वैशेषिकसूत्रोपस्कारः/तृतीयोऽध्यायः

विकिस्रोतः तः
← द्वितीयोऽध्यायः वैशेषिकसूत्रोपस्कारः
तृतीयोऽध्यायः
[[लेखकः :|]]
चतुर्थोऽध्यायः →

तृतीयाध्याये प्रथमाह्निकम्[सम्पाद्यताम्]

<3-1-1>
तदेवं द्वितीयाध्याये बहिर्द्रव्यपरीक्षामुपाद्य उद्देशक्रमादिदानीमात्मपरीक्षायै पीठमारचयितुमाह--
प्रसिद्धा इन्द्रियार्थाः ।। 1 ।।
इन्द्रियाणामर्था गन्धरसरूपस्पर्शशब्दा बाह्यैकैकेन्द्रियग्राह्याः। तत्र "श्रोत्रग्रहणो योऽर्थः स शब्द" इति शब्दप्रसिद्धौ दर्शितायामर्थाद् गन्धादौ स्पर्शपर्य्यन्ते प्रसिद्धिर्दर्शितेत्यर्थः। तथाहि घ्राणग्रहणो योऽर्थः स गन्धः, रसनग्रहणो योऽर्थः स रसः, चक्षुर्मात्रग्रहणी योऽर्थः तद्रूपम्, त्वगिन्द्रियमात्रग्रहणो योऽर्थः स स्पर्शः। सर्वत्र चार्थशब्देन धर्मी भावभूत उच्यते तेन गन्धत्वादौ गन्धा द्यभावे च नातिव्याप्तिः, तदेवं घ्राणग्रहणवृत्तिगुणत्वावान्तरजातिमत्त्वं गन्धत्वम्। एवं रसादावपि वाच्यम् तेन नातीन्द्रियगन्धाद्यनुपग्रहः ।। 1 ।।
</3-1-1>

<3-1-2>
इन्द्रियार्थप्रसिद्धेरात्मपरीक्षायामुपयोगमाह--
इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः ।। 2 ।।
हेतुर्लिङ्गमर्थान्तरस्य आत्मनः। इन्द्रियार्भ्येयः इति। इन्द्रियेभ्योर्थेभ्यश्च रूपादिभ्यस्तद्वद्‌भ्यश्च यदर्थान्तरम् आत्मा तस्य लिङ्गमित्यर्थः। यद्यपि ज्ञानमेव लिङ्गमिह विवक्षितम् तथापीन्द्रियार्थप्रसिद्धे रूपादिसाक्षात्कारस्य प्रसिद्धतरतया ताद्रूप्येणैव जिङ्गत्वमुक्तम्। तथाहि प्रसिद्धिः क्वचिदाश्रिता कार्यत्वात् घटवत् गुणत्वाद्वा क्रियात्वाद्वा। सा च प्रसिद्धिः करणजन्या क्रियात्वात् छिदिक्रियावत्। यच्च प्रसिद्धेः करणं तदिन्द्रियम्। तच्च कर्तृप्रयोज्यं करणत्वात् वास्यादिवत् तथा यत्रेयं प्रसिद्धिराश्रिता यः घ्राणादीनां करणानां प्रयोक्ता स आत्मा ।। 2 ।।
</3-1-2>

<3-1-3>
ननु शरीरमिन्द्रियाणि वा प्रसिद्धेराश्रयोऽस्तु प्रसिद्धिं प्रति तदुभयान्वयव्यतिरेकयोः स्फुटतरत्वात् किं तदन्याश्रयकल्पनया। तथाहि चैतन्यं शरोरगुणः तत्कार्यत्वात् तद्रूपादिवत्। एवमिन्द्रियगुणत्वेऽपि वाच्यमित्याशङ्क्याह--
सोऽनपदेशः ।। 3 ।।
अपदेशो हेतुः तदाभासोऽनपदेशः। तथाच तत् कार्यत्वं ग्रदीपजन्यज्ञानादावनैकान्तिकत्वादनपदेश इत्यर्थः ।। 3 ।।
</3-1-3>

<3-1-4>
ननु तत्कार्यत्वं चैतन्यत्वावच्छिन्नस्यैव कार्यत्वं विवक्षितं प्रदीपादीनाञ्च समस्तमेव चैतन्यं न कार्यमिति न व्यभिचार इत्याशङ्क्याह--
कारणाज्ञानात् ।। 4 ।।
शरीरकारणानां करचरणादीनां तदबयवानां वा अज्ञानात् ज्ञानशून्यत्वादित्यर्थः। पृथिव्यादिविशेषगुणानां हि कारणगुणपूर्वकता दृष्टा तथा च शरीरकारणेषु यदि ज्ञानं स्यात्तदा शरीरेऽपि सम्भाव्येत, न चैवम्। नन्वस्तु शरीरकारणेष्वपि चैतन्यमिति चेन्न ऐकमत्याभावप्रसङ्गात्। न हि बहूनाञ्चेतनानामैकमत्यं ष्टदृम्, करावच्छेदेनानुभूयतस्य करच्छेदेऽस्मरणप्रसङ्गात्, यतो "नान्यदृष्टं स्मरत्यन्यः" इति। किञ्च शरीरनाशे तत्कृतहिंसादिफलानुपभोगप्रसङ्गात्। न हि चैत्रेण कृतस्य पापस्य फलं मैत्रो भुंक्ते ततश्च कृतहानिरकृताभ्यागमश्च स्यात् ।। 4 ।।
</3-1-4>

<3-1-5>
ननु शरीरकारणेषु सूक्ष्ममात्रया भानमस्ति शरीरे तु स्फुटमतो नाकारणगुणपूर्वकता न चैकमत्यानुपपत्तिरित्याशङ्क्याह--
कार्येषु ज्ञानात् ।। 5 ।।
यदि हि शरीरमूलकारणेषु परमाणुषु चैतन्यं स्यात् तदा तदारब्धेषु कार्येषु घटादिष्वपि स्यात्। किञ्च पार्थिवविशेषगुणानां सर्वपार्थिववृत्तितया व्याप्तेः कार्येष्वपि घटादिषु चैतन्यं स्यान्न च तत्र चैतन्यमुपलभ्यते इत्यर्थः ।। 5 ।।
</3-1-5>

<3-1-6>
ननु घटादावपि सूक्ष्ममात्रया चैतन्यमस्त्येवेत्याशङ्क्याह--
अज्ञानाच्च ।। 6 ।।
सर्वैः प्रमाणैरज्ञानात् कुम्भादौ न चैतन्यमित्यर्थः। सर्वप्रमाणागोचरस्याप्यभ्युपगमे शशविषाणादेरप्यभ्युपगमप्रसङ्गः। न हि घटादौ चैतन्यं केनापि प्रमाणेन ज्ञायत इति ।। 6 ।।
</3-1-6>

<3-1-7>
ननु श्रोत्रादिभिः करणैरधिष्ठाताऽनुमीयते इत्युक्तं, तदयुक्तम् न हि श्रोत्रादिभिरात्मनस्तादत्म्यं तदुत्पत्तिर्वा, न च ताभ्यामन्तरेणाविनाभावसिद्धिः, न चाविनाभावमन्तरेणानुमितिरित्यत आह--
अन्यदेव हेतुरित्यनपदेशः ।। 7 ।।
हेतुः साध्यादन्य एव भवति न तु साध्यात्मा साध्याविशेषप्रसङ्गात्, तस्मात्तादा म्यघटितो हेतुरहेतुरनपदेश इत्यर्तः ।। 7 ।।
</3-1-7>

<3-1-8>
ननु श्रोत्रादिभिरिन्द्रियैरात्मनो यथा न तादात्म्यं तथा तदुत्पत्तिरपि नास्ति नहि वह्नेर्धूम इव आत्मनः श्रोत्रादिकरणमुपपद्यते इत्यत आह--
अर्थान्तरं ह्यर्थान्तरस्यानपदेशः ।। 8 ।।
हि यतः कार्यं धूमादि यथा रासभादेरर्थान्तरन्तथा कारणाद्वह्न्यादेरप्यर्थान्तरमेव। तथा चार्थान्तरत्वाविशेषात् धूमो रासभं न गमयति किन्तु वह्निमेव गमयतीत्यत्र स्वभावविशेष एव नियामकः। स च स्वभावो यदि कार्यादन्यस्यापि भवति तदा सोऽप्यदेशो भवत्येव। तथा च कार्य्यमविवक्षितस्वभावभेदम् अनपदेशः। तथा च तादात्म्यतदुत्पत्ती एवाविनाभावः तयोरेवाविनाभावपर्यवसानम् ताभ्यां समानोपायो वा तदुभयमात्रग्रहाधोनग्रहो वेति स्वशिष्यव्यामोहनाय परिभाषामात्रमिति भावः ।। 8 ।।
</3-1-8>

<3-1-9>
सम्प्रत्यविनाभावस्य तदुभयव्यभिचारमेव स्फुटयितुमाह--
र्सयोगि समवाय्येकार्थसमवायि विरोधि च ।। 9 ।।
शरीरे त्वग्वद् शरीरत्वादित्ययं हेतुः संयोगी। वृद्धिक्षयवद्द्रव्यसहजावरणं हि त्वगित्युच्यते। तच्च न शरीरस्य कार्यं कारणं वा, किन्तु सहोत्पत्तिकमात्रं नियतसंयोगवत्। एवं समवायि यथाकाशं परिमाणवद् द्रव्यत्वात् घटादिवदिति। अत्र परिमाणं साध्यं द्रव्यत्वेनाकाशसमवायिना धर्मेण साध्यते यद्वा पिरिमाणतारतम्यं क्वचिद्विश्रान्तमित्यनेनाणुत्वं परिमाणविशेषः सिद्धः। तेन तदाश्रयः परमाणुरनुमीयते। शब्दादिना त्वाकाशस्य, ज्ञानादिना त्वात्मनोऽनुमानं कार्येणैव कारणानुमानमिति नोदाहृतम् ।। 9 ।।
</3-1-9>

