वैशेषिकसूत्रोपस्कारः/प्रथमोऽध्यायः

विकिस्रोतः तः
वैशेषिकसूत्रोपस्कारः
प्रथमोऽध्यायः
[[लेखकः :|]]
द्वितीयोऽध्यायः →

प्रथमाध्याये प्रथमाह्निकम्[सम्पाद्यताम्]

<1-1-1>
<1-1-2>
<1-1-3>
ऊद्‌र्ध्वबद्धजटाजूटक्रोड़क्रोड़त्सुरापगम्।
नमामि यामिनीकान्तकान्तभालस्थलं हरम् ।। 1 ।।
याभ्यां वैशेषिके तन्त्रे सम्यग् व्युत्पादितोऽस्म्यहम्।
कणादभवनाथाभ्यां ताभ्यां मम नमः सदा ।। 2 ।।
सूत्रमात्रावलम्बेन निरालम्बेऽपि गच्छतः।
खे खेलवन्ममाप्यत्र साहसं सिद्धिमेष्यति ।। 3 ।।
तापत्रयपराहता विवेकिनस्तापत्रयनिवृत्तिनिदानमनुसन्दधाना नानाश्रुतिस्मृतीतिहासपुराणेष्वात्मतत्त्वसाक्षात्कारमेव तदुपायमाकलयाम्बभूवुः। तत्प्राप्तिहेतुमपि पन्थानं जिज्ञासमानाः परमकारुणिकं कणादं मुनिमुपसेदुरथ कणादो मुनिस्तत्त्वज्ञानवैराग्यैश्वर्यसम्पन्नः षण्णां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानमेवात्मतत्त्वसाक्षात्कारप्राप्तये परमः पन्था इति मनसि कृत्वा तच्च निवृत्तिलक्षणाद्धर्मादेतेषमनायासेन सेत्स्यतीति लक्षणतः स्वरूपतश्च धर्ममेव प्रथममुपदिशाम्यनन्तरं ष़डपि पदार्थानुद्देशलक्षणपरूक्षाभिरुपदेक्ष्यामीति हृदि निधाय तेषामवधानाय प्रतिजानीते--

अथातो धर्मं व्याख्यास्यामः ।। 1 ।।
अथेति शिष्याकाङ्क्षानन्तर्यमाह। अत इति। यतः श्रवणादिपटवोऽनसूयकाश्चान्तेवासिन उपसेदुरित्यर्थः। यद्वा अथशब्दो मङ्गलार्थः। तदुक्तम्--
"ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा।
कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ" ।।इति।।
युक्तञ्चैतत्। कथमन्यथा सदाचारपरम्परापरिप्राप्तकर्तव्यताकस्य मङ्गलस्य वैशेषिकशास्त्रं प्रणयतो महामुनेरनाचरणं सम्भाव्यते। न च कृतमङ्गलस्यापि फलादर्शनादकृतमङ्गलस्यापि फलदर्शनादननुष्ठानं न हि निष्फले प्रेक्षावान् प्रवर्तत इति वाच्यम् अकरणस्थले जन्मान्तरीयस्य करणस्थले चाङ्गवैगुण्यस्य कल्पनया सफलत्वनिश्चयात्। न हि शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकस्यापाततः फलादर्शनमात्रेणाकारणत्वशङ्कापि। न चैहिकमात्रफलकत्वान्न जन्मान्तरीयानुमानं पुत्रेष्टिवदैहिकफलकत्वानुपपत्तेः। कारीर्यादौ तु तथा कामनयैवानुष्ठानादैहिकमात्रफलकत्वम्। अत्र च समाप्तिकामोऽधिकारी स्वर्गकाम इव यागे तत्रापूर्वं द्वारमिह तु विघ्नध्वंस इति विशेषः निर्विघ्नमारब्धं समाप्यतामिति कामनया प्रवृत्तेः। न च विघ्नध्वंसमात्रं फलं समाप्तिस्तु स्वकारणादेवेति वाच्यम्, तस्य स्वतोऽपुरुषर्थत्वात् समाप्तेस्तु सुखसाधनतया पुरुषार्थत्वात् उपस्थितत्वाच्च। किञ्च दुरितध्वंसमात्रं न फलं तस्य प्रायश्चित्तकीर्त नकर्म्मनाशापारगमनादिसाध्यतया व्यभिचारात्। प्रारब्धपरिसमाप्तिप्रतिबन्धकदुरितध्वंसत्वेन फलत्वे समाप्तेरेव फलत्वोचितत्वात्। तत्रापि च हरण्यदानप्रयागस्नानादिजन्यत्वेन व्यभिचारात् तेषापि मङ्गलत्वाभिधानं साहसम्। किञ्च मङ्गले सति समाप्तेरावश्यकत्वमित्येवं मङ्गलस्य कारणता। तदुक्तम् "श्रौतात् साङ्गात् कर्म्मणः फलावश्यम्भावनियमात्" इति। अत एव विकल्पितमपि कारणं कारणमेव फलानन्तर्य्यनियमस्यवे वैदिककारणत्वात्। विकल्पे तु वैजात्यकल्पनं वैजात्यमेव यत्रान्वयव्यतिरेकगम्या कारणता तत्र फलपूर्वभावनियमो ग्राह्यो न तु वेदेऽपि तत्र व्यतिरेकभागस्य गुरुत्वेनानुपस्थितेः तथा च साङ्गे मङ्गले समाप्तिरावश्यकीति न व्यभिचारः।
समाप्तिस्तु यस्मिन् अनुष्ठिते सम्पूर्णमिदं कर्म्मेति प्रमा सा च ग्रन्थादौ चरमवाक्यलिखने यागादौ चरमाहुतौ पटादावन्त्यतन्तुसंयोगे ग्रामगमनादौ ग्रामचरणचरमसंयोगे एवं तत्र तत्रोहनीयमिति। मङ्गलजन्यसमाप्तौ वैजात्यकल्पनेऽपि नोभयथा व्यभिचारः। मंगलञ्च विघ्नध्वंसद्वारकसमप्तिफलकं कर्म्म तच्च देवतानमस्कारादिरूपमेव स्वतःसिद्धविघ्नाभावस्थलेऽपि सामान्यतो गृहीतस्य विघ्नध्वंसद्वारकत्वस्यानपायात् नमस्कारादीनां ताद्रूप्येणैव विघ्नध्वंस द्वारकत्वप्रतिपत्तेर्नाव्याप्तिरिति दिक् ।। 1 ।।

अथ प्रतिज्ञातार्थमाह--
यतोऽभ्युदयनिश्रेःयससिद्धिः स धर्म्मः ।। 2 ।।
अभ्युदयस्तत्त्वज्ञानं निःश्रेयसमात्यन्तिकी दुःखनिवृत्तिः तदुभयं यतः स धर्म्मः। अभ्युदयद्वारकं निःश्रेयसमिति मध्यमपदलोपी समासः, पञ्चमीतत्पुरुषो वा। स च धर्म्मो निवृत्तिलक्षणो वक्ष्यते। यदि तु निदिध्यासनादियोगसाध्यो धर्म्मोऽदृष्टमेव तदा विधिरूपः।
वृत्तिकृतस्तु अब्यदयः सुखं निःश्रेयसमे ककालीनसकलात्मविशेषगुणध्वंसः। प्रमाणञ्च धर्म्मे देवदत्तशरीरादिकं भोक्तृविशेषगुणप्रेरितभूतपूर्वकं कार्यत्वे सति तद्भोगसाधनत्वात्तन्निर्म्मितस्रग्वदित्याहुः।
तदेतद्‌व्याख्यानं प्रत्येकसमुदायाभ्यां न व्यापकम् इत्यर्वा चीनैरुपेक्षितम्।
वस्तुतस्तु को धर्म्मः किंलक्षणश्चेति सामान्यतः शिष्यजिज्ञासायां यतोऽभ्युदयनिःश्रेयससिद्धिरित्युपतिष्ठते तथा च यतोऽभ्युदयसिद्धिर्यतश्च निःश्रेयससिद्धिस्तदुभयं धर्म्मः। एवं पुरुषार्थासाधारणकारणं धर्म्म इति वक्तव्ये परभपुरुषार्थयोः सुखदुःखाभावयोर्विशेषतः परिचयार्थमभ्युदयनिःश्रेयससिद्धिरित्युक्तं स्वर्गापवर्गयोरेवान्येच्छानधीनेच्छावियत्वेन परमपुरुषार्थत्वात्। साधयिष्यते च दुःखाभावस्यापि पुरुषार्थत्वम् ।। 2 ।।
ननु निवृत्तिलक्षणो धर्म्मस्तत्त्वज्ञानद्वारा निःश्रेयसहेतुरित्यत्र श्रुतिः प्रमाणम्। श्रुतेरेव प्रामाण्ये वयं विप्रतिपद्यामहे अनृतव्याघातपुनरुक्तदोषेभ्यः। पुत्रेष्टौ कृतायामपि पुत्रानुत्पादादनृतत्वम् "उदिते जुहोति अनुदिते जुहोति समयाध्युषिते जुहोति" इति विधेः प्राप्त एवोदितादिकाले होमो व्याहन्यते "श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोति शवलोऽस्याहुतिमभ्यवहरति योऽनुदिते जुहोति श्यावशवलावस्याहुतिमभ्यवहरतो यः समयाध्युषिते जुहोति" इत्यादिना। तथा "त्रिः प्रथमामन्वाह त्रिरुत्तमामन्वाह" इत्यनेन प्रथमोत्तमसामिधेन्योस्त्रिरुच्चारणाभिधानात् पौनरुक्त्यमेव। न चाम्नायप्रतिपादकं किञ्चिदस्ति नित्यत्वे विप्रतिपत्तौ नित्यनिर्दोषत्वमपि सन्दिग्धम् पौरुषेयत्वे तु भ्रमप्रमादविप्रतिपत्तिकरणापाटवादिसम्भावनया आप्तोक्तत्वमपि सन्दिग्धमेवेति न निःश्रेयसं न वा तत्र तत्त्वज्ञानं द्वारं न वा धर्म्म इति सर्वमेतदाकुलमत आह--
तद्वचनादाम्नायस्य प्रामाण्यम् ।। 3 ।।
तदित्यनुपक्रान्तमपि प्रसिद्धिसिद्धतयेश्वरं परामृशति, यथा "तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः" इति गौतमीयसूत्रे तच्छब्देनानुपक्रान्तोऽपि वेदः परामृश्यते। तथा च तद्वचनात्तेनेश्वरेण प्रणयनादाम्नायस्य वेदस्य प्रामाण्यम्। यद्वा तदिति सन्निहितं धर्ममेव परामृशति तथाच धर्मस्य वचनात् प्रतिपादनात् आम्नायस्य वेदस्य प्रामाण्यम्, यद्धि वाक्यं प्रामाणिकमर्थं प्रतिपादयति तत्प्रमाणमेव यत इत्यर्थः। ईश्वरस्तदाप्तत्वञ्च साधयिष्यते। यच्चोक्तम्‌--"अनृतव्याघातपुनरुक्तदोषेभ्यः" इति तत्रानृतत्वे जन्मान्तरीयफलकल्पनम्, कर्मकर्तृसाधनवैगुण्यकल्पनं वा, श्रौतात् साङ्गात् कर्मणः फलावश्यम्भावनिश्चयात्। न च कारीरीवदैहिकमात्रफलकत्वम् तत्र हि शुष्यच्छस्यसञ्जीवनकामस्याधिकारः पुत्रेष्टौ पुत्रमात्रकामस्येति विशेषात्। न च व्याघातोऽपि उदितादिहोमं विशेषतः प्रतिज्ञाय तदन्यकाले होमानुष्ठान् "श्यावोऽस्याहुतिमभ्यवहरति" इत्यादिनिन्दाप्रतिपादनात्। नच पुनरुक्ततादोषोऽपि एकादशसामिधेनीनां प्रकृतौ पाठात् "पञ्चदशावरेण वाग्वज्रेणावबाधे तमिमं भ्रातृव्यम्" इत्यत्र सामिधेनीनां पञ्चदशत्वस्य प्रथमोत्तमसामिधेन्योस्त्रिरभिधानमन्तरेणानुपपत्तेस्तथाबिधानात् ।। 3 ।।
</1-1-3>
</1-1-2>
</1-1-1>

