वैशेषिकसूत्रोपस्कारः/द्वितीयोऽध्यायः

विकिस्रोतः तः
← प्रथमोऽध्यायः वैशेषिकसूत्रोपस्कारः
द्वितीयोऽध्यायः
[[लेखकः :|]]
तृतीयोऽध्यायः →

द्वितीयाध्याये प्रथमाह्निकम्[सम्पाद्यताम्]

<3-1-1>
द्वितीयाध्यायस्य प्रथमाह्निकस्य नवानां द्रव्याणां लक्षणमर्थः। तत्र पृथिव्यप्तेजसां लक्षणप्रकरणम्, ईश्वरसिद्धिप्रकरणम्, आकाशानुमानप्रकरणम्। तत्र प्रथमोद्दिष्टायाः पृथिव्या लक्षणमाह--
रूपरसगन्धस्पर्शवती पृथिवी ।। 1 ।।
रूपं नीलपीताद्यनेकप्रकारं पृथिव्या एव, तथाच नीलरूपसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वं लक्षणम्। एवं रसः कटुकषायाद्यनेकप्रकारकः पृथिव्यामेव, तथाच कटुरससमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वं लक्षणम्। एवं कषायादिपदप्रक्षेपेण लक्षणान्यूहनीयानि। गन्धो द्विविधः सुरभिरसुरभिश्च, तथाच गन्धसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वं लक्षणम् तथा गन्धसमानाधिकरण-गन्धासमानाधिकरणगुणासमानाधिकरण-जात्यधिकरणद्रव्यत्वं द्रष्टव्यम्। न च पाषाणादौ गन्धरसयोरननुभवात् तत्रात्र्यापकमिदमुभयमपीति वाच्यम् तत्रापाततो गन्धरसयोरननुभवेऽपि तदीयभस्मसु तदुपलम्भात् य एवाधयवाः पाषाणारम्भकास्त एव तद्भस्मारम्भका अपीति नाव्याप्तिः। कथ तर्हि सुरभिः समीरणः तिक्तं कारवेल्लजलमिति-प्रतीतिरिति चेन्न पाथिंवोपाधिकत्वात् तयोर्गन्धरसयोः! स्पर्शोऽप्यनुष्णाशीतः पाकजः पृथिव्यामेव तथाच पाकजस्पर्शसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वं लक्षणम्। पाकजत्वञ्च विशेषान्तरव्यङ्ग्यं पृथिवीस्पर्श एव, विशेषान्तरञ्च शिरीषलवङ्गीकुष्टुमादौ स्पर्शविशेषे स्फुटतरम् न त्वेवं जलादिस्पर्शे। यद्यप्यवयविनि पाकादग्निसंयोगात् स्पर्शादयो नजायन्ते तथापि तत्परम्पराप्रभवतया तत्रापि वैजात्यविशेषोऽनुसरणीयः।
ननु लक्षणामिदं व्यतिरेकिलिङ्गमितरभेदसाधकं व्यवहारसाधकं वा? तत्र पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् यन्नेतरभिन्नं तन्न गन्धवत् यथा जलादि, इतरभेदाभावव्यापकाभावप्रतियोगिगन्धवती चेयं, तस्मादितरभिन्ना। तत्रेतरभेदस्य साध्यस्य प्रसिद्धौ ततो हेतोर्व्यतिरेके सपक्षविपक्षव्यावृत्ततयाऽसाधारण्यम् अव्यतिरेके चान्वयित्वम्। अप्रसिद्धौ च अप्रसिद्धविशेषणः पक्षः। तथा च तत्र न सन्देहो, न वा सिषाधयिषा न वा तद्विशिष्टज्ञानरूपाऽनुमितिः। किञ्च व्यतिरेकयोर्व्याप्तिस्तथा च न व्याप्तस्य पक्षधर्मत्वं पक्षधर्मस्य न व्याप्तत्वमिति वैष म्यम्। अत एवोपनयवैयर्थ्यमपि व्याख्यायते न त्वगृहीतव्याप्तिकमपि। तदुक्तम्--
साध्याप्रसिद्धिवैंषम्यं व्यर्थतोपनयस्य च।
अन्वयेनैव सिद्धिश्च व्यतिरेकिणि दूपणम् ।। इति।
एवं व्यवहारसाध्यकेऽपि। तत्र यद्यपि व्यवहारः पृथिवीपदवाच्यत्वम् तच्च पृथिवीत्वजातावप्यस्ति तत्र च पृथिवीत्वं द्देतुर्नास्तीत्यसाधारण्यम् तथापि पृथिवीत्वप्रवृत्तिनिमित्तकपृथिवीपदवाच्यत्वं साध्यमिति नासाधारण्यम्। यद्वा पृथिवीत्वं क्वाचित्कपदप्रवृत्तिनिमित्तं जातित्वात् घटत्ववदिति सामान्यतः सिद्धौ पृथिवीपदं पृथिवीत्वप्रवृत्तिनिमित्तकम् इतराप्रवृत्तिनिमित्तकत्वे सति सप्रवृत्तिनिमित्तकत्वात् यन्नैवं तन्नैवमिति साध्यम्। तथाचात्रापि साध्याप्रसिद्धिरेवेति चेत्।
मैवम् इतरेषां जलादीनाम् भेदस्य घट एव प्रसिद्धेः। वाय्वादेरतीन्द्रियस्यापि भेदस्य अन्योन्याभावस्य घटादौ प्रत्यक्षत एव सिद्धत्वात् अन्योन्याभावग्रहे अधिकरणयोग्यतामात्रस्य तन्त्रत्वात् स्तम्भः पिशाचो न भवतीत्यादौ तथा दर्शनात्। न चैवं घट एवह दृष्टान्तोऽस्तु किं व्यतिरेकिणा।
ऋजुमार्गेण सिद्ध्यन्तं को हि वक्रेण साधयेत्।
इति वाच्यम् अव्यतिरेकिलिङ्गं चेदनाभासं, तदाऽयमपि मार्गो वक्ररूचिं प्रत्यप्रतिहत एव। साध्याप्रसिद्धेर्निरासे तन्मूलकदोषाणां निरस्तत्वात्। व्यतिरेकसहचारेण अन्वयव्याप्तेरेव ग्रहात् व्यतिरेकव्याप्त्याऽन्वयव्याप्तेरनुमानाद्वा न वैषम्यम्। नचोपनयवैयर्थ्यम्, गृहीतव्याप्तेरेव हेतोः पक्षे उपसंहारात्। तदुक्तम्--
नियम्यत्वानियन्तृत्वे भावयोर्यादृशो मते।
त एव विपरीते तु विज्ञेये तदभावयोः ।। इति।
व्यवहारस्तु गन्धवती पृथिवीत्युपदेशादेव यथा कम्बुग्रीवादिमान् घटपदवाच्य इति। तथा कुत्रचिदेव घृतादौ मृदादौ च गन्धवत्त्वेनोपलक्षणेन पृथिवीत्बे पृथिवोपदप्रवृत्तिनिमित्तत्वं येनोपदेशाद् गृहीतम्, गन्धवत् सर्वं पृथिवीत्वेन प्रवृत्तिनिमित्तेन पृथिवीपदवाच्यं गन्धवत्त्वात् यन्नैवं तन्नैवमिति व्यतिरेकी तस्याप्यवतरत्येव। ननु भेदसधकव्यतिरेकिणि भेदो वैधर्म्यं स्वरूपभेदो वा अन्योन्याभावो वा? न तावदाद्यौ प्रत्यक्षत एव तदवगमात्। न तृतीयः अभावभेदस्यापि साध्यत्वेन तदन्योन्याभावस्य तत्राभावात्, तेन सह स्वरूपभेदे साध्ये साध्याननुगमादिति चेन्न अभावप्रतियोगिकान्योन्याभावस्यापि साध्यत्वात् स यद्यतिरिक्तस्तदाऽस्त्येव न चेत् स्वरूपमादाय तत्पर्य्यवसानात्। वस्तुतो भिन्न एव तद्वैधर्म्यस्य तदन्योन्याभावव्याप्यत्वात्, न चानवस्था यावत्येवानुभवस्तावत्येवाविश्रामात् अन्यत्र त्वननुभवेनैव विश्रामात्। यत्तु त्रयोदशान्योन्याभावास्त्रयोदशसु प्रसिद्धाः मिलिताः पृथिव्यांसाध्यन्ते इति तत्तृच्छं प्रत्येकं प्रसिद्धेरतन्त्रत्वात् मिलितप्रसिद्धेरभावात् किन्तु निर्गन्धत्वावच्छिन्नप्रतियोगिताकान्योन्याभावः साद्येत प्रतियोगितावच्छेदकभेदेनाभावभेदस्यावश्यकत्वात् स च घटादावेव प्रत्यक्षसिद्ध इत्युक्तत्वात्। आकाशादौ का गतिरिति चेत् आकाशमितरभिन्नं शब्दाश्रयत्वात् यन्नैवं तन्नैवमित्यादौ पक्षैकदेशे यद्यपि न साध्यं प्रसिद्धम् तथापि यद् यद्वैधर्म्यवत् तत् तत्प्रतियोगिकान्योन्याभाववदिति सामान्यप्रवृत्तव्याप्तिबलेन शब्दाश्रयत्वात्यन्ताभाववत्प्रतियोगिकान्योन्याभावस्य पूर्वमेव सिद्धौ केवलं पक्षनिष्ठतया इदानीं बोध्यते वह्निरिव पर्वतनुष्ठतया इत्यन्योऽस्मत्सिद्धान्तः तद्वैधर्म्यस्य तदन्योन्याभावव्याप्यत्वात्। शब्दाश्रयत्वात्यन्ताभाववत्त्वमेव विपक्षे न गृहीतमितिचेत् तर्हि शब्दाश्रयत्वस्य न लक्षणत्वं न वा लिङ्गत्वं विपक्षगामित्व शङ्काग्रस्तत्वादिति ।। 1 ।।
</3-1-1>

<3-1-2>
पृथिव्यनन्तरमुद्दिष्टानामेषां लक्षणमाह--
रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः ।। 2 ।।
शुक्लमधुरशीता एव रूपरसस्पर्शाः द्रव्यत्वञ्च सांसिद्धिकं स्नेहस्तु स्वरूपः। ननु शुक्लमेव रूपमपामित्ययुक्तम् कालिन्दीजलादौ नैल्यस्योपलम्भात्। मधुर एव रस इत्यप्ययुक्तम् जम्बीरकरवीररसादौ आम्ल्यतैक्त्यादेरुपलम्भात्। शीत एव स्पर्श इत्यप्यनुपपन्नम् मध्यन्दिने औष्ण्यस्यैवोपलम्भात्। सांसिद्धिकञ्च द्रवत्वमव्यापकम् हिमकरकादावभावात्। स्नेहस्तु स्वरूपासिद्धोऽतिव्यापकश्च जलेऽननुभवात् घृतादौ पार्थिवेऽनुभवाच्च। न च जलत्वं जातिरेव जललक्षणम् व्यवस्थापकाभावेन तदनुपपत्तेः। न च स्नेहसमवायिकारणतावच्छेदकत्वेन तत्सिद्धिः स्नेहत्वस्य कार्य्याकार्यवृत्तितया कार्यतानवच्छेदकत्वात् तस्माद्भेदकाभावाद् जलं न भिद्यत इति, चेन्मैवम् अभास्वरशुक्लमात्ररूपस्यैव तद्भेदकत्वात् कालिन्दीजलादौ नेल्यस्याश्रयोपाधिकत्वात् वियद्विकीर्णकालिन्दीजले धावल्यस्योपलम्भात्। तेनाभास्वरशुक्लेतररूपासमानाधिकरणरूपवद्‌वृत्तिद्रव्यत्वसाक्षाद्‌व्याप्यजातिमत्त्वम् अपां लक्षणम्। रसोपि मधुर एव जम्बीरकवीररसाम्ल्यतैक्त्यादेः पार्थिवोपाधिकत्वात्। जले माधुर्य्यं नानभूयत एवेति चेन्न कषायद्रव्यभक्षणानन्तरं तदभिव्यक्तेः। न च हरीतक्या एव तन्माधुर्य्यं जलाभिव्यङ्ग्यम् तत्र कषायरसस्यैवोपलम्भात् हरीतक्याञ्चामलक्यामिव कषाय एव रसः तस्यैवानुभवात्। न च गुणविरोधेन तत्र रसानारम्भः। अवयवानामपि तत्र कषायरसवत्त्वात् षड्रसत्वप्रवादस्तु तत्तद्रसकार्य्यकारित्वनिबन्धनः। चित्ररसस्तु प्रमाणाभावादेव निरस्तः चित्ररूपे तु पटोपलम्भ एव प्रमाणम् सुरभ्यसुरभ्यवयवारम्भस्तु गुणविरोधनिरस्त एव चित्रगन्धे प्रमाणाभावात्। तस्माद्धरीतकीभक्षणानन्तरं यन्माधुर्य्यमपलभ्यते तत् जलस्यैव, उल्बणता तु द्रव्यविशेषसन्निधानाधीना श्रीखण्डसन्नियोगाज्जले शैत्योल्बणतेव। कर्कटीभक्षणानन्तरन्तु तिक्तता याऽनुभूयते सा कर्कट्या एव तदवयवे जलपानमन्तरेणापि तिक्ततोपलम्भात्, रसनाग्रवर्त्तिपित्तद्रव्यतिक्तताया वा तत्रानुभवात्। तथा च मधुरेतररसासमानाधिकरणरससमानाधिकरणद्रव्यत्वसाक्षाद्‌व्याप्यजातिमत्त्वमपां लक्षणम्। एवं शीतस्पर्शसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वमपां लक्षणम्। मध्यन्दिने तु यदौष्ण्यं तत्तेजस एव तदन्वयव्यतिरेकानुविधानात्। एवं सांसिद्धिकद्रवत्वं स्वरूपत एव लक्षणम् सांसिद्धिकद्रवत्ववद्‌वृत्तिद्वव्यत्वव्याप्यजातिमत्त्वं वा जलत्वम्। स्नेहस्तु गुणविशेषो न तु दुग्धत्ववत् सामान्यविशेषः स्निग्धस्निग्धतरस्निग्धतमेति तारतम्यप्रतीतेः। न च जातौ तारतम्यं सम्भवति। ननु भवतु स्नेहो गुणः स तु जले वर्तत इत्यत्र किं प्रमाणमिति चेन्न सक्तुसिकतादौ जलेन संग्रहे तदनुमानात्। सङ्ग्रहो हि स्नेहद्रवत्वकारितः संयोगविशेषः स हि न द्रवत्वमात्राधीनः काचकाञ्चनद्रवत्वेन सङ्ग्रहानुपपत्तेः, नापि स्नेहमात्रकारितः स्त्यानैर्घृतादिभिः सङ्ग्रहानुपपत्तेः, तस्मादन्वयव्यतिरेकाभ्यां स्नेहद्रवत्वकारितः। स च जलेनापि सक्तुसिकतादौ दृश्यमानः रनेहं जले द्रढयति। इयञ्च प्रत्यक्षोपष्टम्भिकैव युक्तिः स्नेहस्य प्रत्यक्षत्वात्। घृतादौ तु रनेह उपष्टम्भकजलनिष्ठः संयुक्तसमवायेन तद्गततया भानात्। एवं तैलरसादिष्वपि। उपष्टम्भकञ्चातिशयितस्नेहमेव जलम्, स्नेहाधिक्यादेव तस्य जलस्य नानलविरोधित्वम्। यदि पृथिवीविशेषगुणः स्नेहः स्यात् सर्वपार्थिववृत्तिः स्यात् गन्धवत्। जलत्वं च द्रव्यत्वसाक्षाद्‌व्याप्यजातिः स्नेहवन्मात्रवृत्तिसंयोगगसमवायिकारणतावच्छेदिकाया जातेः परमाणुसाधारण्येन सिद्धत्वात् ।। 2 ।।
</3-1-2>