<3-1-10>
एकार्थसमवायिनं सूत्रकृदुदाहरति--
कार्यं कार्य्यान्तरस्य ।। 10 ।।
कार्यं रूपं कार्यान्तरस्य स्पर्शस्य लिङ्गम्। उपलक्षणञ्चैतत् अकार्यमप्याकाशैकत्वम् आकाशैकपृथक्त्वे लिङ्गम्। एवं परममहत्त्वे ।। 10 ।।
</3-1-10>

<3-1-11>
विरोधिलिङ्गमुदाहरति--
विरोध्यभूतं भूतस्य ।। 11 ।।
अभूतं वर्षं, भूतस्य वाय्वभ्रसंयोगस्य लिङ्गम्। एवं स्फोटादेर्विरोधी मन्त्रपाठः। तथा चाबूतमनुत्पन्नं स्फोटादि भूतस्य मन्त्रपाठस्य लिङ्गम् ।। 11 ।।
</3-1-11>

<3-1-12>
विरोधिलिङ्गस्योदाहरणान्तरमाह--
भूतमभूतस्य ।। 12 ।।
भूतं स्फोटादिकम् अभूतस्य मन्त्रपाठस्य लिङ्गम्। एवं भूतो वाय्वभ्रसंयोगोऽभूतस्य वर्षस्य लिङ्गम्। एवं भूतो दाहोऽभूतस्य मण्यादिसमवधानस्य लिङ्गमेवमन्यदप्यूह्यम् ।। 12 ।।
</3-1-12>

<3-1-13>
लिङ्गान्तरमुदाहरति--
भूतो भूतस्य ।। 13 ।।
विद्यमानेनैव विरोधिना विद्यमानस्यैव विरोधिनः क्वचिदनुमानम् यथा विस्फूर्जन्तमहिं दृष्ट्वा झाटान्तरितस्य नकुलस्य। अत्र हि विस्फूर्जन्नहिर्भूतो विद्यमानो झटान्तरितो नकुलोऽपि विद्यमान एवेति भवति भूतो भूतस्य लिङ्गमित्यर्थः। वर्षवाय्वभ्रसयोगस्य तु नैकस्मिन् काले विद्यमानता न वा स्फोटमन्त्रपाठयोरिति ।। 13 ।।
</3-1-13>

<3-1-14>
इदानीं परिगणनस्य प्रयोजनमाह--
प्रसिद्धिपूर्वकत्वादपदेशस्य ।। 14 ।।
प्रसिद्धिः स्मर्य्यमाणा व्याप्तिः अपदेशो हेतुवचनं, तेन स्मर्यमाणव्याप्तिविशिष्टो हेतुर्हेत्ववयवेनोपनयावयवेन वोच्यते इति भवति प्रसिद्धिपूर्वकोऽपदेश इति। तथाच श्रोत्रादिना करणेनाधिष्ठातुः, ज्ञानादिना च गुणेन तदाश्रयस्थात्मनोः यदनुमानमुक्तम् तत्र सर्वत्र व्याप्तिरस्ति त्वया तु शरीरकार्य्यत्वेन हेतुना ज्ञानस्य यच्छरीरगुणत्वं साधितं तत्र न व्याप्तिरिति भावः।
ननु केयं व्याप्तिः?
न तावदन्यभिचरितः सम्बन्धः अव्यभिचारस्य साध्यात्यन्ताभावसामानाधिकरण्यानधिकरणत्वस्य केवलान्वयिन्यप्रसिद्धेः। साध्यानधिकरणत्वस्यापि केवलान्वयिन्यसम्भवात् धूमादेरपि यत्‌किञ्चित्साध्यानधिकरणाधिकरणत्वात्।
नाप्यविनाभावः। स हि साध्यं विनाऽभावो वा हेतोः, अविनासाध्यान्वये सति भावो वा? धूमस्यापि क्वचिद्रासभाभावेऽभावात्, रासभसत्त्वे सत्त्वाच्च नियतव्यतिरेको नियतश्चान्वयो विवक्षित इति चेत्, न नियमस्यैव निरूप्यमाणत्वात्।
नापि कार्त्स्नेन सम्बन्धः स यदि कृत्स्नस्य साध्यस्य साधनसम्बन्धः, स विषमव्याप्ते धूमादावपि नास्ति। अथ कृत्स्स्नस्य साधनस्य साध्यसम्बन्धः, सोऽप्येकस्य साध्यस्य कृत्स्नसाधने सम्बन्धाभावादनुपपन्नः। अथ कृत्स्नस्य साध्यस्य कृत्स्नेन साधनेन सम्बन्धः, एतदप्ययुक्तम् न हि कृत्स्नेन साधनेन कृत्स्नस्य साध्यस्य क्वचिदपि सम्बन्धः सम्भवति, प्रत्येकमेव साध्यसाधनयोः सम्बन्धात्, विषमव्याप्ते चाव्याप्तेः।
नापि स्वाभाविकः सम्बन्धः। स्वभावी हि स्वस्य भावो वा स्वमेव भावो वा, तत्र तज्जन्यत्वञ्चेत्तद्धितार्थः, तदा समवायलक्षणायां व्याप्तावव्याप्तेः। तदाश्रितत्वञ्चेत्तद्धितार्थः, तदापि समवायेऽव्याप्तिः, न हि समवायः क्वचिदाश्रितः संयोगस्यापि हेतुधर्मधूमत्वाद्यजन्यत्वाच्च।
नाप्यनौपाधिकः सम्बन्धः। उपाधेरेव दुर्व चत्वात्। सुवचत्वेऽपि दुर्ग्रहत्वात् सुग्रहत्वेऽप्यन्तोनेयाश्रयात्। साध्यव्यापकत्वे सति साधनाव्यापकत्वादेर्व्याप्तिग्रहाधीनग्रहत्वात्।
नापि स्बन्धमात्रं व्याप्तिः। व्यभिचारिसम्बन्धस्यापि देशविशेषकालविशेषगर्भतया व्याप्तिरूपत्वेऽपि, तजज्ञानस्यानुमितावतन्त्रत्वात् अनुमितिकारणीभूतज्ञानविषयव्याप्तेरेव निरूपयितुमिचितत्वात्।
नापि साधनवन्निष्ठात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः। वह्नेरपि धूमवन्निष्ठात्यन्ताभावप्रतियोगित्वात् न हि धूमवति महानसे पर्वतोयवह्नेर्नात्यन्ताभावः। इदं संयोगि द्रव्यत्वादित्यादौ संयोगात्यन्ताभावस्य साधनसमानाधिकरणत्वादव्यापकताप्रसङ्गात्। प्रतियोगिविरुद्धस्वसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः संयोगात्यन्ताभावस्यप्रतियोगिविरुद्धत्वाभावादिति चेन्न संयोगात्यन्ताभावस्यापि प्रतियोगिविरुद्धत्वात् अन्यथाऽवच्छेदभेदकल्पनावैयर्थ्यात् न हि कृतकत्वानित्यत्वयोर्वृत्त्यर्थमवच्छेदभेदः कल्प्यते। नापिसाध्यवैयधिकरण्यानधिकरणत्वम्। केवलान्वयिनि साध्यवैयधिकरण्याप्रसिद्धेःसाध्यानधिकरणाधिकरणत्वं हि तत्। नापि यत्सम्बन्धितावच्छेदकरूपवत्त्वं यस्य तस्य सा व्याप्तिः वह्निवत्त्वस्यापि धूमसम्बन्धितावच्छेदकत्वात्। अधिकदेशवृत्तितया तन्न तथेति चेत् व्यापकतावच्छेदकस्याधिकदेशवृत्तेरप्यभ्युपगमात् धूमत्वस्यापि गगनतलावलम्बिधूमवृत्तितयाऽधिकदेशवृत्तित्वात्। अतएव तद्वारणार्थं विशेषणमिति चेत्, तर्हि यद् व्याप्यतावच्छेदकं तदेव सम्बन्धितावच्छेदकत्वेनाभिमतमित्यभिमतं तथा चात्माश्रयः। एवञ्च यत् सामानाधिकरण्यावच्छेदकरूपवत्त्वं यस्य तस्य सा व्याप्तिरित्यप्युक्तदोषाक्रान्तमिति चेत्, अत्रोच्यते अनौपाधिकः सम्बन्धो व्याप्तिः। अनौपाधिकत्वन्तु यावः स्वव्यभिचारिव्यभिचारिसाध्यसामानाधिकरण्यम्, यावत्स्वसमानाधिकरणात्याताभावप्रतियोगिकात्यन्ताभावसमानाधिकरणसाध्यसामानाधिकरण्यं वा। यावत्‌साधनाव्यापकाव्याप्यसाध्यसामानाधिकरण्यमिति निरुक्तिद्वयार्थः। यावत्माध्यव्यापकाव्याप्यसाध्यसामानाधिकरण्यमिति निरुक्तिद्वयार्थः। यावत्माध्यव्यापकव्यापकत्वं वा बहुव्रीहिणा दुर्ग्रहमिदमिति चेत् अत एव तत्र भूयोदर्शनापेक्षा तर्कापेक्षा च। यद्वा साधनसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः। अत्यन्ताभावश्च वह्नित्वादिसामान्यावच्छिन्नप्रतियोगिताको विवक्षितः तेन महानसीयधूमे पर्वतीयवह्न्यत्यन्ताभावसामानाधिकरण्येऽपि न देषः, धूमवति वह्निर्ना स्तीति प्रतीतेरनुदयात्। द्रव्यत्वन्तु संयोगित्वात्यन्ताभावासमानाधिकरणमेव, न हि भवति द्रव्यं न संयोगीति प्रतीतिः, संयोगानां प्रत्येकमव्याप्यवृत्तित्वेऽपि संयोगित्वसामानय्स्य व्याप्यवृत्तित्वात् तस्यैव च व्यापकत्वात्। नन्वनौपाधिकत्वमुपाधिविरहः उपाधिरेव दुष्परिकलनीय इति चेन्न साध्यव्यापकत्वे सति साधनाव्यापकस्योपाधित्वात्। तदुक्त्--
साधने सोपाधि- साध्ये निरुपाधिरुपाधिः।
ननु केवलसाध्यव्यापकोपाध्यव्यापकमेतत्। यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्‌भूतरूपवत्त्वम्, स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वम्, न ह्युद्‌भूतरूपवत्त्व प्रत्यक्षत्वव्यापकम् आत्मनि गुणकर्म्मादौ च प्रत्यक्षे तदभावात्, नापि शाकपाकजत्वं श्यामत्वव्यापकम् काककोकिलजलदजम्बूफलादौ श्यामे तदभावादिति चेन्न पर्य्यवसितसाध्यव्यापकत्वे सति साधनाव्यापकत्वस्य तथा विवक्षितत्वात्। पर्य्यवसितञ्च साध्यं यद्धर्मावच्छेदेनोपाधेर्व्यापकत्वमभग्नं तद्धर्मावच्छिन्नम्, प्रकृते बहिर्द्रव्यत्वावच्छेदेन प्रत्यक्षत्वस्योद्‌भूतरूपवत्त्व व्यापकम्, अन्यव्यतिरेकाभ्यां गृहीतम्, औत्पत्तिकनरश्यामत्वावच्छिन्नं साध्यं प्रति चरकसुश्रुतादौ शाकपाकजत्वस्य व्यापकत्वावधारणादेवमन्यत्राप्यूह्यम्। ननु नायमुपाधिपदवाच्यः, यद्धर्मोऽन्यत्र भासते स उपाधिः यथो स्फटिकादौ जवाकुसुमादि विषमव्याप्तोपाधौ च व्याप्यत्वाभावात्तद्धर्मस्य साधनाभिमतेऽनवभासनादिति चेत्, सत्यम् समव्याप्त एवार्द्रेन्धनप्रभववह्निमत्त्वादौ मुख्य उपाधिपदप्रयोगः, अन्यत्र तु गौणः। गुणश्च व्यभिचारोन्नायकत्वम्, यद्धि यद्व्यापकव्यभिचारि तस्य तद्व्यभिचारित्वनियमात् भवति च साध्यव्यापकस्योपाधेव्यभिचारि साधनम्, अतः साध्यव्यभिचारीति। यद्व्यापकाव्याप्यं यत् तत् तदव्याप्यम् इति व्याप्यत्वासिद्‌ध्युन्नायकत्वं वा। सत्प्रतिपक्षोत्थापकत्वं वा पक्षे उपाधेः साध्यव्यापकस्याभावात् साध्याभावसाधनात्। तदुक्तं--
वाद्युक्तसाध्यनियमच्युतोऽपि कथकैरुपाधिरुद्भाव्यः।
पर्य्यवसितं नियमयन् दूषकताबोजसाम्यात् ।। इति।
उन्नोयते चायं बाधव्यभिचारानुकूलतर्काभावप्रतिकूलतर्कैः। यत्तु यद्व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं स उपाधिरिति। तत्र तृतीया न करणे न हेतौ न प्रकारे न लक्षणे। न च यद्व्यभिचारित्वेन ज्ञातेन साधनस्य साध्यव्यभिचारित्वं ज्ञायते इति पूरणीयम् अज्ञायमानोपार्ध्यव्यापनात् स्फुटव्यभिचारस्थलोपाध्यव्यापनात्। योग्यतागर्भा तु दुर्निरूपा, व्यभिचारोन्नायकत्वमव्यवस्थाप्य उपाध्युद्भावनाशक्यत्वाच्च। पक्षेतरत्वन्तु उपाधिलक्षणाक्रान्तमपि स्वव्याधातकत्वान्नोपाधिः यथा पक्षे सन्दिग्धानैकान्तिकत्वम्। यदि हि तत्र न सन्देहस्तदा न पक्षता, यदि पक्षता तदा सन्देहस्यावश्यकता सन्दिग्धानैकान्तिकत्वध्रौव्यात्। अवशिष्टं मयूखेऽन्वेष्टव्यम् ।। 14 ।।
</3-1-14>