<1-1-4>
शिष्याकाङ्क्षानुरोधेन स्वरूपतो लक्षणतश्च धर्मं व्याख्यायाभिधेयसम्बन्धप्रतिपादनाय सूत्रम्--
धर्म्मविशेषप्रसूताद् द्रव्यगुणकर्म्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसम् ।। 4 ।।
एतादृशं तत्त्वज्ञानं वैशेषिकशास्त्राधीनमिति तस्यापि निःश्रेयसहेतुत्वं दण्डापूपायितम्। तत्त्वं ज्ञायतेऽनेनेति करणव्युत्पत्त्या शास्त्रपरत्वे धर्मविशेषप्रसूतादित्यनेनानन्वयापत्तेः। सर्वपदार्थप्रधानो द्वन्द्वश्चात्र समासः सर्वपदार्थतत्त्वज्ञानस्य निःश्रयसहेतुत्वात्। तदत्र शास्त्रनिःश्रेयसयोर्हेतुहेतुमद्भावः, शास्त्रतत्त्वज्ञानयोर्व्यापारव्यापारिभावः, निश्रेयसतत्त्वज्ञानयोः कार्यकारणभावः, द्रव्यादिपदार्थशास्त्रयोः प्रतिपाद्यप्रतिपादकभावः सम्बन्धोऽवगम्यते। एतेषाञ्चसम्बन्धानां ज्ञानान्निःश्रेयसार्थिनामिह शास्त्रे प्रवृत्तिः मोक्षमाणाश्च मुनेर्गृहीताप्तभावा एव शास्त्रे प्रवर्त्तन्ते। निःश्रेयसमात्यन्तिकी दुःखनिवृत्तिः। दुःखनिवृत्तेश्चात्यन्तिकत्वं समानाधिकरणदुःखप्रागभावासमानकालोनत्वं युगपदुत्पन्नसमानाधिकरणसर्वात्मविशेषगुणध्वंससमानकालीनत्वं वा। अशेषविशेषगुणध्वंसावधिकदुःखप्रागभावो वा मुक्तिः। न चासाध्यत्वान्नायं पुरुषार्थः कारणविघटनमुखेन प्रागभावस्यापि साध्यत्वात्। न च तस्य प्रागभावत्वक्षतिः प्रतियोगिजनकाभावत्वेन तथात्वात्। जनकत्वञ्च स्वरूपयोग्यता मात्रम्, नहि प्रागभावश्चरमसामग्रो येन तस्मिन् सति कार्य्यमवश्यम्भवेत् तथा सति कार्यस्याप्यनादित्वप्रसङ्गात्। तथा च यथा सहकारिविरहादियन्तं कालं नाजीजनत् तथाग्रेऽपि तद्विरहान्न जनयिष्यति, देतूच्छेदे पुरुषव्यापारात्' इत्यस्यापि प्रागभावपरिपालन एव तात्पर्यात्। अत एव गौतमीयद्वितीयसूत्रे "दुःख जन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः इत्यत्र कारणाभावात् कार्य्याभावाभिधानं दुःखप्रागभावरूपामेव मुक्तिं द्रढयति। नहि दोषापाये प्रवृत्त्यपायः, प्रवृत्त्यपाये जन्मापायः, जन्मापाये दुःखापाय इत्यपायो ध्वंसः, किन्त्वनुत्पत्तिः। सा प्रागभाव एव। नच प्रतियोग्यप्रसिद्धिः सामान्यतो दुःखत्वेनैव प्रतियोगिप्रसिद्धेः प्रायश्चित्तवत्, तत्रापि प्रत्यवायध्वंसद्वारा दुःखानुत्पत्तेरेवापेक्षितत्वात् लोकेऽप्यहिकण्डकादिनिवृत्तेर्दुःखानुत्पत्तिफलकत्वदर्शनात् दुःखसाधननिवृत्त्यर्थमेव प्रेक्षावतां प्रवृत्तिः।
केचित्त दुःखात्यन्ताभाव एव मुक्तिः। स च यद्यपि नात्मनिष्ठस्तथापि लोष्टादिनिष्ठ एवात्मनि साध्यते। सिद्धिश्च तस्य दुःखप्रागभावासहवर्तिदुःखध्वंस एव तस्य तत्सम्बन्धतयोपगमात्, तस्मिन् सति तत्र दुःखात्यन्ताभावप्रतीतेः। एवञ्च सति "दुःखेनात्यन्तं विमुक्तश्चरति" इत्यादिश्रुतिरप्युपपादिता भवतोत्याहुः।
तन्न दुःखत्यन्ताभावस्यासाध्यत्वेनापुरुषार्थत्वात्। दुःखध्वंसस्य च न तत्र सम्बन्धत्वं परिभाषापत्तेः "दुःखेनात्यन्तं विमुक्तश्चरति" इति श्रुतेर्दुःखप्रागभावस्यैव कारणविघटनमुखेनात्यन्ताभावसमानरूपत्वतात्पर्यकत्वात्। नन्वयं न पुरुषार्थः निरुपाधीच्छाविषयत्वाभावात् दुःखकाले सुखं तावन्नोत्पद्यते इति सुखार्थिनामेव दुःखाभावार्थं प्रवृत्तेरिति चेन्न वैपरीत्यस्यापि सुवचत्वात् सुखेच्छापि दुःखाभावौपाधिकीत्येव किं न स्यात्, शोकाकुलानां सुखविमुखानामपि दुःखाभावमात्रमभिसन्धाय विषभक्षणोद्बन्धनादौ प्रवृत्तिदर्शनात्। ननु पुरुषार्थोऽप्ययं ज्ञायमान एव मुक्तेस्तु दुःखाभावस्य ज्ञायमानतैव नास्ति अन्यथा मूर्च्छाद्यवस्थार्थमपि प्रवर्त्तेति चेन्न श्रुत्यनुमानाभ्यां ज्ञायमानस्यावेद्यत्वानुपपत्तेः। अस्ति हि श्रुतिः "दुःखेनात्यन्तं विमुक्तश्चरति" "तमेव विदित्वाऽतिमृत्युमेति" इत्यादिका। अनुमानमप्यस्ति-दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात् प्रदोपसन्ततिवदित्यादि। चरमदुःखध्वंसस्य दुःखसाक्षात्कारेण क्षणं विषयोकरणात् प्रत्यक्षवेद्यताऽपि। योगिनां योगजधर्मबलेनागामिनो दुःखध्वंसस्य प्रत्यक्षोपगमाच्च। तथापि तुल्यायव्ययतया नायं पुरुषार्थां दुःखवत् सुखस्यापि हानेः द्वयोरपि समानसामग्रीकत्वादिति चेत् उत्सर्गतो वोतरागाणां दुःखदुर्दिनभीरूणां सुखखद्योतिकामात्रेऽलम्प्रत्ययवतां तत्र प्रवृत्तेः। ननु तथापि दुःखनिवृत्तिर्न पुरुषार्थः अनागतदुःखनिवृत्तेरशक्यत्वात् अतोतदुःखस्यातीतत्वात् वर्त्तमानदुःखस्य पुरुषप्रयत्नमन्तरेणैव निवृत्तेरिति चेन्न हेतूच्छेदे पुरुषव्यापारात् प्रायश्चित्तवत्। तथाहि सवासनं मिथ्याज्ञानं संसारहेतुस्तदुच्छेदश्चात्मतत्त्वज्ञानात् तत्त्वज्ञानात् तत्त्वज्ञानञ्च योगविधिसाध्यमिति तदर्थं प्रवृत्त्युपपत्तेः।
ननु नित्यसुखाभिव्यक्तिरेव मुक्तिर्नतु दुःखाभाव इति चेन्न नित्यसुखे प्रमाणाभावात्, भावे वा नित्यं तदभिव्यक्तेर्मुक्तसंसारिणोरविशेषापातात् अबिव्यक्तेरुत्पाद्यत्वेन तन्निवृत्तौ पुनः संसारापत्तेश्च।
ब्रह्मात्मनि जोवात्मलयो मुक्तिरिति चेन्न लयो यद्येकोभावस्तदा बाधात् नहि द्वयमेकं भवति। लिङ्गशरीरापगमो लयो लिङ्गञ्चैकादशेन्द्रियाणि तेषां शरोरस्य च विगमो लय इति चेन्न एतावता दुःखसामग्रीविरहस्योक्तत्वात् तथाच दुःखाभाव एव मुक्तिरिति पर्यवसानात्।
एतेनाविद्यानिवृत्तौ केवलात्मस्थितिर्मुक्तिः आत्मा च विज्ञानसुखात्मक इत्येकदण्डिमतमपास्तम्। आत्मनो ज्ञानत्वे सुखत्वे च प्रमाणाभावात्। न च "नित्यं विज्ञानमानन्दं ब्रह्म" इति श्रुतिर्मानम् तस्या ज्ञानवत्त्वानन्दवत्त्वप्रतिपादकत्वात् भवति हि अहं जाने अहं सुखीतिप्रतीतिः नत्वहं ज्ञानम् अहं सुखमिति। किञ्च ब्रह्मण इदानोमपि सत्त्वात् मुक्तसंसारिणोरविशेषापत्तिः अविद्यानिवृत्तेश्चापुरुषार्थत्वात् ब्रह्मणश्च नित्यत्वेनासाध्यत्वात्, तत्साक्षात्कारस्य तदात्मकत्वेनासाध्यत्वात्, एवमानन्दस्यापि तदात्मकत्वेनासाध्यत्वमेवेति तदर्थं प्रवृत्त्यनुपपत्तिरेव।
निरुपप्लवा चित्सम्ततिर्मुक्तिरिति चेन्न। दुःखादिरूपस्य उपप्लवस्य विगमो यदिः निरुपल्पवत्वम् तदा तन्मात्रस्यैव पुरुषार्थत्वेन चित्सन्ततेरनुवृत्तौ प्रमाणाभावः तदनुवृत्तेरपि शरीरानुवृत्तेरावश्यकत्वादिति सिद्धं दुःखनिवृत्तिरेवोक्तरूपा निःश्रेयसमिति।
तत्त्वस्य ज्ञानमिति कर्मणि षष्ठी। साधर्म्यवैधर्म्याभ्यामिति प्रकारे तृतीया। तत्र साधर्म्यमनुगतो धर्मः, वैधर्म्यञ्च व्यावृत्तो धर्मः। यद्यपि क्वचित् साधर्म्यमपि कुतश्चिद्वैधर्म्यं कुतश्चिद्वैधम्मपि केषाञ्चित् साधर्म्यम् तथापि ताद्रूप्येण ज्ञानं विवक्षितम्। अत्र च द्रव्यादिपदार्थानामुद्देश एव विभागः पर्यवसन्नः। स च न्यूनाधिकसङ्ख्याव्यवच्छेदफलकस्तेन षडेव पदार्था इति नियमः पर्य्यवस्यति, स चानुपपन्नः व्यवच्छेद्यस्य पदार्थान्तरस्य प्रतिपत्तौ नियमानुपपपत्तिः, अप्रतीतौ व्यवच्छेदानुपपत्तिः। ननु नायमन्ययोगव्यवच्छेदः किन्त्वयोगव्यवच्छेदः पदार्थेषु षड्‌लक्षणायोगो व्यवच्छिद्यत इति चेन्न पदार्थपदेन प्रसिद्धपदार्थमात्रोपसंग्रहे सिद्धसाधनात् अनय्स्य चाप्रतीतेरेव। किञ्च लक्षणानां मिलितानामयोगो व्यवच्छेद्यः प्रत्येकं वा? आद्ये मिलितायोगः सर्वत्रेति व्यवच्छेदानुपपत्तिः। अन्त्येऽपि प्रत्येकायोराः परस्परं सर्वत्रेति व्यवच्छेदानुपपत्तिरेवेति चेन्न। शक्तिसङ्ख्यासादृश्यादिषु पदार्थेषु पराभिमतेषु षड्‌लक्षणायोगः परैरुच्यते तद्यव्यच्छेदो नियमार्थः, तथाच षडेव पदार्था इत्यस्य प्रतीयमानेषु पण्णां लक्षणानां मध्ये अन्यतमलक्षणयोगोऽस्त्येव न त्वयोग इत्यर्थः। तत्र विशेष्यसङ्गतस्यान्ययोगव्यवच्छेदो विशेषणसङ्गतस्यायोगव्यवच्छेदः क्रियासङ्गतस्य चात्यन्तायोगव्यवच्छेदस्तावत् प्रतीयते। तत्र शक्तित्रयमेवकारस्येत्येके व्यवच्छेदमात्रे शक्तिरयोगान्ययोगादयस्तु व्यवच्छेद्याः समभिव्याहारलभ्या इत्यपरे।
धर्मविशेषप्रसूतादिति तत्त्वज्ञानादित्यस्य विशेषणम्। तत्र धर्मविशेषोनिवृत्तिलक्षणो धर्मः। यदि तु तत्त्वं ज्ञायतेऽनेनेति तत्त्वज्ञानं शास्त्रमुच्यते तदा धर्मविशेष ईश्वरनियोगप्रसादरूपो चक्तव्यः। श्रूयते हीश्वरनियोगप्रसादावविगम्य कणादो महर्षिः शास्त्रं प्रणीतवानिति। तत्त्वज्ञानमात्मतत्त्वसाक्षात्कार इह विवक्षितस्तस्यैव सवासनमिथ्याज्ञानोन्मूलनक्षमत्वात्। "तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इत्यत्र "द्वे ब्रह्मणो वेदितव्ये" इत्यत्र च वेदनपदस्य साक्षात्कःरपरत्वात्, "पश्यत्यचक्षुः" इत्यत्रापि तथा। स च शास्त्रान्मनननिदिध्यासनादिपरम्परयेति हेतुपञ्चम्या तथैवाभिधानात् ।। 4 ।।
</1-14>

