वैशेषिकसूत्रोपस्कारः/चतुर्थोऽध्यायः
← तृतीयोऽध्यायः | वैशेषिकसूत्रोपस्कारः चतुर्थोऽध्यायः [[लेखकः :|]] |
पञ्चमोऽध्यायः → |
चतुर्थाध्याये प्रथमाह्निकम्
[सम्पाद्यताम्]<4-1-1>
पृथिव्यादीना नवानामुद्देशं लक्षणपरीक्षां निवर्त्य प्रकृतेर्मूलकारणतां साङ्ख्या भिगतां निराचिकीर्षुः परमाणूनां मूलकारणत्वं पृथिव्याद्यन्तर्भावञ्च सिषाधयिषुर्नित्यत्वसामान्यलक्षणं तावदाह--
सदकारणवन्नित्यम् ।। 1 ।।
न कारणवदकारणवत् पदसंस्कारात्। तदेवं घटादीनां व्यवच्छेदः। तथापि प्रागभावेऽतिव्याप्तिरित्यत आह-सदिति। सत्तायोगीत्यर्थः। समवायविशेषपदार्थयोः सत्तैकार्थसमवाय एव सत्तायोगः, सामान्यान्तरस्य सत्तायाश्च सत्प्रत्ययविषयतैव सत्तायोगः, स च प्रत्ययो वस्तुस्वरूपमात्रनिबन्धन इत्यन्यदेतत्। न चान्यत्रापि तथैवास्तु कि सत्तयेति वाच्यम् अनुगतमतेस्तत्सिद्धेरुक्तत्वात् ।। 1 ।।
</4-1-1>
<4-1-2>
नित्यसामान्यमभिधायेदानीं परमाणुमधिकृत्याह--
तस्य कार्यं लिङ्गम् ।। 2 ।।
तस्य परमाणोः कार्यं घटादि लिङ्गम्। तथाच गौतमोयं सूत्रम्-`व्यक्तात् व्यक्तस्य निष्पत्तिः प्रत्यक्षप्रामाण्यात्' आo 4 आo 1 सूo 11 इति। अवयवावयविप्रसङ्गस्तावदनुभूयते स यदि र्निरवधिः स्यात् तदा मेरुसर्षपयोः परिणामभेदो न स्यात्, अनन्तावयवारब्धत्वाविशेषात्। न च परिमाणप्रचयविशेषाधीनो विशेषः स्यादिति वाच्यम् सङ्ख्याविशेषाभावात्तयोरप्यनुपपत्तेः। प्रलयावधिः स्यादिति चेत् अन्त्यस्य कस्यचिन्निरवयवत्वे प्रलयस्यैवानुपपत्तेः, अवयवविभागविनाशयोरेव द्रव्यनाशकत्वात्। विभागश्च नावधिः तस्यैकाश्रयत्वानुपपत्तेः। तस्मान्निरवयवं द्रव्यमवधिः स एव परमाणुः। न च त्रसरेणुरेवावधिः, तस्य चाक्षुषद्रव्यत्वेन महत्त्वादनेकद्रव्यवत्त्वाच्च, महत्त्वस्य चाक्षुषप्रत्यक्षत्वे कारणत्वाम् अनेकद्रव्यवत्त्वमादायैव, अन्यथा महत्त्वमेव न स्यात् कस्य कारणत्वम्भवेत्। न च त्रसरेणोरवयवा एव परमाणवः, महद्द्रव्यारम्भकत्वेन तेषामपि सावयवत्वानुमानात् तन्तुवत् कपालवच्च। तस्मात् यत् कार्य्यद्रव्यं तत् सावयवम्, यच्च सावयवं तत् कार्य्यं द्रव्यम्। तथाच यतोऽवयवात् कार्य्यत्वं निवर्त्तते तत्र सावयवत्वमपीति निरवयवपरमाणुसिद्धिः। तदुक्तं प्रशस्तदेवाचार्य्यैः `सा च द्विविधा नित्या चानित्या च' इति ।। 2 ।।
</4-1-2>
<4-1-3>
इदानीं परमाणौ रूपादिसिद्धये प्रमाणमाह--
कारणभावात् कार्य्यभावः ।। 3 ।।
रूपादीनां कारणे सद्भावात् कार्य्ये सद्भावः, कारणगुणपूर्वका हि कार्य्यगुणा भवन्ति घट-पटादौ तथा दर्शनादित्यर्थः ।। 3 ।।
