्तौ तु नापेक्षाबुद्धौ पूर्वपूर्वसङ्ख्याविशिष्टत्वनियमः। अत एव सेनावनादिषु बहुत्वमात्रमुत्पद्यते न तु सङ्ख्यान्तरं संशयस्त्वसत्कोटिकोऽपि भवत्येवेति। `तत्समानाधिकरणञ्च पृथक्त्वमिति यथा द्वित्वं तथा द्विपृथक्त्व' मित्यादि। ननु द्वित्वत्रित्वादिसमानाधिकरणैरेकपृथकत्वैरेव तद् व्यवहारोपपत्तौ किं द्विपृथक्त्वादिनेति चेन्न घटात् पटलोष्टौ पृथगिति-द्विपृथक्त्वस्यान्योन्यावाधिकत्वाप्रतीतेः प्रत्येकपृथक्त्वे च तत्प्रतीतेरिति वैषम्यात्। न चैवं द्विपरत्वापत्तिः द्वित्वसमानाधिकरणाभ्यां परत्वाभ्यामेव तदुपपत्तेः। यथा पृथक्त्वे परस्परावधिकत्वविरोधस्तथा न परत्वे, द्वाविमौ परावितिद्वाविमौ नीलाबितिवदुपपत्तेः समानदेशस्थयोः संयुक्तसंयोगभूयस्त्वसाम्येऽपि दिक्पिण्डसंयोगस्यासमवायिकारणस्य भेदेन भिन्नकार्योत्पत्तिसम्भवात्। मिलितयोरेकत्वयोर्द्वत्वं प्रति यथाऽसमवायिकाकणत्वं तथा मिलितयोरेकपृथक्त्वयोर्द्विपृथक्त्वं प्रत्यसमवायिकारणत्वसम्भवात् द्रव्यातिरिक्तमेकं कार्यं प्रत्यनेकेषां संयोगानां कार्यैकार्थसमवायप्त्यासत्त्या सम्भूयारम्भकत्वादर्शनात्। कारणैकार्थप्रत्यासत्त्या तु बहबस्तन्तुतुरीसंयोगा एकं पटतुरीसंयोगमारभन्त एवेति दिक्। द्वित्वादिविनाशवद्‌द्विपृथक्त्वादिविनाशोऽप्यूहनीयः ।। 8 ।।
</7-2-8>

<7-2-9>
प्रकरणान्तरमारभते--
अन्यतरकर्मजः उभयकर्मजः संयोजश्र संयोगः ।। 9 ।।
संयोगे संयुक्तप्रतीतिरबाधिता प्रमाणं कार्याणि च,--अवयवसंयोगेषु द्रव्यमग्निसंयोगे पाकजा रूपादयः प्रचये परिमाणविशेषः भेर्याकाशसंयोगे शब्द इत्याद्यूह्यम्। न चाविरलोत्पत्तिरेव संयोगः, क्षणभङ्गपरिणामयोर्निरासात्।
अप्रप्तिपूर्विका प्राप्तिः संयोगः। स चान्यतरकर्मजः--क्रियावता श्येनेन निष्क्रियस्य स्थाणोस्तदभिमुखक्रियारहितस्य सक्रियस्यापि धावतः यथा धावता पूरुषान्तरेण पृष्ठदेशसंयोगः। उभयकर्मजः--मेषयोर्मल्लयोर्वा प्रत्येकं गृहीतसामर्थ्याभ्यामुब्यामेव तज्जननात्। तृतीयस्त्वङ्गुलितरुसंयोगाद्धस्ततरुसंयोगः। स चैकस्मादपि भवति यथा-तन्तुवीरणसंयोगात् पटवीरणसंयोगः। क्कचिद्‌द्वाभ्यां संयोगाभ्यामेकः संयोगः यथा-द्वाभ्यां तन्तुभ्यामाकाशस्य द्वौ संयोगौ ताभ्यामेक एव द्वितनतुकपटस्याकाशेन संयोगः। क्वचिच्च बहुभिरपि संयोगैरेकः संयोग आरभ्यते यथा-दशभिस्तन्तुभिराकाशस्य दश संयोगा एकमेव दशतन्तुकपटा काशसंयोगमारभन्ते। क्वचित् पुनरेकस्मादपि संयोगादसमवायिकारणात् संयोगद्वयमुत्पद्यते यथा-पार्थिवाप्ययोः परमाण्वोः प्रथममनारम्भके संयोगे जाते पार्थिवे परमाणौ पार्थिवपरमाण्वन्तरेण, आप्ये च परमाणावाप्यपरमाण्वन्तरेण, द्व्यणुकद्वयारम्भकं संयोगद्वयमुत्पद्यते, ताभ्यां संयोगाभ्यां सजातीयनिष्ठाभ्यां द्व्यणुकद्व्यं युगपदारभ्यते, तत्र यः पार्थिवाप्यपरमाण्वोरनारम्भकः संयोगउत्पन्नस्तेनैकेनैव पार्थिवपरमाणुनाऽऽप्यद्व्यणुकेनैकः संयोगः आप्यपरमाणुना पार्थिवद्व्यणुकेनापरः संयोगो द्व्यणुकयो रूपाद्युत्पत्तिसमकालमेव जायते, कारणाकारणसंयोगेन कार्याकार्यसंयोगयोरवश्यं जननात्।
मूर्त्तैर्विभूनामन्यतरकर्मज एव। विभुनोस्तु न संयोगः कारणाभावात् कर्म तावत्तत्र नास्ति न च कारणं तेन कारणाकारणसंयोगात् कार्याकार्यसंयोगोऽपि नास्ति। नित्यस्तु संयोगो न सम्भवति अप्राप्तिपूर्विकायाः प्राप्तेः संयोगत्वात् नित्यत्वे तद्विघातात् एवञ्च सति विभागोप्यजतस्तत्र स्यात्। न चेष्टापत्तिः संयोगविबागयोर्विरोधिनोरविनश्यदवस्थयोरेकत्रानुपपत्तेः। किञ्च संयोगं प्रति प्रयोजिका युतसिद्धिः, न च विभुनोस्तत्सम्भवः। सा हि द्वयोरन्यतरस्य वा पृथग्गतिमात्रं युताश्रयाश्रयित्वं वा।
विनाशस्तु संयोगस्य समानाधिकरणाद्विभागादाश्रयनाशदपि क्वचित् यथा तन्तुद्व यसंयोगानन्तरमेकस्य तन्तोरवयवेंऽशौ कर्म जायते तेनांश्वन्तराद्विभागः क्रियते विभागादारम्भकसंयोगनाशस्ततस्तन्तुविनाशस्तन्तुविनाशात संयोगनाशो यत्र तन्तुद्वयं चिरं संयुक्तं सदनुत्पन्नक्रियं भवति।
केचित्तु तन्त्ववयवकर्मणा यदा तन्त्वारम्भकसंयोगनाशः क्रियते तदा तन्त्वन्तरे कर्मचिन्तनात् आश्रयनाशविभागाभ्यां युगपदुत्पन्नाभ्यां संयोगो नश्यतीत्याहुः।
तच्चानुपपन्नं समवायिकारणनाशक्षणे विभागानुत्पत्तेः समवायिकारणस्य कार्यसमकालस्थायित्वनियमात्। स चायं संयोगो द्रव्यारम्भे निरपेक्षो, गुणकर्मारम्भे सापेक्षः, स्वसमानाधिकरणात्यन्ताभावप्रतियोगी तथैवानुभवात्। शाखामात्रावच्छेदेनापि महति न्यग्रोधतरौ वर्त्तमानः कपिसंयोगः"न्यग्रोधतरौ कपिसंयोग" इत्यनुभवात्। अवच्छेदमात्रेणान्यथासिद्धौ परमाणुवृत्तिरापद्येत तथा च नीपलभ्येत। विभूतामप्युपाधिभेद एव प्रदेशस्त दवच्छेदेन वर्त्तमानस्य संयोगस्याव्यप्यवृत्तित्वं परमाणुनिष्टस्यापि संयोगस्य दिगादयोऽवच्छेदकास्चिन्तनीयाः ।। 9 ।।
</7-2-9>

