सामग्री पर जाएँ

वैशेषिकसूत्रोपस्कारः/पञ्चमोऽध्यायः

विकिस्रोतः तः
← चतुर्थोऽध्यायः वैशेषिकसूत्रोपस्कारः
पञ्चमोऽध्यायः
[[लेखकः :|]]
षष्ठोऽध्यायः →

पञ्चमाध्याये प्रथमाह्निकम्

[सम्पाद्यताम्]

<5-1-1>
कर्मपरीक्षा पञ्चमाध्यायार्थः। प्रयत्ननिष्पाद्यकमपरीक्षा प्रथमाह्निकार्थः। तत्राप्युत्क्षेपणप्रकरणम्, अप्रयत्नसिद्धोत्क्षेपणप्रकरणम्, पुण्यहेतुकमप्रकरणम्, पुण्यपापोदासीनकर्मप्रकरणञ्च। चेष्टाविशेषमधिकृत्याह--
आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म ।। 1 ।।
संयोगश्च प्रयत्नश्च संयोगप्रयत्नौ आत्मनः संयोगप्रयत्नौ ताभ्यां हस्ते समवायिकारणे कर्म। तस्य च कर्मणः प्रयत्नवदात्मसंयोगोऽसमवायिकारणम्, प्रयत्नश्च निमित्तकारणम्। इयमेव चेष्टा, प्रयत्नवदात्मसंयोगासमवायिकारणक्रियायाश्चेष्टात्वात्, स्वासमवेतस्वातिरिक्तस्पर्शवदन्यप्रयत्नजन्यक्रियाया वा ।। 1 ।।
</5-1-1>

<5-1-2>
हस्तोत्क्षेपणमुक्वा तदधीनं मुसलोत्क्षेपणमाह--
तथा हस्तसंयोगाच्च मुसले कर्म ।। 2 ।।
चकारेण गुरुत्वं निमित्तकारणान्तरं समुच्चिनोति। तथेति। तादृशमुत्क्षेपणरूपमेवेत्यर्थः। यद्वा तथा हस्तसंयोगादुत्क्षेपणवद्धस्तसंयोगादित्यर्थः। अत्र च प्रयत्नवदात्मसंयुक्तेन हस्तेन मुसलस्य संयोगोऽसमवायिकारणम्, मुसलं समवायिकारणम्, प्रयत्नगुरुत्वे निमित्तकारणे ।। 2 ।।
</5-1-2>

<5-1-3>
उदूखलाभिहतस्य मुसलस्याकस्माद् यदुत्पतनं जायते तत्र कारणमाह--
अभिघातजे मुसलादौ कर्मणि व्यतिरेकादकारणं हस्तसंयोगः ।। 3 ।।
अत्र यद्यपि मुसलेन उत्पतता हस्तस्य संयोगोऽप्यस्ति तथाऽपि स संयोगोऽन्यथासिद्धः किन्तु उदूखलाभिघात एव असमवायिकारणम्। कुत एवमित्यत आह व्यतिरेकादिति। प्रयत्नस्य व्यभिचारादित्यर्थः। यदि तदा प्रयत्नः स्यात् मुसलस्यैवाकस्मिकमुत्पतनं न भवेत् विधारकेण प्रयत्नेन मुसलस्य धारणमेव भवेत् चेष्टाधीनं मुसलस्य पुनरुत्पतनं वा भवेत् इति भावः ।। 3 ।।
</5-1-3>

<5-1-4>
संयोगस्यासमवायिकारणत्वं निराकर्तुमाह--
तथात्मसंयोगो हस्तकर्मणि ।। 4 ।।
मुसलेन सहोत्पततो हस्तस्य कर्मणि आत्मसंयोगः प्रयत्नवदात्मसंयोगस्तथा अकारणमित्यर्थः। अकारणमिति पूर्वसूत्रस्थं तथेत्यतेदिश्यते ।। 4 ।।
</5-1-4>

<5-1-5>
कुतस्तर्हि हस्ते तदोत्पतनमत आह--
अभिधातान्मुसलसंयोगाद्धस्ते कर्म ।। 5 ।।
यथा मुसले उत्पतति मुसलमुखस्थं लोहमुत्पतति तथा हस्तोऽपि तदोत्पतति। अत्राभिघातशब्देन अभिघातजनितः संस्कार उच्यते उपचारात्। उत्पततो मुसलस्य पटुतरेण कर्मणा अभिघातसहकृतेन स्वाश्रये मुसले संस्कारो जनितस्तत्कृतं संस्कारमपेक्ष्य हस्तमुसलसंयोगादसमवायिकारणाद्धस्तेऽप्युत्पतनं न तु तदुत्पतनं प्रयत्नवदात्मसंयोगासमवायिकारणकम्, अवशो हि हस्तो मुसलेन सहीत्पततीति भावः ।। 5 ।।
</5-1-5>