<3-1-3>
उद्देशक्रमानुरोधेन तेजोलक्षणमाह--
तेजो रूपस्पर्शवत् ।। 3 ।।
रूपं भास्वरं स्पर्शश्चोष्णस्तद्वत्तेज इत्यर्थः। ननु भास्वरत्वं परप्रकाशकत्वं तादृशञ्च रूपं नोष्मणि न वा चामीकरस्थे भर्जनकपालस्थे वारिस्थे वा तेजसि, शुक्लञ्च रूपमुक्तेषु न क्वापि, उष्णश्च स्पर्शो न चान्द्रे न वा चामीकरे तत् कथमेतदिति चेन्न ऊष्मादौ तेजस्त्वेन भास्वररूपानुमानात्। तेजस्त्वमेव तत्र स्वरूपासिद्धमिति चेन्न उष्णस्पर्शवत्त्वेन तदनुमानात्। चामीकरे कथमिति चेत् तत्र भास्वररूपाभावेऽपि अत्यन्तानलसंयोगेनानुच्छिद्यमानजन्यद्रावत्वाधिकरणत्वेन व्यतिरेकिणा तेजस्त्वानुमानादिति वक्ष्यमाणत्वात्, भर्जनकपालादिनिष्ठे चोष्णस्पर्शवत्त्वेन तेजस्त्वानुमानात्। चतुर्विधं हि तेजः किञ्चिदुद्‌भूतरूपस्पर्शं यथा सौसदि, किञ्चिदुद्भूतरूपमनुद्बूतस्पशै यथा चान्द्रम्, किञ्चिदनुद्भूतरूपस्पर्शं यथा नायनम्, किञ्चिदनुद्भूतरूपमुद्भूतस्पर्शं यथा नैदाघं वारिभर्जनकपालादिगतञ्च तेजः। नायनमग्रे साधयिष्यते ।। 3 ।।
</3-1-3>

<3-1-4>
क्रमप्राप्तं वायुलक्षणमाह--
स्पर्शवान् वायुः ।। 4 ।।
1--रूपासमानाधिकरणस्पर्शसमानाधिकरणजातिमत्त्वम् 2--रसासमानाधिकरणानुष्णाशीतस्पर्शसमानाधिकरणजातिमत्त्वम् 3--गन्धासमानाधिकरणानुष्णाशीतस्पर्शसमानाधिकरणजातिमत्त्वम्। 4--स्पर्शेतरविशेषगुणासमानाधिकरणविशेषगुणसमानाधिकरणजातिमत्त्वं वा वायुलक्षणम् ।। 4 ।।
</3-1-4>

<3-1-5>
नन्वाकाशकालदिगात्मनामपि रूपादिमत्त्वं कथं न लक्षणमत आह--
त आकाशे न विद्यन्ते ।। 5 ।।
अत्र विदिरुपलब्धिवचनः नोपलभ्यन्ते यतोऽतो न ते रूपादयो नियोगतः--समुच्चयतो विकल्पतो वा वर्तन्ते नभःप्रभृतिषु द्रव्येष्वित्यर्थः। ननु दधिधवलमाकाशमिति कथं प्रतीतिरिति चेन्न मिहिरमहसां विशदरूपाणामुपलम्भात्तथाभिमानात्। कथं तर्हि नीलं नभ इति प्रतीतिरिति चेन्न सुमेरोर्दक्षिणदिशमाक्रम्य स्थितस्येन्द्रनीलमयशिखरस्य प्रभामालोकयतां तथाभिमानात्। यत्तु सुदूरं गच्छच्चक्षुः परा र्तमानं स्वचक्षुःकनीनिकामाकलयत्तथाभिमानं जनयतीति मतं तदयुक्तम् पिङ्गलसारनयनानामपि तथाभिमानात्। इहेदानीं रूपादिकमिति-प्रत्ययात् दिक्‌कालयोरपि रूपादिचतुष्कमिति चेन्न समवायेन पृथिव्यादीनां तल्लक्षणस्योक्तत्वात् न तु सम्बन्धान्तरेणापि इहेदानीं रूपात्यन्ताभाव इत्यपि प्रतीतेः सर्वाधारतैव दिक्कालयोः ।। 5 ।।
</3-1-5>

<3-1-6>
नन्वपां द्रवत्वं लक्षणमुक्तं तदयुक्तम् पृथिव्यामपि द्रवत्वोपलम्भादित्यत आह--
सर्पिर्जतुमधूच्छिष्टानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् ।। 6 ।।
सर्पिरादीनां यद्‌द्रवत्वमस्ति तदग्निसंयोगान्निमित्तात् न तु सांसिद्धिकम् तादृशञ्चापां लक्षणम् द्रवत्वमात्रन्तु पृथिव्या अद्भिः सामान्यं न तु सांसिद्धिकं द्रवत्वमपीति नातिव्याप्तिरित्यर्थः ।। 6 ।।
</3-1-6>

<3-1-7>
ननु तथापि त्रपुसीसलोहादौ तेजसि गतत्वेन तदवस्थैवातिव्याप्तिरित्यत आह--
त्रपुसीसलोहरजतसुवर्णानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् ।। 7 ।।
उपलक्षणञ्चैतत् कांस्यताम्रारकूटपारदादीनामप्युपसंग्रहः। शक्य लक्ष्यसाधारणञ्च अत्यन्ताग्निसंयोगानुच्छिद्यमानजन्यद्रवत्वाधिकरणत्वमेव तथाच सुवर्णादीनामपि द्रवत्वं नैमित्तिकमेव निमित्तस्याग्निसंयोगस्यान्वयव्यतिरेकसिद्धत्वात्, परन्तु पूर्वसूत्रेऽग्निपदमौष्ण्यप्रकर्षवत्तेजःपरम्, इह तु वह्निपरमिति विशेषः। ननु सुवर्णादीनामपि पार्थिवत्वमेव द्रव्यान्तरत्वं वापीतिमगुरुत्वादेः पार्थिवत्वव्यवस्थापकत्वाद् द्रवत्वानुच्छेदस्य पृथिवीवैधर्म्यस्याप्यनुभवात् द्रव्यान्तरत्वव्यवस्थापकत्वादिति चेन्न सुवर्णं तैजसम् अत्यन्ताग्निसंयोगेऽप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वात् यन्नैवं तन्नैवं यथा पृथिवीति व्यतिरेकिणा तैजसत्वसिद्धेः। न च जलपरमाणौ विरुद्धता द्रवत्वस्यानित्यत्वेन विशेषणीयत्वात्। न च प्रदोपादेः सपक्षार्द्धतोर्व्यावृत्तेरसाधारण्यम् सुवर्णं न पार्थिवमिति साध्यार्थत्वात्। न चात्र गुरुत्वाधारस्य पक्षत्वे बाधः तदतिरिक्तस्य पक्षत्वे चाश्रयासिद्धिः, द्रवत्वाधिकरणत्वेन पक्षत्वात्। न चात्यन्तिकत्वं दुर्वचम्, प्रहरपर्य्यन्तमग्निसंयोगेऽप्यनुच्छिद्यमानानित्यद्रवत्वाधिकरणत्वादिति विवक्षितत्वात्। न च तरतमादिप्रत्ययादाश्रयनाशाच्च द्रवत्वनाशोऽप्यवश्यं वाच्य इति वाच्यम् समानाधिकरणद्रवत्वसामग्र्यसमवहिताग्निसंयोगजन्यध्वंसप्रतियोग्यवृत्तिद्रवत्वसामान्यवद्द्रवत्ववत्त्वादित्यस्य हेत्वर्थत्वात्। यद्वा पीतिमगुरुत्वाश्रयः पीतरूपभिन्नरूपप्रतिबन्धकद्रवद्रव्यसंयुक्तः प्रहरपर्य्यन्तमनलसंयोगेऽपि पीतरूपभिन्नरूपानाश्रयत्वात् अनलसंयुक्तजलमध्यस्थितपीतपटवत्। ननु चान्धकारे सुवर्णरूपग्रहापत्तिस्तदानीं तद्रूपस्याभिभवाभावात् बलवत्सजातीयग्रहणकृतस्याग्रहणस्याभिभवपदार्थत्वात् इति चेन्न तत्र फलबलेन बलवत्सजातीयसम्बन्धमात्रस्याभिभवपदार्थत्वात्। तदुक्तम्--
भूसंसर्गवशाच्चान्यरूपं नैव प्रकाशते।
इति दिक् ।। 7 ।।
</3-1-7>

<3-1-8>
एवं स्पर्शवद्द्रव्यचतुष्कलक्षणप्रकरणं समाप्य वायोर्लक्षणमाश्रयासिद्धमिति तत्परिजिहीर्षया आदावनुमानं प्रमाणमुपन्यस्यानुमानस्यैव प्रथमं दृष्टानुसारेण प्रमाण्यमुपपाद्य वायुसाधनप्रकरणमारभते--
विषाणी ककुद्मान् प्रान्तेबालधिः सास्नावान् इति गोत्वे दृष्टं लिङ्गम् ।। 8 ।।
यथा गोत्वं प्रति विषाणादोनि लिङ्गानि गृहीतव्याप्तिकानि तथाऽतीन्द्रियवाय्वादिद्रव्यपञ्चकलिङ्गान्यपि सामान्यता दृष्टानि प्रमाणभावमासादयन्तीति भावः। अत्र यद्यपि विषाणित्वमात्रं न गोत्वे लिङ्गं महिषादौ व्यभिचारात्, न च सास्नादिमत्त्वं विशेषणम् विशेष्यस्य व्यर्थत्वापत्तेः तथापि गोविषाणे महिषमेषादिविषाणापेक्षया वैलक्षण्यमाकलयतां धूम इव ते ते विशेषा लिङ्गभावमासादयन्त्येव विषाणेष्वपि ऋजुत्ववक्रत्वकठिनत्वसुकुमारत्वह्रस्वत्वदीर्घत्वादयः। ते च विशेषाः निपुणतरवेद्याः सन्त्येव तथाच व्यवहितविप्रकृष्टगोपिण्डे अयं गौर्विषाणविशेषवत्त्वात् पूर्वानुभूतगोपिण्डवदित्यनुमानमप्रत्यूहमेव। एवं कुकुद्वत्तापि लिङ्गं गोत्वे। प्रान्तेबालधिमत्त्वमपि स्वतन्त्रमेव लिङ्गं गोत्वे प्रान्ते बाला आधीयन्तेऽस्मिन्निति प्रान्तेबालधिः-पुच्छविशेषः अलुक्‌समासात् गोपुच्छ एवान्ते बालधिशब्देनोच्यते, न हि यथा गोपुच्छेषु प्रान्तेबालधित्वं तथाऽश्वमेषादिपुच्छेषु, तेषां सामस्त्येन बालमयत्वात्, महिषादिपुच्छेतादृशी प्रलम्बता नास्तीति वैलक्षण्यात्। अन्तेबालदिमत्त्वमपि गोत्वे लिङ्गं मतुब्‌लोपात् गोपिण्ड उच्यते, तथा चायं गौः प्रान्तेबालदिमत्त्वात् पूर्वानुभूतगोपिण्डवत्। सास्नावत्ता तु प्रसिद्धैव गोत्वे लिङ्गम् ।। 8 ।।
</3-1-8>