<3-1-15>
इदानीं वृत्तानां वर्त्तिष्यमाणानाञ्च हेतूनां हेत्वाभासाद्विवेकाय हेत्वाभासप्रकरणमारभमाण आह--
अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चानपदेशः ।। 15 ।।
अप्रसिद्ध इति। अव्याप्तोऽगृहीतव्याप्तिको विपरीतव्याप्तिकश्च विरुद्धः। एतेन व्याप्यत्वासिद्धविरुद्धयोः संग्रहः। असन् इति। पक्षेऽसन् अपक्षधर्म इत्यर्थः। स च क्वचित् स्वरूपतिरहात् क्वचित् सन्देहसिषाधयिषयोरभावात्। सिद्धसाधने। सन्दिग्ध इति। पक्षे साध्यसदसत्त्वकोटिकसंशयजनकः। स च संशयः समानधर्मदर्शनात् क्वचिदसाधारणधर्मदर्शनात् क्वचित् पक्ष एव हेतोः साध्यतदभावसाहचर्य्यदर्शनात्। आद्यः साधारणानैकान्तिकः। द्वितीयस्त्वसाधारणानैकान्तिकः। तृतीयोऽनुपसंहारी ।। 15 ।।
</3-1-15>

<3-1-16>
तत्र व्याप्यत्वासिद्धविरुद्धस्वरूपासिद्धानामुदाहरणमाह--
यस्माद्विषाणी तस्मादश्वः ।। 16 ।।
यत्र रासभपिण्डं पक्षीकृत्यायमसावश्यः विषाणित्वात् यस्तु नाश्वो नासौ विषाणी, यथा शशशृगालनरवानरादिरिति व्यतिरेकसहचारदर्शनाहितव्यामोहः प्रयुङ्क्ते। तत्र व्याप्यत्वासिद्धस्वरूपासिद्धविरुद्धानामुदाहरणमिदम् ।। 16 ।।
</3-1-16>