<7-2-10>
विभागे संयोगोत्पत्तिप्रकारभतिदिशन्नाह--
एतेन विभागो व्याख्यातः ।। 10 ।।
संयोगवद्विभागोऽप्यन्यतरकर्मज उभयकर्मजो विभागजश्च। श्येनकर्मणा स्थाणुश्येनावभागः, संयुक्तयोर्मल्लयोर्मेषयोर्वा कर्मभ्यां तदुभयविभागः। स चायं कर्मोत्पत्त्यव्यवहितक्षणोत्पत्तिकः अपेक्षणीयान्तराभावात्। तदुक्तं--"संयोगविभागयोरनपेक्षकारणं कर्म" इति। चेन्न स्वोत्पत्त्यन्तरोत्पत्तिकभावभूतानपेक्षत्वस्य कर्मणो निरपेक्षत्वात्। विभागजस्तु विभागो द्विविधः कारणमात्रविभागजकारणाकारणविभागभेदात् कारणाकारणविभागजकार्याकार्यविभागभेदाच्च। तत्र कारणमात्रविभागात् कारणाकारणविभागो यथाकपालद्वयविभागात् कपालाकाशविभागः। कारणाकारणविभागाच्च कार्याकार्यविभागो यथा-ऽङ्गुलीतरुविभागाद्धस्ततरुविभागस्ततः शरीरतरुविभाग इति।
ननु विभाग एव न प्रमाणं संयोगाभाव एव विभागव्यवहारादिति चेन्न संयोगाभावोऽत्यन्ताभावश्चेत् गुणकर्मणोरपि विभागव्यवहारप्रसङ्गात्। द्रव्ययोर्वर्त्तमानः संयोगात्यन्ताभावो विभक्तप्रत्ययहेतुरिति चेन्नावयवावयविनोरपि प्रसङ्गात्। अकार्यकारणभूतयोर्द्रव्ययोरिति चेत् विन्ध्यहिमवतोरपिस्यात्। भवत्येव तत्रेति चेन्न भ्रान्तस्य गुणकर्मणोरपि भावात् अभ्रान्तमधिकृत्य व्यवहारस्य चिन्त्यमानत्वात्। संयोगविनाशो विबाग इति चेत् एकतरसंयोगिनाशेन नष्टे संयोगे तद्व्यहारप्रसङ्गात्। संयोगिनोर्विद्यमानयोरिति चेत् एकसंयोगनाशानन्तरं पुनः संयुक्तयोः कुवलामलकयोः संयोगदशायामपि विभक्तप्रत्ययप्रसङ्गात् तत्रयावदर्थाभावात्। तस्मादस्ति विभागोऽर्थान्तरम्।
स च गुणः विरोधिगुणान्तरनाश्यः' विरोधिनं समानाधिकरणं गुणमन्तरेण सत्याश्रये गुणनाशानुपपत्तेः। कमव संयोगनाशकं स्यादिति चेन्न विरोधिनोगुणस्य गुणनाशकत्वात्। किञ्च यत्राङ्गुलीहस्तभुजशरीराणां स्वस्वकर्मणा तरुसंयोगस्तत्राङ्गुलीमात्रे समुत्पन्नेन कर्मणाऽङ्गुलीतरुसंयोगनाशसम्भवेऽपि हस्ततरुभुजतरुशरीरतरुसंयोगानामनाशप्रसङ्गात् हस्तादीनामक्रियत्वात् अङ्गुलीकर्मणश्च व्यधिकरणत्वात्। व्यधिकरणस्यापि कर्मणः संयोगनाशकत्वे क्वचिदप्युत्पन्नेन कर्मणा युगपदेव सर्वसंयोगनाशापत्तेः। त्वन्मते तत्र का गतिरिति चेत् अङ्गुलीतरुवि भागेन हस्ततरुविभागो जनितो हरततरुसंयोगनाशक इत्यभ्युपगमात्। `व्यधिकरणेनाङ्गुलीकर्मणैव हस्ततरुसंयोगनाशोऽस्तु, न चातिप्रसङ्गः आश्रयाश्रितपरम्परासंयोगस्यैव व्यधिकरणकर्मनाश्यत्वाभ्युपगमादिति' सर्वज्ञेन यदुक्तम्, तदपि न युक्तं-विरोधिनःसमाधिकरणस्यैव सर्वत्र नाशकत्वानुभवात्बाधकमन्तरेण तत्परित्यागानुपपत्तेः। शब्दविभागौ च विभागकार्यौ, तत्र विभागस्य शब्दासमवायिकारणत्वं मृष्यामहे, न हि वंशे पाठ्यमाने दले च चरणयन्त्रणावष्टव्ये दलान्तरेचोपरिकृष्यमाणे यः शब्दो जायते तत्र दलाकाशविभागादनय्दसमवायिकारणं पश्यामः। न च दवदहनदह्यमानस्फुटद्वेणुचीत्कारो विभागातिरिक्तमसमवायिकारणं पश्यामः। कारणाकारणविभागाच्च कार्याकार्यविभागमनुमन्यामहे कथमन्यथा स्वस्वकर्मजनिताङ्गुलोतरुविभागे सति अङ्गुलीतरुसंयोगानाशे सत्यपि हस्ततरुसंयोगादीनां नाशः, तत्र हि विभागजविभागपरम्परैव तत्तत्संयोगनाशिकेत्युक्तत्वात्। कारणद्वयविभागपूर्वके तु कारणाकारणविभागे न संप्रत्यय यतो वंशदले यदुत्पन्नं कर्म तेन दलान्तरविभागवदाकाशादिविबागस्यापि