<5-1-6>
ननु शरीरे शरीरावयवे वा यत् कर्मोत्पद्यते तत्र प्रयत्नवदात्मसंयोगः कारणं प्रकृते कथं न तथेत्यत आह--
आत्मकर्म हस्तसंयोगाच्च ।। 6 ।।
आत्मशब्दः शरीरावयवपर उपचारात्। अन्वयानुपपत्तिरेवोपचारबीजम्। तथा चात्मनः शरीरावयवस्यापि हस्तस्य यत् कर्म तत् हस्तमुसलसंयोगात्। चकाराच्च वेगसमुच्चयः। हस्तकर्मणि हस्तसंयोगस्तावदसमवायिकारणं तत्र व्यभिचारो नास्ति। स च क्विचित् प्रयत्नवदात्महस्तसंयोगः, क्वचिद्वेगवन्मुसलादिहस्तसंयोगो यथा वातुलस्य शरीरावयवकर्मेति भावः ।। 6 ।।
</5-1-6>

<5-1-7>
प्रयत्नानधीनकर्मप्रकरणमारभते--
संयोगाभावे गुरुत्वात् पतनम् ।। 7 ।।
संयोगपदेन प्रतिबन्धकमात्रमुपलक्षयति, तेन प्रतिबन्धकाभावे गुरुत्वादसमवायिकारणात् पतनम्-अधःसंयोगफलिका क्रिया जायते। तत्र गुरुत्ववति फलादौ प्रतिबन्धकः संयोगः, विहङ्गमादौ तु विधारकः प्रयत्नः पतनप्रतिबन्धकः, काण्डादौ क्षिप्ते संस्कार एव पततप्रतिबन्धकः। एतेषामभावे गुरुत्वादीनं पतनमित्यर्थः। अभिध्यानादिना विषादेरन्तरिक्षस्थापने अदृष्टवदात्मसंयोगो मन्त्रादिरेव वा प्रतिबन्धकस्तेषामपि संयोगपदेन संग्रहः ।। 7 ।।
</5-1-7>

<5-1-8>
ननु गुरुत्वाद् यदि पतनं तदा लोष्टादेरुत्‌क्षिप्तस्य कचिदूर्ध्वं क्वचिच्च तिर्य्यग्गमनं कथम्भवेदित्यत आह--
नोदनविशेषाभावान्नोर्ध्वं न तिर्य्यग्गमनम् ।। 8 ।।
गुरुत्वततोऽपि लोष्टकाण्डादेर्यदूर्ध्वं तिर्थ्यक् च गमनं तन्नोदनविशेषात् तीव्रतरान्नोदनात्। तथाच फलपक्षिबाणादौ संयोगप्रयत्नसंस्काराभावे यत् पतनं तत्र नोदनविशेषो नास्ति तेन न तिर्य्यङ्न वोर्ध्वं गमनमिति भावः ।। 8 ।।
</5-1-8>

<5-1-9-10>
ननु नोदनविशेष एव कुत उत्पद्यते तत्राह--
प्रयत्नविशेषान्नोदनविशेषः ।। 9 ।।
नोदनविशेषादुदसनविशेषः ।। 10 ।।
तिर्य्यके ऊर्ध्वं दूरम् आसन्ने वा क्षिपमीतीच्छाकारणकः प्रयत्नविशेषः तज्जनितो नोदनविशेषस्ततो गुरुत्ववतो द्रव्यस्य लोष्टादेरूर्ध्वं तिर्यक् च गमनमुपपद्यते। उदसनंदूरोत्क्षेपणम् ।। 9 ।। 10 ।।
</5-1-9-10>

<5-1-11>
उदूखलाबिघातात् मुसलेन सह हस्ते यत् कर्म उत्पन्नं तत्तावत् प्रयत्नपूर्वकं न भवति, नापि पुण्यपापहेतुरतस्तत्तुल्यां बालकस्य क्रीडाकरचरणादिचालनं यत्तत्रातिदिशति--
हस्तकर्मणा दारककर्म व्याख्यातम् ।। 11 ।।
बालकस्य यद्यपि करचरणादिचालनं प्रयत्नपूर्वकमेव तथापि हिताहितप्राप्तिफलकं न भवति न वा पुण्यपापहेतुरित्यतिदेशार्थः ।। 11 ।।
</5-1-11>

<5-1-12>
इदानीं प्रयत्नपूर्वकेऽपि कर्मणि यत्र न पुण्यपापहेतुत्वं तत्र दारककर्मतुल्यतामतिदिशन्नाह--
तथा दग्धस्य विस्फोटने ।। 12 ।।
आततायिना केनाऽप्यगारे दाह्यमाने तत्र दग्धस्य पुरुषस्य विस्फोटे वह्निकृते जाते सति तस्याततायिनो वधानुकूलेन प्रयत्नेन हस्तादौ यत् कर्म जनितं तन्न पुण्यहेतुर्म वा पापहेतुः। यथाहुः--
नाततायिवघे दोषो हन्तुर्भवति कश्चन।
प्रकाशं वाऽप्रकाशं वा मन्युस्तन्मन्युमृच्छति
अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहा।
क्षेत्रदारापहारी च षडेते आततायिनः ।। 12 ।।
</5-1-12>

<5-1-13>
इदानीं यत्नं विना यानि कर्माणि भवन्ति तान्याह--
यत्नाभावे प्रसुप्तस्य चलनम् ।। 13 ।।
प्रसुप्तस्येति चैतन्याभावदशामुपलक्षयति। तेन मूर्च्छितस्य जीवतोऽचैतन्येऽपि वायुकृतं चलनं द्रष्टव्यमत्र ।। 13 ।।
</5-1-13>