<3-1-17>
अनैकान्तिकमुदाहरति--
यस्माद्विषाणी तस्माद् गौरिति चानैकान्तिकस्योदाहरणम् ।। 17 ।।
यत्र महिषं पक्षयित्वा अयं गौर्विषाणित्वादिति साधयति तत्र साधारणानैकान्तिकता। यदा त्वाकाशं नित्यं शब्दाश्रयत्वादिति साधयति तदाऽस्यासाधारणानैकान्तिकता एवं शब्दोऽनित्यः शब्दत्वादित्याद्यप्यगृह्यमाणदशायामसाधारणानैकान्तिकमेव, यदा तु विपक्षबाधकतर्कावतारात् पक्ष एवं साध्यं सिध्येत् तदा सपक्षवृत्तिताज्ञानदशायां सद्धेतुरेव पक्षस्यापि सपक्षत्वात्। तत्र व्याप्तपक्षधर्मतयाऽप्रमितोऽसिद्धः। स च त्रिविधः व्याप्यत्वासिद्धः स्वरूपासिद्धः आश्रयासिद्धश्च। तत्रागृहीतव्याप्तिको व्याप्यत्वासिद्धः, सत्या एव व्याप्तेरग्रहात् व्याप्तेरभावाच्च उभयथापि। तेनानुकूलतर्काभावादयोऽसिद्धभेदाः। स चायमसमर्थविविशेषणा-समर्थविशेष्या-समर्थोभय-संदिग्धासमर्थविशेषण-सन्दिग्धासमर्थविशेष्य-सन्दिग्धासमर्थोभय-भेदप्रपञ्चेन सहस्रधा भिद्यते। सर्वत्र चात्र सिद्धिविरह एवोद्भाव्यः।
अत्रेदं तत्त्वम्। हेतुस्तावत् केवलान्वय्यन्वयव्यतिरेकिकेवलव्यतिरेकिभेदात्त्रिविधः। तत्र सर्वधर्मिगतो धर्मः केवलान्वयो, यथा प्रमेयत्वा-भिधेयत्व-विशेष्यत्व विशेषणत्व-नित्यद्रव्यात्यान्ताभावा-श्रयनाश्यगुणादिध्वंसात्यन्ताभावादयः। नह्यस्ति तादृशं किञ्चित्, यत्रैते धर्मा न विद्यन्ते। तथा च सवर्गतत्वम् अत्यन्ताभावाप्रतियोगित्वं वा केवलान्वयित्वम्। एतेषाञ्च स्वात्मवृत्तित्वेऽपि न दोषः तदुक्तम्--
प्रमाणं शरणं वृत्तौ न भिन्नाभिन्नते यतः। इति।
केवलान्वयिसाध्यको हेतुः केवलान्वयी। अस्य च पक्षसत्त्वसपक्षसत्त्वाबाधितत्वासत्प्रतिपक्षितत्वानि चत्वारि रूपाणि गमकत्वौपयिकानि। अन्वयव्यतिरेकिणस्तुहेतोर्विपक्षासत्त्वेन सह पञ्च केवलव्यतिरेकिणः सपक्षसत्त्वव्यतिरेकेण चत्वारि। तथाच यस्य हेतोर्यावन्ति रूपाणि गमकतौपयिकानि तदनय्तररूपहीनः स हेतुराभासः। एबञ्च गमकतौपयिकान्यतररूपशून्यत्वं हेत्वाभासत्वम्, तेनान्यतररूपशून्यत्वस्य निश्चयवत्सन्देहोऽप्यनुमितिप्रतिबन्धकः वादिहेतोरसाधकतासाधकञ्च। न च केवलान्वयिकेवलव्यतिरेकिणोर्हेत्वोरन्यतररूपशून्यतया हेत्वाभासत्वापत्तिः, केवलान्वयिनि विपक्षासत्त्वास्य केवलव्यरतिरेकिणि सपक्षसत्त्वस्य गमकत्वौपयिकत्वाभावात्। एवञ्चाश्रयासिद्धस्वरूपासिद्धभागासिद्धानां पक्षसत्त्वरूपविरहादाभासत्वम्। व्याप्यत्वासिद्धविरुद्धसाधारणानैकान्तिकानां विपक्षासत्त्वरूपवैकल्यात्। असाधारणानैकान्तिकानुपसंहारिणोः सपक्षसत्त्ववैकल्यात्। बाधितसत्प्रतिपक्षितयोरबाधितत्वासत्प्रतिपक्षितत्वविरहात्। एवं सोपाधिकत्वाप्रयोकजत्वयोरपि विपक्षासत्त्वनिश्चयाभावादगमकत्वम्। अनुकूलसाधनविकलोभयविकलदृष्टान्ताभासानां यदि हेत्वाभासविधया दोषत्वं तदा सपक्षत्त्वानिश्चयात्, यदि स्वातन्त्र्येण दृष्टान्ताभासतया तथापि द्वारं हेतोः सपक्षसत्त्वानिश्चय एव। अनुपदर्शितान्वयानुपदर्शितव्यतिरेकविपरीतोपदर्शितान्वयविपरीतोपदर्शितव्यतिरेकास्तु न्यूना,- प्राप्तकाल-निग्रहस्थानपर्य्यवसन्ना एव आत्माश्रयान्योन्याश्रयचक्रकानवस्थास्तु व्याप्तिनिश्चयं विघटयन्तः सपक्षसत्त्वविपक्षासत्त्वान्यतररूपविकला एव हेत्वाभासतामासादयन्ति। तत्र पक्षे साध्यसदसत्त्वकोटिकसंशयजनको हेत्वाभासः सव्यभिचारः। पक्षे साध्याभावनिश्चयफलको हेत्वाभासो विरुद्धः। व्याप्तिपक्षधर्मताप्रमितिविरहोऽसिद्धः। बाधसत्प्रतिपक्षौ तु काश्यपीये मते न स्वतन्त्रौ। तत्र बाध आश्रयासिद्धावनैकान्तिके वा पर्यवस्यति। तदुक्तं "बाधायामपक्षधर्मो हेतुरनैकान्तिको वा" इति। सत्प्रतिपक्षोऽप्यन्यतरत्र व्याप्त्यादिसंशयमापादयन् अनैकान्ति कादावेव पर्यवस्यति।
वृत्तिकारस्तु "अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धाश्चनपदेशः" इति सूत्रस्थचकारस्य बाधसत्प्रतिक्षसमुच्चयार्थतामाह। तेन "सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकालाः पञ्च हेत्वाभासाः" इति गौतमीयमेव मतमनुदावति। परन्तु "विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोऽब्रवीत्" इत्याद्यभिधानात् सूत्रकारस्वरसो हेत्वाभासत्रित्वे, चकारस्तूक्तसमुच्चयार्थ इति तत्त्वम्। ग्रन्थगौरवभयात् प्रपञ्चो न कृतो मयूखे विस्तरोऽन्वेष्टव्यः ।। 17 ।।
</3-1-17>

<3-1-18>
इदानीं हेत्वाभासविवेचनस्य फलमाह--
आत्मेन्द्रयार्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत् ।। 18 ।।
आत्मेन्द्रियार्थसन्निकर्षात्तावज्ज्ञानमुत्पद्यते तच्चात्मनि लिङ्गम् असिद्धविरुद्धानैकान्तिकेभ्योऽन्यत् अनाभासमित्यर्थः। तथाहि ज्ञानमात्मन्युभयथा लिङ्गम्, ज्ञानं क्वचिदाश्रितं कार्यत्वाद्रूपादिवदिति वा, प्रत्यभिज्ञारूपतयावा योऽहमद्राक्षं सोऽहं स्पृशामीति। तत्र ज्ञानगतं कार्यत्वं नासिद्धं यन्निष्पद्यत इत्यभिधानात्। न विरुद्धं सामान्यतोः दृष्टेऽत्र विरोधाभावात्। न चानैकान्तिकम् तत एव। तथाच स्वगतकार्यत्वगुणत्वद्वारा सामान्यतोदृष्टेन ज्ञानमेवात्मनि लिङ्गम्। प्रत्यभिज्ञानन्तु भिन्नकर्तृकेभ्यो व्यावर्त्तमानमेककर्तृकतायां पर्यवस्यति। न च बुद्धिचैतन्येऽपि कार्यकारणभावनिबन्धनमेव प्रतिसन्धानम्, शिष्यगुरुबुद्ध्योरपि प्रतिसन्धानप्रसङ्गात्। उपादानोपादेयभावस्तत्र नास्ति स च प्रतिसन्धानप्रयोजक इति चेदुपादानत्वस्य द्रव्यधर्मतया बुद्धावसम्भवात्, सम्भवे वा बुद्धीनां क्षणिकतया पूर्वानुभूतप्रतिसन्धानानुपपत्तेः। न हि पूर्वबुद्ध्या उत्तरासु बुद्धिषु कश्चित् संस्कार आधीयते, स्थिरस्य तस्य त्वयाऽनभ्युपगमात्। क्षणिकबुद्धिधारारूपस्य च कालान्तरस्मृतौ प्रतिसन्धाने वाऽसामर्थ्यात्। आलयविज्ञानसन्तानः प्रवृत्तिविज्ञानसन्तानादन्य एव स्मर्त्ता च प्रतिसन्धाता चेति चेत्, स यदि स्थिरः तदा सिद्धं नः समीहितम्। क्षणिकबुद्धिधारारूपश्चेत् तदा पूर्वदोषानतिवृत्ते, न हि तत्रापि स्थिरः कश्चित् संस्कारः। किञ्च प्रवृत्तिविज्ञानातिरिक्ते तत्र प्रमाणाभावः। अहमिति बुद्धिधारैव प्रमाणमिति चेत् भवतु तत्र यदि प्रवृत्तिविज्ञानान्यालयविज्ञानमेव चेदुपादत्ते तदा प्रवृत्तिविज्ञानानामुपादानताविरहे निमित्तताऽपि न स्यात्, उपादानताव्याप्तत्वान्निमित्ततायाः। माऽस्तु निमित्तताऽपीति चेत् तर्हि सत्त्वमपि गतम्, अर्थक्रियाकारित्वस्य सत्त्वलक्षणत्वात्. प्रवृत्तिसन्तानालयवित्रानसन्तानाभ्यां सम्भूय सन्तानद्वयमुपादीयत इति चेत् तर्हि किमपराद्धमवयविसंयोगादिभिः, व्यासज्यवृत्तितायास्त्वयाप्यभ्युपगमात्। तस्माज्ज्ञानेनाश्रयतयाऽनुमितमात्मानं प्रतिसन्दानं स्थिरत्वेन साधयतीति न किञ्चिदनुपपन्नम्।
यद्वा नित्या बुद्धिर्नात्मानं कारणत्वेन गमयितुमर्हतीतिसाङ्ख्यमतनिरासाय सूत्रमिदमुपतिष्ठते "आत्मेन्द्रियार्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत्"। बुद्धितत्त्वं यत्त्वयोच्यते तज्ज्ञानम्व, बुद्धिरुपलब्धिर्ज्ञानमिति हि पर्य्यायाभिधानं तच्चात्मादिसन्निकर्षादुत्पन्नम्, अन्यदेव त्वदभ्युपगतादन्तःकरणादित्यर्थः। तथाच भवति तत् आत्मनो लिङ्गमिति भावः ।। 18 ।।
</3-1-18>