<1-1-5>
इदानीमपवर्गभागितया सर्वपदार्थाश्रयतया च प्रथमोद्दिष्टस्य द्रव्यपदार्थस्य विभागं विशेषोद्देशञ्च कुर्वन्नाह--
गुणनिरूपणम्
पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि ।। 5 ।।
इतिकारोऽवधारणार्थः। तेन नवेव द्रव्याणि नाधिकानि न न्यूनानि वेत्यर्थः। ननु विभागबलादेव न्यनाधिकसङ्ख्याव्यवच्छेदसिद्धौ किमिति कारेणेति चेत् उद्देशमात्रपरतयाऽपि सूत्रसम्भवे विभागतात्पर्य्यस्फोरणार्थमेवेतिकाराभिधानात्। सुवर्णादीनामीश्वरस्य चात्रैवान्तर्भावात् अन्धकारस्य चाधिकत्वेनाशङ्क्यमानस्याभावत्वव्युत्पादनादेतदध्यवसेयम्। असमासकरणन्तु सर्वेषां प्राधान्यन्यप्रदर्शनाय। लक्षणमेतेषान्तु वधर्म्यावसरे सूत्रकृदेव दर्शयिष्यति। ननु सुवर्णं न तावत् पृथिवी निर्गन्धत्वात्, न जलं स्नेहसांसिद्धिकद्रवत्वशून्यत्वात्, न तेजो गुरुत्ववत्त्वात्, अत एव न वायुर्न वा कालादि, ततो नवभ्यो भिद्यत इति चेन्न, आद्यद्वितीययोरनाभासत्वम् तृतीयस्य स्वरपूसिद्धत्वं ततः परं सिद्धसाधनं हेतो- स्वरूपासिद्धिश्च। साधयिष्यते च सुवर्णस्य तैजसत्वमिति ।। 5 ।।
</1-1-5>