जननसम्भवात् यावद्भिः संयुक्तमासीत् तावद्भस्तत्कर्मणा विभागस्य दर्शनात्, न ह्यङ्गुल्यामुत्पन्नेन कर्मणाऽङ्गुल्यन्तरविभागवदाकाशादिदेशेभ्योऽपि विभागा न जन्यन्ते कमलदले चोत्पन्नेन कर्मणा दलान्तरविबागवदाकाशादिदेशेभ्यो वा न विभागा आरभ्यन्ते। द्रव्यारम्भकसंयोगाविरोधिनः शतमपि विभागानेकं कर्मारभतां तत्तु कर्म द्रव्यारम्भकसंयोगविरोधिनं विभागभारमते न तत् द्रव्यारम्भकसंयोगाविरोधिनमपि यच्च द्रव्यारम्भकसंयोगाविरोधिनं न तद् द्रव्यारम्भकसंयोगविरोधिनमिति ब्रूमः। कुत एतदिति चेत् कार्यय्वैचित्र्येण कारणवैचित्र्यस्यावश्यकत्वात्। ननु कर्मणि वैचित्र्यमावश्यकं तथाचैकं कर्म द्रव्यारम्भकसयोगविरोधिनं विभागं जनयतु यथा विकसत्कमलकुड्मलादावपरञ्च द्रव्यारम्भकसंयोगविरोधिनमविरोधिनञ्चोभयमिति। मैवम्, कार्य्यविरोधो हि कारणवैचित्र्यकल्पनामूलं स च विरोधः एकस्य द्रव्यारम्भकसंयोगप्रतिद्वन्द्वित्वेन, अपरस्य तु तदप्रतिद्वन्द्वित्वेनेति तथैव वैचित्र्यस्यापि कल्पनौचित्यात्। तच्चेदं वंशदले वर्तमानं कर्म दलद्वयविभागमात्रं जनयति, स च विभागोऽग्रे आकाशादिदेशाद्विबागं द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विनं विभागमारभते, तस्य च निरपेक्षस्य विभागजनने कर्मत्वापत्तिरिति द्रव्यनाशविशिष्टं कालमपेक्षते। ननु तदानीमपि कर्मैव तज्जनयतु अतीतकालत्वात् विभागजनने कर्मणः स्वोत्पत्त्यनन्तर एव कालः। नन्वेव विभागन जनिते विभागान्तरे कर्म प्रदेशान्तरसंयोगमपि न जनयेत्, न संयोगजननं प्रति कर्मणोऽनतीतकालत्वात् अन्यथा कर्म न नश्येदेव तस्योत्तरसंयोगमात्रनाश्यत्वात्।
सोऽयं विभाग उत्तरसंयोगनाश्यः क्षणत्रयस्थायो। क्वचिदाश्रयनाशनश्यः, तद् यथा-तन्तोरवयवेऽशौ कर्म तदनन्तरसंशुद्वयविभागस्तदैव तन्त्वन्तरे कर्म ततोंऽशुद्वयविभागेन तन्त्वारम्भकसंयोगनाशस्तन्तुकर्मणा च विभागस्ततो द्रव्यारम्भकसंयोगनाशात्तन्तुनाशस्तन्नाशाच्च तन्त्वन्तरकर्मजन्यविभागनाशः। नन्वेवं तन्त्वन्तरोत्पन्नस्य कर्मणो न नाशः स्याद्विनाशकाभावात् उत्तरसंयोगेन हि कालमपेक्षते। ननु तदानीमपि कर्मव तज्जनयतु, अतीतकालत्वात् विभागजनने तन्नाश्येत, विभागे च नष्टे नोत्तरसंयोग इति चेन्न तन्तौ यत् कर्मोत्पन्नं तेन यथा विनश्यदवस्यतन्तोर्विभागो जनितस्तथा तदंशोरपि विभागो जननीयः सोऽप्यारम्भकसंयोगविरोध्येव तेनांशुतन्तुविभागेन तन्त्वाकाशविभागस्तेन चोत्तरसयोगस्तेनततः कर्मनाशः। यद्वा यत्र तन्तौ यदा कर्म तदंशावपि तदैव कर्म तच्च कर्म विनश्यदवम्यतन्तुतदवयवाकाशादिदेशाद्युगपदेव विभागानारभते सर्वेषां विभागानामारम्भकसंयोगाविरोधित्वात्, तथा च कारणमंशुरकारणञ्चा काशादि तद्विभागात् कार्यस्य तन्तोरकार्येणाकाशादिना यो विभाग उत्पन्नस्तद नन्तरोत्पत्तिकेन संयोगेन तन्तुसमवेतस्य कर्मणो विनाश इति। क्वचिद्वाभ्यां, तदु यथा-तन्तुवीरणयोः संयोगे सति तन्त्ववयवेऽशौ कर्मवीरणे च कर्मेत्येकः कालः, अंशुकर्मणाऽश्वन्तरविभागस्तेन च संयोगस्य तन्त्वारम्भकस्य विनाशः वीरणकर्मणा च तन्तुवीरणविभागस्तुन्तुवीरणसंयोगनाशश्च तन्त्वारम्भकसंयोगनाशश्च तन्त्वारम्भकसंयोगनाशानन्तरं तन्तुनाशस्तन्तुवीरणसंयोगनाशानन्तरं वीरणस्य प्रदेशान्तरसंयोगस्ताभ्यामाश्रययनाशसंयोगाभ्या विभागनाशः ।। 10 ।।
</7-2-10>