<3-1-9>
एवं सकललोकयात्रवाहिनोऽनुमानस्य दृष्ट्वानुसारेण प्रामाण्यमभिधाय वायुसाधनप्रकरणमारिप्समान आह--
स्पर्शश्च वायोः । 9 ।।
लिङ्गमिति शेषः। चकारात् शब्दधृतिकम्पाः समुच्चीयन्ते। ननूपलभ्यमानस्पर्शः पृथिव्या एवानुद्‌भूतरूपायाः स्यादिति चेन्न उद्‌भूतस्य पृथिवीस्पर्शस्योद्भूतरूपनान्तरीयकत्वात्। तथाच योऽयं स्पर्शोऽनुभूयते स क्वचिदाश्रितः स्पर्शथ्वात् पृथिव्यादिस्पर्शवदिति सामान्यतोदृष्टेन स्पर्शाश्रयसिद्धौ स्पर्शाश्रयो न पृथिव्यादित्रयात्मकः नीरूपत्वात् नाकाशादिपञ्चात्मकः स्पर्शवत्त्वादितीतरबाधसहकृतेनाष्टद्रव्यातिरिक्तद्रव्यसिद्धिः। एवं शब्दविशेषोऽपि वायौ लिङ्गम्, तथाहि असति रूपवद्द्रव्याभिघाते योऽयं पर्णादिशब्दसन्तानः स स्पर्शवद्वेगवद्द्रव्याभिघातनिमित्तकः अविभज्यमानावयवद्रव्यसम्बन्धिशब्दसन्तानत्वात्दण्डाभिघातजभेरोशब्दसन्तानवत्। रूपवद्द्रव्याभिघातव्यतिरेकस्तु योग्यानुपलब्धिगम्यः। तच्च स्पर्शवद्वेगवद्द्रव्यमष्टद्रव्यातिरिक्तमेव परिशेषात्। एवं धृतिविशेषोऽपि वायोर्लिङ्गम् तथाहि तृणतूलस्तनयित्नुविमानानां नभसि धृतिः स्पर्शवद्वेगवद्द्रव्यसंयोगजा चेतनानधिष्ठितद्रव्यधृतित्वात् प्रवाहे तृणकाष्ठनौकादिधृतिवत्। अभिध्यानकृतविषादिधृतौ च अस्मदाद्यधिष्ठानमेव। एवं पक्षिकाण्डादधृतावपि। न चेश्वराधिष्ठितत्वेन हेतुविशेषणासिद्धिः चेतनपदेन तदितरस्य विवक्षितत्वात्। एवं कम्पोऽपि वायुसत्त्वे लिङ्गम् तथाहि इदं रूपवद्‌द्रव्याभिघातमन्तरेण तृणादौ कर्म स्पर्शवद्वेगवद् द्रव्याभिघातजं गुरुत्वप्रयत्नवदात्मसंयोगद्रवत्वसंस्काराणामुपग्रहः तेनं तदजन्यकर्मत्वं हेतुः। ननु प्रत्यक्ष एव वायुः किमत्र लिङ्गगवेषणयेति चेन्न वायुर्न प्रत्यक्षः नोरूपबहिर्द्रव्यत्वात् गगनवदित्यनुमानादतीन्द्रियत्वस्यैव सिद्धेः। ननु वायुः प्रत्यक्षः स्पर्शाश्रयत्वाद् घटवदिति प्रत्यक्षत्वानुमानमिति चेन्न उद्‌भूतरूपवत्त्वस्यात्रोपाधित्वात् च। न रूपादावात्मनि च साद्याव्यापकमेतत्, पक्षधर्मबहिर्द्रव्यत्वावच्छिन्नस्य साधनधर्मा वच्छिन्नस्य वा साध्यस्य व्यापकत्वात्। न च चाक्षुषप्रत्यक्षत्वं तत्तन्त्रं तत्रैव तदन्वयव्यतिरेकानुविधानात् स्पार्शनप्रत्यक्षत्वे तु योग्यस्पर्शवत्तामात्रस्य तन्त्रतेति वाच्यम् रूपान्वयव्यतिरेकयोरुभयत्रापि तन्त्रत्वात्, न ह्युभयसिद्स्पर्शेनैव प्रत्यक्षता रूपस्य ग्रहमन्तरेण दृष्टा। किञ्च यदि वायुः प्रत्यक्षः स्यात् सङ्ख्यादिसामान्यगुणोपलम्भेऽपि तन्त्रं स्यात्। नन्वस्त्येव फूत्‌कारादौ सङ्ख्यायाः परिमाणस्य च हस्तवितस्त्यादेः उभयपार्श्ववर्तिनोर्वाय्वोः पृथक्‌त्वस्य च परत्वापपरत्वयोश्च प्रत्यक्षता वायुजातीयस्य व्यक्तिपरतया तु न तवापि नियमः पृष्ठलग्नवस्त्रादौ तदनुपलम्भादिति चेन्न ञ्यक्तिपरतयैव नियमात् पृष्ठलग्नवस्त्रादौ चार्जवावस्थाने सङ्ख्यादीनां ग्रहणात्, अनार्जवावस्थानदोषात्तु तदग्रहः। उद्‌भूतरूपस्पर्शौ मिलितावेव बहिर्द्रव्यप्रत्यक्षत्वे तन्त्रे प्रभाया नयनगतपीतद्रव्यस्य चन्द्रमहसश्च त्पर्शानुद्भवादप्रत्यक्षत्वम् निदाघोष्मणोर्विभक्तावयवाप्यद्रव्याणाञ्च रूपानुद्भवादप्रत्यक्षत्वमिति न्यायवार्त्तिकतात्पर्य्यटीकाकृतः। स्पर्शानुद्भवेऽपि प्रभादीनां प्रत्यक्षतैव अत एव चान्द्रालोके नभसि पक्षिकाण्डादिसंयोगविभागयोः प्रत्यक्षतैवेति सम्प्रदायविदः। न चोद्‌भूतस्पर्शवत्त्वं सामान्यतो बहिर्द्रव्यप्रत्यक्षताप्रयोजकमिति वाच्यम्, इन्द्रनीलप्रभाया अप्रत्यक्षतापत्तेः। न चोद्‌बूतविशेषगुणवत्त्वमेव तन्त्रम् आकाशस्यापि प्रत्यक्षतापत्तेः। न च जन्यमहत्त्व समानाधिकरणोद्‌भूतविशेषगुणवत्त्वं तथा रसनाग्रवर्त्तिपित्तद्रव्यस्य तैक्त्योद्भवेऽप्यप्रत्यक्षत्वात्, तस्मादुद्भूतरूपवत्त्वमेवात्मेतरद्रव्यप्रत्यक्षतातन्त्रम् तच्च वायौ नास्तीत्यप्रत्यक्षो वायुः ।। 9 ।।
</3-1-9>

<3-1-10>
ननु प्रत्यक्षतो दृष्टमिह लिङ्गं नास्ति न हि वह्निधूमयोरिवेह प्रत्यक्षेण व्याप्तिग्रहः। किञ्च पृथिव्याद्यन्यतमस्येव स्पर्शोऽप्ययं भविष्यतीत्यत आह--
न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः ।। 10 ।।
अयं स्पर्शो यः पक्षः क्रियते स दृष्टानां पृथिव्यप्तेजसां न भवति रूपासहचरत्वात्, तथा चायंस्पर्शः क्विचिदाश्रित इत्यनुमेयमित्यदृष्टलिङ्गः। सामान्यतोदृष्टलिङ्गोऽपि पक्षधर्मताबलादायात इत्यर्थः। यद्यपि दृष्टमेव स्पर्शादिचतुष्कं लिङ्गमिति तथापि वायुना सहागृहीतव्याप्तिकत्वाददृष्टलिङ्गत्वमुक्तम् न ह्ययं धर्मी वायुरिति प्रतिज्ञाय वायुः साधयितुं शक्यते, तथाच सामान्यतोदृष्टादेवेतरवासहकृताद्वायुसिद्धिरिति भावः ।। 10 ।।
</3-1-10>

<3-1-11>
उपलभ्यमानस्पर्शाश्रयमवयविनं साधयित्वा परमाणुलक्षणं वायुं साधयितुमाह--
अद्रव्यवत्त्वेन द्रव्यम् ।। 11 ।।
द्रव्यमाश्रयभूतमस्यास्तीति द्रव्यवत् न द्रव्यवत् अद्रव्यवत् द्रव्यानाश्रितमित्यर्थः। तथा चाकाशवत् परमाणुलक्षणो वायुर्द्रव्यम् अन्येषां पदार्थानां द्रव्याश्रितत्वात्। आश्रितत्वञ्चान्यत्र नित्यद्रव्येभ्य इत्यभिधानात् परमाणुभ्यां द्व्यणुकारम्भात् द्व्यणुकादिप्रक्रमेणावयविनो महत आरम्भस्योपपादनीयत्वादिति ।। 11 ।।
</3-1-11>

<3-1-12>
वायुपरमाणोर्द्रव्यत्वसाधकं हेतुद्वयं समुच्चिन्वन्नाह--
क्रियावत्त्वाद् गुणवत्त्वाच्च ।। 12 ।।
वायुपरमाणुर्द्रव्यमिति शेषः। यद्यपि द्रव्यत्वे सिद्धे क्रिवावत्त्वं गुणवत्त्वञ्च सिध्यति तत्‌सिद्धौ च द्रव्यत्वसिद्धिरित्यन्योन्याश्रयः तथाप्युपलभ्यमानस्पर्शाश्रयस्यावयविनो मूलभूतस्य परमाणोरसमवायिकारणसंयोगान्यथानुपपत्त्या क्रियावत्त्वम्, अवयविस्पर्शरूपादेः कारणगुणपूर्वकत्वनियमाद् गुणवत्त्वञ्च सिद्धं ताभ्याञ्चद्रव्यत्वमित्यदोषः। तत्र क्रियावत्त्वं सपक्षैकदेशवृत्तिगुणवत्त्वञ्च सपक्षव्यापकम्। चकारात् समवायिकारणत्वं द्रव्यत्वसाधकं समुच्चिनोति। ननु परमाणावेव न प्रमाणं कस्य द्रव्यत्वं साध्यत इति चेन्न स्थूलकार्य्यस्य क्रियाविभागादिन्यायेन भज्यमानस्याल्पतरतमादिभावात् यतो नाल्पीयः स एव परमाणुः। अवयवावयविप्रसङ्गस्यानवधित्वे अनन्तावयवत्वाविशेषे सुमेरुसर्षपादीनां परिमाणाविशेषापत्तिः कारणसंयख्याविशेषमन्तरेण परिमाणाप्रचययोरपि परिमाणभेदं प्रत्यतन्त्रत्वात्। न च विनाशावधिरेवायम् अवयवावयविप्रसङ्गः अन्त्यस्य निरवयवत्वेन विनाशानुपपत्तेः सावयवत्वे च निरवधित्वापत्तेस्तत्र च दोषस्योक्तत्वात्। ननु त्रुटिरेवावधिर्दृश्यमानत्वाददृश्यमानकल्पनायां मानाभावादिति चेन्न तस्य चाक्षुषद्रव्यत्वयोरावश्यकत्वात् तस्मात् त्रसरेण्ववयवावयव एव परमाणुर्यथा पृथिव्यादौ तथा वायावपीति सिद्धो वायुपरमाणुः ।। 12 ।।
</3-1-12>

<3-1-13>
ननु क्रियावत्त्वाद् गुणवत्त्वाच्च घटादिवत् परमाणोरनित्यत्वमनुमेयमत आह--
अद्रव्यत्वेन नित्यत्वमुक्तम् ।। 13 ।।
परमाणुलक्षणवायोरिति शेषः। द्रव्यं हि समावायिकारणासमवायिकारणान्यतरनाशान्नश्यति परमाणोस्तु निरवयवतया न तदुभयमस्ति तथाच विनाशकाभावान्न विनश्यति। क्रियावत्त्वे गुणवत्त्वे च हेतौ सावयवत्वमुपाधिः। स च पक्षधर्मद्रव्यत्वावच्छिन्नसाध्यव्यापकः केवलसाध्यव्यापकस्तु प्रागभावप्रतियोगित्वमुपाधिः ।। 13 ।।
</3-1-13>

<3-1-14>
द्व्यणुकादिप्रक्रमेणारम्भसिद्धौ सिद्धमपि वायुनानात्वं प्रकारान्तरेणापि साधयितुमाह--
वायोर्वायुसंमूर्च्छनं नानात्वलिङ्गम् ।। 14 ।।
वायुसंमूर्च्छनमिति। वाय्वोर्वायूनां वा संमूर्च्छनं संयोगविशेषः। स च समानवेगयोर्विरुद्धदिक्‌क्रिययोः सन्निपातः। स च तृणतूलकादेरूर्ध्वगमनेनानुमीयते। वाय्वोरूर्ध्वगमनस्य सन्निपातस्य चातीन्द्रियत्वात्। तृणादीनान्तु प्रत्यक्षाणामूर्ध्वगमनलक्षणायाः क्रियायाः प्रत्यक्षायाः स्पर्शवद्वेगवद्‌द्रव्याभिघातनोदनान्यतरजन्यत्वमनुमीयते। तथाहि तिर्य्यग्गमनस्वभावस्य वायोरूर्ध्वगमनं परस्परप्रतीघातमन्तरेणानुपपद्यमानं परस्परप्रतीघातं साधयति नदीपयःपूरयोस्तथादर्शनात् तदूर्ध्वगमनञ्च तृणाद्यूर्ध्वगमनानुमेयं न हि तृणदीनामूर्ध्वगमनं स्पर्शवद्वेगवद्‌द्रव्याभिघातनोदनान्यतरद् विनेति ।। 14 ।।
</3-1-14>