<5-1-14>
शरीरकर्माणि व्याख्याय तदितराण्याह--
तृणे कर्म वायुसंयोगात् ।। 14 ।।
तृणपदेन वृक्षगुल्मलतावतानादिकं सर्वमुपलक्षयति ।। 14 ।।
</5-1-14>

<5-1-15>
अदृष्टाधीनं कर्म परिगणयन्नाह--
मणिगमनं सूच्यभिसर्पणमदृष्टकारणकम् ।। 15 ।।
मणिपदेन कास्यादिकमुपलक्षयति। तेनाभिमन्त्रितं मणिकांस्यादि तस्कराभिमुखं यद् गच्छति तत्र गमने मण्यादि समवायिकारणम्, अदृष्टवत्तस्करात्ममणिसंयोगोऽसमवायिकारणम्, तस्करस्य पापं निमित्तकारणम्। सूच्यभिसर्पणमिति। सूचीपदेन लोहमात्रं तृणञ्चोपलक्षयति। तथा चायस्कान्ताभिमुख यत् सूच्यादेर्गमनं तत्र सूच्यादि समवायिकारणम्, यस्य हितमहित वा तेन तृणसूच्यादिगमनेन तददृष्टवदात्मसंयोगोऽसमवायिकारणम्, तददृष्टमेव निमित्तकारणम्। एवमन्यदप्यूह्यम्। तद् यथा वह्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनं सर्गादौ परमाणुकर्मादि ।। 15 ।।
</5-1-15>

<5-1-16>
ननु शरविहङ्गमालातचक्रादीनामुपरमपर्य्यन्तमेकमेव कर्म नाना वेति संशये निर्णयहेतुमाह--
इषावयुगपत्संयोगविशेषाः कर्मान्यत्वे हेतुः ।। 16 ।।
इषाविति षष्ठ्यर्थे सप्तमी। इदमत्राकूतम्-वेगेन गच्छतां शरादीनां कृड्यादिसंयोगानन्तरं शरादौ सत्येव गत्युपरमो दृश्यते अत्राश्रयनाशस्तावन्न तन्नाशकः आश्रयस्य विद्यमानत्वात्। विरोधिगुणान्तरञ्च नोपलभ्यते, तेन स्वजन्यः संयोग एव कर्मनाशक इत्युन्नीयते। स च संयोगश्चतुर्थक्षणे जातः पञ्चमक्षणे कर्म नाशयति। तथाहि-कर्मोत्पत्तिरथ विभागः अथ पूर्वसंयोगनाशः उत्तरसंयोगः कर्मनाशः। तेनायुगपत्संयोगविशेषः कर्मनानात्वज्ञापका इत्यर्थः। संयोगविशेषा इति। संयोगे विशेष स्वजन्यत्वमेव अन्यथा संयोगमात्रस्य कर्मनाशकत्वे कर्म क्वचिदपि न तिष्ठेत् ।। 16 ।।
</5-1-16>

<5-1-17>
नोदननिष्पाद्यकर्मप्रकरणानन्तरं संस्कारनिष्पाद्यकर्मप्रकरणमारभते--
नोदनादाद्यमिषोः कर्म तत्‌कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरञ्च ।। 17 ।।
पुरुषप्रयत्नेनाकृष्टया पतञ्जिकया नुन्नस्येषोराद्य कर्म जायते, तत्र नोदनमसमवायिकारणम्, इषुः समवायिकारणम्, प्रयत्नगुरुत्वे निमित्तकारणे तेन चाद्येन कर्मणा समानाधिकरणो वेगाख्यः संस्कारो जन्यते। स च वेगेन गच्छतीति प्रत्यक्षसिद्ध एव। तेन संस्कारेण तत्रेषौ कर्म जायते तत्रासमवायिकारणं संस्कारः, समवायिकारणमिषुः, निमित्तकारणन्तु तीव्रो नोदनविशेषः। एवञ्च यावदिषु पतनमनुवर्त्तमानेन संस्कारेण उत्तरोत्तरः कर्मसन्तानो जायते स्वजन्योत्तरसंयोगेन कर्मणि नष्टे संस्कारेण कर्मान्तरजननादेक एव संस्कारः कर्मसन्तानजनकः न तु कर्मसन्तानवत् संस्कारसन्तानोऽप्यभ्युपगन्तुमुचितो गौरवादिति दर्शयितुमाह-तथोत्तरमुत्तरञ्चेति, तत्‌कर्मकारिताच्च संस्कारादित्येकवचनञ्च। न्यायनये तु कर्मसंतानवत् संस्कारसन्तानस्वीकारे गौरवम्। यत्तु युगपत् प्रक्षिप्तशरयोरेकस्य तीब्रो वेगोऽपरस्य तु मन्दः, तत्र नोदनतीव्रत्वमन्दत्वे निमित्तम् ।। 17 ।।
</5-1-17>