<3-1-19>
आत्मन्यनुमानमभिदाय इदानीं परात्मानुमानमाह--
प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् ।। 19 ।।
प्रत्यगात्मनीति। स्वात्मनीत्यर्थः। इच्छाद्वेषजनिते प्रवृत्तिनिवृत्ती प्रयत्नविशेषौ ताभ्याञ्च हिताहितप्राप्तिपरिहारफलके शरीरकर्मणी चेष्टालक्षणे जन्येते। तथाच परशरीरे चेष्टा दृष्ट्वा इयं चेष्टा प्रयत्नजन्याचेष्टात्वात् मदीयचेष्टावत् स च प्रयत्न आत्मजन्यः आत्मनिष्ठो वा प्रयत्नत्वात् मदीयप्रयत्नवदिति परमात्मानुमानम् ।। 19 ।।
</3-1-19>
इति शाङ्करे वैशेषिकसूत्रोपस्कारे तृतीयाध्यायस्याद्यमाह्निकम्।

तृतीयाध्याये द्वितीयाह्निकम्[सम्पाद्यताम्]

<3-2-1>
हेतुहेत्वाभासविवेकः आह्निकार्थः। इदानीमात्मपरोक्षांशे वर्त्तयिष्यन् उद्देशक्रमलङ्घनेन मनःपरीक्षामवतारयन्नाह--
आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् ।। 1 ।।
मनोगतिमात्मनो लिङ्गं वक्ष्यति। तद् यदि मनो ज्ञानकरणत्वेन मूर्त्तत्वेन च परीक्षितं भवति तदा यत्प्रेरितं मनः इन्द्रियान्तरादभिमतविषयग्राहिणि इन्द्रिये सम्बन्धते स आत्मेति सिद्धं भवतीत्येतदर्थे क्रमलङ्घनम्। आत्मेन्द्रियार्थसन्निकर्षेसति यस्मिन् इन्द्रियसन्निकृष्टे ज्ञानस्य भावः उत्पादः, असन्निकृष्टे ज्ञानस्याभावोऽनुत्पादस्तन्मन इत्यर्थः। ननु मनोवैभवेऽपि करणधर्मत्वादेव ज्ञानासमवायिकारणसंयोगाधारत्वादात्मवत्, स्पर्शात्यन्ताभाववत्त्वादाकाशवदित्यादि वैभवसाधकं प्रमाणमिति चेत्, मैवम् यदि मनो विभु स्यात्तदा सर्वेन्द्रियसन्निकृष्टात्ततः सर्वेन्द्रियकमेकमेव ज्ञानं स्यात्। कार्य्यविरोधान्नैवमिति चेन्न न हि सामग्री विरोधाविरोधमाकलयति येन चाक्षुषत्वरासनत्वादिविरोधाय बिभ्येत्, चित्ररूपवत् चित्राकारमेव वा स्यात्। भवत्येव दीर्घशष्कुलीभक्षणस्थले इति चेन्न तत्रापि व्यासङ्गदर्शनात्। तर्हि रूपरसगन्धस्पर्शान् युगपत् प्रत्येमीति कथमनुव्यावसाय इति चेन्न शीघ्रसंचारिमनोजनितेषु पंचसु स्मृत्युपनीतज्ञानेषु यौगपद्याभिमानात्। व्यासङ्गोऽपि करणधर्माधीन इति चेन्न उक्तोत्तरत्वात्। बुभुत्साधोनो व्यासङ्ग इति चेन्न सर्वबुभुत्सायां सर्वविषयकसर्वोदयप्रसंगात्। बुभुत्साया अपि अभिमतार्थग्राहीन्द्रियमनःसम्बन्धमात्रफलकत्वात्, तस्माज्ज्ञानायौगपद्यान्यथानुपपत्त्या सिध्यति अणु मनः। ततो धर्मिग्राहकमानबाविताः वैभवहेतवः। किंच मनोवैभवे पादे मे सुखं शिरसि मे वेदनेतिप्रादेशिकत्वं सुखादीनां न स्यात् बिभुकार्य्याणामसमवायिकारणावच्छिन्नदेशे उत्पादनियमात्। तथापि सुखादीनामणुदेशापत्तिरिति चेन्ना असमवायिकारिणं विभुकार्य्यं स्वदेशे जनयत्येवेति नियमात्, तथाच निमित्तचन्दनाद्यवच्छेदादधिकदेशेऽपि जननाविरोधात्। ममापि निमित्तसमवधानानुरोध इति चेन्न उक्तनियमभंगप्रसंगात्। किंचात्मना विभुना मनसः संयोगोऽपि कथं स्यात्। अजोऽसाविति चेन्न विभागस्याप्यजत्वप्रसंगात्। अवच्छेदभेदेनोभावप्यविरुद्धाविति चेन्न संयोगविभागयोरवच्छेदभेदस्य स्वकारणाधीनत्वात् अजयोस्तु तदभावादिति दिक् ।। 1 ।।
</3-2-1>

<3-2-2>
ननु सुखाद्युपलब्धिः करणसाध्या क्रियात्वात् रूपोपलब्धिवदित्याद्यनुमानात् युगपज्ज्ञानानुत्पत्त्या वा यन्मनः सिद्धं तत्करणतया तथाच तस्य द्रव्यत्वं नित्यत्वञ्च कुत इत्यत आह--
तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ।। 2 ।।
यथाऽवयविद्रव्यानुमितो वायुपरमाणुर्गुणवत्त्वात् क्रियावत्त्वाच्च द्रव्यम्, तथा युगपज्ज्ञानात्पत्त्याऽनुमितं मनो गुणवत्त्वाद् द्रव्यं, न हि तस्य इन्द्रियसंयोगमन्तरेण ज्ञानोत्पादकं येन गुणवत्त्वं न स्यात्। किञ्च सुखादिसाक्षात्कारः इन्द्रियकरणकः साक्षात्कारत्वात् रूपादिसाक्षात्कारवदतीन्द्रियत्वेन मनः सिद्धम्। इन्द्रियत्वञ्च ज्ञानकरणमनःसंयोगाश्रयत्वमित्ययत्नसिद्धमेव मनसो द्रव्यत्वम्। नित्यत्वञ्च तस्यानाश्रितत्वात्। तस्यावकल्पनायां प्रमाणाभावादनाश्रितत्वमिति ।। 2 ।।
</3-2-2>

<3-2-3>
तत् किं प्रतिशरीरमेकमनेकं वेति सन्देहे निर्णायकमाह--
प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैकम् ।। 3 ।।
मनः प्रतिशरीरमिति शेषः। यद्येकैकस्मिन्नपि शरीरे बहूनि मनांसि स्युस्तदा ज्ञानप्रयत्नानां यौगपद्यंस्यात्। यत्तु नर्त्तकीकरचरणाङ्गुलीषु युगपत् कर्मदर्शनाद् युगपदेव बहवः प्रयत्ना उत्पद्यन्ते इति मतम्। तदयुक्तम् मनसः शीघ्रसञ्चारादेव तदुपपत्तेः अविनश्यदवस्थयोग्यात्मविशेगुणानां यौगपद्यानभ्युपगमात्। एतेनैकस्मिन्नपि शरीरे पंच मनांसि तेषां द्वित्रिचतुःपंचानां तत्तदिन्द्रियसंयोगे द्वे त्रीणि चत्वारि पञ्च वा ज्ञानानि युगपज्ज्ञायन्ते इति मतं निरस्तम कल्पनागौरवप्रसंगात्। यौगपद्याभिमानस्तु समर्थित एव। रसनेन्द्रियावच्छेदेन त्वगिन्द्रियसम्बन्धेन मनसस्तिक्तो गुड इति ज्ञानद्वययौगपद्यापत्तिरपि करणधर्मत्वादेव नास्ति। द्वित्रिच्छिन्नगोधिभुजगादावपि अवयवदूये कर्म खड्गाद्यभिघाताद्वा मनस आशु संचाराद्वा तदानीमेवादृष्टेन पण्डमनोन्तरग्रहणाद्वा। यत्तु मनोऽवयव्येव जलौकावत् तत्सङ्कोचविकाशाभ्यां त्रानयौगपद्यायौगपद्ये इति, तत् तदवयवकल्पनागौरवप्रतिहतमिति दिक् ।। 3 ।।
</3-2-3>