<7-2-11>
ननु संयोगेऽपि संयोगोऽस्तुविभागेऽपि विभाग इति प्रसङ्गनिवारणार्थमाह--
सयोगविभागयोः संयोगविभागाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः ।। 11 ।।
यथाऽणुत्वमहत्त्वे नाणुत्वमहत्त्ववती तथा संयोगविभागौ न संयोगविभागवन्तौ ।। 11 ।।
</7-2-11>

<7-2-12>
कर्मभिः कर्माणि गुणैर्गणा अणुत्वमहत्त्वाभ्यामिति ।। 12 ।।
द्वितीय़ञ्च सूत्रं व्याख्यातं मेव ।। 12 ।।
</7-2-12>

<7-2-13>
ननु द्रव्ययोरवयवावयविनोः संयोगः कथं नेत्यत आह--
युतसिद्ध्यभावात् कार्यकारणयोः संयोगविभागौ न विद्येते।
असम्बन्धोर्विद्यमानत्वं युतसिद्धिः पृथगाश्रयाश्रितत्वं वा तदभावस्त्ववयवावयविनोरित्यर्थः ।। 13 ।।
</7-2-13>

<7-2-14>
इदानीं प्रसङ्गाच्छब्दार्थयोः साङ्केतिकं सम्बन्धं साधयितुं प्रकरणान्तरम्, तत्र पूर्वपक्षमाह--
गुणत्वात् ।। 14 ।।
संयोस्येति शेषः। तथाच गुणस्य शब्दस्य गुणः संयोगः कथं स्यात् अर्थेन घटादिनेत्यर्थः ।। 14 ।।
</7-2-14>

<7-2-15>
किञ्च विषयोऽपि क्वचिद्रुपरसादिलक्षणस्तेन संयोगो न सम्भवति गुणे गुणानङ्गीकारादित्याह--
गुणोऽपि विभाव्यते ।। 15 ।।
गुणोऽपि विषय इति शेषः। गुणोऽपि रूपादिः शब्दस्य विषयो न तु तेन समं संयोगः सम्बन्ध इत्यर्थः।
यद्वा गुणोऽपि शब्देन विभाव्यते प्रतिपाद्यते तेन च शब्दस्य न संयोगः सम्बन्ध इत्यर्थः ।। 15 ।
</7-2-15>

<7-2-16>
किञ्च कस्यचिदाकाशादेर्द्रव्यस्य नान्यतरकर्मजः संयोगो नोभयकर्मजः शब्दस्यापि निष्क्रियत्वादित्याह--
निष्क्रियत्वात् ।। 16 ।।
शब्दस्य कस्यचिदर्थस्य चेति शेषः ।। 16 ।।
</7-2-16>

<7-2-17>
सम्बन्धे बाधकान्तरमाह--
असति नास्तीति च प्रयोगात् ।। 17 ।।
असत्यपि घटपटादौ - नास्ति गेहे घटः, नास्ति पटः, श्रतपूर्वोगकारो नास्ति, अभूत् पटः, पटो भविष्यतीत्यादिप्रयोगदशंनादित्यर्थः। तथाचासता घटादिना शब्दस्य न संयोगो न वा समवाय इति भावः ।। 17 ।।
</7-2-17>

<7-2-18>
किञ्चात इत्यत आह--
शब्दार्थावमम्बन्धौ ।। 18 ।।
शब्दार्थयोः संयोगश्चेन्नास्ति तदेतदायातं-शब्दार्थावसम्बन्धावेवेत्यर्थः।
</7-2-18>

<7-2-19>
ननु संयोगसमवाययोरन्यतरसम्बन्धः कथं न स्यादित्यत आह--
र्सयोगिनो दण्डात् समवायिनो विशेषाच्च ।। 19 ।।
दण्डी पुरुषः-हस्ती कुञ्जर-इति प्रत्ययौ स्तः, तत्र प्रथमः संयोगात्, द्वितीयः समवायात् हस्तेऽवयवविशेषे कुञ्जरस्य समवायाधीनः प्रत्ययः। हन्तः समवायितया यस्यास्ति स हस्तीति। विशेषादिति। विशेष एव हस्तादौ समवायसम्बन्धाद्विशेषणत्वं न तु तन्त्वादीनामपि तन्तुमान् पट इत्यादिरवयवविशेषणबावेन प्रत्ययो भवति, एवं घटशब्दवान् घटोऽर्थ इति प्रत्ययो न भवति, तथाच शब्दार्थयोर्न संयोगो नापि समवाय इति भावः ।। 19 ।।
</7-2-19>