<5-1-18>
ननु संस्कार एक एव चेत् कर्मसन्तानजनकस्तदा कदाचिदपि शरपातो न स्यात् कर्मजनकस्य संस्कारस्य सत्त्वादित्यत आह--
संस्काराभावो गुरुत्वात् पतनम् ।। 18 ।।
गुरुत्वन्तावत् पतनकारणमनुवर्त्तमानमेव। तच्च गुरुत्वं संस्कारेण प्रतिरुद्धं पतनं नाजीजनत्। अथ प्रतिबन्धकाभावे तदेव गुरुत्वं पतनं करोतीत्यर्थः । 18 ।।
</5-1-18>
इति श्रीशङ्करे वैशेषिकसुत्रोपस्कारे पञ्चमाध्यायस्य
प्रथममाह्निकम्।

पञ्चमाध्याये द्वितीयाह्निकम्

[सम्पाद्यताम्]

<5-2-1>
नोदनादिनिष्पाद्यकर्मपरीक्षाप्रकरणम्। तत्राह--
नोदनाभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म ।। 1 ।।
नोदनं संयोगविशेषः--येन संयोगेन जनितं कर्म संयोगिनोः परस्परं विभागहेतुर्न भवति, यः संयोगः शब्दनिमित्तकारणं न भवति वा। यः संयोगः शब्दनिमित्तकारणं भवति यज्जनितं कर्म संयोगिनोः परस्परविगागहेतुश्च भवति स संयोगविशेषोऽभिघातः। ताभ्यामपि प्रत्येकं कर्म जन्यते। पङ्काख्यायां पृथिव्याञ्चरणेन नोदनात् चरणाभिघाताच्च कर्म जायते तत्र पङ्कः समवायिकारणम्, नोदनाभिघातौ यथायथमसमवायिकारणम्, गुरुत्ववेगप्रयत्ना यथासम्भवं निमित्तकारणम्। संयुक्तसंयोगादिति। नोदनादभिघाताद्वा पङ्के कर्म तत्‌पङ्कस्थिते घटादावपि तत्‌समकालमेव कर्मदर्शनात् ।। 1 ।।
</5-2-1>

<5-2-2>
ननु भूकम्पादौ नोदनाभिघातवन्तरेण जायमाने किमसमवायिकारणमत आह--
तद् विशेषेणादृष्टकारितम् ।। 2 ।।
तदिति पृथिवीकर्म परामृशति। पृथिव्यामेव कर्म यदि विशेषेण आशयेन भवति तदाऽदृष्टकारितम्, तेन भूकम्पेन यस्य दुःखं सुखं वा भवति अवदृष्टत्तदात्मसंयोगस्तत्रासमवायिकारणम्, भूः समवायिकारणम्, अदृष्टं निमित्तकारणम्।
यद्वा तदा नोदनाभिघातो परामृशति। विशेषो व्यतिरेकः। तथाच नोदनाभिघातव्यतिरेकेण यत् पृथिव्यां कर्म तददृष्टकारितमित्यर्थः ।। 2 ।।
</5-2-2>

<5-2-3>
इदानीं द्रवद्रव्यसमवेतकर्मपरीक्षाप्रकरणम्। तत्राह--
अपां संयोगाभावे गुरुत्वात् पतनम् ।। 3 ।।
अपां यत् पतनं वर्षणरूपं तद्गुरुत्वासमवायिकारणकम्। तत् संयोगस्य मेघसंयोगस्याभावे सति भवति, तेन संयोगाभावस्तन्निमित्तकारणमित्यर्थः ।। 3 ।।
</5-2-3>

<5-2-4>
तेषामेव वृष्टिबिन्दूनामन्योनयसंयोगजनकं कर्म कथमत आह--
द्रवत्वात् स्यन्दनम् ।। 4 ।।
क्षितौ पतितानामपां विन्दूनां परस्परं संयोगेन महज्जलावयविस्रोतोरूपं यज्जायते तस्य यत् स्यन्दनं दूरसंसरणं तत् द्रवत्वादसमवायिकारणादुत्पद्यते गुरुत्वान्निमित्तकारणादप्सु समवायिकारणेषु ।। 4 ।।
</5-2-4>

<5-2-5>
ननु यदि भूमिष्ठानामपाम् ऊर्द्ध्वं गमनं भवति तदा गुरुत्वात् पतनवर्षणं सम्भाव्यते, तदेव तु कुत इत्यत आह--
नाड्यो वायुसंयोगादारोहणम् ।। 5 ।।
कारयन्तीति शेषः। यदपामूर्ध्वमारोहणं तत् नाड्यः सूर्य्यरश्मय एव आरोहयन्त्यप इत्यर्थः। क्वचित् पाठो नाड्यवायुसंयोगादिति। स च नाड्यो नाडीसम्बन्धी यो वायुसंयोग इत्युपपादनीयः ।। 5 ।।
</5-2-5>

<5-2-6>
ननु सूर्य्यरश्मीनां कथमयं महिमा यत् भूमिष्ठा अप ऊर्ध्व नयन्तीत्यत आह--
नोदनापीडनात् संयुक्तसंयोगाच्च ।। 6 ।।
नोदनेन बलवद्वायुनोदनेन आपीडनादास्कन्दनात् वायुसंयुक्ता रश्मयस्तत्संयुक्ता आप ऊर्ध्वं धावन्ति यथा स्थालीस्था अपः क्वथ्यमानाः वायुनिन्नवह्निरश्मय ऊर्ध्वं नयन्ति। चकार इवार्थस्तत्र च उपमानं स्थालीस्था एवापो द्रष्टव्याः ।। 6 ।।
</5-2-6>