<3-2-4>
इदानीं क्रमलङ्घनप्रयोजनमादर्शयन्नेवात्मपरीक्षाशेषं वर्त्तयिष्यन्नाह--
प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानि ।। 4 ।।
प्रसिद्धिर्ज्ञानमेव केवलमात्मनो लिङ्गमिति न मन्तव्यम् प्राणादयोऽपि सन्ति आत्मनो लिंगानि। तथाहि शरीरान्तश्चारिणि समीरणे प्राणापानक्षणे ऊर्ध्वाधोगती उत्‌क्षेपणावक्षेपणे मुसलादाविव प्रयत्नं विनाऽनुपपद्यमाने यस्य प्रयत्नाद् भवतः स नूनमात्मा। न हि तिर्यग्गमनस्वभावस्य वायोरेव स्वबावविपर्ययो विना प्रयत्नात्। न च विरुद्धदिक्‌क्रिययोर्वाय्वोः सलिलयोरिवोर्ध्वगतिः स्यादिति वाच्यम् एवं सत्यूर्ध्वगमनमेव स्यान्न त्वधोगमनं पूत्कारादौ वा तिर्यग्गमनम्। तथा चास्ति कश्चित्, यः प्रयत्नेन वायुमूर्ध्वमधो वा प्रेरयति सुषुप्तिदशायां कथं प्राणापानयोरूर्ध्वाधोगती इति चेन्न इदानीं योग्यप्रयत्नाभावेऽपि प्रयत्नान्तरस्य सद्भावात्। स एव जीवनयोनिः प्रयत्न इत्युच्यते।
एवं निमेषोन्मेषावपि शरीरस्याधिष्ठातारमनुमापयतः। तथाह निमेषस्तावत् अक्षिपक्ष्मणोः संयोगजनकं कर्म। उन्मेषस्तयोरेव विभागजनकं कर्म। एते च कर्मणी नोदनाभिधातादिदृष्टकारणमन्तरेण निरन्तरमुत्पद्यमाने प्रयत्नं विना नोत्पद्येते। यथा दारुपुत्रकनर्तनं कस्यचित् प्रयत्नात् तथाऽक्षिपक्ष्मनर्तनमपि, तेन प्रयत्नवाननुमीयते।
एवं जीवनमप्यात्मलिङ्गम्। तथाहि जीवनपदेन लक्षणया जीवनकार्यं वृद्धिक्षतभग्नसंरोहणादि लक्षयति। तथा च यथा गृहपतिर्भग्नस्य गृहस्य निर्म्माणं करोति लधीयो वा गृहं वर्द्धयति, तथा देहाधिष्ठाता गृहस्थानीयस्य देहस्याहारादिना वृद्धिमुपचयं करोति क्षतञ्ज भेषजादिना प्ररोहयति भग्नञ्च करचरणादि संरोहयति तथा च गृहपतिरिव देहस्याप्यधिष्ठाता सिध्यतीति।
एवं मनोगतिरप्यात्मलिङ्गम्। तथाहि मनस्तावन्मूर्तमणु चेति पूर्वप्रकरणे साधितम्। तस्य चाभिमतविषयग्राहिणि इन्द्रिये निवेशनम् इच्छाप्रणिधानाधीनम्। तथाच यस्येच्छप्रणिधाने मनः प्रेरयतः स आत्मेत्यनुमीयते यथा गृहकोणावस्थितो दारकः कन्दुकं लाक्षागुटकं वा गृहाभ्यन्तर एव इतस्ततः प्रेयति। ननु दारुपुत्रनर्त्तयिता गृहपतिर्दारको वा न शरीरादन्यो यो दृष्टान्तः किञ्च शरीरमेव चैतन्याश्रयः अहङ्कारास्पदत्वात्, भवति हि गौरोऽहं स्थूलोऽहमित्याद्यहङ्कारसामानाधिकरण्येन प्रत्ययः। यत्तु बाल्येऽनुभूतं यौवने वार्द्धक्ये वा स्मरति तत्र चैत्रमैत्रवच्छरीरभेदेऽपि स्मरणं न स्यात् `नान्यदृष्टं स्मरत्यन्यः' इति। तत्र चैत्रमैत्रयोर्भिन्नसन्तानत्वेन प्रतिसन्धानं माऽस्तु बाल्यकौमारभेदेऽपि सन्तानैकत्वात् कार्यकारणभावेन प्रतिसन्धानमुपपत्स्यत इति। तत्र ब्रूमः पित्राऽनुभूतस्य पुत्रेणापि स्मरणप्रसङ्गः। तत्र शरीरभेदग्रहो बाधक इति चेत्, वृद्धेन बालिशरीराद्भेदेनैव स्वशरीरस्य ग्रहात् प्रतिसन्धानानुपपत्तेः- अनुपलब्धपितृकस्य बालस्य शरीरबेदाग्रहस्यापि सत्त्वात्। मम शरीरमिति ममकारसामान्येनाहङ्कारस्य भानात् ममात्मेत्यत्रापि तथेति चेन्न तत्र ममकारस्यौपचारिकत्वात् राहोः शिर इतिवदभेदेऽपि षष्ठ्युपपत्तेः, हिसादिफलञ्च कर्त्तरि न स्यात् शरीस्यान्यत्वात्, पातकमिच्छतो। भूतचैतनिकस्य कृतहानमकृताभ्यागमश्च दोष इति दिक्।
इन्द्रियान्तरविकारात्। रखल्वपि दृश्यते हि नागरङ्गस्य चिरविल्वस्य वा रूपविशेषसहचरितं रसविशेषमनुभूय पुनस्तादृशं फलमुपलभमास्य रसगर्द्धिप्रवर्त्तितो दन्तोदकसंप्लवः। स च नाम्लरसानुमितिमन्तरेण, अनुमितिर्न व्याप्तिस्मृतिमन्तरेण, सा च न संस्कारं विना, स च न व्याप्त्यनुभवमन्तरेण, स च न भूयोदर्शनमन्तरेणेति इयं ज्ञानपरम्परा नैकं तर्त्तारमन्तरेण कार्यकारणभूता सम्भवतीति। तथा च गौतमीयं सूत्रम् `इन्द्रियान्तरविकारात्' अo 3 आ 1 सूo 12 इति।
सुखादयशच् ज्ञानवदेवात्मलिङ्गानि द्रष्टव्याः। तताहि सुखादिकं क्वचिदाश्रितं द्रव्याश्रित वा कार्यवस्तुत्वात् गुणत्वाद्वा रूपादिवदितीतरबाधसहकृतं सामान्यतो दृष्टमेव अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं विषयीकरोति। न हि `पृथिव्याद्यष्टकानाश्रिता इच्छा द्रव्याश्रितेति' प्रतिज्ञा अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं प्रकारमनादायपर्य्यवस्यति। यत्र तु प्रथमं न वाधावतारस्तत्राष्टद्रव्यातरिक्तद्रव्याश्रितत्वं व्यतिरेकिसाध्यमिति विभागः। व्यापकतावच्छेदकप्रकारिकैवानुमितिरिति तु तुच्छम्, येन विना प्रतीतिर्न पर्य्यवस्यति तस्यैव तत्र प्रकारत्वात्। अन्यथा द्व्यपुकं कार्य्यानाश्रितं सत् क्वचिदाश्रितम् अवयवित्वादित्यादावकार्य्याश्रितत्वप्रकारिकाऽनुमितिर्न स्यात् ।। 4 ।।
</3-2-4>

<3-2-5>
ननु सिध्यतु आत्मा स्थिरः, सतु नित्य इति कुतः, कुतश्च द्रव्यमित्यत आह--
तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ।। 5 ।।
यथा वायुपरमाणोरवयवकल्पनायां न प्रमाणमतो नित्यत्वं तथात्मनोऽपि। यथा गुणवत्त्वाद्वायुपरमाणुर्द्रव्यं तथात्माऽपीत्यर्थः ।। 5 ।।
</3-2-5>

<3-2-6>
पूर्वपक्षमाह--
यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते ।। 6 ।।
सन्निकर्षे सति अयं यज्ञदत्त इति चेत् प्रत्यक्षं नास्ति तदा दृष्टं प्रत्यक्षतो गृहीतव्याप्तिकं लिङ्गं नास्ति। यथा वह्निना प्रत्यक्षेण सहचरितो गृहीतो धूमो वह्नौ दृष्टं लिङ्गं तथात्मसाधकं लिङ्गं दृष्टं नास्तीत्यर्थः ।। 6 ।।
</3-2-6>

<3-2-7>
ननु प्रत्यक्षदृष्टव्याप्तिकस्य दृष्टलिङ्गस्याभावेऽपि सामान्यतो दृष्टमेव लिङ्गं भविष्यति, न हि ततो नानुमितिरित्याशङ्क्य पुनः पूर्वपक्षी आह--
सामान्यतो दृष्टाच्चाविशेषः ।। 7 ।।
सामान्यतो दृष्टमपि लिङ्गं भवति न तु तत आत्मत्वेन अष्टद्रव्यातिरिक्तद्रव्यत्वेन वा स्यादात्मसिद्धिः, किन्तु तेनेच्छादीनां क्वचिदाश्रितत्वमात्रं सिध्येत् तथ नात्ममननौपयिकमित्यर्थः। तदेतदाह अविशेष इति ।। 7 ।।
</3-2-7>