</4-1-3>
<4-1-4>
इदानीं सर्वानित्यतावादिनिराकरणायाह--
अनित्य इति विसेषतः प्रतिषेधभावः ।। 4 ।।
विशेषत इति पष्ठ्यन्तात्तसिः। (तथाच) विशेषस्य नित्यस्य प्रतिषेधस्तदा स्यात् यद्यनित्य इति प्रत्ययः शब्दप्रयोगश्च न स्यात् नञ उत्तरपदार्थनिषेवार्थत्वात् तत् कथं नित्याभावेऽनित्य इति स्यात्, भवति च ततो नित्यमस्तीति सिद्धम्। यद्वा अनित्य इति न नित्यः परमाणुरित्यनेन प्रकारेण नित्यस्य त्वया प्रतिषेधः कतव्यः। अनेन च प्रकारेण प्रतिषेधो न सिध्यति सिद्धयसिद्विप्रतिहतत्वात्। सूत्रञ्चैवं योजनीयम्-अकारः स्वतन्त्र एव प्रतिषेधवचनः `अमानोनाः प्रतिपेधवचनाः' इति तथा चानित्य इति न नित्य इत्यर्थः। प्रसिषेवभावः प्रतिषेधस्वरूपं तेन न नित्य इति विशेषस्य नित्यस्य प्रतिषेधस्वरूपम्, तच्च न सम्भवतीति शेषः ।। 4 ।।
</4-1-4>
<4-1-5>
ननु परमाणुर्न नित्यः मूर्तत्वात् घटवत्, एवं रूपवत्त्वरसवत्त्वादयः प्रत्येकं हेतव उन्नेयाः, एवं षट्केन युगपद्योगात् परमाणोः षडंशता तथा च सावयवत्वात् अव्याप्यवृत्तिसंयोगाश्रयत्वात्। किञ्च परमाणोर्मव्ये यद्याकाशमस्ति तदा सच्छिद्रत्वेनैव सावयवत्वम्, अथ नास्ति, तदाकाशस्यासर्वगतत्वप्रसङ्गः। किञ्च छायावत्त्वात् आवृत्तिमत्त्वात्। अपिच यत् सत् तत् क्षणिकमित्यादिक्षणिक्त्वसाधकानुमानादपि परमाणोरनित्यता, तथा चैतावती चेदनुमितिपरम्परा तदा कथमुच्यते परमाणुर्नित्य इत्यत आह--
अविद्या ।। 5 ।।
परमाणोरनित्यत्वविषया सर्वाप्यनुमितिः अविद्या भ्रमरूपा आभासप्रभवत्वात्। आपाततो धर्मिग्राहकमानबाधः सर्वत्र विपक्षबाधकप्रमाणशन्यत्वाद्व्यप्यत्वासिद्धिः क्वचित् स्वरूपासिद्धिरित्यादि समानतन्त्रेऽन्वेष्टव्यम् ।। 5 ।।
</4-1-5>
<4-1-6>
ननु यदि परमाणुरस्ति कथमिन्द्रियेण न गृह्यते रूपवत्त्वस्पर्शव त्त्वादयश्चैन्द्रियकत्वप्रयोजकास्त्वयैवोपपादिता इत्यत आह--
महत्यनेकद्रव्यवत्त्वात् रूपाच्चोपलब्धिः ।। 6 ।।
महति महत्त्ववति द्रव्ये महच्छब्दात् परिमाणवाचकात् गुण वाचकान मतुपो लोपात्। अनेकद्रव्यवत्त्वादिति। अनेकं द्रव्यमाश्रयो यस्य तदनेकद्रव्यम् तद् यस्यास्ति तदनेकद्रव्यवत् तद्भावस्तस्मात् अनेकद्रव्यवत्त्वात्। एव सति वायुरपि प्रत्यक्षः स्यादत उक्तं-रूपाच्चेति। उद्भूतादनभिभूतादिति वक्ष्यते। उपलब्धरिति। बहिरिन्द्रियेणेति शेषः। तथाच परमाणोर्महत्त्वाभावादनुपलब्धिरित्युक्तं भवति। अनेकद्रव्यवत्त्वञ्च अनेकद्रव्याश्रितत्वम्, अवयवबहुत्वाधीनमहत्त्वाश्रयत्वं वा। न च महत्त्वेनैवानेकद्रव्यवत्त्वमन्यथासिद्धमिति