<7-2-20>
ननु यदि न संयोगो न वा समवायः शब्दार्थयोस्तर्हि केन सम्बन्धेन शब्दो नियतमर्थं प्रतिपादयतीत्यत आह--
सामयिकः शब्दादर्थप्रत्ययः ।। 20 ।।
सामयिक इति। समय ईश्वरसङ्केतः-अस्माच्छब्दादयमर्थो बोद्धव्य इत्याकारः, यः शब्दो यस्मिन्नर्थे भगवता सङ्केतितः स तमर्थं प्रतिपादयति, तथा च शब्दार्थयोरीश्वरेच्छैव सम्बन्धः स एव समयस्तदधीन इत्यर्थः। यथा नकुलदंषट्राग्रत्पृष्टा या काचिदोषधिः सा सर्वाऽपि सर्पविषं हन्ति।
स च समयः क्वचिव्द्यवहाराद् गृह्यते, यथा-प्रयोजकेन घट मानयेत्युक्ते प्रयोज्यस्य कम्बुग्रीवावन्तमर्थमानयतो ज्ञानं तावद नुमिनोति तटस्थो बालः-इयमस्य प्रवृत्तिर्ज्ञानजन्या प्रवृत्तित्वात् मत्प्रवृत्तिवत्। तच्च झानमेत द्वाक्यजन्यमेतदनन्तरभावित्वात्, एतजज्ञानविषयोऽयं कम्बुग्रीवावानर्थो घटपदवाच्य इत्यावापोद्वापप्रक्रियया बालस्य घटपटादावर्थे व्युत्पत्तिः।
क्वचिच्च साक्षादाप्तवाक्यादेव यथाऽयं कम्बुग्रीवावानर्थो घटपदवाच्य इति।
क्वचिदुपमानात्, यथा-गोसदृशो गवयः, यथा मुद्‌गस्तथा मुद्‌गपर्णी, यथा माषस्तथा माषपर्णीत्यादि साधर्म्योपमानात्। क्वचिन्निन्दाकारादपि वाक्यात्, यथा-धिक् करभमतिलम्बौष्ठं दीर्घग्रीवं कठोरकण्टकाशिनमपसदं पशूनामिति निन्दावाक्यश्रवणानन्तरं तादृशपिण्डमुपलभ्यायमसौ करभ इति व्युत्पत्तिः।
क्वचित् प्रसिद्धपदसामानाधिकरण्यात्, यथा-प्रभिन्नकमलोदरे मधूनि मधुकरः पिबतीति वाक्यश्रवणानन्तरं भवत्ययमसौ मधुकरपदवाच्यः प्रभिन्नकमलोदरे मधुपानकर्तृत्वात्, यथा वा सहकारतरौ मधुरं पिको रौतीति। तदेतदनुमानं वा शब्द एव वा प्रसिद्धपदसामानाधिकरण्यसामर्थ्याद्व्युत्पादकः, उपमानविशेष एव वा, मधुपानकर्तृत्वस्य भ्रमरादिव्यक्त्यन्तरसाधर्म्यस्योपनयात्।
समयशच् जातिमात्रे, व्योक्तेराक्षेपत एवोपस्थितेरिति तौतातिकाः।
(1 जातौ व्यक्तौ चोभय (त्र) शक्तिः किन्तु जात्यंशे ज्ञाता व्यक्त्यंशे स्वरूपसती प्रयोजिकेति प्राभाकराः।
समयः शक्तिरेव `व्यक्त्याकृतिजातयः पदार्थः (अo2आo2न्याoसूo63) इति' वृद्धाः. गवादिपदानामियं गतिः, गुणकर्मादिवाचकण्दानान्तु जातिव्यक्ती एवार्थ इति मयूखे विपञ्चितम् ।। 20 ।।
</7-2-20>