<3-1-15>
नन्वदृष्टलिङ्गो वायुरित्युक्तं तथा च कथमेतदित्यत आह--
वायुसन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते ।। 15 ।।
दृष्टं हि लिङ्गं यत्र प्रत्यक्षेण व्याप्तिग्रहस्तदुच्यते यथा धूमोऽरनेः। वायुसन्निकर्षे च वायुना सहाविनाभावे प्रत्यक्षं नास्ति न हि भवति यो यः स्पर्शकम्पादिमान् स वायुरिति कस्यचित् प्रत्यक्षं वायोरेवाप्रत्यक्षात्वादत एव तादृशं प्रत्यक्षगृहीतव्याप्तिकं लिङ्गं नास्तीत्यर्थः ।। 15 ।।
</3-1-15>

<3-1-16>
तर्हि वायोरनुमानमेव कथमित्यत उक्तमेव द्रढयितुमाह--
सामान्यतोदृष्टाच्चाविशेषः ।। 16 ।।
अनुमानं हि त्रिविधं पूर्ववत् शेषवत् सामान्यतोदृष्टम्। तथा चायमनुभूयमानस्पर्शः क्वचिदाश्रितः स्पर्शत्वात् गुणत्वाद्वेति समान्यतोदृष्टादेवेतरबाधसहकृतात् अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं सिध्यतीत्यर्थः। गतं तर्हि केवलव्यतिरेकिणेति चेन्न इतरबाधानन्तरं यत्र सामान्यतो दृष्ट प्रवर्त्तते तत्राष्टद्रव्यानाश्रितत्वं पक्षविशेषणं सिद्धमादाय अष्टद्रञ्यानाश्रितोऽयं स्पर्शः क्वचिदाश्रित इति प्रतिज्ञार्थोऽष्टद्रव्यातिरिक्तद्रव्याश्रितत्वमनादाय न पर्य्यवस्यतीतिप्रतीत्यर्थापर्य्यवसन्नतयाऽन्वयिन एव तत्सिद्धिः। यत्र तु पूर्वमेव बाधावतारात् सामान्यतोदृष्टं तत्र प्रतीत्यर्थपर्य्यवसानात् केवलव्यतिरेकोत्यभ्यपगमात्। प्रकारार्थ केवलव्यतिरेकीति तु तुच्छमेव उक्तस्थले प्रकारस्यान्वयिन एवोपस्थितेः। व्यापकतावच्छेदकप्रकारिकैवानुमितिरितिनियमस्त्वप्रामाणिकः सामग्रीविशेषसाचिव्यात् प्रकारान्तरभावन्यापि सम्भवात् ।। 16 ।।
</3-1-16>

<3-1-17>
ननु चाविशेष इति वायुरयमित्याकासऽनुमितिर्न भवति किन्त्वष्टद्रव्यातिरिक्तद्रव्याश्रितत्वेनैव प्रकारेणेति विवक्षितं यदि तदा तस्य द्रव्यस्य वायुसंज्ञाया किं मानमत आह--
तस्मादागमिकम् ।। 17 ।।
यस्माद्विशेषाकारेण नानुमितिः तस्माद्वायुरिति नाम आगमिकम्, आगमो वेदस्ततः सिद्धमित्यर्थः। `वायुर्वै क्षेपिष्ठा देवता' `वायव्यं श्वेतं छागलगालभेत' `वायव्यं श्वेतं छागलगालभेत' इत्यादि-विधिशेषीभूतार्थवादादेव वायुसंज्ञाधिगतिः। यथा--
यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम्।
इत्याद्यर्थवादात् स्वर्गसंज्ञायाः।
वसन्ते सर्वशस्यानां जायते पत्रशातनम्।
मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः।।
इत्यर्थवादात् यवसंज्ञायाः, `अम्बुजो वेतसः' इत्यर्थवादात् वेतससंज्ञायाः, `वराहं गावोऽनुधावन्ति' इत्यर्थवादात् वराहसंज्ञायाः। अन्यथा `स्वर्गकामो यजेत' इत्यादौ विशिष्टसुखानुपस्थितौ यागादिंषु स्वर्गार्थिनां प्रवृत्तिर्न स्यात् न स्याच्च `यवमयश्चरुर्भवति' `वैतसे कटे प्राजापत्यं धिनोति' `वाराहो चोपानत्' इत्यादौ म्लेच्छप्रसिद्धिमनुरुध्य प्रवृत्त्यनध्यवसायः। म्लेच्छा हि यववराहवेतसशब्दान् कङ्गुवायसजम्बुषु प्रयुञ्जते तथाचार्थवादमन्तरेण सन्देहः स्यादित्यागमादेव तत्तदर्शप्रतीतिरिति भावः। नाममात्रमागमिकं द्रव्यसिद्धिस्तु सामान्यतो दृष्टादेव ।। 17 ।।
</2-1-17>

<2-1-18>
एवं वायुप्रकरणं समाप्य तत् किमुन्मादिजल्पित-डित्थडवित्थसंज्ञावत् वायुसंज्ञापीत्यागमस्य सर्वज्ञप्रणीतत्वमुपपादयन् औपोद्‌घातिकमोश्वरप्रकरणमारिप्समान आह--
संज्ञा कर्म्म त्वस्मद्विशिष्टानां लिङ्गम् ।। 18 ।।
तुशब्दः स्पर्शादिलिङ्गव्यवच्छेदार्थः। संज्ञा-नाम, कर्म-कार्य्यं क्षित्यादिः तदुभयमस्मद्विशिष्टानाम् ईश्वर-महर्षीणां सत्त्वेऽपि लिङ्गम् ।। 18 ।।
</2-1-18>

<2-1-19>
कथमेतदित्यत आह--
प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः ।। 19 ।।
अत्रापि संज्ञा च कर्म चेति समाहारद्वन्द्वादेकवद्भावः संज्ञाकर्त्तुंर्जगत्कर्त्तुश्चाभेदसूचनार्थः। तथाहि यस्य स्वर्गापूर्वादयः प्रत्यक्षाः स एव तत्र स्वर्गापूर्वादिसंज्ञाः कर्तुमीष्टे प्रत्यक्षे चैत्रमैत्रादिपिण्डे पित्रादेश्चैत्रमैत्रादिसंज्ञानिवेशनवत्। एवञ्च घटपटादिसंज्ञानिवसेनवत्। एवञ्च घटपटादिसंज्ञानिवेशनमपि ईश्वरसङ्केताधीनमेव यः शब्दो यत्रेश्वरेण सङ्केतितः स तत्र साधुः यथा या काचिदोषधिर्नकुलदंष्‌ट्राभ्रस्पृष्टा सा सर्वाऽपि सर्पविषं हन्तीत्येतादृशी संज्ञा अस्मदादिविशिष्टानां लिङ्गमनुमापकं, याऽपि मैत्रादिसंज्ञा पित्रा पुत्रे क्रियते साऽपि `द्वादशेऽहनि पिता नाम कुर्य्यात्' इत्यादिविधिना नूनमोश्वरप्रयुक्तैव तथाच सिद्धं संज्ञाया ईश्वरलिङ्गत्वम्। एवं कर्मापि कार्य्यमपीश्वरे लिङ्गम् तथाहि क्षित्यादिकं सकर्तृकं कार्य्यत्वात् घटवदिति। अत्र यद्यपि शरीराजन्यं जन्यं वा जन्यप्रयत्नाजन्यं जन्यं वा सकर्तृकत्वासकर्तृकत्वेन विवादाध्यासितं वा सन्दिह्यमानकर्तृकत्वं वा क्षित्यादित्वेन न विवक्षितम् अदृष्टद्वारा क्षित्यादेरपि जन्यप्रयत्नजन्यत्वात् विवादसन्देहयोश्चातिप्रसक्तत्वेन पक्षतानवच्छेदकत्वात्, किञ्च सकर्तृकत्वमाप यदि कृतिमज्जन्यत्वं तदाऽस्भदादिना सिद्धसाधनम् अस्मदादिकृतेरप्यदृष्टद्वारा क्षित्यादिजनकत्वात्, उपादानगोचरकृतिमज्जन्यत्वेऽपि तथा अस्मदादिकृतेरपि किंञ्चिदुपादुदानगोचरत्वात्, कार्य्यत्वमपि यदि प्रागभावप्रतियोगित्वं तदा ध्वंसे व्यभिचार इति। तथापि क्षितिः सकर्तृका कार्य्यत्वात्। अत्र च सकर्तृकत्वमदृष्टाद्वारककृतिमज्जन्यत्वं कार्य्यत्वञ्च प्रागभावावच्छिन्नसत्ताप्रतियोगित्वम्। न चाङ्कुरादौ सन्दिग्धानैकान्तिकत्वम् साध्याभावनिश्चये हेतुसदसत्त्वसन्देहे सन्दिग्धानैकान्तिकत्वस्य दोषत्वात् अन्यथा सकलानुमानोच्छेदप्रसङ्गात् न च पक्षातिरिक्ते दोषोऽयमिति वाच्यम् राजाज्ञापत्तेः, नहि दोषस्यायं महिमा यत् पक्षं नाक्रामति। तस्मादङ्कुरस्फुरणदशायां निश्चितव्याप्तिकेन हेतुना तत्र साध्यसिद्धेरप्रत्यूहत्वात् क्व सन्दिग्धानैकान्तिकता तदस्फुरणदशायान्तु सुतरामिति संक्षेपः ।। 19 ।।
</2-1-19>

<2-1-20>
एवं सूत्राभ्यामीश्वरप्रकरणं समाप्याकाशप्रकरणमारिप्समान आह--
निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् ।। 20 ।।
इतिशब्दः प्रकारार्थः, उत्क्षेपणादीन्यपि कर्माणि संगृह्णाति। स्पर्शवद्द्रव्यसञ्चारो निष्क्रमणं प्रवेशनञ्च तदकार्य्यस्याकाशस्य लिङ्गमिति साङ्ख्याः ।। 20 ।।
</2-1-20>

<2-1-21>
तदेतद् दूषयितुमाह--
तदलिङ्गमेकद्रव्यत्वात् कर्मणः ।। 21 ।।
निष्क्रमणप्रवेशनादिकर्म न तावत् समवायिकारणतया आकाशमनुमापयति कर्मण एकद्रव्यत्वात् एकमात्रमूर्त्तसमावायिकारणकत्वात्, न कर्मापि व्यासव्यवृत्तीत्युक्तं न वाऽमूर्त्तवृत्तीति ।। 21 ।।
</2-1-21>

<2-1-22>
ननु चासमवायिकारणतयैवाकाशमनुमापयिष्यति निष्क्रमणप्रवेशनादोत्यत आह--
कारणान्तरानुक्लृप्तिवैधर्म्याच्च ।। 22 ।।
अनुक्लृप्तिर्लक्षणम् अनुकल्प्यते ज्ञाप्यतेऽनेनेति व्युत्पत्त्या, कारणान्तरस्य असमवायिकारणस्य याऽनुक्लृप्तिर्लक्षणं तद्‌वैधर्म्यादित्यर्थः। द्रव्यन्तावदसमवायिकारणं न भवत्येव। असमवायिकारणता च कारणैकार्थप्रत्यासत्त्या कार्य्यैकार्थप्रत्यासत्त्या च। प्रथमा तन्तुरूपाणां पटरूपं प्रति, इयञ्चासमवायिकारणता महतीतिसंज्ञां लभते गुरुप्रतिपत्तिकत्वात्। द्वितीया च यथा आत्ममनःसंयोगस्य ज्ञानादिकं प्रति, इयञ्चासमवायिकारणता लघ्वीति संज्ञां लभते लघुप्रतिपत्तिकत्वात्। आकाशस्य तु निष्क्रमणप्रवेशनादौ कर्मणि न समवायिकारणता नाप्यसमवायिकारणता। तथा च न च कर्माकाशसत्त्वे लिङ्गमिति ।। 22 ।।
</2-1-22>

<2-1-23>
ननु निमित्तकारणमस्तु कर्मण्याकाशम्, दृश्यते ह्याकाशे पक्षिकाण्डादीनां सञ्चरणमत आह--
संयोगादभावः कर्मणः ।। 23 ।।
मूर्त्तसंयोगेन कर्मकारणस्य वेगगुरुत्वादेः प्रतिबन्धात् कर्मणोऽभावोऽनुत्पादो न त्वाकाशाभावात् तस्य व्यापकत्वात्। तस्मादाकाशान्वयोऽन्यथासिद्ध एव नाकाशनिमित्ततां साधयतीत्यर्थः ।। 23 ।।
</2-1-23>

<2-1-24>
एवं साङ्ख्यामते दूषिते शब्दमाकाशे लिङ्गमुपपादयिष्यन् परिशेषानुमानाय पीठमारचयन्नाह--
कारणगुणपूर्वकः कार्यगुणो दृष्टः ।। 24 ।।
पृथिव्यादिलक्षणे कार्ये ये विशेषगुणा रूपादयस्ते कारणगुणपूर्वका दृष्टाः। शब्दोऽपि विशेषगुणः जातिमत्त्वे सति बाह्यैकेन्द्रियमात्रभाह्यत्वात् रूपादिवत्। तथा च तादृशं कार्यं नोपलभ्यते यत्र कारणगुणपूर्वकः शब्दः स्यादित्यर्थः ।। 24 ।।
</2-1-24>