वाच्यम्, वैपरत्यस्यापि सम्भवात्। जन्येन जनकस्यान्यथासिद्धिर्न तु जन्यस्येति चेन्न जन्यजनकयोर्युगपदन्वयव्यतिरेकग्रहेऽन्यथासिद्ध्याभावात्, अन्यथा भ्रामणादिना दण्डादीनामन्यथासिद्धिप्रसङ्गात्। महत्त्वोत्कर्षात् प्रत्यक्षतोत्कर्षो दूरादाविति चेन्न अनेकद्रव्यवत्त्योत्कर्षस्यापि तत्र सम्भवाद्विनिगमनाविरहात्। किञ्च मर्कटकीटसूत्रजाले हस्तचतुष्टयादिमिते दूरादप्रत्यक्षे मर्कटमात्रप्रत्यक्षताऽनेकद्रव्यवत्त्वोत्कर्षाधीनैव महत्त्वीत्कर्षस्य जाले वर्त्तमानत्वात्। एवं सूक्ष्मतन्तुघटितपटादौ दूरत्वे महत्त्वोत्कर्षेऽपि स्वल्पपरिमाणमुद्गरादिप्रत्यक्षे द्रष्टव्यम् ।। 6 ।।
</4-1-6>
<4-1-7>
रूपसमवायिनो महतश्चोपलम्भः स्यात् अत आह--
सत्यपि द्रव्यत्वे महत्त्वे रूपसंस्काराभावाद्वायोरनुपलब्धिः ।। 7 ।।
रूपसंस्कारपदेन रूपसमवायो रूपोद्भवो रूपानभिभवश्च विवक्षितः। तेन यद्यपि वायौ य एव स्पर्शसमवायः स एव रूपसमवायः तथापि रूपनिरूपितो नास्ति तत्र रूपात्यन्ताभावसत्त्वात्। चाक्षुषे च रश्मौ रूपसंस्कारः रूपोद्भवो नास्ति, मध्यन्दिनोल्काप्रकाशे च रूपसंस्कारो रूपानिभिभवो नास्ति इति न तेषां प्रत्यक्षता। एवं ग्रीष्मोष्मभर्जनकपालानलकनकादिषु रूपसंस्काराभाव उन्नेयः।
वृत्तिकृतिस्तु रूपञ्च रूपसंस्कारश्चेत्येकरूपपदलोपः तेन रूपाभावाद्वायोरनुपलब्धिः रूपसंस्काराभावाच्चक्षुरादीनामनुपलब्धिरित्याहुः ।। 7 ।।
</4-1-7>
<4-1-8>
एवं परमाणुनित्यताप्रकरणानन्तरं परमाणुलिङ्गतयोपोद्धातसङ्गत्या वहिर्द्रव्यप्रत्यक्षताप्रकरणं समाप्य उपोद्धातेन गुणप्रत्यक्षताप्रकरणं वर्तयिष्यन्नाह--
अनेकद्रव्यसमवायात् रूपविशेषाच्च रूपोपलब्धिः ।। 8 ।।
रूपगतो विशेषो रूपविशेषः तच्चोद्भूतत्वमनभिभूतत्वं रूपत्वञ्च तस्माद्रूपस्योलब्धिः। नन्वेवं परमाणोर्द्व्यणुकस्य च रूपं गृह्येतेत्यत उक्तमनेकद्रव्यसमवायादिति। अनेकपदं भूयस्त्वपरं तेनानेकानि भूयांसि द्रव्याणि आश्रयतया यस्य तदनेकद्रव्यं त्रसरेणुप्रभृति तत्समवायात् घटादयोऽप्यवयवद्वयारब्धाः परम्परयाऽनेकद्रव्याश्रया एव, रसस्पर्शादौ रूपादिविशेषगुणगतो जातिविशेष एव रूपत्वादिव्याप्यः। नन्वेवं शुक्लत्वसुरभित्वशीतत्वकटुत्वादिभिरपि परापरभावानुपपत्तिरेव, तत्द्व्याप्यतन्नानात्वकल्पने तु कल्पनागौरवम् उद्भवपदस्य नानार्थत्वञ्चेति चेन्न बाह्यैकैकेन्द्रियग्रहणयोग्यगुणत्वस्यैवोपाधेरुद्भवत्वात् तदुपाधिविरहस्यैवानुद्भवत्वात्। अनुद्भवाभाव एव उद्भव इति केचित्। तच्चिन्त्यम् अनुद्भवत्याप्वेवं व्वस्थापयितुमशक्यत्वात्। अतीन्द्रियविशेषगुणत्वमनुद्भूतत्वमिति चेत्, एवं तर्हिं ऐन्द्रियकविशेषगुणत्वस्यैवोद्भवत्वापत्तेः। ऐन्द्रियकत्वावच्छेदकं किमिति चेत्, तुल्यम्। विशेषगुणेष्वेकैवोद्भूतत्वं जातिः गुणगतजातौ परापरभावानुपपत्तिर्न दोषायेत्यपि वदन्ति ।। 8 ।।