<5-2-7>
भिघातौ न वाऽऽदित्यरश्मयः प्रभवन्ति, तत् कथं तदित्यत्राह--
वृक्षाभिसर्पणमित्यदृष्टकारितम् ।। 7 ।।
अभितः सर्पणमभिसर्पणं तदभिसर्पणं मूले निषिक्तानामपां वृक्षे तददृष्टकारितं पत्रकाण्डफलपुष्पादिवृद्धिकृतं सुखं दुःखं वा येषामात्मनाम् अदृष्टवत्तदात्मसंयोगादसमवायिकारणात् अदृष्टान्निमित्तादप्सु समवायिकारणेषु तत् कर्म भवति येन कर्मणा आप ऊर्ध्वे गत्वा वृक्षं वर्द्धयन्तीत्यर्थः ।। 7 ।।
</5-2-7>

<5-2-8>
नन्वपां सांसिद्धिकद्रवत्वं लक्षणमुक्तं तादृशानामेवापामूर्ध्वमधस्तिर्य्यक् च गमनमुपपादितं हिमकरकादीनाञ्च शैत्यादप्त्वमविवादसिद्धम्, तत् कथं तेषां संघातः काठिन्यम्, कथ़ञ्च विलयनमित्यत आह--
अपां संघातो विलयनञ्च तेजः संयोगात् ।। 8 ।।
दिव्येन तेजसा प्रतिबन्धादाप्याः परमाणवो द्व्यणुकमारभमाणा द्व्यणुकेषु द्रवत्वं नारभन्ते ततो द्रवत्वशून्यैरवयवैर्द्व्यणुकादिप्रक्रमेण द्रवत्वशून्या हिमकरकादय आरभ्यन्ते तेन तेषां काठिन्यमुपलभ्यते। नन्वेवं हिमकरकादीनामाप्यत्वे किं प्रमाणमत उक्तःविलयनञ्च तेजःसंयोगादिति। तेजःसयोगेन बलवता हिमकरकारम्भकपरमाणूनां क्रिया क्रियातो विभागस्तत आरम्भकसंयोगनाशपरम्परया हिमकरकादिमहावयविनाशस्तत्र द्रवत्वप्रतिबन्धकतेजः संयोगविगमात् त एव परमाणवः द्व्यणुकेषु द्रवत्वमारभन्ते। ततो द्रवत्ववता हिमकरकादीनां विलयनं तत्र च बलवत्तेजोऽनुप्रवेशो निमित्तम् ।। 8 ।।
</5-2-8>

<5-2-9>
ननु बलवद्दिव्यतेजोऽनुप्रवेशस्तत्र इत्यत्र किं प्रमाणमित्यत आह--
तत्र विस्फूर्जथुर्लिङ्गम् ।। 9 ।।
तत्र दिव्यासु अप्सु दिव्यानां तेजसामनुप्रवेसे विस्फूर्जथुर्लिङ्गं वज्रनिर्घोष एव लिङ्गमित्यर्थः। आत्यन्तिकविद्युत्‌प्रकाशस्तावत्प्रत्यक्ष एव तदनुपदञ्च स्फूर्जथुः सोऽपि प्रत्यक्ष एव, तेनानुमीयते यस्मान्मेघात् करकाः प्रादुर्भ वन्ति तत्र दिव्यन्तेजो विद्‌युद्रूपमनुप्रविष्टं तदुपष्टम्भेन करकारम्भिकाणामपां द्रवत्वप्रतिबन्ध इति ।। 9 ।।
</5-2-9>

<5-2-10>
अत्रैव प्रमाणान्तरमाह--
वैदिकञ्च ।। 10 ।।
अपां मध्ये तेजोऽनुप्रवेश आगमसिद्ध एवेत्यर्थः। तथाहि "आपस्ता अग्निं गर्भमादधीरन्, या अग्निं गर्भं दधिरे मुवर्णम्" इत्यादि ।। 10 ।।
</5-2-10>

<5-2-11>
ननु विस्फूर्जथुः कथमुत्पद्यते संयोगविबागौ शब्दयोनी तौ च नानुभूयेते इत्यह आह--
अपां संयोगाद्विभागाच्च स्तनयित्नोः ।। 11 ।।
विस्फूर्जथरिति शेषः। अद्भिः स्तनयित्नोः संयोगविभागौ निमित्तकारणीभूय स्तनयित्नोरेवाकाशेन संयोगादसमवायिकारणादाकाशे समवायिकारणे शब्दं गर्जितं जनयतः। क्वचिच्च वायुवलाहकसंयोगविभागौ निमित्तकारणे। बलाहकवियत्संयोगविभागावसमवायिकारे। कर्मकारणाधिकारेऽपि प्रासङ्गिक्रमिदमुक्तम्।
यद्वा मेघाकाशसंयोगे विभागे वा शब्दासमवायिकारणे कारणम् अपामेव नोदनाभिघातजनितं कर्मेति सूचितं, कर्मण एवाधिकारप्राप्तत्वात् ।। 11 ।।
</5-2-11>