<2-1-25>
ननु वीणावेणुसृदङ्गशङ्खपटहादौ कार्ये शब्द उपलभ्यते तथाच तत्‌कारणगुणपूर्वकः स्यादत आह-
कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः ।। 25 ।।
भवेदेवं यथा तन्तुकपालादिषु रूपरसाद्यनुबूयते तत्सजातीयञ्च रूपरसान्तरं पटघटादावुपलभ्यते तथा वीणावेणुमृदङ्गाद्यवयवेषुः यः शब्द उपलब्धस्तत्‌सजातीयश्चेत् वीणावेणुमृदङ्गाद्यवयविन्युपलभ्येत न चैवम्। प्रत्युत निःशब्दैरेवावयवैर्वीणाद्यारम्भदर्शनात्, नीरूपैस्तु तन्तुकपालादिभिः पटघटाद्यारम्भस्यादर्शनात्। किञ्च यदि शब्दः स्पर्शवतां विशेषगुणः स्यात् तदा तत्र तार-तारतर-मन्द-मन्दतरापदभावो नानुभूयित न ह्येकावयव्याश्रिता रूपादयो वैचित्रेयणानुभूयन्ते तस्मान्न स्पर्शवद्विशेषगुणः शब्दः ।। 25 ।।
</2-1-25>

<2-1-26>
नन्वात्मगुणो मनोगुणो वा शब्दो भविष्यतीत्यत आह--
परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः ।। 26 ।।
शब्दो यद्यात्मगुणः स्यात् तदाऽहं सुखोयते जाने इच्छामीत्यादिवत् अहं पूर्य्ये अहं वाद्ये अहं शब्दवानित्यादि धीः स्यात् नत्वेवमस्ति, किन्तु शङ्खः पूर्य्यते अहं वाद्ये अहं शब्दवानित्यादि धीः स्यात् नत्वेवमस्ति, किन्तु शङ्खः पूर्य्यते वीणा वाद्यते इति प्रतियन्ति लौकिकाः। किञ्च शब्दो नात्मगुणः बाह्येन्द्रियग्राह्यत्वात् रूपादिवत् अपि च शब्दो यद्यात्मयोग्यविशेषगुणः स्याद्बधिरेणाप्युपलभ्येत दुःखादिवत् तस्मात् सुध्ठूक्तं परत्र समवायादिति। अमनोगुणत्वे हेतुमाह--प्रत्यत्वादिति। नात्ममनसोर्गुण इति समासे कर्त्तव्ये यदसमासकरणं तेन तुल्यन्यायतया प्रत्यक्षत्वादित्यनेनैव हेतुना दिककालयोरपि गुणत्वं शब्दस्य प्रतिषिद्धमिति सूचितम् ।। 26 ।।
</2-1-26>

<2-1-27>
यदथमयं परिशेषस्तदाह--
परिशेषाल्लिङ्गमाकाशस्य ।। 27 ।।
शब्द इति शेषः। अत्रापि शब्दः क्वचिदाश्रितो गुणत्वात् रूपादिवदिति सामान्यतोदृष्टादष्टद्रव्यातिरिक्तद्रव्यसिद्धिः। गुणश्चायं वाह्यैकेन्द्रियग्राह्यजाती यत्वात् रूपादिवत्, अनित्यत्वे सति विभुसमवेतत्वात् ज्ञानादिवत्। अनित्यत्वञ्च साधयिष्यते। परिशेषसिद्धस्य द्रव्यस्यावयवकल्पनायां प्रमाणाभावान्नित्यत्वं सर्वत्र शब्दोपलब्धेविंभुत्वम् ।। 27 ।।
</2-1-27>

<2-1-28>
शब्दलिङ्गस्य द्रव्यस्य द्रव्यत्वनित्यत्वे अतिदेशेन साधयन्नाह--
द्रव्यत्वनित्यत्वे वायुना व्याख्याते ।। 28 ।।
अद्रव्यवत्त्वाद्यथा वायोर्नित्यत्वं तथाकाशस्यापि, गुण्वत्त्वाद् यथा वायोर्द्रव्यत्वं तथाकाशस्यापीत्यर्थः ।। 28 ।।
</2-1-28>

<2-1-29>
तत् किं बहून्याकाशानि एकमेव वेत्यत आह--
तत्त्वम्भावेन ।। 29 ।।
व्याख्यातमिति विपरिणतेनान्वयः। भावः सत्ता सा यथैका तथाकाशमप्येकमेवेत्यर्थः ।। 29 ।।
</2-1-29>

<2-1-30>
नन्वनुगतप्रत्ययमहिम्ना सत्ताया एकत्वं सिद्धम् आकाशे कथमेकत्वं तद्‌दृष्टान्तेन सेत्स्यतीत्यत आह--
शब्दलिङ्गाविशेषाद्विशेषलिंगाभावाच्च ।। 30 ।।
तत्त्वमाकाशस्य सिद्धिमित्यर्थः। वैभवे सति सर्वेषां शब्दानां तदेकाश्रयतयैवोपपत्तावाश्रयान्तरकल्पनायां कल्पनागौरवप्रसङ्गः। अन्यदपि यदाकाशं कल्पनीयम् तत्रापि शब्द एव लिङ्गम् तच्चाविशिष्टम् न च विशेषसाधकं भेदसाधकं लिङ्गान्तरमस्ति। आत्मनां यद्यपि ज्ञानादिकमविशिष्टमेव लिङ्गं तथापि व्यवस्थातो लिङ्गान्तरादात्मनानात्वसिद्धिरिति वक्ष्यते ।। 30 ।।
</2-1-30>

<2-1-31>
नन्वाकाशस्य एकत्वं तावदस्तु, वैभवात् परममहत्त्वमप्यस्तु, शब्दासमवायिकारणत्वात् संयोगविभागावपि स्याताम् एकपृथक्त्वं कथमत आह--
तदनुविधानादेकपृथक्त्वञ्चेति ।। 31 ।।
नियमेनैकपृथक्त्वमेकत्वमनुविधत्ते इत्येकपृथक्त्वसिद्धिः। इतिराह्निकपरिसमाप्तौ मानसप्रत्यक्षाविषयविशेषगुणवद्द्रव्यलक्षणमाह्निकार्थः। तेन चतुर्दशगुणवती पृथिवी, ते च गुणा रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्काराः। तावन्त एव गन्धमपीस्य स्नेहेन सहापाम्। एत एव रसगन्धस्नेहगुरुत्वान्यपास्य तेजसः। गन्धरसरूपगुरुत्वस्नेहद्रवत्वान्यपास्य वायोः। शब्देन सह सङ्ख्यादिपञ्चगुणवत्त्वमाकाशस्य। सङ्ख्यादिपञ्चकमात्रं दिक्कालयोः। परत्वापरत्ववेगसहितं सङ्ख्यादिपञ्चकं मनसः। सङ्ग्यादिपञ्चकं ज्ञानेच्छाप्रयत्नाश्चेश्वरस्य ।। 31 ।।
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे द्वितीयाध्याय--
</2-1-31>
स्याद्यमाह्निकम्।।

द्वितीयाध्याये द्वितीयाह्निकम्[सम्पाद्यताम्]

<2-2-1>
इदानीं भूतानां लक्षणानि गन्धादीनि परीचिक्षिषुर्गन्धादीनां स्वाभाविकत्वमौपाधिकत्वञ्च व्यवस्थापयन्नाह--
पुष्पवस्त्रयोः सति सन्निर्षे गुणान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् ।। 1 ।।
रूपरसगन्धस्पर्शा यत्र कारणगुणप्रक्रमेणोत्पद्यन्ते तत्र स्वाभाविकाः सन्तो लक्षणतामुपयन्ति नान्यथा, न हि समीरण उपलभ्यमानं सौरभं शिलातले उपलभ्यमानं शैत्यं जले उपलभ्यमानमौष्ण्यं वा लक्षणं भवति तदेतदाह--पुष्पवस्त्रयोरिति। न हि कनककेतकीकुसुमसन्निकृष्टे वाससि कनककेतकीशौरभनुपलभ्यमानं वासवः। न हि वाससः कारणगुणप्रक्रमेण तदुत्पन्नम्, किन्तर्हि? कनककेतकीसन्निधानादौपाधकं, न हि वस्त्रे गन्धाभावे केतकीगन्धाभावो लिङ्गम्। किं लिङ्गमत उक्तं गुणान्तराप्रादुर्भाव इति। गुणान्तरात् कारणगुणात् अप्रादुर्भावोऽनुत्पत्तिः यदि हि वस्त्रे यो गन्ध उपलभ्यते स तस्य स्वाभाविकः स्यात्तदा तदवयवेष तन्तुषु केतकीसन्निकर्षात् पूर्वं तत्र वस्त्रे चोलपभ्येत न चैवमित्यर्थः। तथाच विवादाध्यासितो गन्धो न वस्त्रसमवेतः तदवयवगुणाजन्यविशेषगुणत्वात् शीतोष्णस्पर्शादिवत् ।। 1 ।।
</2-2-1>

<2-2-2>
स्वाभाविकं गन्धं पृथिव्या लक्षणमाह--
व्यवस्थितः पृथिव्यां गन्धः ।। 2 ।।
पृथिव्यां व्यवस्थितोऽयोगान्ययोगाभ्यां परिच्छिन्नः समानासमानजातीयव्यावर्त्तकतया गन्धो लक्षणमित्यर्थः। भवति हि पृथिवी गन्धवत्येव, पृथिव्येव गन्धवत्येव, पृथिव्येव गन्धवतीति, तदेवं समानजातीयेभ्यो जलाद्यष्टभ्योऽसमानजातीयेभ्यो गुणादिपञ्चभ्यो व्यावर्त्तकः स्वाभाविकः पृथिव्यां गन्ध इति व्यवस्थितम् ।। 2 ।।
</2-2-2>

<2-2-3>
गन्धस्य स्वाभाविकत्वव्यवस्थापनप्रकारमुष्णतायां तेजोलक्षणेऽप्यतिदिशन्नाह--
एतेनोष्णता व्याख्याता ।। 3 ।।
अबादिलक्षणे शैत्यादावप्ययमतिदेशो द्रष्टव्यः ।। 3 ।।
</2-2-3>

<2-2-4>
तेजोलक्षणं परोक्षते--
तेजस उष्णता ।। 4 ।।
स्वाभाविक्युष्णता तेजोलक्षणमित्यर्थः। रूपमपि शुक्लभास्वरमुपलक्ष्यते ।। 4 ।।
</2-2-4>

<2-2-5>
अपां लक्षणं परीक्षते--
अप्सु शीतता ।। 5 ।।
स्वाभाविकी शीतता अपां लक्षणमित्यर्थः। तथाच शिलातलश्रीखण्डादौ नातिव्याप्तिरिति भावः। शीततया रूपरसावप्युक्तलक्षणौ स्नेहं सांसिद्धिकद्रवत्वञ्चोपलक्षयति। ननु उद्देशलक्षणक्रमभङ्गः कुत इति चेन्न तेजःस्पर्शस्य पृथिवीजलस्पर्शयोरभिभावकत्वसूचनाय तयोर्मध्ये तेजःपरीक्षाया उक्तत्वात्, वायुपरीक्षासूचनार्थं वा क्रमलङ्घनम्। तथा चापाकजानुष्णाशीतस्पर्शो वायोः स्वाभाविकः सन् लक्षणमित्युन्नेयमिति तात्पर्य्यम् ।। 5 ।।
</2-2-5>

<2-2-6>
तदेवं कारणगुणपूर्वकाः स्पर्शवतां विशेषगुणाः गन्धादयः पृथिव्यादीनां लक्षणानीत्युक्तम्। इदानीं क्रमप्राप्तं काललक्षणप्रकरणमारभमाण आह--
अपरस्मिन्नपरं युगपत् चिरं क्षिप्रमिति काललिङ्गानि ।। 6 ।।
इतिकारो ज्ञानप्रकारपरः प्रत्येकमभिसम्बध्यते, तथाचापरमितिप्रत्ययो युगपदितिप्रत्ययः चिरमितिप्रत्ययः क्षिप्रमितिप्रत्ययः काललिङ्गानीत्यर्थः। अपरस्मिन्नपरमित्यनेन परस्मिन् परमित्यपि द्रष्टव्यम् तेनायमर्थः बहुतरतपनपरिस्पन्दान्तरितजन्मनि स्थविरे युवानमवधिं कृत्वा परत्वमुत्पद्यते तच्च परत्वमसमवायिकारणसापेक्षम्। न च रूपाद्यसमवायिकारणं व्यभिचारात् त्रयाणां गन्धादीनां वायौ परत्वानुत्पादक वात्। स्पर्शस्याप्युष्णादिभेदेन भिन्नस्य प्रत्येकं व्यभिचारात्। न चावच्छिन्नपरिमाणं तथा तस्य विजातीयानारम्भकत्वात्, तपनपरिस्पन्दानाञ्च व्यधिकरणत्वात्। तदवच्छिन्नद्रव्यसंयोग एवासमवायिकारण परिशिष्यते तच्च द्रव्यं पिण्डमार्त्तण्डोभयसंयुक्तं विभु स्यात्। आकाशस्य तत्स्वाभाव्यकल्पने क्वचिदपि भेर्यभिधातात् सर्वभेरीषु शब्दोत्पत्तिप्रसङ्गः। तथाच कालस्यैव मार्त्तण्डक्रियोपनायकः। आत्मनश्च द्रव्यान्तरधर्मेषु द्रव्यान्तरावच्छेदाय स्वप्रत्यासत्त्यतिरिक्तसन्निकर्षापेक्षत्वात् अन्यथा वाराणसीस्थेन महारजनारुणिम्ना पाटलिपुत्रेऽपि स्फटिकमणेरारुण्यप्रसङ्गात्। कालस्य तु तत्‌स्वभावतयैव कल्पनादयमदोषः। कालेनापि रागसंक्रमः कथं नेति चेत् नियतक्रियोपनायकत्वेनैव तत्सिद्धेः। एवं स्थविरमवधिं कृत्वा यूनि अपरत्वोत्पत्तिर्निरूपणीया। युगपदिति। युगपज्जायन्ते युगपत्तिष्ठन्ति युगपत् कुर्वन्ति इत्यादिप्रत्ययानाञ्च एकस्मिन् काले एकस्यां सूर्यगतौ एकस्मिन् सूर्यगन्यवच्छिन्नकाले इत्यर्थः। नचाप्राप्ता एव सूर्यगतयो विशेषणतामनुजन्ति न च स्वरूपप्रत्यासन्ना एव ताः, तस्मादेतादृशविशिष्टप्रत्ययान्यथानुपपत्त्या विशेषणप्रापकं यद् द्रव्यं सकालः ।। 6 ।।
</2-2-6>