</4-1-8>
<4-1-9>
स्पर्शातिरिक्तानां रूपसामानाधिकरण्यमेव बहिरिन्द्रियग्राह्यताप्रयोजकमिति रूपप्रत्यक्षसामग्रीमभिधाय तामन्यत्रातिदिशन्नाह--
तेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् ।। 9 ।।
तेनेति रूपप्रत्यक्षज्ञानेनेत्यर्थः। यथा रूपविशेषात् रूपत्वानभिभूतत्वोद्बूतत्वाद्रूपोपलब्धिस्तथा रसविशेषात् रसत्वानभिभूतत्वोद्भूतत्वलक्षणात् रसोपलब्धिः, एवमितरत्रामि योज्यम्। अनेकद्रव्यसमवायश्चातिदेश्यः। घ्राणरसनत्वगिन्द्रियाणामनुद्भवाद्गन्धरसस्पर्शानामग्रहणम्, पाषाणादावनुद्भवाद्गन्धरसयोः--तद्भस्मनितयोरुपलम्भात्। तयोः पाषाणादावुपलम्भ एव न तु स्पष्टइत्येके। विभक्तावयवाप्यद्रव्यरूपानुद्भवात्तदग्रहणम्। एवं रसस्यापि। उष्ण जले तेजोरूपस्यानुद्भवात् स्पर्शस्य चाभिभवात्, विततकर्पूरचम्पकादौ रूपरसस्पर्शानामनुद्भवादनुपलम्भः। कनकादौ रूपमुद्भूतमेव शुक्लत्वभास्वरत्वे परमभिभूते। रूपमप्यभिभूतमित्येके। कनकग्रहणन्तु रूपान्तरसाहचर्यात्। अभिभवश्च बलवत्सजातीयग्रहणकृतमग्रहणं न तु बलवत्सजातीयसम्बन्धमात्रम्, बलवत्सजातीयसम्बन्धस्याप्यग्रहणनिरूप्यतया अग्रहणस्यैवोपजीव्यत्वात्। न चाग्रहणप्रयोजकत्वेन बलवत्सजातीय एवोपजीव्यः, अग्रहणस्य ग्रहणपागभावस्य तदत्यन्ताभावस्य वा तदप्रयोज्यत्वात्, ग्रहणध्वंसस्य च तत्राभावात्। तवापि तर्हि बलवत्सजातीयग्रहणकृतमग्रहणमनुपपन्नमेवेति चेत्, अस्त्वेवम्, तथापि सजातीयस्य बलवत्त्वे दुर्बलत्वे वा तादृशसम्बन्धसत्वे वा ग्रहणाग्रहणे एव प्रयोजके इति स एवाभिभवपदार्थः ।। 9 ।।
</4-1-9>
<4-1-10>
ननु गुरुत्वमप्यनेकद्रव्यसमवेतं रूपमहत्त्वसमानाधिकरणञ्चेति कथं न प्रत्यमत आह--
तस्याभावादव्यभिचारः ।। 10 ।।
तस्य रूपत्वादेः सामान्यस्य उद्भवस्य च गुरुत्वेऽभावान्न गुरुत्वं प्रत्यक्षम्। ननु माभूत् तत्र रूपत्वादिकं तथापि तत्प्रत्यक्षं स्यादत आह अव्यभिचार इति। एकैकेन्द्रियग्राह्यत्वं प्रति रूपत्वादीनां पञ्चानां जातीनाम् अव्यभिचारो नियम एव। यत्रैव रूपत्वादिपञ्चकान्यतमं तत्रैव वाह्यैकैकेन्द्रियग्राह्यत्वं तद्व्यतिरेकादित्यर्थः। सूत्रे तु गुरुत्वादिकारस्यास्फुटत्वात् प्रशस्तदेवैरतीन्द्रियेषु मध्ये परिगणितमपि वल्लभाचार्य्यैः स्पार्शनमुक्तं गुरुत्वम् ।। 10 ।।