<7-2-21>
इदानीमुद्देशक्रमप्राप्ते परत्वापरत्वे परस्परानुबद्धव्यवहारकारणतया शिष्यबुद्धिवैशद्यार्थ संक्षेपार्थञ्चैकग्रन्थेनाह--
एकदिक्काभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरञ्च ।। 21 ।।
परमपरञ्चेति भावप्रधानो निर्देशः। उत्पद्यत इति शेषः। यद्वा परमपरञ्चेति व्यवहार इति शेषः। इतिरध्याहार्य्यम्। एका दिग् ययोस्तावेकदिक्कौ, ताभ्यामेकदिक्काम्यां पिण्डाभ्यामित्यर्थः। तुल्यदेशावप्येकदिक्कौ भवतः न तु ताभ्यां परत्वापरत्वे उत्पद्येते व्यवह्लियेते वेत्यत उक्तं सन्निकृष्टविप्रकृष्टाभ्यामिति। सन्निकर्षः संयुक्तसंयोगाल्पत्वम्, विप्रकर्षस्तद्‌भूयस्त्वम्, तद्वद्भ्यामित्यर्थः। एतेन समवायिकारणमुक्तम्। दिक्‌पिण्डसंयोगस्त्वसमवायिकारणम्, तथा हि प्राङ्‌मुखस्य पुरुषस्य प्राच्यवस्थितयोः पिण्डयोरेकस्मिन् संयुक्तसंयोगभुयस्त्वमपरस्मिन संयुक्तसंयोगाल्पतरत्वञ्चापेक्ष्य परत्वमपरात्वञ्चोत्पद्यते, (असमवायिकारणमुक्तम)। सन्निकृष्टविप्रकृष्टाभ्यामिति,-विषयेण विषयिणं प्रत्ययमुपलक्षयति। तथा चापेक्षाबुद्धेर्निमित्तकारणत्वमुक्तम्। एकदिगवस्थितयोरेव परत्वापरत्वे उत्पद्येते इति न सर्वत्रोत्पत्तिः। एकस्यैव द्रष्टुरपेक्षाबुद्धिः समुत्पद्यते इति न सर्वथोत्पत्तिः। अपेक्षाबुद्धिनियमान्न सर्वदोत्पत्तिः। कारणशक्तेरुत्पन्नयोः प्रत्यक्षसिद्धत्वान्न परस्पराश्रयत्वम्, अन्यथा हि नोत्पद्येयातां न वा प्रतीयेयातां, परस्परापेक्षायां हि द्वयोरनुत्पत्तिरप्रतीतिश्च स्यात्, प्रतीयेते च परत्वापरत्वे, प्रतीतिश्च तयोर्नोत्पत्तिमन्तरेणेति।
एककालाभ्यामिति,-कालिकपरत्वापरत्वे अभिप्रेत्य। तत्रैककालाभ्यामिति, एको वर्त्तमानः कालो ययोर्युवस्थविरपिण्डयोः तावेककालौ ताभ्यामेककालाभ्यामित्यर्थः। सन्निकर्षोऽल्पतरतपनपरिस्पन्दान्तरितजन्मत्वम्। अत्रापि विपयेण विषयिणीं बुद्धिमुपलक्षयति, तेन युवस्थविरपिण्डौ समवायिकारणे, कालपिण्डसंयोगश्चासमवायिकारणम्, अल्पतरतपनपरिस्पन्दान्तरितजन्मत्वबुद्धिरपरत्वे बहुतरतपनपरिस्पन्दान्तरितजन्मत्वबुद्धिः परत्वे निमित्तकारणम्। एते च परत्वापरत्वे अनियतदिग्देशयोरपि पिण्डयोरुत्पद्येते।
तत्र दैशिकपरत्वापरत्वयोः सप्तधा विनाशः। उत्पादस्तु युगपदेव द्वयोरन्यथाऽन्योन्याश्रयः स्यात्। अपेक्षाबुद्धिनाशात् 1, संयोगस्यासमवायिकारणस्य नाशात् 2, द्रव्यस्य च समवायिकारणस्य नाशात् 3, निमित्तासमवायिकारणयोर्नाशात् 4, निमित्तसमवायिकारणयोर्नाशात् 5, समवाय्यसमवायिकारणयोर्नाशात् 6, निमित्तनाशासमवायिकारणनाशसमवायिकारणनाशेभ्यः 7।
तत्रापेक्षाबुद्धिनाशात् तावत्-परत्वोत्पत्तिः परत्वसामान्यज्ञानं ततोऽपेक्षाबुद्धिविनाशस्तद्विनाशात् परत्वविशिष्टद्रव्यज्ञानकाले परत्वनाशः, द्वित्वनाशवदेव सर्वमूहनीयम्।
उपमवायिकारणनाशादपि, तद् यथा-यदैवापेक्षाबुद्धिस्तदैव परत्वाधारे पिण्डे कर्म। ततो यदैव परत्वोत्पत्तिस्तदैव दिक्‌पिण्डविभागस्ततो यदा परत्वसामान्यज्ञानं तदा दिक्‌पिण्डसंयोगनाशः। ततः सामान्यज्ञानादपेक्षाबुद्धिनाशस्तदैव दिक्‌पिण्डसंयोगनाशात् परत्वापरत्वयोर्नाशः। तत्र चापेक्षाबुद्धिनाशस्य परत्वनाशसमकालत्वान्न तन्नाशकत्वम्। नन्वसमवायिकारणानाशादपि गुणनाशे आत्ममनःसंयोगनाशादपि संस्कारादृष्टादीनां विनाशे बहु व्याकुलं स्यादिति चेन्न, विप्रकृष्टत्वेन परत्वस्य व्यापनात् परत्वाधारस्यान्यत्र गमने विप्रकर्षाभावात्, परत्वनिवृत्तिरावश्यकी। न च तदा नाशकान्तरमस्तीत्यन्यथाऽनुपपत्त्या संयोगनाश एव नाशकः कल्प्यते, संस्कारादृष्टादेः कार्य्यस्य स्मृतिसुखादेश्चिरेणापि दर्शनान्न तन्नाशकल्पना। उपलक्षणञ्चैतत् अवधेर्द्रष्टुश्च तद्देशसंयोगनाशादपि परत्वापरत्वे विनश्यतः, युक्तेस्तुल्यत्वात्।
समवायिकारणनाशादपि क्वचित् परत्वनाशः। तथाहि-यदा पिण्डावयवे समुत्पन्नेन कर्मणाऽवयवान्तराद्विभागस्तदैवापेक्षाबुद्धिः, विभागात् पिण्डारम्भकसंयोगनाशः परत्वोत्पत्तिः, अग्रिमक्षणे संयोगनाशाद् द्रव्यनाशः परत्वसामान्यज्ञानं, द्रव्यनाशात् परत्वनाशोऽपेक्षाबुद्धिनाशश्च सामान्यज्ञानात्। तथा च यौगपद्यान्नापेक्षाबुद्धिनाशात् परत्वनाश इति।
क्वचिद् द्रव्यनाशापेक्षाबुद्धिनाशाभ्यां परत्वनाशः। तद्यथा-पिण्डावयवे कर्मापेक्षाबुद्धेरुत्पादस्ततोऽवयवान्तरविभागः परत्वोत्पत्तिश्च, तत आरम्भकसंयोगनाशसामान्यज्ञाने ततो द्रव्यनाशापेक्षाबुद्धिनाशौ ततश्च तपत्वनाशः।
क्वचिद् द्रव्यस्य संयोगस्य च नाशाभ्यां परत्वनाशः, तद् यथा यदा द्रव्यावयवविभागस्तदैव पिण्डकर्मापेक्षाबुद्ध्योरुत्पादस्तदनन्तरमवयवसंयोगनाशदिक्‌पिण्डविभागपरत्वोत्पत्तयः। ततो द्रव्यानाशदिक्‌पिण्डसंयोगनाशपरत्वसामान्यबुद्धयः। ततो द्रव्यनाशदिक्‌पिण्डसंयोगनाशाभ्यां परत्वनाशः सामान्यबुद्धेरपेक्षबुद्धिनाश इति।
क्वचित् संयोगनाशापेक्षाबुद्धिनाशाभ्यां परत्वनाशः, तद्यथा-परत्वोत्पत्तिपिण्डकर्मणी सामान्यज्ञानविभागौ अपेक्षाबुद्धिनाशदिक्‌पिण्डसंयोगनाशौ ततः परत्वनाशः।
क्वचिद् समवाय्यसमवायिनिमित्तनाशेभ्यः। तद्यथा-परत्वोत्पत्तिपिण्डावयवविभागपिण्डकर्माणि युगपत्, तदनन्तरं परत्वसामान्यज्ञानावयवसंयोगनाशदिक्‌पिण्डविभागा तदनन्तरमपेक्षाबुद्धिनाशद्रव्यनाशदिक्‌पिण्डसंयोगनाशेभ्यो युगपदुत्पन्नेभ्यः परत्वस्यापरत्वस्य वा दैशिकस्य नाशः।
कालकृतयोस्तु परत्वापरत्वयोरसमवायिकारणनाशादीनो नाशो नास्ति, दैशिकयोर्दिक्‌र्पिण्डसंयोगनाशे सन्निकर्षविप्रकर्षनाशो यथा न तथा कालिकयोरिति, तयोः समवायिकारणनाशादपेक्षाबुद्धिनाशात् द्वाभ्याञ्चेति त्रयः पक्षाः पूर्ववदूहनीयाः ।। 21 ।।
</7-2-21>