<1-1-6>
गुणत्वेन रूपेण गुणानां सर्वद्रव्याश्रितत्वं द्रव्याभिव्यङ्ग्यत्वं द्रव्याभिव्यञ्जकत्वञ्चेति द्रव्यान्तरं गुणानामुद्देशं विभागञ्चाह--
रूपरसगन्धस्पर्शाः सङ्ख्याः परिमाणानि पृथक्‌त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छोद्वेषौ प्रयत्नाश्च गुणाः ।। 6 ।।
चकारेण गुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्मशब्दान् समुच्चिनोति ते हि प्रसिद्धगुणभावा एवेति कण्ठतो नोक्ताः। गुणत्वञ्चाभीषां यथास्थानं लक्षणतः स्वरूपकरण्यं नास्तीति सूचनार्थं समासः। सङ्ख्यापरिमाणयोस्तु समानकालोनसङ्ख्यापरिमाणसामानाधिकरण्यसूचनायासमासो बहुवचननिर्देश्च। यद्यप्येकत्वसमानाधिकरणं नैकत्वान्तरं न वा महत्त्वदीर्घत्वसमानाधिकरणं महत्त्वदीर्घत्वान्तरम् तथापि द्वित्वादीनामन्योन्यं सामानाधिकरण्यं महत्त्वदोर्घत्वादीनाञ्च विजातीयपरिमाणयोः सामानाधिकरण्यमस्त्येव। पृथक्त्वञ्च यद्यपि द्विपृथक्‌त्वादिसमानाविकरणं तेन सङ्ख्यावद् बहुत्वेनैव निर्देष्टुमर्हति तथाप्यवधिव्यङ्ग्यत्वलक्षणं सङ्ख्यातो वैधर्म्यं सूचयितुमेकवचननिर्द्देशः। संयोगविभागयोर्द्वयोरप्येककर्मजन्यत्वसूचनाय द्विवचनम्। परत्वापरत्वयोरन्योन्याश्रयनिरूप्यतया दिक्काललिङ्गत्वाविशेषसूचनाय च द्विवचनम्। बुद्धीनां विद्यादिभेदेन साङ्ख्याभिमतैकमात्रबुद्धिनिराकरणसचनाय बहुवचनम्। सुखदुःखयोर्द्वयोरपि भोगत्वावच्छेद्यौककार्य्यजनकत्वम् अविशेषेण थादृष्टोन्नायकत्वम्, सुखस्यापि दुःखत्वेन भावनञ्च ख्यापयितुं द्विवचनम्। इच्छाद्वेषयोर्द्वयोरपि प्रवृत्तिं प्रति कारणत्वसूचनाय द्विवचनम्। प्रयत्नानां विहितनिषिद्धगोचराणां दशविधानां पुण्यहेतुत्वं दशविधानाञ्च पापहेतुत्वमभिसन्धाय बहुवचनमित्युन्नेयम्।
यद्वा रूपरसगन्धस्पर्शानां भौतिकेन्द्रियव्यवस्थाहेतुत्वज्ञापनार्थं पाकजप्रक्रियाव्यवस्थापनार्थं वा ते समस्योक्ताः। सङ्ख्यायां देवित्वबहुत्वादौ विप्रतिपत्तिरिति तन्निराकरणसूचनार्थं बहुत्वेनाभिधानम्। पृथक्‌त्वे तु सह्ख्याबहुत्वेनैवास्यापि बहुत्वमिति सूचनायावधिज्ञानव्यञ्जनीयत्वं सङ्ख्यातो वैधर्म्यमिति सूचनाय च पृथगभिधानम्। परिमाणे तु दोर्घत्वह्रस्वत्वादिविप्रतिपत्तिनिरासाय बहुवचनम्। संयोगविभागयोरन्योन्यविरोधज्ञापनाय द्विवचनम्। परत्वापरत्वयोर्दैशिककालिकभेदेन भिन्नजातीयत्वसम्भवेन चतुष्ट्वापत्तौ गुणविभागो न्यूनः स्यात् इति तत्रापि द्विवचनमित्याद्युन्नेयम्। एतेषाञ्च लक्षणमग्रे वक्ष्यते ।। 6 ।।
</1-1-6>

<1-1-7>
कर्मणां द्रव्यजन्यतया गुणजन्यतया च रूपवद्रव्यसमवायाच्च प्रत्यक्षतेति द्रव्यगुणाभिधानानन्तरं कर्मोद्देशविभागावाह--

कर्मनिरूपणम्
उत्क्षेपणम् अवक्षेपणण् आकुञ्चनं गमनिमिति कर्माणि। इतिरवधारणार्थः, भ्रमणादेरपि गमनान्तर्गतत्वात्। अत्र च उत्क्षेपणत्वावक्षेपणत्वाकुञ्चनत्वप्रसारणत्वगमनत्वानि कर्मत्वसाक्षाद्व्याप्याः पञ्च जातयः। नन्वेतदनुपपन्नं गमनस्य कर्मपर्य्यायत्वात् सर्वत्र गच्छतीति बुद्धेर्दृष्टत्वादुत्क्षेपणत्वादीनां चतसृणां जातीनां परस्परात्यन्ताभावसमानाधिकरणानां सामानाधिकरण्याननुबवात् चतस्र एव कर्मत्वव्याप्या जातय इति चेत्। सत्यं कर्मपर्य्याय एव गमनं पृथगभिधानन्तु भ्रमणरेचनस्यन्दनोर्ध्वज्वलननमनोन्नमनादीनां भिन्नभिन्नबुद्धिव्यपदेशभाजामेकेन शब्देन सङ्ग्रहार्थम्। यद्वा गमनत्वमपि कर्मत्वव्याप्या पञ्चमी जातिरेव तेन भ्रमणरेचनादिष्वेव गमनप्रयोगो मुख्यः उत्‌क्षेपणावक्षेपणादिषु यदि गमनप्रयोगस्तदा भाक्तः। स्वाश्रयसंयोगविभागासमवायिकारणत्वमेव गौणमुख्साधारणो धर्मः। गमनत्वजातेस्त्वनियतदिग्देशसंयोगविभागासमवायिकारणत्वमेव व्यञ्जकम्, तच्च भ्रमणादिषु सर्वत्रेति गमनग्रहणएनैव तेषां ग्रहणमिति। निष्क्रमणत्वप्रवेशनत्वादिका तु न जातिः एकस्मिन्नेव कर्मणि गृहाद् गृहान्तरं गच्छति पुरुषे कस्यचित् द्रष्टुः प्रविशतोति प्रत्ययः कस्यचित्तु निष्क्रामतीति तत्र जातिसङ्करः स्यात् तथा भ्रमणादेरेकस्या जलप्रणाल्या निष्क्रम्यापरां प्रविशत्ति निष्क्रामति प्रबिशतीति प्रत्ययद्वयदर्शनादुपाधिसामान्यमेवैतदध्यवस्ते तावदुत्क्षेपणं तत उत्क्षेपणविशिष्टहस्तनोदनादसमवायिकारणात् मुषलेऽप्युत्क्षेपणाख्यं कर्म युगपद्बा। तत ऊर्ध्वमुत्क्षिप्तयोर्हस्तमुषलयोरवक्षेपणेच्छार्जानतप्रयत्नवदात्मसंयोगाद्धस्तनोदनाच्च युगपदेव हस्ते मुषले चावक्षेपणम् उलूखलपातानुकूलं सञ्जायते। ततो दृढतरद्रव्यसंयोगाद् यद् कस्मान्मुषलस्योर्ध्वगमनं भवति तत्र नेच्छा न वा प्रयत्नः कारणं किन्तु संस्कारमात्रादेव मुषलस्योत्पतनम् तच्च गमनमात्रं नतूत्क्षेपणं भाक्तस्तत्रोत्क्षेपणव्यवहारः। एवमनुलोमप्रतिलोमवायुद्वयसङ्घट्टवशाद्वाय्वोस्तत्प्रेरित-तूलकादौ चोत्क्षेपणव्यवहारो भाक्तः। एवं स्रोतोद्वयसङ्घट्टवशाज्जलोर्ध्वगमनेऽपि एवमुत्क्षेपणावक्षेपणव्यवहारः शरीरतदवयवतत्संयुक्तमुषलयोमरादिष्वेव मुख्यः भवति हि हस्तमुत्क्षिपति मुषलमुत्क्षिपति तोमरमुत्क्षिपतीति एवमवक्षिपतोत्यपि। आकुञ्चनन्तु सत्स्वेवावयवानामारम्भकसंयोगेषु परस्परमवयवानामनारम्भकसंयोगोत्पादकं वस्त्राद्यवयविकौटिल्योत्पादकं कर्म यतो भवति सङ्कुचति पद्मं सङ्कुचति वस्त्रं सङ्कुचति चर्मेतिप्रत्ययः। एवमवयवानां पूर्वेत्पन्नानारम्भकसंयोगविनाशकं कर्म प्रसारणं यतो भवति प्रसरति वस्त्रं प्रसरति चर्म प्रविकसति पद्ममित्यादिप्रत्ययः। एतच्चतुष्ट्यभिन्नं यत् कर्मजातं तत्सर्वं गमनविशेषः। तत्र भ्रमणं प्रयत्नवदात्मसंयोगाद्धस्ते कर्मवता हस्तेन नोदनाख्यसंयोगादवघट्टनाच्च चक्रादौ तिर्य्यक्‌संयोगानुकूलं कमं। रेचनाद्यपि व्याख्येयम्। स्फुटीकरिष्यति चाग्रे तदेतेषां कर्मणां विहितयागस्नानदानादिषु धर्मानुकूलप्रयत्नवदात्मसंयोगजन्यत्वं निषिद्धदेशगमनहिंसाकलञ्जभक्षणादिषु चाधर्मानूकूलप्रयत्नवदात्मसंयोगजन्यत्वमध्यवसेयमिति ।। 7 ।।
</1-1-7>