</4-1-10>
<4-1-11>
एवमेकैकेन्द्रियग्राह्यानभिधाय द्वीनद्रियग्राह्यानाह--
संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिद्रव्यसमवायात् चाक्षुषाणि ।। 11 ।।
एतेषां चाक्षुषत्वे स्पार्शनत्वे वा परस्परानपेक्षत्वसूचनायासमासः। यद्यपि महत्त्वापेक्षाऽरित तथापि न परिभाणत्वेन। चकारः स्नेहद्रवत्ववेगानामुपसङ्ग्रहार्थः। चाक्षुषाणीति-स्पर्शनत्वमप्युपलक्षयति। यदा चकार एव चाक्षुषाणि चेत्यत्रापि योज्यः। सङ्ख्या--इति बहुवचनम् एकत्वादिकाः सर्वा एव सङ्ख्याः सङ्गृह्णाति। एकत्वं सामान्यमेव न तु गुण इति चेत् तद् यदि द्रव्यमात्रवृत्ति तदा द्रव्यत्वेन सहान्यूनानतिरिक्तवृत्तित्वम्। अथ गुणकर्मणोरपि वर्तते तदा सत्तया सहा (1) न्यूनानतिरिक्तवृत्तित्वम्। कथं तर्हि गुणादावप्येकत्वादि प्रत्यय इति चेत्, आरोपितेनैकत्वन, एकार्थसमवायप्रत्यासत्त्यासम्यगेवैकत्वप्रत्ययी वा तदेतदेकत्वं नित्यद्रव्येषु नित्यम् अनित्येषु च कारणैकत्वासमवायिकारणकम्। द्वित्वादिकन्तु अपेक्षाबुद्धिजन्यम्। अपेक्षाबुद्धिश्च नानैकत्वसमूहालम्बनरूपा, सजातीययोर्विजातीययोर्वा द्रव्ययोश्चक्षुषा सन्निकर्षे ।। 11 ।।
</4-1-11>
<4-1-12>
एतावन्त्येव कर्मपर्यन्तानि अभिप्रेत्याह--
अरूपिष्वचाक्षुषाणि ।। 12 ।।
रूपरहितद्रव्येषु वर्त्तमानानि कर्मपर्यन्तानि सङ्ख्यादीन्यचाक्षुषाणि, न स्पार्शनानीत्यपि द्रष्टव्यम्। अप्रत्यक्षाणीति नोक्तम्, तथा सत्यात्मैकत्वमपि प्रत्यक्षं न स्यात् ।। 12 ।।
</4-1-12>
<4-1-13>
रूपादीनामेकैकेन्द्रियग्राह्यत्वं सङ्ख्यादीनां द्विन्द्वियग्राह्यत्वं सुखादीनां मानसत्वं, तथा च सत्तागुणत्वयोः सामान्ययोः सर्वेन्द्रियग्राह्यत्वमायातमित्याह--
एतेन गुणत्वे भावे च सर्वेन्द्रियं व्याख्यातम् ।। 13 ।।
व्यक्तिग्रहणयोग्यतैव जातिग्रहणयोग्यता। व्यक्तयश्य यथायथं यदि सर्वे न्द्रियैगृह्यन्ते तदा जात्योरपि गुणत्वसत्तयोः सर्वेन्द्रियग्राह्यत्वं पर्य्यवसन्नमित्यर्थः ।। 13 ।।
</4-1-13>
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे चतुर्थाध्यायस्याद्यमाह्निकम्।
चतुर्थाध्याये द्वितीयमाह्निकम्
[सम्पाद्यताम्]<4-2-1>
स्पर्शवद्द्रव्यपरीक्षार्थे चतुर्थाध्याये मूलकारणपरमाणुपरीक्षानन्तरं कार्यद्वारा स्पर्शवन्त्येव द्रव्याणि परीचिक्षिषुराह--
तत् पुनः पृथिव्यादिकार्यद्रव्यं त्रिविधं शरीरेन्द्रियविषयसंज्ञकम् ।। 1 ।।