<5-2-12>
पृथिवीकर्मणा तेजःकर्म वायुकर्म च व्याख्यातम् ।। 12 ।।
भूकम्पंप्रत्यदृष्टवदात्मसंयोगः कारणमुक्तम्, तत्रेवाकस्मिकदिग्दाहहेतोस्तेजसः आकस्मिकवृक्षादिक्षोभहेतोश्च प्रभञ्चनस्य कर्म यत् संजायते तत्राप्यदृष्टवदात्मसंयोगोऽसमवायिकारणम्, वायुतेजसी समवायिकारणम्, अदृष्टं निमित्तकारणमित्यर्थः। कर्मशब्दस्य द्व्यावृत्तिर्महोल्कादिकर्मसूचनार्था ।। 12 ।।
</5-2-12>

<5-2-13>
अदृष्टवदात्मसंयोगासमवायिकारणकं कर्मान्तरमाह--
अग्नेरूर्ध्वज्वलनं वायोस्तिर्य्यक्‌पवनमणूनां मनसश्चाद्यं कर्मादृष्टकारितम् ।। 13 ।।
आद्यमिति। सर्गाद्यकालीनमित्यर्थः। तदा नोदनाभिघातादीनामभावात् अदृष्टवदात्मसंयोग एव तत्रासभवायिकारणम्। आद्यमूर्ध्वज्वलनम् आद्यं तिर्य्यकपवनमिति। इतरेषां ज्वलनपवनकर्मणां वेगासमवायिकारणकत्वमेव मन्तुमुचितं दृष्टे कारणे-सत्यदृष्टकल्पनानवकाशात् ।। 13 ।।
</5-2-13>

<5-2-14>
अनाद्यं(मनः) कर्माधिकृत्याह--
हस्तकर्मणा मनसः कर्म व्याख्यातम् ।। 14 ।।
मुसलोत्क्षेपणादौ यथा प्रयत्नवदात्मसंयोगासमवायिकारणकं हस्तकर्म तथाऽभिमतविषयग्राहिणीन्द्रिये सन्निकर्षार्थं यन्मनसः कर्म तदपि प्रयत्नवदात्मसंयोगासमवायिकारणकमेव। यद्यपीन्द्रियं मनो न साक्षात्प्रयत्नविषयस्तथापि मनोवहनाडीगोचरेण प्रयत्नेन मनसि कर्मोत्पत्तिर्द्रष्टव्या। नाड्यास्तु त्वगिन्द्रियग्राह्यत्वमङ्गीकर्त्तव्यम्, अन्यथा प्राणवहनाडीचरेण प्रयत्नेनाशितपीताद्यभ्यवहरणमपि न सम्भवेत् ।। 14 ।।
</5-2-14>

<5-2-15>
ननु मनसि कर्म उत्पद्यत इत्यत्रैव न प्रभाणमत आह--
आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे ।। 15 ।।
सुखदुःखे इत्युपलक्षणं ज्ञानप्रयत्नाद्यपि द्रष्टव्यम्। मनसो वैभवं पूर्वमेव निराकृतम्, अणुत्वञ्च साधितम्, युगपञ्ज्ञानानुत्पत्तिश्च मनसो लिङ्गामित्युक्तम्, तेन तत्तदिन्द्रियप्रदेशेन मनःसंयोगमन्तरेण सुखदुःखे न स्यातामेव यदि मनसि कर्म न भवेत्, न भवेच्च पादे मे सुखं शिरसि मे वेदनेत्याद्याकारोऽनुभव इत्यर्थः। यद्यपि मनःसन्निकर्षाधीनः सर्वोऽप्यात्मविशेषगुणस्तथापि सुखदुःखे तीव्रसंवेगितयाऽतिस्फुटत्वादुक्ते ।। 15 ।।
</5-2-15>

<5-2-16>
नन्वेवं यदि चपलं मनस्तदा चित्तनिरोधाभवाद्योगं विना नात्मसाक्षात्कारो, न वा तमन्तरेण मोक्ष इति शास्त्ररम्भवैफल्यमत आह--
तदनारम्भ आत्भस्थे मनसि शरीरस्य दुःखाभावः संयोगः ।। 16 ।।
विषयेष्वलम्प्रत्ययवत उदासीनस्य बहिरिन्द्रियेभ्यो व्यावृत्तं मनो यदात्मस्थामात्ममात्रनिष्ठं भवति तदा तत्‌कर्मानुगुणप्रयत्नाभावात् कर्म भनसि नोत्पद्यते स्थिरतरं मनो भवति स एव योगः। चित्तनिरोधलक्षणत्वाद् योगस्य। तदनारम्भ इति। मनसः कर्मानारम्भ इत्यर्थः। यद्वा तत्पदेन सुखदुःखे एवामिधीयेते प्रक्रान्तत्वात्। दुःखाभाव इति। दुःखाभावसाधनत्वाद्योग एव दुःखाभावः "अन्नं वै प्राणा" इतिवत्। यद्वा दुःखस्याभावो यत्रेति बहुव्रीहिः, शरीरस्येति शरीरावच्छिन्नस्यात्मनः स योग इति प्रसिद्धिसिद्धतया तत्पदम्, अयं स योगः। यद्वात्मपदेनात्र प्राण उच्यते उपचारात् प्राणानुमेयत्वादात्मनः। तथाच प्राणवहनाड्यां कर्मणा प्राणकर्मापि जायते। यद्वा जीवनयोनियत्नवदात्मप्राणसंयोगासमवायिकारणकं प्राणकर्म। जीवनयोनिश्च यत्नोऽतीन्द्रियः प्राणसञ्चारानुमेयः, कथमन्यथा सुषुप्त्यवस्थायामपि श्वासप्रश्वासगतागतमिति भावः ।। 16 ।।
</5-2-16>