<7-2-22>
कालिकपरत्वापरत्वे प्रति विशेषमाह--
कारणपरत्वात् कारणापरत्वाच्च ।। 22 ।।
परत्वापरत्वयोः कारणं कालस्तस्य परत्वापरत्वे परत्वासमवायिकारणकालसंयोगोऽपरत्वासमवायिकारणकालसंयोगश्च लक्षणयोक्तः अन्यथाऽनन्वयापत्तेः, न हि परत्वापरत्वाभ्यामेव परत्वापरत्वे उत्पद्येते। तस्मात् परत्वापरत्वपदयोस्तदुत्पादककालसंयोगावर्थौ लक्षणया ।। 22 ।।
</7-2-22>

<7-2-23-25>
ननु परत्वेऽपि परत्वमपरत्वेऽप्यपरत्वं किं न स्यादित्यत आह--
परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः ।। 23 ।।
कर्मभिः कर्माणि ।। 24 ।।
गणैर्गुणाः ।। 25 ।।
एतानि सूत्राणि पूर्वमेव व्याकृतकल्पानि नेह व्याक्रियन्ते ।। 23-25 ।।
</7-2-23-25>

<7-2-26>
परत्वापरत्वादीनां मूर्त्तमात्रसमवेतत्वमुक्तं ज्ञानमुखादीनाञ्चात्मसमवेतत्वम्। तत्र समवाय एव क इति शिष्यजिज्ञासामनुरुध्य बुद्धेरुद्धेशक्रमप्राप्ताया अपि लङ्घनात् समवायपरीक्षामाह--
इहेदमिति यतः कार्यकारणयोः स समवायः ।। 26 ।।
कार्यकारणयोरित्युपलक्षणम्, अकार्यकारणयोरित्यपि द्रष्टव्यम्। तदुक्तं पदार्थप्देशाख्ये प्रकरणे- "अयुतसिद्धानामाधार्य्याधारभूतानां यः सम्बन्ध इहेतिप्रत्ययहेतुः स समवायः" इति। असम्बद्धयोरविद्यमानत्वमयुतमिद्धिः, इह कुण्डे दधि इह कुण्डे बदराणीतिवत् इह तन्तुषु पट इह वीरणेपु कट इह द्रव्ये गुणकर्माणि इह गवि गोत्वम् इहाऽऽत्मनि ज्ञानम् इहाऽऽकाशे शब्द इतीहबुद्धिरुत्पद्यमाना न विना सम्बन्धमुत्पत्तुमर्हति तेनानुमीयतेऽस्ति कश्चित् सम्बन्धः। न चासौ संयोग एव, अन्यतरकर्मादीनां तदुत्पादकानामभावात् विभागपर्य्यवसानाभावाच्च सम्बन्धिनामयुतसिद्धत्वाच्च नियताधिकरणतयैवोन्नेयत्वात् अप्रत्यक्षत्वादेकत्वान्नित्यत्वाच्च। नन्वेकश्चेत् समवायस्तदा द्रव्यत्वादीनां सङ्करप्रसङ्गः, कर्मत्वादिसमवायस्य द्रव्ये सस्भवात्। मैवम्, आधाराधेयनियमादेवासङ्करात्। यद्यपि य एव द्रव्यत्वसमवायः स एव गुणत्वकर्मत्वादीनामपि, तथापि चैषां न द्रव्यमाधारस्तत्र तेषामप्रतीतेः द्रव्येष्वेव द्रव्यत्वं प्रतीयते गुणेष्वेव गुणत्वं कर्मस्वेव कर्मत्वं नत्वन्यत्रेत्यन्वयव्यतिरेकदर्शनादेव नियमः, यथा कुण्डदध्नोः संयोगविशेषेऽपि कुण्डमेवाधारो न दधीत्याश्रयाश्रयिभावनियमस्तथा व्यङ्ग्यव्यञ्जकशक्तिभेदादेवात्रापि नियम उपपत्स्यते, न हि द्रव्येण द्रव्यत्ववत् कर्मत्वाद्यप्यभिव्यज्यते। तदुक्तम्--
"संविदेव हि भगवती वस्तूपगमे नः शरणम्" इति।
न ह्याधारत्वं प्रति विपरीता संविदस्ति, न हि भवति द्रव्यं कर्मेति, न वा भवति पटे तन्तव इति। एतेन वायौ रूपसमवायेऽपि वायौ रूपमित्याधारता न वायोः प्रतीयते। तस्मात् स्वभावशक्तिरेव सर्वत्र नियामिका। स चायं नित्य अकारणकत्वात्। भावानां हि समवायिकारणादुत्पत्तिनियमः, तदनुरुद्वे च निमित्तासमवायिनी, तथाच समवायस्य समवायिकारणं यत् स्यात् तत् समवायान्तरेण तेनैव समवायेन वा? न तावदाद्यः, अनवस्थापातात्। न द्वितीयः, न हि स एव समवायः स्वेनैव समवेतः