तत्र शरीरत्वं प्रयत्नवदात्मसंयोगासमवायिकारणवत् क्रियावदन्त्यावयवित्वम् उपाधिभेदः, न तु शरीरत्वं जातिः पृथिवीत्वादिना परापरभावानुपपत्तेः। इन्द्रियत्वञ्च स्मृत्यजनकज्ञानकारणमनः-संयोगाश्रयत्वम्, शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वं वा। नक्तञ्चरनयनरश्मिस्तु तेजोऽन्तरमेव। चुक्षुष्ट्वे तु शब्दरूपेतरोद्बूतविशेषगुणानाश्रयत्वे सतीति देयम्, न त्विन्द्रियत्वं जातिः, पृथिवीत्वादिना परापरभावानुपपत्तेः। विषयत्वञ्च यद्यपि प्रतीयमानतया भोगसाधनत्वम्, तच्च लौकिकसाक्षात्कारविषयत्वमेव द्रव्यगुणकर्मसामान्याभावसाधारणम्, तथापि सूत्रानुरोधात् लौकिकसाक्षात्कारविषयककार्यद्रव्यत्वं द्रष्टव्यम्। त्रिविधमिति हि सूत्रम्, तथा च विषयत्वमपि न जातिः ।। 1 ।।
</4-2-1>
<4-2-2>
इदानीं शरीरस्य त्रैभौतिकत्वचातुर्भौतिकत्वप्रवादं निराकर्त्तुमाह--
प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात् पञ्चात्मकं न विद्यते ।। 2 ।।
`गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकं' अ.3 आ.1 सू.3. यदि शरीरं भवेत् तदाऽप्रत्यक्षं भवेत् यथा प्रत्यक्षाप्रत्यक्षाणां वायुवनस्पतीनांसंयोगोऽप्रत्यक्षस्तथा शरीरमप्यप्रत्यक्षं स्यादिति दृष्टान्तद्वारकं सूत्रम्। पञ्चात्मकं न विद्यते इति। शरीरमिति शेषः। क्लेदपाकादयस्तु उपष्टम्भकजलानलगता एव। चातुर्भौतिकोऽप्येवम्। नन्वस्तु त्रैभौतिकम् त्रयाणां भूतानां प्रत्यक्षत्वादिति चेन्न विजातीयारम्भस्य प्रतिषेधात्। एकस्य गुणस्यावयविनि गुणानारम्भकत्वात्। तद् यदि पृथिवीजलाभ्यामारम्भः स्यात् तदा तदारब्धमगन्धमरसञ्च स्यात्, एवं पृथिव्यनलाभ्यामगन्धमरूपमरसञ्च स्यात् पृथिव्यनिलाभ्यामगन्धमरसमरूपमस्पर्शञ्च स्यादित्याद्यूह्यम् ।। 2 ।।
</4-2-2>
<4-2-3>
एतदेवाह--
गुणान्तराप्रादुर्भावाच्च न त्र्यात्मकम् ।। 3 ।।
पृथिव्यप्तेजसां प्रत्यक्षाणामेवारब्धं शरीरं प्रत्यक्षं स्यादपि, यदि तत्र गुणान्तरं कारणगुणपूर्वकं प्रादुर्भवेत्, न त्वेतदस्ति एकस्य गन्धादेरनारम्भकत्वस्योक्तत्वात्। तथा च न त्र्यात्मकमपि शरीरं न रूपवदभूतत्रयारब्धमपीत्यर्थः ।। 3 ।।
</4-2-3>
<4-2-4>
कथं तर्ह्येकस्मिन्नेव शरीरे पाकादीनामुपलम्भः? इत्यत आह--
अणुसंयोगस्त्वप्रतिषिद्धः ।। 4 ।।
मिथः पञ्चानां भूतानां परस्परमुपष्टम्भकतया संयोगो न निषिध्यते, किन्तु विजातीययोरण्वोर्द्रव्यं प्रत्यसमवायिकारणं संयोगो नेष्यते, तथा च तदुपष्टम्भात् पाकादीनां शरीरे भवत्युपलम्भ इति। तर्हि किम्प्रकृतिकमिदं मानुषशरीरमित्यत्र गौतमीयं सूत्रमुपतिष्ठते-`पार्थिवं तद् विशेषगुणेपलब्धेः अ. 3 आ. 1 सू. 31। पृथिवीविशेषगुणो गन्धो मानुषशरीरे आनाशमनपायी दृश्यते, पाकादयस्तु शुष्कशरीरे नोपलभ्यन्ते इति तेषामौपाधिकत्वं गन्धस्य स्वाभाविकत्वमिति पार्थिवत्वव्यवस्थितेः ।। 4 ।।