<1-1-8>
द्रव्यादीनामुद्देशानन्तरं त्रयाणां साधर्म्यप्रकरणमारभते। तत्र द्रव्यादीनां त्रयाणां साधर्म्यस्य तत्त्वज्ञानानुकूलतया प्रथमं शिष्याकाङ्क्षितत्वात् सामान्यादिपदार्थत्रयस्य उद्देशात् प्रागेव त्रयाणां साधर्म्यमाह--

द्रव्यगुणकर्मणामविशेषनिरूपणम्
सदनित्वं द्रव्यवत्कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः ।। 8 ।।
विशेषे सत्यपि अयमविशेषशब्दः साधर्म्यपरः सदिति। सदाकारप्रत्ययव्यपदेशविषयत्वम् त्रयाणामेव सत्तायोगित्वात्। अनित्यमिति। ध्वंसप्रतियोगित्वं यद्यपि न परमाण्वादिसाधारणं तथापि ध्वंसप्रतियोगिवृत्तिपदार्थविभाजकोपाधिमत्त्वं विवक्षितम्। द्रव्यवदिति। द्रव्यं समवायिकारणतयाऽस्यास्तोति द्रव्यवत्, एतदपि परमाण्वादौ नास्तीति द्रव्यसमवायिकारणकवृत्तिपदार्थविभाजकोपाधिमत्त्वं विवक्षितम्। कार्य्यमिति। प्रागभावप्रतियोगिवृत्तिपदार्थविभाजकोपाधिमत्त्वं विवक्षितम्। कारणमिति। ज्ञानेतरकार्य्यनियतपूर्ववर्त्तिजातीयवृत्तिपदार्थविभाजकोपाधिमत्त्वम् तेन स्वसाक्षात्कारे विषयतया कारणे गोत्वादौ नातिप्रसक्तिर्न वा पारिमाण्डल्यादावजनकेऽव्याप्तिः। सामान्यविशेषवदिति। सामान्यं सद्विशेषोऽन्योन्यव्यावर्तकतया द्रव्यत्वगुणत्वकर्मत्वादि तद्वत्त्वमित्यर्थः। ननु "गां दद्यात्" "गौः पदा न स्प्रष्टव्या" इति श्रुतेर्धर्माधर्मजनकत्वं जातेरपीति कारणत्वमतिव्यापोति चेन्न अवच्छेदकतामात्रेण जातेर्विनियोगात्। उपलक्षणञ्चैतत् स्वसमवायार्थशब्दाभिधेयत्वमपि त्रयाणां साधर्म्यं द्रष्टव्यम्। यदि तु कार्य्यत्वानित्यत्वेकारणवतामेव "कारणत्वञ्चान्यत्र" इति प्रशस्तदेवाचार्य्यव्यवस्थितं साधर्म्यमुच्यते तदा पदार्थविभाजकोपाधिमत्तया न विशेष्यं सूत्रोक्तरीत्या। त्रयाणां गुणजनकत्वं गुणजन्यत्वञ्चान्यत्र नित्यद्रव्येभ्य इति ।। 8 ।।
</1-1-8>

<1-1-9>
<1-1-10>
एतदेव सूत्रान्तरेणस्पष्टयति-
द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् ।। 9 ।।
द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् ।। 10 ।।
अन्त्यावयविविभुद्रव्याणि तथान्त्यावयविगुणान् द्वित्वद्विपृथक्त्वपरत्वापरत्वादीन् गुणांश्च विहाय सजातीयारम्भकत्वं साधर्म्यं द्रष्टव्यम्। सजातीयारम्भकवृत्तिपदार्थविभाजकोपाधिमत्त्वं वा विवक्षितं तेनाजनकद्रव्यव्यक्तीनामप्युपग्रहः ।। 10 ।।
</1-1-9>
</1-1-10>

<1-1-11>
ननु कर्माणि कुतो न कर्मान्तरमारभन्त इत्यत आह--
कर्म कर्मसाध्यं न विद्यते ।। 11 ।।
विदिरयं ज्ञानार्थो न तु सत्ताभिधायी। सजातीयारब्धद्रव्यगुणयोरिव कर्मसाध्य ेकर्मणि प्रमाणं नास्तीत्यर्थः। इदमत्राकूतम्। कर्म यदि कर्म जनयेत् स्वोत्पत्त्यनन्तरमेव जनयेत् शब्दवत्। तथाच पूर्वकर्मणैव यावत्‌संयोगिद्रव्येभ्यो विभागे जनिते द्वितीयं कर्म केन सह विभागं जनयेत् विभागस्य संयोगपूर्वकत्वात् संयोगान्तरस्य च तत्राधिकरणेऽनुत्पन्नत्वात्, विभागाजनने तु कर्मलक्षणक्षतेः। न च क्षणान्तरे कर्मान्तरं जनयिष्यतीति वाच्यम् समर्थस्य क्षेपायोगात्, अपेक्षणीयान्तराभावात्, पूर्वसंयोगनाशक्षणेऽपि जनने विभागजनकत्वानुपपत्तिरेव, उत्तरसंयोगोत्पत्तिकालेऽपि जनने तथैव। उत्तरसंयोगात्पत्त्यनन्तरकालन्तु कर्मनाश एव। तथा च सुष्ठूक्तं `कर्मसाध्यं न विद्यतं' इति ।। 11 ।।
</1-1-11>

<1-1-12>
गुणकर्मब्यां द्रव्यस्य वैधर्म्यमाह--
न द्रव्यं कार्यं कारणञ्च वधति ।। 12 ।।
द्रव्यं न स्वकार्य्यं हन्ति न वा स्वकारणं हन्ति, कार्य्यकारणभावापन्नयोर्द्रव्ययोर्वध्यघातकभावो नास्तीत्यर्थः। आश्रयनाशारम्भकसंयोगनाशाभ्यामेव द्रव्यनाशादिति भावः। वधतीति सौत्रो निर्देशः ।। 12 ।।
</1-1-12>

<1-1-13>
गणस्य कार्य्यकारणवध्यत्वमाह--
उभयथा गुणाः ।। 13 ।।
कार्य्यवध्याः कारणवध्याश्चेत्यर्थः। आद्यशब्दादीनां कार्य्यवध्यत्वं चरमस्य तु कारणवध्यत्वम्, उपान्त्येन शब्देन अन्त्यस्य नाशात् ।। 13 ।।
</1-1-13>

<1-1-14>
गुणानां कार्य्यकारणोभयविरोधित्वमुक्त्वा कर्मणः कार्य्यविरोधित्वमाह--
कार्य्यविरोधि कर्म ।। 14 ।।
कार्य्यं विरोधि यस्येति बहुव्रीहिः, स्वजन्योत्तरसंयोगनाश्यत्वात् कर्मणः। द्रव्याणां कार्य्यकारणाविरोधित्वं नियतमेव। गुणकर्मणोस्त्वनियमः, आश्रयनाशासमवायिकारणनाशनिमित्तनाशविरोधिगुणानां नाशकत्वस्य वक्ष्यमाणत्वात् ।। 14 ।।
</1-1-14>

<1-1-15>
शिष्याकाङ्क्षानुरोधेन त्रयाणां साधुर्म्यमबिधायेदानीं त्रयाणां लक्षणमारभमाण आह--
क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम् ।। 15 ।।
क्रियाश्च गुणाश्च विद्यन्तेऽस्मिन्निति क्रियागुणवत्। अत्र लक्षणशब्दश्चिह्नवचनः, समानासमानजातीयव्यवच्छेदकव्यतिरेकिलिङ्गविशेषवचनश्चलक्ष्यतेऽनेनेतिव्युत्पत्तिबलात्। क्रियया कर्मणा द्रव्यमिदमिति लक्ष्यते गुणवत्त्वेन च समानासमानजातीयेभ्यो व्यावृत्तं द्रव्यं लक्ष्यते, तत्र समानजातीया भावत्वेन गुणादयः पञ्च, असमानजातीयस्त्वभावः, तेन द्रव्यं गुणादिभ्यो भिन्नं गुणवत्त्वात् यन्न गुणादिभ्यो भिद्यते तन्न गुणवत् यथा गुणादीति। गुणवत्त्वं यद्यप्याद्यक्षणेऽवयविनि नास्ति तथापि गुणात्यन्ताभावविरोधिमत्त्वं विवक्षितम् गुणप्राग भावप्रध्वंसयोरपि गुणात्यन्ताभावविरोधित्वात्। एवं समवायिकारणत्वमपि षट्‌पदार्थभेदकमेव द्रव्यपदार्थस्य लक्षणम्। न च साध्याप्रसिद्धिर्गुणादिभेदस्य घटादावेव प्रत्यक्षसिद्धत्वात्। नचात्र सिद्धसाधनं घटत्वावच्छेदेनेतरबेदस्य सिद्धंत्वेऽपि द्रव्यत्वावच्छेदेन साध्यत्वात्, पक्षतावच्छेदकभेदे न सिद्धसाधनं यथा नित्ये वाङ्यनसी इत्यत्र इति केचित्तन्न पक्षतावच्छेदकावच्छिन्ने क्वचिदपि साध्यसिद्धौ पक्षताक्षतेस्तथाप्यावश्यकत्वात्। इतिशब्दश्च इत्यादिपरस्तेन सङ्ख्यावत्त्वपरिमाणवत्त्वपृथक्त्ववत्त्वसंयोगवत्त्वविभागवत्त्वान्यपि द्रव्यलक्षणत्वेन संगृह्यन्ते ।। 15 ।।
</1-1-15>