सम्भवतीत्यात्माश्रयात्। तन्तुषु पटसमवायः पटे रूपसमवाय इति प्रतीतिः कथमिति चेत् स्वरूपसम्बन्धेन, समवायान्तराङ्गीकारेऽनवस्थापातात्। तर्हीह पटरूपमित्यपीहप्रत्यः स्वरूपसम्बन्धेनैव स्यात् किं समवायेनेति चेन्न, तत्रातिरिक्तसम्बन्धे बाधकाभावात्। तर्हीह भूतले घटाभाव इत्यत्रापि समवायः सम्बन्धान्तरं वा स्यादिति चेन्न, स्वरूपसम्बन्धेनैव तदुपपत्तेः, अन्यथा घटात्यन्ताभावान्योन्याभावयोर्नित्ययोरनेकसमवेतयोः सामान्यत्वापत्तेः। प्रध्वंसस्य च समवेतकार्य्यत्वेन विनाशित्वापत्तेः, प्रागभावस्य च समवेतानुत्पन्नत्त्वेनाविनाशित्वापत्तेश्च। न च भावत्वं तत्र तन्त्रम्, भावत्वस्यापाद्यत्वात्।
अभावेऽस्त्येव वैशिष्ट्याख्यं सम्बन्धान्तरमिति भाट्टाः।
तत्र यदि सर्वाभावव्यक्तीनामेकमेव वैशिष्ट्यां तदा घटवत्वपि घटाभावप्रत्यप्रसङ्गः पटाभाववैशिष्ट्येनैव घटाभाववैशिष्ट्यसत्त्वात्। घट एव तत्र घटाभावधीप्रतिबन्धक इति चेत् वैशिष्ट्यसम्बन्धेन प्रतिबन्धकाभावस्यैव तत्र सत्त्वात्। न चाश्रयस्वबाव एव तादृशो येन न तत्र घटाभावाभिव्यक्तिः, घटापसारणानन्तरं तत्रैव घटाभावप्रतीतेः। तवापि रूपनाशानन्तरं कथं न रूपवत्ताप्रत्ययः समवायस्य नित्यत्वादेकत्वाच्चेति चेत्, रूपनाशादेव तदप्रतीतेरुपपत्तेः। समवायप्रतिबिन्धिः (न्दी?)प्रत्यक्षमयूखे मोचित एवेत्यास्ताम् ।। 26 ।।
</7-2-26>

<7-2-27>
द्रव्यादिभ्यः पञ्चभ्यो भेदं साधयन्नाह-
द्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यातः ।। 27 ।।
भावः सत्ता। यथा सत्ता न द्रव्याद्यात्मिका विलक्षणबुद्धिवेद्यत्वात् वथा समवायोऽपि तत एव द्रव्यादिभ्यो भिन्नः। द्रव्यत्वगुणत्वेत्युपलक्षणं कर्मत्वाद्यपि द्रष्टव्यम् ।। 27 ।।
</7-2-27>

<7-2-28>
एकत्वं साधयति--
तत्त्वभावेन ।। 28 ।।
व्याख्यातमिति शेषः। तत्त्वमेकत्वं भावेन सत्तया व्याख्यातम्। यथैका सत्ता सर्वव सद्‌बुद्धिप्रवर्तिका तथैक एव समवायः सर्वत्र समवेतबुद्धिप्रवर्तकः स्वलिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च, न हि समवायस्य विशेषलिङ्गं भेदकं लिङ्गमाकलयामो येन नानात्वमभ्युपगच्छामः। अत एव नित्यः देशकालादिबेदेऽप्यभिन्नस्य सत्तावदेवानित्यत्वायोगात्। ननु समवायो यद्ययं सम्बन्ध एव तदा तन्तुपटयोः पटरूपयोर्वा विश्लेषः स्यादिति, चेन्न, युतसिद्ध्यभावाद्विश्लेषानुपपत्तेः, न हि रूपरूपवतोरवयवावयविनोर्वाऽसम्बद्धयोर्विद्यमानत्वमस्ति येन विश्लेषः स्यात्। युतसिद्धिरेवापाद्यत इति चेन्न, कदाचिदपि तथाऽननुभवेनापाद्यबाधात्।
समवायो नानाऽनित्यश्चेति प्राभाकराः। तच्चानुपपन्नम्, रूपं नष्टमिति हि प्रत्ययो न तु रूपसमवायो नष्ट इति कस्यापि प्रत्ययः।
प्रत्यक्षः समवाय इति नैयायिकाः। तदप्यनुपपन्नम्, समवायोऽतीन्द्रियः आत्मान्यत्वे सत्यसमवेतभावत्वात् मनोवत्, कालादिवद्वा ।। 28 ।।
</7-2-28>
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे सप्तमाध्यायस्य द्वितीयाह्निकम्।
समाप्तश्चायं सप्तमाध्यायः।