</4-2-4>
<4-2-5>
शरीरं विभजते--
तत्र शरीरं द्विविधं योनिजमयोनिजञ्च ।। 5 ।।
तत्र पार्थिवाप्यादिशरीरेषु मध्ये पार्थिवं शरीरं द्विविधम्। के ते द्वे विधे इत्यत्राह योनिजमयोनिजञ्चेति। आप्यतैजसवायवीयशरीराणां वरुणादित्यवायुलोकेषु प्रसिद्धानामयोनिजत्वमेव। अयोनिजत्वं शुक्रशोणितसन्निपातानपेक्षत्वम्। अयोनिजञ्च देवानामृषीणाञ्च, श्रूयते हि `ब्रह्मणो मानसा मन्वादयः' इति। कारणमन्तरेण कथं कार्य्यमिति चेत् योनेः शरीरत्वावच्छेदेनाकारणत्वात् उष्मजकृमिमशकादिशरीरे व्यभिचारात्, संस्थानविशेषवत्त्वस्य चासिद्धेः देवर्षिशरीरापेक्षयाऽस्मदादिशरीराणामन्यादृशत्वात्। योनिजमपि द्विविधं जरायुजमण्डजञ्ज। जरायुजं मानुषपशुमृगाणां गर्भाशयस्य जरायुत्वात् पक्षिसरीसृपाणामण्डजं परितः सर्पणशीलत्वात्, सर्पकीटमत्स्यादयोऽपि सरीसृपा एव। यद्यपि वृक्षादयोऽपि शरीरभेदा एव भोगाधिष्ठानत्वात्, न खलु भोगाधिष्ठानत्वमन्तरेणजीवन-मरण-स्वप्न-जागरण-भेषजप्रयोग-बीजसजातीयानुबन्धानुकूलोपगम-प्रतिकूलोपगमादयः सम्भवन्ति। वृद्धिक्षतभग्नसंरोहणे च भोगोपपादके स्फुटे एव, आगमोऽप्यस्ति--
नर्मदातीरसम्भूताः सरलार्जुनपादपाः।
नर्मदातोयसंस्पर्शाद् ये यान्ति परमां गतिम् ।।
इत्यादिः।
श्मशाने जायते वृक्षः कह्कगृध्रादिसेवितः।
इत्यादिश्च, तथापि चेष्टावत्त्वमिन्द्रियवत्त्वञ्च नोद्भिदां स्फुटतरमतो न शरीरव्यवहारः ।। 5 ।।
</4-2-5>
<4-2-6>
अयोनिजशरीरोत्पत्तिकारणमाह--
अनियतदिग्देशपूर्वकत्वात् ।। 6 ।।
अनियतदिग्देशाः परमाणवो धर्मविशेषजनितकर्माणस्तत्पूर्वकत्वादयोनिजशरीराणाम् ।। 6 ।।
</4-2-6>
<4-2-7>
ननु परमाणूनां कर्मविना कथं द्रव्यासमवायिकारणं संयोगः, कथं वा संयोगमन्तरेण द्रव्योत्पत्तिरत आह--
धर्मविशेषाच्च
अदृष्टवदात्मसंयोगादेव सर्गादौ परमाणूनां कर्म तेन च कर्मणा सम्भूय परमाणवो द्व्यणुकादिप्रक्रमेण अयोनिजं देवर्षीणां शरीरमारभन्ते इत्यर्थः। उपलक्षणञ्चैतत् अधर्मविशेषाच्च क्षुद्रजन्तूनामूष्मजानां मशकादीनां यातनामयानि शरीराण्युत्पद्यन्ते इत्यपि द्रष्टव्यम् ।। 7 ।।
</4-2-7>
<4-2-8>
देवर्षीणामयोनिजे शरीरे प्रमाणान्तरमाह--
समाख्याभावाच्च ।। 8 ।।
समाख्या अन्वर्था संज्ञा श्रुतिस्मृतीतिहासपुराणादिषु प्रसिद्धा। तथाहि"दुर्वासःप्रभृतयोमानसाः, अहह्कारेभ्यः समभवदङ्गिरा" इत्यादिका, तथाऽपि ज्ञायते सन्त्ययोनिजानि शरीराणि देवर्षीणामिति ।। 8 ।।