<1-1-16>
द्रव्यानन्तरं गणानामुद्देशात् तल्लक्षणमाह--
द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् ।। 16 ।।
द्रव्यमाश्रयितुं शीलमस्येति द्रव्याश्रयी। एतच्च द्रव्येऽपि गतमत आह--अगुणवानिति। तथापि कर्मर्ण्यातव्याप्तिरित्यत आह संयोगविभागेष्वकारणम्। तथापि संयोगविभागधर्माधर्मेश्वरज्ञानादीनामसंग्रहः स्यादत उक्तमनपेक्ष इति। अत्रानपेक्ष इत्यनन्तरं गुण इति पूरणीयम्, संयोगविभागेष्वनपेक्षः सन् कारणं यो न भवति सगुण इत्यर्थः। संयोगविभागादीनां संयोगविभागौ प्रति सापेक्षत्वात्। नित्यवृत्तिनित्यवृत्तिसत्ताव्याप्यजातिमत्त्वं गुणत्वम्। संयोगविभागौ मिलितौ प्रतिसमवायिकारणत्वासमवायिकारणत्वरहिते सामान्यवति यत् कारणत्वं तद्‌गुणत्वाभिव्यञ्जकम्। संयोगविभागयोः प्रत्येकमेव संयोगविभागकारण कत्वं न मिलितयोः धर्माधर्मेश्वरज्ञानादीनां द्वयोर्निमित्तकारणत्वमात्रं न समवायिकारणत्वं नाप्यसमवायिकारणत्वमिति तेषां संग्रहः। यद्वा संयोगविभागसमवायित्वासमवायिकारणत्वशून्यत्वं सामान्यसमानाधिगुणत्वव्यञ्जकम्। सामान्यवत्त्वे सति कर्मान्यत्वे च सत्यगुणवत्त्वमेव वा गुणलक्षणम् ।। 16 ।।
</1-1-16>

<1-1-17>
गणानन्तरमुद्दिष्टस्य कर्मणो लक्षणमाह--
एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणकारणमिति कर्मलक्षणम् ।। 17 ।।
एकमेव द्रव्यम् आश्रयो यस्य तदेकद्रव्यम्, न विद्यते गुणोऽस्मिन्नित्यगुणम्, संयोगविभागेष्वनपेक्षकारणमिति स्वोत्पत्त्यनन्तरोत्पत्तिकभावभूतानपेक्षमित्यर्थः। तेन समवायिकारणापेक्षायां पूर्वसंयोगाभावापेक्षायाञ्च नासिद्धत्वम्। स्वोत्पत्त्यनन्तरोत्पत्तिकानपेक्षत्वं वा विवक्षितम् पूर्वसंयोगध्वंसस्यापि स्वोत्पत्त्यनन्तरानुत्पत्तिक्तत्वात्, अभावत्वेन तस्याद्यक्षणसम्बन्धाभावात्। नित्यावृत्तिसत्तासाक्षाद्‌व्याप्यजातिमत्त्वं कर्मत्वम्, चलतीतिप्रत्ययासाधारणकारणतावच्छेदकजातिमत्त्वं वा, गुणान्यनिर्गुणात्रवृत्तिजातिमत्त्वं वा, स्वोत्पत्त्यव्यवहितोत्तरक्षणवृत्तिविभागकारणतावच्छेदकजातिमत्त्वं वा। स चायं चलतीतिप्रत्ययसाक्षिकः पदार्थो नाविरलदेशोत्पादनादिनोपपाद्यः, क्षणभङ्गस्याग्रे निराकरिष्यमाणत्वात्। लक्षणस्य इतरभेदसाधकताप्रकारः पूर्वोक्त एव ।। 17 ।।
<1-1-17>

<1-1-18>
इदानीं कारणमुखेन त्रयाणामेव साधर्म्यप्रकरणमुपक्रमते--
द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् ।। 18 ।।
समानमेव सामान्यम् एकमित्यर्थः, अनयोः समाना मातेतिवत्। एकस्मिन्नेव द्रव्ये समवायिकारणे द्रव्यगुणकर्माणि वर्त्तन्ते इत्यर्थः। द्रव्यसमवायिकारणकवृत्तिजातिमत्त्वं त्रयाणां साधर्म्यम् ।। 18 ।।
</1-1-18>

<1-1-19>
गुणासमवायिकारणकत्वं त्रयाणां साधर्म्यमाह--
तथा गुणः ।। 19 ।।
गुणासमवायिकारणकवृत्तिजातिमत्त्वं त्रितयसाधर्म्यम्। द्रव्याणां संयोगोऽसमवायिकारणम्, कार्य्यगुणानां रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्‌त्वादीनां सजातीयकारणगुणासमवायिकारणकत्वम्, बुद्ध्यादीनामात्मगुणानां मनःसंयोगासमवायिकारणकत्वम्। पार्थिवपरमाणुगुणानामग्निसंयोगासमवायिकारणकत्वम्। कर्मणान्तु वह्न्यादिनोदनाभिधातगुरुत्वद्रवत्वसंस्कारादृष्टवदात्मसंयोगप्रयत्नवदात्मसंयोगाद्यसमवायिकारणकत्वं यथायथं स्वयमूहनोयम्। क्वचिदेकस्यापि गुणस्य त्रयाणां द्रव्यगुणकर्मणामारम्भकत्वम्। तद्यथा वेगवत्तूलपिण्डसंयोगस्तूलपिण्डान्तरे कर्म करोति द्वितूलकञ्च द्रव्यमारभते तत्परिमाणञ्च। क्वचिदेको गुणो द्रव्यगुणावारभते यथा तूलपिण्डसंयोग एव वेगानपेक्षप्रचयाख्यो द्वितूलकं द्रव्यं तत्परिमाणञ्चारभते ।। 19 ।।
</1-1-19>

<1-1-20>
क्वचिदेकस्य कर्मणोऽनेककार्य्यकारित्वमाह--
संयोगविभागवेगानां कर्म समानम् ।। 20 ।।
कारणमित्यनुषङ्गः। यत्र द्रव्ये कर्मोत्पन्नं तेन समं यावद्‌द्रव्यं संयुक्तमासीत् तावत्‌सङ्ख्याकान् विभागान् जनयित्वा तावतः संयोगानपि पुनरन्यत्र जनयति, वेगं पुनरेकमेव स्वाश्रयं करोति वेगपदं स्थितिस्थापकमप्युपलक्षयति ।। 20 ।।
</1-1-20>

<1-1-21>
ननु क्रियावता द्रव्येणारम्भकसंयोगे जनिते तेन च द्रव्यमारब्धं यत्तदपि कर्मजन्यमेव कर्मणस्तत्‌पूर्ववर्त्तित्वादत आह--
न द्रव्याणां कर्म ।। 21 ।।
कर्म द्रव्याणां न कारणमित्यर्थः ।। 21 ।।
</1-1-21>

<1-1-22>
कुत एवमत आह--
व्यतिरेकात् ।। 22 ।।
व्यतिरेकादिति। निवृत्तेरित्यर्थः। उत्तरसंयोगेन कर्मणि निवृत्ते द्रव्यमुत्पद्यते इति न कर्मणो द्रव्यकारणत्वं विनश्यदवस्थञ्च कर्म न द्रव्यकारणम्। किञ्च कर्म द्रव्यस्यासमवायिकारणं वा भवेन्निमित्तकारणं वा? न तावदाद्यः द्रव्यस्यासमवायिकारणनाशनाश्यत्वेन अवयवकर्मनाशादेव द्रव्यनाशापत्तेः। न द्वितीयः महापटनाशेऽवस्थितसंयोगेभ्य एव खण्डपटोत्पत्तौ निष्कर्मणामेवावयवानां द्रव्यारम्भदर्शनाद्व्यभिचारात् ।। 22 ।।
</1-1-22>

<1-1-23>
बहूनामेकस्यारम्भकत्वमुक्त्वा इदानीमेकस्मिन् कार्य्ये बहूनामारम्भकत्वमाह--
द्रव्याणां द्रव्यं कार्य्य सामान्यम् ।। 23 ।।
द्रव्ये च द्रव्याणि चेति द्रव्याणि तेषां द्रव्याणाम्। तत्र द्वाभ्यां तन्तुभ्यां द्वितन्तुकः पटो बहुभिरपि तन्तुभिरेकः पट आरभ्यते नन्वेकतन्तुकोऽपि पटो दृश्यते यत्रैकेनैव तन्तुना तानप्रतितन्त्रौ भवत इति चेन्न तत्रैकस्य संयोगाभावेनासमवायिकारणाभावात् पटानुत्पत्तेः। न चाशुकतन्तुसंयोगोऽसमवायिकारणम् अवयवावयविनोरयुतसिद्धत्वेन संयोगाभावात् आरभ्यारम्भकभावानभ्युपगमात्, मूर्त्तानां समानदेशताविरोधात्। दृश्यते तावदेवमिति चेन्न तत्र वेमाद्यभिघातेन महावयविनस्तन्तोर्नाशात् खण्डावयविनानातन्तूत्पत्तौ तेषामन्योन्यसंयोगात् पटोत्पत्तेः, वस्तुगत्या तत्र नानाभूतेषु तन्तुषू एकत्वाभिमानात् ।। 23 ।।
</1-1-23>