<2-2-7>
ननु सिध्यतु कालः, स तु नित्यो द्रव्यं बेति न प्रमाणमत आह-
द्रव्यत्वनित्यत्वे वायुना व्याख्याते ।। 7 ।।
यथा वायुपरमाणोर्गुणवत्त्वाद् द्रव्यत्वम् अद्रव्यत्वाच्च नित्यत्वं तथा कालस्यापीत्यर्थः ।। 7 ।।
</2-2-7>

<2-2-8>
तथापि सन्तु बहवः काला इत्यत आह--
तत्त्वम्भावेन ।। 8 ।
व्याख्यातमिति विपरिणतेनान्वयः। चिरादिप्रत्ययानां काललिङ्गानां सर्वत्रविशेषादनेकत्वेऽप्यात्मनामिव विशेषलिङ्गाभावात् सत्तावदेकत्वं कालस्येत्यर्थः। नन्बेवं क्षणलवमुहूर्त्तयामदिवसाहोरात्रपक्षमासर्त्वयनसंवत्सरादिभेदेन भूयांसः कालास्तत् कथमेक इति चेन्न भेदभानस्य उपाधिनिबन्धनत्वात्। यथा एक एव स्फटिकमणिर्जवातापिञ्जाद्युपाध्युपरागेण भिन्न इव भासते तथैक एव कालः सूर्यस्पन्दाद्यवच्छेदभेदेन तत्त्कार्याविच्छेदभेदेन च भिन्न इव भासते इत्यभ्युपगमात्। तथा च कालोपाध्यव्यापकः कालोपाधिः, स्वाधेयकादाचित्काभावाप्रतियोग्यनाधारः कालो वा क्षणः प्रतिक्षणं कस्यचिदुत्पत्तेः कस्यचिद्विनाशादेतदध्यवसेयम्। क्षणद्वयञ्च लव इत्याद्यागमप्रसिद्धम्। ननु तथाप्यतीतानागतवर्तमानभेदेन कालत्रयमस्तु श्रूयते हि "त्रैकाल्यासिद्धिः" इत्यादीति चेन्न। वस्तुतत्प्रागभावतत्प्रध्वंसावच्छेदेन त्रैकाल्यव्यवहारात् येन हि वस्तुना यः कालोऽवच्छिद्यते स तस्य वर्त्तमानः, यत्‌प्रागभावेन यः कालोऽवच्छिद्यते स तस्य भविष्यत्‌कालः यत्‌प्रागभावेन यत्प्रध्वंसेन यः कालोऽवच्छिद्यते स तस्यातीतकालः तथाचावच्छेदकत्रित्वाधीनः कालत्रित्वव्यवहारः ।। 8 ।।
</2-2-8>

<2-2-9>
इदानीं सर्वोत्पत्तिमतां कालः कारणमित्याह--
नित्येषु भावादनित्येषु भावात्कारणे कालाख्येति ।। 9 ।।
इतिशब्दो हेतौ इति हेतोः कारणे सर्वोत्पत्तिमत्‌कारणे काल इत्याख्या। हेतुमाह नित्येष्वभावादनित्येषु भावादिति। नित्येषु आकाशादिषु युगपज्जातः चिरं जातः क्षिप्रं जातः इदानीं जातः दिवा जातः रात्रौ जात इत्यादिप्रत्ययस्याभावात्, अनित्येषु च घटपटादिषु यौगपद्यादिप्रत्ययानां आवात् अन्वयव्यतिरेकाभ्यं कारणं काल इत्यर्थः। न केवलं यौगपद्यादिप्रत्ययबलात् कालस्य सर्वोत्पत्तिमन्निमित्तकारणत्वम् अपि तु पुष्पफलादीनां हैमन्तिकवासन्तिकप्रावृषेण्यादिसंज्ञाबलादप्येतदध्यवसेयम् ।। 9 ।।
</2-2-9>

<2-2-10>
काललिङ्गकरणं समाप्य इदानीं दिग्‌लिङ्गप्रकरणमारभमाण आह--
इत इदमिति यतस्तद्दिश्यं लिङ्गम् ।। 10 ।।
दिश इदं दिश्यं दिगनुमापकम्। इतोऽल्पतरसंयुक्तसंयोगाश्रयादिदं बहुतरसंयुक्तसंयोगाधिकरणं परम् इतश्च संयुक्तसंयोगभूयस्त्वाधिकरणादिदं संयुक्तसंयोगाल्पीयस्त्वाधिकरणमपरमिति नियतदिग्देशयोः समानकालयोः पिण्डयोर्यतो द्रव्याद्भवति सा दिगित्यर्थः। न हि तादृशं द्रव्यमन्तरेण भूयसां संयुक्तसंयोगानामल्पायसां वा पिण्डयोरुपनायकमन्यदस्ति न च तदुपनयमन्तरेण तत्तद्विशिष्टबुद्धिः न च तामन्तरेण परत्वापरत्वयोरुत्पत्तिः न च तदुत्पत्तिं विना तद्विशिष्टप्रत्ययव्यवहारौ। न च काल एव संयोगोपनायकोऽस्तु किं द्रव्यान्तरेणेति वाच्यम् कालस्य नियतक्रियोपनायकत्वेनैव सिद्धेः। अनियतपरधर्मोपनायकत्वकल्पनायान्तु काश्मीरकुंकुमपङ्करागं कार्णाटकामिनीकुचकलशं प्रत्युपनयेत्। आकाशान्मनोरपि तथा परधर्मोपसंक्रामकत्वे स एव प्रसङ्गः।
दिशस्तु नियतपरधर्मोपसंक्रामकतयैव सिद्धत्वान्नातिप्रसङ्गः। एवञ्च क्रियोपनायकात् कालात् संयोगोपनायिका दिक् पृथगेव। किञ्चास्मात् पूर्वमिदम् अस्मादुत्तरमिदम् अस्माद्दक्षिणपूर्वमिदम् अस्माद्दक्षिणपश्चिममिदम् अस्मात्पश्चिमोत्तरमिदम् अस्मादुत्तरपूर्वमिदम् अस्मादधस्तादिदम् अस्मादुपरिष्टादिदम् इत्येते प्रत्यया इत इदमितीत्यनेन सङगृहीताः एतेषां प्रत्ययानां निमित्तान्तरासम्भवात्। किञ्च नियतोपाध्युन्नायकः कालः अनियतोपाध्युन्नायिका दिक। भवति हि यदपेक्षया यो वर्त्तमानः स तदपेक्षया वर्तमान एव, दिगुपाधौ तु नैवं नियमः यं प्रति या प्राची तं प्रत्येव कदाचित्तस्याः प्रतीचीत्वात्। एवमुदीच्यादिष्वपि वाच्यम्। यदपेक्षया सूर्य्योदयाचलसन्निहिता या दिक सा तदपेक्षया प्रतीची। सन्निधानन्तु सूर्यसंयुक्ते संयोगाल्पोयस्त्वं ते च सूर्य्यसंयोगा अल्पीयांसो भूयांसो वा दिगुपनेयाः। एवं प्राच्यभिमुखपुरुषवामप्रदेशावच्छिन्नादिगुदीचो, तादृशपुरुषदक्षिणभागावच्छिन्ना दिक् दक्षिणा। वामत्वदक्षिणत्वे तु शरीरारवयववृत्तिजातिविशेषौ। गुरुत्वासमवायिकारणकक्रियाजन्यसंयोगाश्रयो दिक् अधः। अदृष्टवदात्मसंयोगजन्याग्निक्रियाजन्यसंयोगाश्रयो दिगूर्ध्वा। एवञ्चेन्द्राग्नियमनिर्ऋतवरुणवायुसोमेशाननागब्रह्माधिष्ठानोपलक्षिता दश दिश इति व्यपदेशान्तरं प्राच्यादिव्यपदेशात् ।। 10 ।।
</2-2-10>

<2-2-11>
दिशो द्रव्यत्वं नित्यत्वञ्च वायुपरमाणुवदित्याह--
द्रव्यत्वनित्यत्वे वायुना व्याख्याते ।। 11 ।।
गुणवतत्वाद् द्रव्यत्वम् अनाश्रितत्वाच्च नित्यत्वमित्यर्थः ।। 11 ।।
</2-2-11>

<2-2-12>
एकत्वमतिदिशन्नाह--
तत्त्वम्भावेन ।। 12 ।।
दिग्‌लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च सत्ताकदेकत्वं तदनुविधानादेकपृथक्त्वम् ।। 12 ।।
</2-2-12>

<2-2-13>
ननु यद्येकैव दिक् कथं तर्हि दश दिश इति प्रतीतिव्यवहारावित्यत आह--
कार्यविशेषेण नानात्वम् ।। 13 ।।
कार्य्यविशेषः कार्य्यभेदस्तेन नानात्वोपचार इत्यर्थः ।। 13 ।।
</2-2-13>

<2-2-14>
तमेव कार्यभेदं दर्शयन्नाह--
आदित्यसंयोगाद् भूतपूर्वाद्भविष्यतो भूताच्च प्राची ।। 14 ।।
प्राक् अस्यां सविता अञ्चतीति प्राची, तथाच यस्यां दिशि मेरुप्रदक्षिणक्रमेण भ्रमत आदित्यस्य प्रथमं संयोगो भूतपूर्वो भविष्यन् वा भवन् वा सा दिक प्राची। अत्र पुरुषाभिसन्धिभेदमाश्रित्य कालत्रयोपवर्णनम्, भवति हि कस्यचित्पूर्वेद्युः प्रातरस्यां दिशि आदित्यसेयोगः प्रथमं वृत्त इतीयं प्राचीति प्राचीव्यवहारः कस्य चिदपरेद्युरस्याम्, आदित्यसंयोगः प्रथमं भावीत्यभिसन्धाय प्राचीव्यवहारः, कस्यचिदिदानीम् अस्याम् आदित्यसंयोगो भवन्नस्तीत्यभिसन्धाय प्राचीव्यवहारः। भूतादिति आदिकर्मणि क्तप्रत्ययः तेनाभिसन्धेरनियमात् यदाप्यादित्यसंयोगो नास्ति रात्रौ मध्याह्नादौ तत्रापि प्राचीव्यवहारानुगमः सिद्‌ध्यतीति भावः ।। 14 ।।
</2-2-14>

<2-2-15>
दिगन्तरव्यवहारेऽपीममेव प्रकारमतिदिशन्नाह--
तथा दक्षिणा प्रतीची उदीची ।। 15 ।।
तद्वदेव दक्षिणदिग्वर्त्तिनगादिना सहादित्यसंयोगाद् भूतपूर्वाद्भविष्यतो भूताद्वा दक्षिणाव्यवहारः। एवं प्रतीच्युदीच्योरपि व्यवहार उन्नेयः। वामत्वदक्षिणत्वे निरुक्ते एव ।। 15 ।।
</2-2-15>

<2-2-16>
दिगन्तरालव्यवहारेऽपीममेव प्रकारमतिदिशन्नाह--
एतेन दिगन्तरालानि व्याख्यातानि ।। 16 ।।
प्राचीदक्षिणयोर्दिशोर्लक्षणसाङ्कर्येण दक्षिणपूर्वा दिगिति व्यवहारः। एवं दक्षिणपश्चिमा पश्चिमोत्तरा उत्तरपूर्वेत्यूह्यम्। एते चादित्यसंयोगा येन विभुना द्रब्येणोपनीयन्ते सा दिगिति कणादरहस्ये व्युत्पादितं विस्तरतः ।। 16 ।।
</2-2-16>