<3-2-8-9>
तत् किं `योऽपहतपाप्मा स आत्मा' इत्याद्यागमोऽनर्थक एवेत्याशङ्क्य स एवाह--
तस्मादागमिकः ।। 8 ।।
आगममात्रसिद्ध एवात्मा नत्वनुमेयः दृष्टसामान्यतोदृष्टयोर्लिङ्गयोरभावात्। तस्मात् सम्यगुपनिषदां श्रवणात् तत्त्वसाक्षात्कार उत्पद्यते न तु मननप्रणालिकया। तथा च मननप्रयोजनकमिदं तन्त्रमतन्त्रम्। दृष्ट हि भूतदशकनदोसन्तरणादावुपदेशमात्रादेव साक्षात्कारि ज्ञानम्।
तदेवं त्रिभिः सूत्रैः पूर्वपक्षे सिद्धान्तवाद्याह--
अहमितिशब्दस्य व्यतिरेकान्नागमिकम् ।। 9 ।।
नाममात्रं प्रमाणमात्मनि किन्त्वहमितिपदमात्मपदं वा साभिधेयं पदत्वात् घटादिपदवद् इत्यनुमानादप्यात्मसिद्धिः। ननु पृथिव्याद्येव तदभिधेयं स्यादित्यत आह व्यतिरेकादिति। पृथिव्यादितोऽहमिति पदस्य व्यतिरेकादिति। पृथिव्यादितोऽहमिति पदस्य व्यतिरेकाद्व्यावृत्तेरित्यर्थः। न हि भवत्यह पृथिवी अहमापः अहन्तेजः अहं वायुः अहमाकाशम् अहं कालः अहं दिक् अहं मन इति व्यपदेशः प्रत्ययो वा। शरीरे भवतीति चेन्न परशरीरेऽपि तत्प्रसङ्गात्। स्वशरीरे भवतीति चेन्न स्वस्यात्मभिन्नस्यानिरुक्तेः मम शरीरमिति वैयधिकरण्येन प्रत्ययाच्च। नन्विदमपि सामान्यतोदृष्टमेव तच्च विशेषापर्यवसन्नमिति दूषतमेवेति चेन्न अहम्पदेऽहन्त्वमात्मत्वमेव प्रकारः, तथाच पक्षधर्मताबलादेवाहन्त्वस्य प्रवृत्तनिमित्तः पर्यवसन्नं तच्चानन्यसाधारणमेघेति विशेषसिद्धेः। एवं सामान्यतो दृष्टादपि बाधसहकृताद्विशेषसिद्धिः। यच्चोक्तं `श्रवणादेव साक्षात्कारः किमनेनेति' तदयुक्तम्, न हि मननमन्तरेण सङ्कसुकस्याश्रद्धामलक्षालनम्, न च तदन्तरेण तत्र निदिध्यासनाधिकारः, न च निदिध्यासनमन्तरेण सवासनमिथ्याज्ञानोन्मूलनक्षमस्तत्त्वसाक्षात्कारः। अब्यासादेव हि कामातुरस्याकस्मात् कामिनीसाक्षात्कारः। न हि शाब्दमानुमानिकं वा ज्ञानं मिथ्याज्ञानोन्मूलनक्षमं दिङ्योहादौ दृष्टमिति भावः। ननु तथापि परोक्षे आत्मनि कथं संकेतग्रहः (दृष्टो ह्ययं घटपदेवाच्य इति प्रत्यक्षे संकेतग्रह) इति चेत्? क एवमाह नात्मा प्रत्यक्ष इति, किन्तु मनसा संयोगप्रत्यासत्त्यात्मग्रहः। कथमन्यथाऽहं सुखी जानामीच्छामि यते दुःखीत्यादिप्रत्ययः। नह्ययमवस्तुकः सन्दिग्धवस्तुको वा नीलादिप्रत्ययवत् अस्यापि निश्चितवस्तुकत्वात्। न च लैङ्गिकः, लिङ्गज्ञानमन्तरेणापि जायमानत्वात्। नाषि शब्दः, तदनुसन्दानाननुविधानात्। प्रत्यक्षाभासोऽयमिति चेत्, तर्हि क्वचिदनाभासविषयोऽपि नह्यप्रमितमारोप्यते इत्यावेदयिष्यते ।। 9 ।।
</3-2-8-9>

<3-2-10>
एवञ्चेत् किमनुमानेनेति पूर्वपक्षवादी आह--
यदि दृष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति ।। 10 ।।
इति शब्दो ज्ञानप्रकारमाह। दृष्टमिति भावे-क्तप्रत्ययान्तम्, अन्वक्षमित्यध्यक्षम्। तेनायमर्थः-अयं देवदत्तः अयं यज्ञदत्त इति प्रकारकं दृष्टं दशनं अध्यक्षमेवास्ति यदि किमनुमानप्रयासेन `न हि करिणि दृष्टे चीत्कारेण तमनुमिमतेऽमुमातारः" ।। 10 ।।
</3-2-10>

<3-2-11>
अत्र सिद्धान्त्याह--
दृष्टयात्मनि लिंगे एक एव दृढत्वात् प्रत्यक्षवत् प्रत्ययः ।। 11 ।।
दृष्टे प्रत्यक्षेण गृहीते आत्मनि लिङ्गे सम्भूतसामग्रीके सति एक एव एकवैषयिक एव प्रत्ययः। प्रत्यय इति निरस्तसमस्तविभ्रमाशङ्कित्वमाह। कुत एवमित्यत आह-दृढत्वात् प्रमाणसंप्लवेनान्यथाभावशङ्कानिर्क्तनपटुत्वात्। तत्र दृष्टान्तमाह-प्रत्यक्षवदिति। यथा दूरात्तोयप्रत्यक्षे सत्यपि संवादार्थं बलाकालिङ्गेनापि तदनुमानम्। तदुक्तम् "प्रत्यक्षपरिकलितमप्यनुमानेन बुभुत्सम्ते तर्करसिकाः" इति। इदमत्राकूतम्-यद्यात्मा कदाचित् प्रत्यक्षे चैतस भासत एव तथापि अहं गौरः अहं कृशः इत्यादिविरोधिप्रत्ययान्तरतिरस्कृतो न तथा स्थेमानमासादयति विद्युत्सम्पातसञ्जातज्ञानवत्, तत्र लिंगेन अनन्ययासिद्धेन ज्ञानान्तरमुत्पद्यमानं पूर्वज्ञान (विषय) मेव स्थिरीकरोति। किञ्च `श्रोतव्यो मन्तव्यः' इत्यादिविधिबोधितस्यात्ममननस्य इष्टसाधनत्वावगतौ अनुमित्सयाऽवश्यमात्मानुमानप्रवृत्तिः तद्व्यतिरेके निदिध्यासनासम्भवे साक्षात्काराभावेऽपवर्गासम्भवादिति भावः। अहं देवदत्तोऽहं यज्ञदत्त इति प्रतीतिद्वयामिधानमात्मनः प्रत्यात्मवेदनीयत्वं सूचयितुम् ।। 11 ।।
</3-2-11>

<3-2-12>
ननु यदि यज्ञदत्तोऽहमिति प्रत्यय आत्मनि तदा यज्ञदत्तो गच्छतीति गमनसामानाधिकरण्यभानमनुपपन्नमित्यत आह--
देवदत्तो गच्छति यज्ञदत्तौ गच्छतीत्युपचाराच्छरीरे प्रत्ययः ।। 12 ।।
अस्ति हि अहं गौरः अहं स्थूल इति प्रत्ययः, अस्ति च मम शरीरमिति भेदप्रत्ययः। तत्र देवदत्तो गच्छतीति गतिसामानाधिकरण्यानुभवो व्यवहारश्च भाक्तः, ममेति प्रत्ययस्य यथार्थत्वात्। यद्यपि देवदत्तत्वं शरीरवृत्तिर्जातिस्तेन देवदत्तो गच्छतीति मुख्य एव प्रयोगो यथार्थ एव च प्रत्ययः तथापिदेवदत्तपदं तदवच्छिन्नात्मनि प्रत्युक्तञ्चेत् तदौपचारिको बोद्धव्यः ।। 12 ।।
</3-2-12>

<3-2-13>
अत्र शङ्कते--
सन्दिग्‌धस्तूपचारः ।। 13 ।।
तुशब्दः पूर्वपक्षद्योतकः। आत्मशरीरयोस्तावदहमितिप्रत्ययः ग्रयोगश्चेत् दृश्यते तत्र क्व मुख्यः क्व वौपचारिक इति सन्देहः ।। 13 ।।
</3-2-13>

<3-2-14>
समाधत्ते--
अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्षः ।। 14 ।।
अर्थान्तरभात्मत्वरूपं प्रत्यक्ष यत्र प्रत्यये स प्रत्ययोऽर्थान्तरप्रत्यक्षः। अयमर्थः-अहमिति प्रत्ययस्य प्रत्यगात्मनि स्वात्मनि भावात् परत्र परात्मनि अभावात् अर्थान्तरे स्वात्मन्येव मुख्यः कल्पयितुमुचितः। यदि तु शरीरे मुख्यः स्यात् तदा बहिरिन्द्रियजः स्यात्। न हि शरीरं मानसप्रत्यक्षं मानसश्चायमहमिति प्रत्ययः बहिरिन्द्रियव्यापारमन्तरेणापि जायमानत्वात्, अहं सुखी जाने यते इच्छाम्यहमिति योग्यविशेषगुणोपहितस्यात्मनो मनसा विषयोकरणात्। नायं लैङ्गिको लिङ्गानुसन्धानमन्तरेणापि जायभानत्वात्। न शब्दः शब्दाकलनमन्तरेणापि जायमानत्वात्। तस्मान्मानस एव, मनसश्च बहिरस्वातन्त्र्येण शरीरादावप्रवृत्तेरिति भावः। किञ्च यदि शरीरे स्यात् परशरीरे स्यात्, स्वात्मनि यदि स्यात् तदापि परात्मनि स्यादिति चेन्न परात्मनः परस्यातीन्द्रियत्वात् तद्विशेषगुणानामयोग्यत्वात्, योग्यविशेषगुणोपग्रहेण तस्य योग्यत्वात्। न केवलमात्मन इदं शीलं किन्तु द्रव्यमात्रस्य, द्रव्यं हि योग्यविशेषगुणोपग्रहेणैव प्रत्यक्षं भवति। आकाशमपि तर्हि शब्दोपग्रहणे वा रूपवत् स्यात्। आत्मनोऽपि नीरूपत्वे तुल्यमिति चेत्, वहिर्द्रव्यमात्र एव प्रत्यक्षतां प्रति रूपवत्त्वस्य तन्त्रत्वात्। प्रत्यगित्ययं शब्दोऽन्यव्यावृत्तमाह ।। 14 ।।
</3-2-14>