</4-2-8>
<4-2-9>
प्रमाणान्तरमाह--
संज्ञाया आदित्वात् ।। 9 ।।
सर्गादौ या ब्रह्मादिसंज्ञा आदिभूता प्राथमिकी तया ज्ञायते अस्त्ययोनिजं शरीरमिति, नहि तदा ब्रह्मणो मातापितरौ स्तः याभ्यां ब्रह्मादिसज्ञा कृता स्यादिति भावः ।। 9 ।।
</4-2-9>
<4-2-10>
उपसंहरित--
सन्त्ययोनिजाः ।। 10 ।।
शरीरविशेषा इति शेषः ।। 10 ।।
</4-2-10>
<4-2-11>
उपसंहृतेऽतिदाढर्यार्थं प्रमाणान्तरमाह--
वेदलिङ्गाच्च ।। 11 ।।
वेदो मन्त्रः स च लिङ्ग्यते ज्ञाप्यतेऽनेनेति वेदलिङ्गं ब्राह्मणम्, ततोऽप्ययोनिजं शरीरं प्रतिपद्यते इत्यर्थः। तथाहि ब्राह्मणम् - प्रजापतिः प्रजा अनेका असृजत् स तपोऽतप्यत प्रजाः सृजेयमिति स मुखतो ब्राह्मणमसृजत् बाहुभ्यांराजन्य मूरुभ्यां वैश्यम् पद्भ्यां शूद्रम्' इति। वेदोऽपि-`ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः कृतः। ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत' इत्यादिः। तदेव योनिजमयोनिजञ्च पार्थिवशरीरमुक्तम्। आप्यं तैजसं वायवोयञ्चायोनिजमैव शुक्रशोणितयोर्नियमेन पार्थिवत्वात्, पार्थिवेन च पाथसीयानारम्भात्।
इन्द्रियन्तु पार्थिवं घ्राणं सर्वप्राणभृत्साधारणं जलाद्यनभिभूतैः पार्थिवभागैरारब्ध्रं घ्राणम्। घ्राणं पार्थिवं रसाद्यव्यञ्जकत्वे सति गन्धव्यञ्जकत्वात् मृगमदगन्धव्यञ्जककुक्कुटोच्चारवत्। एवं रसनमाप्यं रूपाद्यव्यञ्जकत्वे सति रसस्यैव व्यञ्जकत्वात् सक्तुरसाभिव्यञ्जकसलिलवत्। एवञ्चक्षुस्तैजसं रसाद्यव्यञ्जकत्वे सति रूपस्यैव व्यञ्जकत्वादालोकवत्। त्वगिन्द्रियं वायवीयं गन्धाद्यव्यञ्जकत्वे सति स्पर्शस्यैव व्यञ्जकत्वात् अङ्गसङ्गिसलिलशैत्याभिव्यञ्जकव्यजनवातवत्।
विषयस्तु पार्थियो मृत्पाषाणस्थावरलक्षणः। तत्र भूप्रदेशाः प्राकारेष्टकादयो मृद्विकाराः, अद्रिमणिहीरकगैरिकादयः पाषाणाः, स्थावरास्तृणौषधिवृक्षगुल्मलतावतानवनस्पतयः। आप्यास्तु विषयाः सरित्समुद्रहिमकरकादयः। तैजसस्तु विषयो भौमदिव्योदर्याकरजभेदाच्चतुर्विधः। भौमं काष्ठेन्धनप्रभवम्। दिव्यम् अबिन्धनं विद्युदादि। उदर्य्यम् अन्नादिरसार्जनक्षमं जाठरम्। आकरजञ्ज हिरण्यादि। वायवीयस्तु विषयः उपलभ्यमानस्पर्शाश्रयो वायुः। वायोश्चतुर्थः कार्यः प्राणाख्यः शरीरे रसमलधातूनां प्रेरणादिहेतुरेकः सन् क्रियाभेदादपानादिसंज्ञां लभत इति ।। 11 ।।
</4-2-11>
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे चतुर्थाध्यायस्य
द्वितीयमाह्निकम्।
समाप्तश्चायं चतुर्थोध्यायः।