<2-2-17>
चतुर्णा भूतानां रूपादीनि लक्षणानि कारणगुणपूर्वकतया तात्त्विकानि अन्यथा त्वौपाधिकानीति व्यवस्थितं पूर्वमेव। विशेषगुणशूनय्विभुलिङ्गञ्चोक्तम्। इदानीमाकाशस्य लिङ्गं शब्दः परोक्षणीयः। सन्ति चात्र तान्त्रिकाणां विप्रतिपत्तयः। केचिच्छब्दं द्रव्यमाचक्षते, केचिद् गुणम्, गुणत्वे सत्यप्येके नित्यमाहुः अपरे त्वनित्यम्। अन्ये तु शब्देऽपि स्फोटाख्यं शब्दान्तरमाहुः। तदत्र परीक्षामारभमाणः परीक्षाप्रथमाङ्गं संशयमेव तावल्लक्षणतः कारणतश्च व्यवस्थापयन्नाह--
सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशयः ।। 17 ।।
सामान्यप्रत्यक्षादिति। सामान्यवतो धर्मिणः प्रत्यक्षात् ग्रहणात् मतुब्लोपात्। विशेषाप्रत्यक्षादिति। विशेषस्य परस्परव्यावर्त्तकस्य धर्मस्य वक्रकोटरादेः शिरःपाण्यादेश्चाप्रत्यक्षादग्रहणात्। विशेषस्मृतेः विशेषस्य कोटिद्वयस्य स्थाणुत्वपुरुषत्वलक्षणस्य स्मरणात्। स्मरणमपि ग्रहणपरं कचिदनुभूयमानधर्मयोरपिकोटित्वात्, चकाराददृष्टादेः संशयकारणस्य संग्रहः। असाधारणो धर्मोऽनाध्यवसायात्मकज्ञानजनक इति नोक्तः। यद्वा असाधारणस्यापि व्यावृत्तिद्वारा कारणत्वं सपक्षविपक्षव्यावृत्तिः साधारणधर्म एवेति नोक्तः। विप्रतिपत्तिरपि विरुद्धप्रतिपत्तिद्वयजन्यं वाक्यद्वयं शब्दो नित्य इत्यपरं तदुभयं, तदुभयजन्यञ्च ज्ञानद्वयमयुगपद्भावित्वात् सम्भूय न संशायकमतस्तत्र शब्दत्वादिरसाधारणः, सत्त्वप्रमेयत्वादिः साधारणो वाधर्मः सशायक इति पृथङ् नोक्ता।
समानतन्त्रे गौतमीयेऽनध्यवसायज्ञानस्यानभ्युपगमात् असाधारणो धर्मः संशयकारणत्वेनोक्तः। विप्रतिपत्तेर्विरुद्धवाक्यद्वयस्यान्वयव्यतिरेकशालितया संशयकारणत्वमुक्तम्। न्यायभाष्ये च उपलभ्यमानत्वं यत् संशयकारणमुक्तं सदप्युलभ्यते असदप्युपलभ्यते इति उपलभ्यमानमिदं सदसद्वेति, यच्चानुपलभ्यमानत्वं सदपि नोपलभ्यते मूलककीलकोदकादि, असदपि नोपलभ्यते गगनारविन्दादि, तथा च पञ्चविधः संशय इति। तदेतत्सामान्यमेवेति सामान्यप्रत्यक्षादित्यनेनैव गतार्थम्। न्यायवार्त्तिकेऽपि यत् कारणभेदेन संशये त्रित्वमुक्तं तदपि न सम्भवति व्यभचारेण समानधर्मादीनां त्रयाणां कारणत्वस्यैवासम्भवात्। न हि तृणारणिमणिजन्यवह्नौ वैजात्यवदत्रापि वैजात्यं कल्पनोयं संशयत्वावच्छिन्नकार्यं प्रति समानधर्मत्वेनैव कारणतायाः कल्पनात्। यच्च प्रधानविधिकोटित्वप्रधाननिषेधकोटित्वादि वैजात्यमुक्तम्, तदननुगतत्वान्नावच्छेदकम्। तथाच संशयो न त्रिविधो न वा पञ्चविधः किन्त्वेकविध एव, प्रकारान्तरेण तु द्वैविध्यं सूत्रकृदेव स्पष्टयति। ननु जिज्ञासाजनकज्ञानं संशय इति न लक्षणम् अनध्यवसायेऽपि गतत्वात्, संस्काराजनकज्ञानं संशय इत्यपि निर्विकल्पकसाधारणं विसिष्टज्ञानत्वेन संशयस्यापि संस्कारजनकत्वात्, संशयत्वञ्च जातिरपि न लक्षणं धर्म्यंसं संशयत्वाभावेन तदंशं तज्जात्यभावात् जातेश्चाव्याप्यवृत्तित्वानभ्युपगमात् इति चेत्, एकस्मिन् धर्मिणि विरोधिनानाप्रकारकं ज्ञानं संशय इति तल्लक्षणात् ।। 17 ।।
</2-2-17>

<2-2-18>
द्विविधः संशयो बहिर्विषयकोऽन्तर्विषयकश्च। बहिर्विषकोऽपि दृश्यमानधर्मिकोऽदृश्यमानधर्मिकश्च। तत्र दृश्यमानधर्मिको यथा ऊद्ध्वत्वविशिष्टस्य धर्मिणो दर्शनात् अयं स्थाणुः पुरुषो वेति। अदृश्यमानधर्मिको यथा अरण्ये झाटाद्यन्तरिते गोगवयादिपिण्डे विषाणमात्रदर्शनात् अयं गौर्गवयो वेति। वस्तुतस्तत्रापि विषाणधर्मिक एव सन्देहो विषाणमिदं गोसम्बन्धि गवयसम्बन्धि वेति। विवक्षामात्रात्तु द्वैविध्याभिधानम्। यत् सामान्यं संशयहेतुस्तदनेकत्र दृष्टं संशायकम् एकत्र धर्मिणि वा दृष्टं संशयहेतुरित्यत्र प्रथमां विधामाह--
दृष्टञ्च दृष्टवत् ।। 18 ।।
दृष्टमूर्द्धत्वं संशयहेतुः। दृष्टवदिति वतिप्रत्ययः तेन दृष्टाम्यां स्थाणुपुरुषाभ्यां तुल्यं वर्त्तते पुरोवर्त्तिनि यदूर्ध्वत्वं तद्‌दृष्टं संशयहेतुरित्यर्थः ।। 18 ।।
</2-2-18>

<2-2-19>
एकधर्भिविषयं यद् दृष्टं तदुदाहरति--
यथादृष्टमयथादृष्टत्वाच्च ।। 19 ।।
संशयहेतुरिति शेषः। चकारः पूर्वोक्तसमुच्चयार्थः। अयथादृष्टत्वाद्धेतोर्यथादृष्टमपि संशायकम् यथा--चैत्रो यथा दृष्टः केशवान्, कालान्तरे अयथादृष्टः केशविनाकृतो दृष्ट इत्यर्थः। क्रमेण तत्रैव चैत्रे वस्त्रावृतमस्तके दृष्टे सति भवति संशयश्चैत्रोऽयं सकेशो निष्केशो वेति। तत्र हि चैत्रत्वं समानो धर्मः संशायकः स चैकत्रैव दृष्टः संशयहेतुः ।। 19 ।।
</2-2-19>

<2-2-20>
विद्येति। आन्तरसंशयो हि विद्याऽविद्योभ्यां भवति यथा मौहूर्त्तिकः सम्यगादिशति चन्द्रोपरागादि, असभ्यगपि। तत्र स्वज्ञाने संशयोऽस्य जायते सम्यगादिष्टमसम्यग्वेति। यद्वा ज्ञानं हि क्विचिद्विद्या भवति क्वचिच्चाविद्या अप्रमा भवति, तथाच ज्ञायमानत्वात् सदिदमसद्वेति संशयो जायते। पुनः संशयग्रहणमिहापि सामान्यप्रत्यक्षादेव संशयो न तु निमित्तान्तरादिति सूचनार्थम्। तथा च "समानानेकधर्मोपपत्तेर्निप्रतिपत्तिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः" इति गौतमीये लक्षणे उपलब्ध्यनुपलब्ध्यव्यवस्थेत्यस्य पृथगेव संशयकारणत्वं कैश्चिदुक्तं तन्निरस्तम् ।। 20 ।।
</2-2-20>

<2-2-21>
एवं लक्षणतः स्वरूपतश्च परीक्षाप्रथमाङ्गं संशयं व्युत्पाद्य इदानीं परीक्षा विषयं शब्दं धर्मिणं दर्शयन्नाह--
श्रोत्रग्रहणो योऽर्थः स शब्दः ।। 21 ।।
श्रोत्रं ग्रहणं ग्रहकरणं यस्य स श्रोत्रग्रहणः, अर्थ इति धर्मीत्यर्थः। तथा च शब्दवृत्तिधर्मेषु श्रोत्रग्राह्येषु शब्दत्वतारत्वादिगुणत्व-सत्त्वादिषु नातिव्याप्तिः। अर्थपदेन धर्मिपरेण जातिधर्मित्वम् अभिप्रेतम् अतः स्फोटनामा शब्दसमवेतः शब्दो नास्तीति सूचितम्। नन्वेकं पदम् एकं वाक्यमिति प्रतीतिबलादवश्यं स्फोटोऽङ्गीकर्त्तव्यः, न हि बहुवर्णात्मके पदे बहुवर्णात्मके वा वाक्ये भवत्येकत्वप्रत्ययः। स्फोट इति चार्थस्फुटीकरणाधीना संज्ञा। वर्णानां प्रत्येकं तावदथेप्रत्ययाजनकत्वमेव, मिलनन्त्वेकवक्तृकाणामाशुतरविनाशिनाममम्भवीति स्फोटादेवार्थप्रत्ययः, तज्ज्ञानमन्तरेणार्थस्फुटीभावाभावात्। स च स्फोटो यद्यपि पदभावेनावस्थितेषु सर्वेष्वेव वर्णेषु तथापि चरमवर्णे स्फुटीभवति। मैवम्। सङ्केतधद्वर्णत्वं पदत्वं तथा च सङ्खेतबलादेव पदादर्थप्रतीतौ कि स्फोटेन। वर्णानाम्बहूनामप्येकार्थप्रतिपादकत्वमेकं धर्ममभिप्रेत्य एकं पदमिति भाक्तो व्यवहारः एवं वाक्येऽपि। यदि वर्णातिरिक्तः पदात्मा कश्चित् प्रत्यक्षतो गृह्येत स्वीक्रियेतापि स्फोटः सोऽयं स्फोटवादस्तुच्छत्वादुपेक्षितः सूत्रकृता ।। 21 ।।
</2-2-21>

<2-2-22>
तदेवं शब्दे धर्मिण्युपस्थिते गुणत्वे सत्येव तस्याकाशलिङ्गत्वम्। अतो गुणत्वव्यवस्थापनाय त्रिकोटिकं संशयमुपपादयन्नाह--
तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्य उभयथा दृष्टत्वात् ।। 22 ।।
शब्दे संशय इति शेषः। शब्दे शब्दत्वं श्रोत्रग्राह्यत्वं चोपलभ्यते, तच्च तुल्यजातीयेषु त्रयोविशतौ गुणेषु अर्थान्तरभूतेषु द्रव्येषु कर्मसु च विशेषस्य व्यावृत्तेः उभयथा उभयत्र दशनात् `शब्दः किं गुणो द्रव्यं कर्म वेति' संशये जनयति। सामान्यविशेषसमवायकोटिकत्वन्तु सत्त्वकारणवत्त्वादिवैधर्म्यदर्शनान्न भवति। ननु चासाधारणधमस्यानध्यवसायजनकत्वात् संशयजनकत्वं प्रतिषिद्धम् शब्दत्वं श्रोत्रग्राह्यत्वञ्चासाधारण एव धर्मः कथं संशयं जनयिष्यतीति चेत्सत्यम्। ब्यावृत्तिरस्य जातीयासजातीयसाधारणीति व्यावृत्तेः साधारणस्यैव धर्मस्य संशयजनकत्वेनोत्तत्वात्।
शब्दत्वप्रतियोगिको व्यावृत्तिः समानो धर्मः उभयगतव्यावृत्तिप्रतियोगित्वञ्च शब्दत्वमसाधारणो धर्मः। तदुक्तं विशेषस्योभयथा दर्शनादिति'। अत्र हि विशेषस्य व्यावृत्तेरुभयत्र सजातीये विजातीये च दर्शनस्य संशयहेतुत्वेनोपादानात् स च समान एव धर्म इति ।। 22 ।।
</2-2-22>

<2-2-23>
तदेवं संशयं दर्शयित्वा द्रव्यत्वकोटिव्युदासायाह--
एकद्रव्यत्वान्न द्रव्यम् ।। 23 ।।
एकं द्रव्यं समवायि यस्य तदेकद्रव्यं द्रव्यञ्च किमप्येकद्रव्यसमवायिकारणकं न भवतीति द्रव्यवैधर्म्यान्नायं शब्दो द्रव्यमित्यर्थः ।। 23 ।।
</2-2-23>

<2-2-24>
ननु कर्मैकद्रव्यमेव तथा च शब्दः कर्म स्यादित्यत आह--
नापि कर्माऽचाक्षुषत्वात् ।। 24 ।।
प्रत्ययस्य शब्दविषयकस्याचाक्षुषत्वात् चक्षुर्भिन्नबहिरिन्द्रियजन्यत्वादित्यर्थः। तथा च शब्दत्वं न कर्मवृत्ति चाक्षुषप्रत्यक्षावृत्तिजातित्वात् रसत्वादिवदिति भावः ।। 24 ।।
</2-2-24>