<1-1-24>
ननु यथा द्रव्याणां द्रव्यं कार्य्यं गुणानाञ्च गुणस्तथा किं कर्मणामपि कर्म कार्य्यमित्यत आह--
गुणवैधर्म्यान्न कर्मणां कर्म ।। 24 ।।
कार्य्यमिति शेषः। द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यमुक्तम्। तत्र कर्म कर्मसाध्यं न विद्यते इति सूत्रेण कर्मणआं कर्मजनकत्वं प्रतिषिद्धमेव तदिहानूद्यते इति भावः ।। 24 ।।
</1-1-24>

<1-1-25>
इदानीं व्यासड्यवृत्तीनां गुणानाम् अनेकद्रव्यारभ्यत्वं दर्शयन्नाह--
द्वित्वप्रभृतयः संख्याः पृथक्‌त्वसंयोगविभागाश्च ।। 25 ।।
अनेकद्रव्यारभ्या इति शेषः। द्वित्वादिसमभिव्याहृतं पुथक्‌त्वपदमपि द्विपृथक्‌त्वादिपरम्। एवञ्च द्वित्वादिकाः परार्धपर्य्यन्ताः सङ्ख्या द्विपृथक्‌त्वादीनि च संयोगा विभागाश्च द्वाभ्यां बहुभिश्चैव द्रव्यैरारभ्यन्ते इत्यनेकवृत्तित्वममीषाम्। तच्च समवाय्यन्योन्याभावसामानाधिकरण्यम् ।। 25 ।।
</1-1-25>

<1-1-26>
नन्ववयविद्रव्याणां गुणानाञ्चोक्तानां यथाव्यासज्यवृत्तित्वं तथा कर्मणामपि किं न स्यादत आह--
असमवायात् सामान्यकार्यं कर्म न विद्यते ।। 26 ।।
असमवायादित्यत्र द्रव्ययोर्द्रव्येष्विति योज्यम्, तथा च न द्रययोरेकं कर्म समवैति न वा द्रव्येष्वेकं कर्म समवैति, तेन सामान्यस्य समुदायस्य कार्यं कर्म न विद्यते। अत्रापि विदिर्ज्ञानार्थो न सत्तावचनः। यदि कर्म व्यासज्यवृत्ति स्यात् एकस्मिन् द्रव्ये चलति द्वयोर्द्रव्ययोर्बहुषु च द्रव्येषू चलतीति प्रत्ययः स्यात्, न चैतत् तस्मान्न कर्म व्यासज्यवृत्तीत्यर्थः। ननु शरीरतदवयवानां कर्म शरीरतदवयवैर्बहुभिरारभ्यत एव कथमन्यथा शरीरे चलति करचरणादावपि चलतीति-प्रत्ययः एवमन्यात्राप्यवयविनोति चेन्न अवयविकर्मसामग्न्या अवयवकर्मसामग्रोव्याप्तत्वात् तथोपलब्धेः, न तु वैपरीत्यं, न ह्यवयतवे चलति सर्वत्रावयविनि चलतीति प्रत्ययः, अन्यथा कारणाकारणसंयोगात् कार्य्याकार्यसंयोगोऽपि न स्यात् कारणकर्मणव कार्यस्यापि संयोगोपपत्तेः ।। 26 ।।
</1-1-26>

<1-1-27>
पुनर्बहूनामेकं कार्यमाह
संयोगानां द्रव्यम् ।। 27 ।।
बहूनां संयोगानां द्रव्यमेकं कार्य्यमित्यर्थः। निःस्पर्शानां द्रव्याणआम् अन्त्यावयविनां विजातीयद्रव्याणाञ्च ये संयोगास्तान् विहायेति द्रष्टव्यम् ।। 27 ।।
</1-1-27>

<1-1-28>
इदानीं बहूनां गुणानामेकं गुणकार्य्यमाह--
रूपाणां रूपम् ।। 28 ।।
रूपमेकं कार्यमित्यन्वयः। रूपपदमुभयमपि लाक्षणिकम्, अजहत्स्वार्था चेयं लक्षणा। कारणैकार्थसमवायप्रत्यासत्त्या जन्यजनकभावाश्रयत्वञ्च शक्यलक्ष्यसाधारणो धर्मस्तेन रूपरसगन्धस्पर्शस्नेहसांसिद्धिकद्रवत्वैकत्वैकपृथक्‌त्वानि संगृह्यन्ते। एते हि कारणे वर्त्तमानाः कार्येषु समानजातीयमेकमेव गुणमारभन्ते। द्विधा ह्यसमवायिकारणानाङ्गतिः। केचित् कारणैकार्थप्रत्यासत्त्या जनयन्ति, कारणमिह समवायिकारणं तच्च जन्यस्य रूपादिलक्षणस्य कार्यस्य तेन रूपादिलक्षणस्य यत् समवायिकारणं घटादि तेन सह कपाले वर्तमानं रूपं कारणैकार्थसमवायेन घटरूपमारभते, एवं रसाद्यपि। क्वचित्तु कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणत्वम् यथा कारणमपि शब्दो नभसि कार्यमपि शब्दान्तरमारभते, नभस्येव रूपाद्यपि पार्थिवपरमाणावग्निसंयोगेन कार्यैकार्थसमवायप्रत्यासत्त्या जन्यते ।। 28 ।।
</1-1-28>

<1-1-29>
एकस्य कर्मणोऽनेककार्यत्वमाह--
गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् ।। 29 ।।
उत्क्षेपणमेकं कार्यममीषामित्यर्थः। अत्र गुरुत्वस्य हस्तलोष्ठादिवर्त्तिनो निमित्तकारणत्वम्, प्रयत्नवदात्मसंयोगस्यासमवायिकारणत्वं हस्तनिष्ठोत्क्षेपणस्य, लोष्ठनिष्ठोत्क्षेपणस्य तु हस्तनोदनमसमसमवायिकारणम्। अत्राप्युत्क्षे पणपदमवक्षेपणादावपि लाक्षणिकम् ।। 29 ।।
</1-1-29>

<1-1-30>
ननु मूर्त्तगुणानां कार्याणां कारणगुणपूर्वकत्वं स्वाश्रयगुणपूर्वकत्वञ्चोक्तम्, द्रव्यकर्मणोश्च न कर्म कारणमित्युक्तम् तथाच कर्मणः किमपि न कार्य्यमित्यायातम्, तथाचातोन्द्रियाणां सूर्य्यादिगतीनाम् अनुमानमपि दुर्लभं लिङ्गाभावात् अतः संयोगाविभागवेगानां कर्मेति सूत्रोक्तमेव स्मारयन्नाह--
संयोगविभागाश्च कर्मणाम् ।। 30 ।।
जन्या इति शेषः। व्यक्त्यभिप्रायेण बहुवचनं संस्कारोऽप्युपलक्षणीयः ।। 30 ।।
</1-1-30>

<1-1-31>
ननु द्रव्यकर्मणी न कर्मकार्ये इति पूर्वमुक्तम्, संयोगविभागौ तु संयोगविभागकार्य्यावेव तथाचेदानीं कर्मणः कारणत्वाभिधानं विरुद्धमित्यत आह--
कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम् ।। 31 ।।
कारणसामान्यपदेन तत्प्रकरणमुपलक्ष्यते तेन कारणसामान्याभिधानमकरणे द्रव्यकर्मणो प्रति कर्मणोऽकारणत्वमुक्तं न तु सर्वथाप्यकारणमेव कर्मेति विवक्षितम्। येन `संयोगविभागाश्च कर्मणामिति' सूत्रं व्याहन्येतेति भावः ।। 31 ।।
इति शाङ्करे वैशेषिकसूत्रोपस्कारे प्रथमाध्यायस्य
प्रथमाह्निकम्।
</1-1-31>

प्रथमाध्याये द्वितीयाह्निकम्[सम्पाद्यताम्]

<1-2-1>
नन्वनेन प्रघट्टकेन द्रव्यादीनां त्रयाणां पदार्थानां कार्यैकत्वघटितं कारणैकत्वघटितञ्च साधर्म्यमुक्तम्, तच्चानुपपन्नं कार्यकारणभावस्यैवासिद्धेरित्यत आह--

कारणाभावात्कार्याभावः ।। 1 ।।
दृश्यते हि मृच्चक्रसलिलकुलालसूत्रादौ समवहितेऽपि दण्डाभावाद् घटाभावः, भूसलिलादौ समवहितेऽपि वीजाभावादङ्कराभावः, स च दण्डघटयोर्बीजाङ्कुरयोर्वा कार्यकारणभावमन्तरेणानुपपन्नः। अन्यथा वेमाद्यभावेऽपि घटाभावः शिलाशकलाद्यभावेऽप्यङ्कुराभावः स्यात्। किञ्च घटपटादीनां कादाचित्कत्वमनुभूयते तदपि हेतुफलभावमन्तरेणानुपपन्नम्, नहि किञ्चित्कालासत्त्वे सति किञ्चित्कालसत्त्वरूपं कादाचित्कत्वं भावानां कारणापेक्षामन्तरेण सम्भवति तदा हि स्यादेव न स्यादेव वा नतु कदाचित् स्यात् न हि भावो न भवत्येव नाप्यहेतोर्भवति नाप्यकस्मादेव भवति, न वा निरुपाख्यादेव शशविषाणादेर्भवति, किन्तु दण्डवेमादेः सोपाख्यस्यावधेर्घटपटादौ कार्ये दर्शनात् अवधिस्तु कारणमेव। एवं कार्यकारणभावाभावे प्रवृत्तिनिवृत्ती न स्याताम् तथा च निरीहं जगज्जायेत न हीष्टसाधनताज्ञानमन्तरेण प्रवृत्तिरनिष्टसाधनताज्ञानमन्तरेण निवृत्तिः ।। 1 ।।
</1-2-1>