<5-2-17>
ननु प्राणस्य मनसश्च कर्म यदि प्रयत्ननिमित्तिकं तदा प्राणमनसी यदा मरणावस्थायामपसर्पतः-देहाद्वहिर्भवतुः देहान्तरोत्पत्तौ तत्र पुनरुपसर्पतःप्रविशतः, तत्र प्रयत्नाभावात्तदुभयमनुपपन्नम्, अशितपीतं भक्तपानीयादि तस्यापि शरीरावयवोपचयहेतुर्यः संयोगस्तज्जनकं यत् कर्म यच्च गर्भवासदशायां संयोगविभागजनकं कर्म तेषां कथमुत्पत्तिरत आह--
अपसर्पममुपसर्पणमशितपीतसंयोगाः कार्यान्तरसंयोगाश्चेत्यदृष्टकारितानि ।। 17 ।।
अत्र `नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्यामि'ति नपुंसकनिर्देशः संयोगपदञ्च तत्कारणे कर्मणि लाक्षणिकम्। अपसर्पणं देहारम्भककर्मक्षये देहादेव प्राणमनसोरुत्क्रमणम्, उपसर्पणञ्च देहान्तरोत्पत्तौ तत्र प्राणामनसोः प्रवेशानम्, अशितपीतादिसंयोगहेतुश्च कर्म, कार्यान्तरं गर्भशरीरं तत्संयोगहेतुश्च यत् कर्म तत् सर्वमदृष्टवदात्मसंयोगासमवायिकारणकम्। इतिकारेण धातुमलकर्मणामप्यदृष्टवदात्मसंयोगासमवायिकारणकत्वं सूचयति ।। 17 ।
</5-2-17>

<5-2-18>
ननु देहान्तरोत्पत्तेरावश्यकत्वञ्चेत्तदा कतं मोक्ष इत्यत आह--
तदभावे संयोगाबावोऽप्रादुर्भावश्च मोक्षः ।। 18 ।।
इदमत्राकूतं-योगबलेनात्मतत्त्वसाक्षात्कारे सति तेन च सवासनमित्याज्ञाने ध्वस्ते तन्निबन्धनानां रागद्‌वेषमोहानां दोषाणामपायात् प्रवृत्तेरपाये तन्निबन्धन स्य जन्मनोऽपाये तन्निबन्धनस्य दुःखस्यापाय इति तावद्वस्तुगतिः। तत्र योगिनो योगजधर्मबलेन तत्तद्देशकालतत्तत्तुरगमतङ्गजविहङ्गमादिदेहोपभोग्यमुखदुःखासाधारणकारणधर्मनिकुरम्बमालोच्य तत्तत्कायव्यूहं निर्वाह्य भोगेन पूर्वोत्पन्नधर्मा धर्मयोः क्षयः, निवृत्तदोषस्य धर्माधर्मान्तरानुत्पत्तावपूर्वशरीरान्तरानुत्पत्तौ पूर्वशरीरेण सहात्मनो यः संयोगाभावः स एव मोक्षः तदभाव इति। अनागतशरीरानुत्पादे संयोगाभाव इत्यर्थः। नन्वियमवस्था प्रलयसाधारणीत्यत आह-अप्रादुर्भाव इति। यदनन्तरं शरीरादेः पुनः प्रादुर्भावो न भवतीत्यर्थः स मोक्ष इति। तस्यामवस्थायां यो दुःखध्वंसः स मोक्ष इत्यर्थः ।। 18 ।।
</5-2-18>

<5-2-19>
ननु तमसोऽपि द्रव्यस्य कर्म दृश्यते चलति छायेतिप्रत्ययात्, तत्र न प्रयत्नो न वा नोदनाभिघातौ न वा गुरुत्वद्रवत्वे न वा संस्कारस्तथा च निमित्तान्तरं वक्तव्यं तच्च नानुभूयमानमित्यत आह--
द्रव्यगुणकर्मनिष्पत्तिधर्म्यादभावस्तमः ।। 19 ।।
एतेन नवैव द्रव्याणीत्यवधारणमप्युपपादितम्। द्रव्यनिष्पत्तिस्तावत् स्पर्शवद्द्रव्याधीना। न च तमसि स्पर्शोऽनुभूयते। न चानुद्भूत एव स्पर्शः, रूपोद्भवे स्पर्शोद्भवस्यावश्यकत्वात्। पृथिव्यामय नियमः तमस्तु दशमं द्रव्यमिति चेन्न द्रव्यान्तरस्य नीलरूपानधिकरणत्वात् नीलरूपस्य च गुरुत्वेनान्तरीयकत्वात्, रसगन्धनान्तरीयकत्वाच्च। यथाऽऽकाश शब्दमात्रविशेषगुणं तथा तमोऽपि नीलरूपमात्रविशेषगुणं स्यादिति चेन्न चाक्षुषत्वविरोधात्। यदि हि नीलरूपवन्नीलं रूपमेव वा तमः स्यात् बाह्यलोकप्रग्रहमन्तरेण चक्षुषा न गृह्येत ।। 19 ।।
</5-2-19>