<2-2-25>
ननु शब्दः कर्म आशुतरविनाशित्वात् उत्क्षेपणादिवदिति चेदत्राह--
गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् ।। 25 ।।
अपवर्गः आशुनाशः स च गुणत्वेऽपि द्वित्वादिवदाशुभाविनाशकसन्निपाताधीन इति कर्मभिः साधर्म्यमात्रमस्य न तु कर्मत्वमेव। त्वदुक्तहेतोराशुतरविनाशित्वस्य द्वित्वज्ञानसुखदुःखादिभिरनैकान्तिकत्वमिति भावः ।। 25 ।।
</2-2-25>

<2-2-26>
ननु सिध्यतु शब्दो गुणस्तथापि नासावाकाशलिङ्गम्। आकाशं हि तदाऽनुमापयेत् यदि तस्य कार्यःस्यात्। किन्तु नित्य एवायं, कदाविदनुपलम्भस्तु व्यञ्जकाभावप्रयुक्त इत्याशङ्क्याह--
सतो लिङ्गाभावात् ।। 26 ।।
यदि हि उच्चारणात् प्रागूध्व शब्दः सन् स्यात् तदा सतोऽस्य लिङ्गं प्रमाणान्तरं स्यात्। न चाश्रवणदशायां शब्दसत्त्वे प्रमाणमस्ति, तस्मात् कार्य्य एवायं न व्यङ्ग्य इति ।। 26 ।
</2-226>

<2-2-27>
इतश्च न व्यङ्ग्योऽसावित्याह--
नित्यवैधर्म्यात् ।। 27 ।।
नित्येन सहास्य शब्दस्य वैधर्म्यमुपलभ्यते यतश्चैत्रो वक्तीत्यत्रावृतोऽपि चैत्रमैत्रादिर्वचनेनानुमीयते। न च व्यञ्जकः प्रतीपादिर्व्यङ्ग्येन घटादिना क्वचिदनुमीयते, तस्माज्जन्य एवायं न व्यङ्ग्य इति भावः ।। 27 ।।
</2-2-27>

<2-2-28>
व्यङ्ग्यत्वे बाधकमुक्त्वा सम्प्रत्यनित्यत्वे हेतुमाह--
अनित्यश्चायं कारणतः ।। 28 ।।
कारणत उत्पत्तेर्दृष्टत्वादिति शेषः। उपलभ्यते हि भेरीदण्डसंयोगादिभ्यः प्रादुर्भवन् शब्दः, तथा चोत्पत्तिमत्त्वादनित्योऽयमिति। यद्वा कारणत इति कारणवत्त्वहेतुमुपलक्षयति ।। 28 ।।
</2-2-28>

<2-2-29>
ननु च कारणवत्त्वं शब्दस्य स्वरूपासिद्धमत आह--
न चासिद्धं विकारात् ।। 29 ।।
शब्दस्य कारणवत्त्वमसिद्धमिति न वाच्यम् तीव्रमन्दादिभावेन विकारस्य दर्शनात् भेरीदण्डाभिघातस्य तीव्रतया तीव्रस्य मन्दतया मन्दस्य शब्दस्योपलम्भात्। नह्यभिव्यञ्जकतोव्रत्वाद्यधीनोऽभिव्यङ्ग्यतीव्रत्वादिः। तथाच कारणतो विकारादनुमीयते जन्योऽयं न त्वभिव्यङ्ग्य इति ।। 29 ।।
</2-2-29>

<2-2-30>
ननु व्यञ्जकस्यैवायं महिमा यत्तीव्रमन्दादिभावेनाभिव्यनक्ति भेरीदण्डाद्यभिहतो वायुरेव तीव्री मन्दश्च तथा प्रत्ययमाधत्ते अत आह--
अभिव्यक्तौ दोषात् ।। 30 ।।
शब्दस्याभिव्यक्तौ समानदेशानां समानेन्द्रियग्राह्याणां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वं दोषः स्यात्। न च तादृशानां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वं क्वचिद् दृष्टम्। अत्र यदि तथा न स्वीक्रियेत तदा ककाराभिव्यक्तौ सर्ववर्णाभिव्यक्तिप्रसङ्गः। ननु समानदेशानामपि सत्त्वनरत्वब्राह्मणत्वानां स्वरूपभेदःसंस्थानयोनिव्यङ्ग्यानां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वं दृष्टमेवेति चेन्न तेषां समानदेशत्वाभावात्। न हि यावान् देशः सत्त्वस्य तावानेव नरत्वस्य ब्राह्मणत्वस्य वा ।। 30 ।।
</2-2-30>

<2-2-31>
इतश्च नाभिव्यह्ग्यतेत्याह--
संयोगाद्विभागाच्च शब्दाच्च शब्दनिष्पत्तिः ।। 31 ।।
संयोगात् भेरीदण्डादिसंयोगात्, विभागात् वंशे पाट्यमाने। तत्र संयोगस्तावन्नाद्यस्य शब्दस्य कारणं तदभावात् तस्मात् वंशदलद्वयविभागो निमित्तकारणं दलाकाशविबागश्चासमवायिकारणम्। यत्र च दूरे वीणादावुत्पन्नः शब्दः तत्र सन्तानक्रमेण उत्पद्यमानः शब्दः कर्णशष्कुल्यवच्छिन्नमाकाशदेशमासादयन् गृह्यते तेन शब्दादपि शब्दनिष्पत्तिरिति ।। 31 ।।
</2-2-31>

<2-2-32>
अनित्यत्वे हेत्वन्तरं समुच्चिनोति--
लिङ्गाच्चानित्यः शब्दः ।। 32 ।।
वर्णात्मकः शब्दोऽनित्यः जातिमत्त्वे सति श्रोत्रग्राह्यत्वात् वीणादिध्वनिबदित्यर्थः ।। 32 ।।
</2-2-32>

<2-2-33>
इदानीं नित्यत्वे सिद्धान्तिनोक्तान् हेतून दूषयितुमाह--
द्वयोस्तु प्रवृत्त्योरभावात् ।। 33 ।।
तुशब्दः पूर्वोक्तव्यवच्छेदकः पूर्वपक्षाभिव्यक्त्यथः। द्वयोराचार्य्यान्तेवासिनोरध्यापनेऽध्ययने च प्रवृत्तिर्दृश्यते तस्या अभावात् अभावप्रसङ्गात्। अध्यापनं हि सम्प्रदानं सम्प्रदीयते गुरुणा सिष्याय वेदः स यदि स्थिरो भवति तदा तस्य सम्प्रदानं सम्भवति। ननु सम्प्रदीयमानं गवादि दातृप्रतिग्रहीत्रोरन्तराल उपलभ्यते, न च वेदादि गुरुशिष्ययोरन्तराले उपलभ्यत इति नाध्यापनं सम्प्रदानमिति चेत् अन्तरालेऽपि तत्रस्थपुरुषश्रोत्रेण तदुपलम्भात्। किञ्चाभ्यासादपि शब्दस्ये नित्यता, यथा पञ्चकृत्वो रूप पश्यतीति स्थिरस्य रूपस्याभ्यासो दृष्टः तथा दशकृत्वोऽधोतोऽनुवाकः विशतिकृत्वोऽधीत इत्यभ्यासः स्थैर्य्ये शब्दस्य प्रमाणम्। सिद्धे च स्थैर्य्ये पिनाशकानुपलब्धेः "तावत् कालं स्थिरञ्चैनं कः पश्चान्नाशयिष्यति" इति नित्यतैव पर्य्यवसन्नेति भावः ।। 33 ।।
</2-2-33>

<2-2-34>
हेत्वन्तरं शब्दस्य नित्यत्वे आह--
प्रथमाशब्दात् ।। 34 ।।
`त्रिः प्रथमामन्वाह त्रिरुत्तमाम्' इति प्रथमोत्तमयोः सामिधेन्योस्त्रिरुच्चारणं स्थैर्य्यं विनाऽनुपपन्नमित्यर्थः ।। 34 ।।
</2-2-34>

<2-2-35>
शब्दनित्यत्वे हेत्वन्तरमाह--
सम्प्रतिपत्तिभावाच्च ।। 35 ।।
सम्प्रतिपत्तिः प्रत्यबिज्ञा तद्भावात् तत्सद्भावादित्यर्थः। प्रतिपत्तिशब्दादेव तद्विशेषस्य प्रत्यभिज्ञाया लाभात् सम्पूर्वः सत्यत्वमाह। तथाच यैव गाथा मैत्रेणोच्चारिता तामेवायमुच्चरति तमेव श्लोकं पुनः पुनः पठति उक्तमेव वचनं पुनः पुनरभिधत्से यदेव वाक्यं परारि परुच्च त्वयोक्तं तदेवेदानीमपि ब्रूषे स एवायं गकार इत्यादिप्रत्यभिज्ञाबलात् स्थैर्य्यं शब्दस्येति ।। 35 ।।
</2-2-35>

<2-2-36>
सर्वानिमान् हेतून् दूषयन्नाह--
सन्दिग्धाः सति बहुत्वे ।। 36 ।।
सन्दिग्धा अनैकान्तिका इत्यर्थः। तदुक्तं--"विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोऽब्रवीत्"इति। तथा च बहुत्वे नानात्वेऽपि अध्ययनमभ्यसनं प्रत्यभिज्ञानञ्च दृष्टमित्यनैकान्तिकत्वं हेतूनाम्। तथाहि नृत्यमधीते नृत्यमभ्यस्यति द्विरनृत्यत् यदेव नृत्यं परुदकार्षोरैषणोऽपि तदेव करोषि यदेव नृत्यमेकेन चारणेन कृतं तदेवायमपि करोतीति नृत्ये दृष्टत्वात्, तस्य च कर्मविशेषस्य त्वयाऽपि स्थैर्य्यानभ्युपगमात् ।। 36 ।।
</2-2-36>

<2-2-37>
ननु पञ्चादशद्वर्णा अष्टाक्षरो मन्त्रः त्र्यक्षरो मन्त्रः अष्टाक्षराऽनुष्टुबित्यादिसङ्ख्या कथं? वर्णानामनित्यत्वे उच्चारणभेदेनानन्त्यसम्भवादित्यत आह--
संख्याभावः सामान्यतः ।। 37 ।।
सङ्ख्यायाः पञ्चाशदादिसङ्ख्याया भावः सद्भावः सामान्यतः कत्वगत्वादिजातित इत्यर्थः। ककारादीनामानन्त्येऽपि कत्वगत्वाद्यवच्छिन्नानां पञ्चाशत्त्वं त्रित्वमष्टत्वं वा द्रव्यगुणादीनामान्तर्गणिकभेदेनानन्त्येपि नवत्वचतुर्विशतित्वादिवदिति भावः।
ननु स एवायं गकार इति प्रत्यभिज्ञैव स्थैर्य्यसाधिका, न चैषा तीव्रो गकारो मन्दो गकार इति प्रतीत्या विरुद्धधर्म गोचरयन्त्या बाध्यते तीव्रत्वादेस्तत्रौपाधिकत्वात्। न चोपाधिभेदादपि भेदो माभूत् तर्हि जवातापिञ्जादिसंयोगान्नीलपीतादिभावेन प्रथमानः स्फटिकमणिरपि नाना, कृपाणमणिदर्पणेषु दीर्घादिभावेन भासमानं मुखमपि वा नाना न बासेत। ननु कस्यायं तीव्रताधर्मोगकारोपाधिक इति चेन्न वायुधर्मो नादधर्मो ध्वनिधर्मो वा भविष्यति कि तत्र विशेचिन्तया। त्वयापि तारत्वादेः कत्वगत्वादिना परापरभावानुपपत्त्या स्वाभाविकत्वाभ्युपगमादिति चेत्।
मैवम्। उत्पन्नो गकारः, नष्टो गकारः श्रुतपूर्वो गकारो नास्ति, निवृत्तः कोलाहल इत्यादिविरोधिप्रतीतौ सत्यामपि चेत् इयं प्रत्यभिज्ञा न निवर्त्तते तदास्या जातिविषयताकल्पनात्। अन्यथा व्यक्तिस्थैर्य्यमालग्बमानायामस्यां सत्यामुक्तविरोधिप्रत्यया एव नोत्पद्येरन्। न चायं वायुधर्मस्तद्धर्भाणां श्रोत्राविषयत्वात्। नापि नादधर्मः, नादो यदि वायुरेव तदा दोषस्योक्तत्वात् अन्यस्य निर्वक्तुमशक्यत्वात्। नापि ध्वनिदधर्मः, शङ्खादिध्वनावनुपलभ्यमानेऽपि गकारे तारत्वादिप्रतीतेः। स्वाभाविकत्वे तु न जातिसाङ्कर्य्यं गत्वादिव्याप्यस्य तस्य नानात्वाभ्युपगमात्। किञ्च शुकसारिकामनुष्यप्रभवेषु गकारादिषु स्फुटतरा रूपभेदप्रथाऽस्थि एवं स्त्रीपुंसप्रभवेषु स्त्रीपुंसभेदप्रभवेषु च, यतः काण्डपटाद्यावृता अपि शुकादयोऽनुमीयन्ते। औपाधिकत्वन्त्वस्य नानुभूयमानोपाधिनिबन्धनं कुङ्कमारुणा नरुणीतिवत्। नाप्यौपपत्तिकमौपाधिकत्वम् उपपत्तेस्तादृशप्रमाणस्याभावादिति संक्षेपः ।। 37 ।।
</2-2-37>
इति वैशेषिकसूत्रोपस्कारे शाङ्करे द्वितीयाध्यायस्य द्वितीयमाह्निकम्।
समाप्तश्चायं द्वितीयोऽध्यायः।