<3-2-15>
पुनः शङ्कते--
देवदत्तो गच्छतीत्युपचारादभिमानात्तावच्छरीरप्रत्यक्षेऽहङ्कारः ।। 15 ।।
अहङ्कारोऽहमिति प्रत्ययः। स च शरीरप्रत्यक्षः शरीरं प्रत्यक्षं विषयो यत्र स शरीरप्रत्यक्षः। देवदत्तो गच्छतीत्युपचारात्तावत् प्रयोगः प्रत्ययो वा त्वया समाहितः। स चोपचार आभिमानिकः यतोऽहं गौरः अहं कृशः सौभागिनोऽह पुनरुक्तजन्मेत्यादयः प्रत्ययाः प्रयोगाश्चोपचारेण समन्वयितुमशवया इत्यर्थः ।। 15 ।।
</3-2-15>

<3-2-16>
सिद्धान्तमाह--
सन्दिग्धस्तूपचारः ।। 16 ।।
तुशब्दोऽयं सिद्धान्तमभिव्यनक्ति। उपचारोऽयमाभिमानिकः किन्तु शरीर एवायमहम्प्रत्यय इति यदुक्तं तत्रापि सन्देह एवेत्यर्थः। तथाच प्रत्ययस्योभयत्रापि कूटसाक्षित्वेन विशेषावधारणाय यतितव्यम् नत्र यत्ने क्रियमाणे निमीलिताक्षस्याप्यहमिति-प्रत्ययदशनात् शरीरभिन्ने बहिरिन्द्रियागोचरे वस्तुनि स मन्तव्यः। शरीरे भवन् परशरीरेऽपि स्यात्, चक्षुर्नैरपेक्ष्येण च न स्यात्। अहं कृशः स्थूलो वा सुखीति कथं सामानाधिकरण्यमिति चेन्न तुखाद्यवच्छेदकत्वेनापि तत्र शरीरभानसम्भवात् सिंहनादवदिद गहनमितिवत्, अहन्त्वमात्रं शरीरे समारोप्यते मनसोपस्थितम्, त्वगिन्द्रियोपनोतमौष्ण्यम् उष्णं शरीरमितिवत् ।। 16 ।।
</3-2-16>

<3-2-17>
सिद्धान्तमुपबृंहयन्नाह--
न तु शरीरविशेषाद् यज्ञदत्तविष्णुमित्रयोर्ज्ञानं विषयः ।। 17 ।।
ज्ञानमिति योग्यं सुखदुःखादिकमात्मगुणमुपलक्षयति। यथा यज्ञदत्तविष्णुमित्रयोः शरीरं परम्परभिन्न तथा ज्ञानसुखादिकमपि भिन्नमेव। तथाच यथा यज्ञदत्तस्येदं शरोरं तथा यज्ञदत्तस्य ज्ञाने सुखादौ वाऽनुत्पन्ने अह सुखी जनि यते इच्छामाति ज्ञानादिकं विषयो भवति योग्यशरीरविषयकत्वेन तदीयरूपादिवत्तदीयज्ञानादीनामपि प्रत्यक्षत्वसम्भवात्। न च सम्भवति, तस्मात् ज्ञानसुखादीनां शरोरादन्य एवाश्रयो वक्तव्य इति भावः। शरीरविशेषात् शरीरस्य भेदादित्यर्थः। तथाच शरीरभेदं प्राप्य ज्ञान न तु विषय इति' ल्यब्लोपे पञ्चमी ।। 17 ।।
</3-2-17>

<3-2-18>
नन्वात्मा न प्रत्यक्षः नीरूपद्रव्यत्वात् निरवयवद्रव्यत्वाद्वा आकाशवत्, तथाचाहं कृशो गौर इति बुद्धेः शरीरमेव विषयो वाच्यः, क्वचिदहं सुखीत्यादिवीरपि यद्यप्यस्ति तथाप्यश्रयमन्तरेण भासमानानां सुखादीनां शरीरे समाराप इत्येव कल्पयितमुचितम्, यथोष्णं सूरभि जलम् इत्याश्रयमन्तरेण प्रतीयमानयोरौष्ण्यसौरभयोर्जले समारोपः। न त्वेतदनुरोधेन जलप्रत्ययस्यापि प्रसिद्धजलमन्तरेणान्यविषयत्वम्, तथाऽहमित्यप्यहन्त्वं शरीर एव वास्तवम्, सुखादिकन्तु कदाचित्तत्रारोप्यते तेनात्मनि प्रत्यक्षाकारं ज्ञानं नास्त्येव। सुखाद्याधारत्वेन यत्कल्पनीयं तदागमसिद्धं भवतु न तत्रापि ग्रह इत्यत् आह--
अहमिति मुख्ययोग्याभ्यां शब्दवद्व्यतिरे व्यभिचाराद्विशेषसिद्धेर्नागमिकः ।। 18 ।।
अयमर्थः। अहं सुखी अहं दुःखीतिप्रत्ययो नागमिको न शाब्दो नापि लैङ्गिकः शब्दलिङ्गयारनुसन्धानमन्तरेणापि तायमानत्वात्। प्रत्यक्षत्वे च नीरूपत्वं निरवयवत्वञ्चयद्‌बाधकमुक्तं तद्‌बहिरिन्द्रियप्रत्यक्षतायां भवति तत्र हि रूपवत्त्वानेकद्रव्यसत्त्वयोः प्रयोजकत्वात्, मानसप्रत्यक्षता च तदन्तरेणापि। ननु स्यादेवं यद्यात्मनि प्रमाणं स्यात् तदेव तु नास्तीत्यत आह-शब्दवद्व्यतिरेकाव्यभिचाराद्विशेषसिद्धेरिति। यथा क्षित्यादिषु द्रव्येषु शब्दस्य व्यतिरेकोऽव्यभिचारो नियतस्तेन तदाश्रयस्याष्टद्रव्यातिरिक्तस्याकाशरूप(स्य) विशेषस्य सिद्धिः एवमिच्छायाः पृथिव्यादिषु व्यतिरेकस्याव्यभिचारात् तदाश्रयेणापि अष्टद्रव्यातिरिक्तेन भवितव्यम्। नन्वेतावताऽप्यानुमानिक एव आत्मा न तु प्रत्यक्ष इत्यत आह-अह मिति। मुख्ययोग्याम्यामिति। अहमितीतिकारेण ज्ञानकारमाह, तेनाहमिति ज्ञानं शब्दलिङ्गानुसन्धानमन्तरेण निमीलिताक्षस्य यदुत्पद्यते तन्मुख्येन अहन्त्ववता योग्येन प्रमाणसिद्धेन उपपादनीयम्, नतु शरीरादिना तत्रेच्छाया व्यतिरेकाव्यभिचारात्। मुख्ययोग्याभ्यामित्यनन्तरम् उपपादनीयमिति पूरणीयम्। आत्मनि प्रमाणानि बहूनि ग्रन्धगौरवप्रिया त्यक्तानि मयूखेऽन्वेष्टव्यानि ।। 18 ।।
</3-2-18>

<3-2-19>
आत्मपरीक्षाप्रकरणं समाप्य इदानीमात्मनानात्वप्रकरणमारभते तत्र पूर्वपक्षसूवम्--
सुखःदुखज्ञाननिष्पत्त्यविशेषादैकात्म्यम् ।। 19 ।।
एक एव आत्मा चैत्रादिदेहभेदेऽपि। कुतः सुखदुःखज्ञानां निष्पत्तेरुत्पत्तेरविशेषात्, सर्वशरीरावच्छेदेन सुखदुःखज्ञानानामुत्पत्तिरविशिष्टैव यतः। यद्यात्मभेदसाधकं लिङ्गान्तरं भवेत्तदा सिध्येदात्मभेदः न च तदस्ति, यथा तत्तत्प्रदेशावच्छेदेन शब्दनिष्पत्तावपि शब्दलिङ्गाविशेषादेकमेवाकाशम्, यौगपद्यादिप्रत्ययलिङ्गाविशेषादेक एव कालः, पूर्वापरादिप्रत्ययलिङ्गाविशेषादेकैव दिक् ।। 19 ।।
</3-2-19>

<3-2-20>
सिद्धान्तमाह--
व्यवस्थातो नाना ।। 20 ।।
नानाआत्मानः। कुतः? व्यवस्थातः। व्यवस्था प्रतिनियमः यथा कश्चिदाढ्यः कश्चित् रङ्कः' कश्चित् सूखी, कश्चिद् दूःखी, कश्चिदुच्चामिजनः, कश्चिन्नीचाभिजनः, कश्चिद्विद्वान् कश्चित् जाल्म इतीयं व्यवस्था आत्मभेदमनत्रेणानुपपद्यमाना साधयत्यात्मनां भेदम्। न च जन्मभेदेन बाल्यकौमारवार्द्धक्यभेदेन वा, एकस्याप्यात्मनो यथा व्यवस्था तथा चैत्रमैत्रादिदेहभेदेऽपि स्यादिति वन्यम् कालभेदेन विरुद्धधमाध्याससम्भवात् ।। 20 ।।
</3-2-20>

<3-2-21>
प्रमाणान्तरमाह--
शास्त्रसामर्थ्याच्च ।। 21 ।।
शास्त्रं श्रुतिः, नयाऽप्यात्मनो भेदप्रतिपादनात्। श्रूयते हि `द्वेब्रह्मणो वेदितव्ये' इत्यादि तथा `द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते' इत्यादि च ।। 21 ।।
</3-2-21>
इति श्राशाङ्करे कणादसूत्रोपस्कारे तृतीयाध्यायस्य द्वितीयाह्निकम्।
समाप्तश्चायं तृतीयोऽध्यायः।