<5-2-20>
तर्हि गतिप्रतीतिः किन्निबन्धनेत्यत आह--
तेजसो द्रव्यान्तरेणावरणाच्च ।। 20 ।।
गच्छता द्रव्यान्तरेणावृते तेजसि पूर्वदेशानुपलम्भादग्रिमदेशे चोपलम्भात्ते जोऽभवस्य गच्छद्द्रव्यसाधर्म्याद् मतिभ्रमो न तु वास्तवी तव मतिरित्यर्थः, अन्वयव्यतिरेकाभ्यां तथा प्रतीतेः उद्भूतरूपवद्यावत्तेजःसंसर्गाभावस्तमः ।। 20 ।।
</5-2-20>

<5-2-21>
एवं द्विसूत्रकं प्रासङ्गिकं तमःप्रकरणं समाप्य कर्मशून्यताप्रकरणमाह--
दिक्कालावाकाशञ्च क्रियावद्वैधर्म्यान्निष्क्रियाणि ।। 21 ।।
चकारादात्मसंग्रहः। क्रियावता वैधर्म्यं दिगादीनाममूर्तत्वं मूर्त्त्यनुविधानात् क्रियायाः ।। 21 ।।
</5-2-21>

<5-2-22>
गुणकर्मणोर्निष्क्रियत्वमाह--
एतेन कर्माणि गुणाश्च व्याख्याताः ।। 22 ।।
एतेनेति। क्रियावद्वैधर्म्येणेत्यर्थः क्रियावद्वैधर्म्यममूर्तत्वं गुणकर्मणोरपीति ते अपि निष्क्रियत्वेन व्याख्याते इत्यर्थः ।। 22 ।।
</5-2-22>

<5-2-23>
ननु गुणकर्मणी यदि निष्क्रिये तदा ताभ्यां द्रव्यस्य कथं सम्बन्धः? संयोगसम्बन्धः सम्भाव्येत स च कर्माधीन एवेत्यत आह--
निष्क्रियाणां समवायः कर्मभ्यो निषिद्धः ।। 23 ।।
निष्क्रियाणां गुणकर्मणां समवाय एव सम्बन्धः, स च कर्मभ्यो निष्द्धः तस्य सम्बन्धस्य उत्पत्तिरेव नास्ति दूरे तु कर्माधीनतेत्यर्थः ।। 23 ।।
</5-2-23>

<5-2-24>
ननु यद्यमूर्त्तत्वात् गुणाः कर्मसमवायिकारणं न भवन्ति तदा गुणैर्गुणाः कर्माणि च कथमुत्पद्यन्ते न हि समवायिकारणातिरिक्तत्वरूपेणापि कारणता सम्भवतीत्यत आह--
कारणन्त्वसमवायिनो गुणाः ।। 24 ।।
गुणा असमवायिकारणं न तु समवायिकारणमपि येन कर्माधाराः स्युः। सा चासमवायिकारणता क्वचित् कार्यैकार्थंसमवायात् यथाऽऽत्मनः संयोगस्यात्मविशेषगुणेषु संयोगविभागशब्दानां शब्दे। क्वचित् कारणैकार्थसमवायात् यथाऽऽत्ममनः संयोगस्यात्मविशेषगुणेषु संयोगविभागशब्दानां शब्दे। क्वचित् कारणैकार्थसमवायात् यथा कपालादिरूपादीनां घटादिरूपादिषु ।। 24 ।।
</5-2-24>

<5-2-25>
ननु इह कर्मोत्पद्यते इदानीं कर्मोत्पद्यते इत्यादिप्रतीतिबलात् दिक्कालावपि कर्मसमवायिकारणे एव, कथमन्यथा तत्र तयोराधारतेत्यत आह--
गुणैर्दिग् व्याख्याता ।। 25 ।।
यथा गुरुत्वादयो गुणा न कर्मसमवायिकारणममूर्तत्वात् तथा दिगपि न कर्मसमवायिकारणमूर्त्तत्वादेवेत्यर्थः। आधारता तु समवायितामन्तरेणापि, कुण्डे बदराणि, कुण्डे दधि, वने सिंहनाद इत्यादिवदुपपद्यत इति भावः ।। 25 ।।
</5-2-25>

<5-2-26>
उक्तेनैवाबिप्रायेणाह--
कारणएन कालः ।। 26 ।।
निष्क्रियत्वेन व्याख्यात इति परिणम्यानुषङ्गः। कारणेनेति भावप्रधानो निर्देशः तेन निमित्तकारणत्वेनाधारमात्रं कर्मणः कालो न तु समवायीत्यर्थः ।। 26 ।।
</5-2-26>
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे प़ञ्चमाध्यायस्य द्वितीयमाह्निकम्।
समाप्रश्चायं पञ्चमाध्यायः।