<1-2-2>
ननु सदेवोत्पद्यते नासत् "सदेव सौम्येदमग्र आसीत्" इत्यादिश्रुतिप्रामाण्यात् अन्यथाऽसत्त्वाविशेषे तन्तुभ्य एव पटो न कपालेभ्य इति नियमो न स्यादिति चेत् परिणामवादिभिरपि स्वीकृतकारणकैरयं नियमोऽभ्युपगन्तव्य एव, अन्यथा घटाभिव्यक्तिः कपालेष्वेव न तन्तुष्विति कथं स्यात्। किञ्च यद्यभिव्यक्तिरपि पूर्वमासीदेव तदा तस्या अपि नित्यत्वे आविर्भावतिरोभावाधेवोत्पादविनाशाविति रिक्तं वचः। अथाविर्भावतिरोभावौ कारणापेक्षौ, तदा घटपटादीनामपि कारणापेक्षैवासतामप्युत्पत्तिरित्यायातम्। यत्तु कारणं प्रति नियमानुपपत्तिरित्युक्तम्, तत्र स्वभावनियमेनैवोत्तरम्। स च स्वभावनियमोऽन्वयव्यतिरेकावगम्यो भवति, भवति हि दण्डमन्तरेण न घटो दण्‍डे सति घट इति सर्वसाक्षिकोऽनुभवः। एवञ्वानन्यथासिद्धनियतपूर्ववर्त्तिजातीयत्वं सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वं वा कारणत्वम्। यद्यपि "यवैर्यजेत व्रीहिभिर्वा" इत्यादौ नियतपूर्ववर्त्तित्वं नास्ति न हि यवकरणकयागनिष्पाद्ये फले व्रीहिकरणकयागस्य पूर्ववर्त्तित्वम् तथापि विकल्पितं विहितकारणं कारणमेव, फलैकजात्येऽपि द्वयोः कारणत्वोपपत्तेः। तथा च सहकारिवैकल्यप्रयुक्तकार्य्याभाववत्त्वं लोकवेदसाधारणी कारणता, नियतपूर्ववर्त्तित्वन्तु अन्वयव्यतिरेकगम्या कारणता लौकिकी, नहि "स्वर्गकामो यजेत" इत्यादौ व्यतिरेकभागोऽपि विषयः प्रवृत्तेरन्वयमात्रज्ञानादेवोपपत्तेः, अत एव "विकल्पे उभयमशास्त्रार्थः" इत्यपि घटते, तज्जातीयस्य फलस्य एकेनैवोपपत्तेरपरानुष्ठानवैयर्थ्यात्। अत एव "श्रौतात् साङ्गात् कर्मणः फलावश्यम्भावनियमः" इत्यप्युचितम् "आगममूलत्वाच्चास्यार्थस्य व्यभिचारो न दोषाय" इत्याचार्याभिधानमृज्वर्थतात्पर्य्यकमेव। तृणारणिमणिस्थले तु कार्यवैजात्यमावश्यकं तत्रान्वयव्यतिरेकगम्यत्वात् कारणताया व्यतिरेकाद्व्यतिरेकस्यावश्यकत्वात्। विकल्पस्थले तु फलवैजात्यकल्पने राजसूयवाजपेयादावपि वैकल्पिको कारणता स्यादिति कार्यकारणभावनियममेवोपपादयन्नाह--
न तु कार्याभावात् कारणाभावः ।। 2 ।।
यदि कार्यकारणभावनियमो न भवति तदा कार्याभावादपि कारणाभावः स्यात्। कार्याभावः कारणाभावं प्रत्यतन्त्रं कारणाभावस्तु कार्याभावं प्रति तन्त्रम्, तेन दुःखाभावार्थं जन्माभावे, जन्माभावार्थं प्रवृत्त्यभावे, तदर्थञ्च दोषाभावे, तदर्थं मिथ्याज्ञाननिवृत्तये, तदर्थञ्चात्मसाक्षात्काराय मुमुक्षूणां प्रवृत्तिः प्रयोजनमौपोद्‌घातिकस्याप्यस्य द्विसूत्रकप्रकरणस्य ।। 2 ।।
</1-2-2>

<1-2-3>
पदार्थत्रयोद्देशलक्षणानन्तरमिदानीमुद्दिष्टस्य सामान्यपदार्थस्य लक्षणमाह--
सामान्यं विशेष इति बुद्ध्यपेक्षम् ।। 3 ।।
सामान्यं द्विविधं परमपरञ्च। तत्र परं सत्ता अपरं सत्ताव्याप्यं द्रव्यत्वादि। तत्र सामान्यस्य तद्विशेषस्य च लक्षणं बुद्धिरेव। अनुवृत्तबुद्धिः सामान्यस्य व्यावृत्तबुद्धिर्विशेषस्य। इतिना द्वयमवच्छिद्य परामृश्यते तेन बुद्ध्यपेक्षमिति नपुंसकनिर्देशः। वृत्तिकारस्तु विशेषान्वयमाह परन्तु "नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्" इत्यनेनैकवद्भावो नपुंसकता चेत्याह--बुद्धिरपेक्षा लिङ्गं लक्षणं वा यस्य तद्‌बुद्ध्यपेक्षम्। तत्र नित्यमनेकव्यक्तिवृत्ति मामान्यम्, नित्यत्वे सति स्वाश्रयान्योन्याभावसामानाधिकरण्यं वा। परमपि सामान्यमपरमपि तथाऽपरन्तु सामान्यं विशेषसंज्ञामपि लभते यथा द्रव्यमिदमित्यनुवृत्तप्रत्यये सत्येव नायं गुणो नेदं कर्मेति विशेषप्रत्ययः तथा च द्रव्यत्वादीनं सामान्यानामेव विशेषत्वम्।
ननु विधिरूपं सामान्यं नास्त्येव अनुगतमतेरतद्‌व्यावृत्त्यैवोपपत्तेः भवति हि गौरवमिति प्रतीतेरगोव्यावृत्तोऽयमिति विषयः जातिवादिनाऽपि गोत्वादिविशिष्टप्रत्ययस्य तद्विषयत्वाभ्युपगमात् न हि वैशिष्ट्यमतद्व्यावृत्तेरन्यत्, गवादिपदप्रवृत्तिनिमित्तेप्यगोव्यावृत्त्यादिरेव। किञ्च गोत्वं कुत्र वर्त्तते न तावद् गवि गोत्ववृत्तेः पूर्वं तस्याभावात्, नाप्यगवि विरोधात्, यत्र गोपिण्ड उत्पद्यते तत्र कुत आगत्य गोत्वं वर्त्तते, न तावत् तत्रैवासीत् देशस्यापि तस्य गोत्वापत्तेः। नापि गोत्वमपि तदानीमेवोत्पन्नं नित्यत्वाभ्युपगमात्, नाप्यन्यत आगतं निष्क्रियत्वाभ्युपगम्मत्, न च एक्सयैव नित्यस्य नानाव्यक्तिवृत्तित्वं कार्त्स्नैकदेशविकल्पानुपपत्तेः। न हि कृत्स्नमेकत्रैव वर्तते अन्यत्र तद्विशिष्टप्रत्ययानुदयप्रसङ्गात्। नाप्येकदेशेन, जातेरेकदेशस्याभावात्। तदुक्तं--
न याति न च तत्रासीन्नचोत्पन्नं न चांशवत्।
जहाति पूर्वं नाधारमहो व्यसनसन्ततिः ।। इति।।
सामान्यमस्ति तच्च संस्थानमात्रव्यङ्ग्यं गोत्वघटत्वादिवत् न तु गुणकर्मगतमपीति सगोत्रकलहः।
अत्रोच्यते सामान्यं नित्यं व्यापकञ्च व्यापकत्वमपि स्वरूपतः सवैदेशसम्बद्धत्वम्। न देशानां गोव्यवहारापत्तिः समवायेन तद्‌व्यवहारस्याब्युपगमात् काले रूपादिमत्त्वेऽपि कालो रूपवानित्यप्रतीतिव्यवहारवत्। न च कालो नास्त्येव पञ्चस्कन्धसंज्ञाभेदमात्रमित्यभ्युपगमादिति वाच्यम् कालस्य साधयिष्यमाणत्वात्। तथा च यत्र पिण्ड उत्पद्यते तत्रस्थमेव गोत्वं तेन सम्बध्यते जातः सम्बद्धश्चेत्येकः काल इत्यभ्युपगमात्। एतेन कीदृश्याश्रये वर्त्तते इत्यत्र यत्र प्रतीयते इत्युत्तरम्। कुत्र प्रतीयते इत्यत्र यत्र वर्तते इत्युत्तरम्। गात्ववृत्तेः पूर्व स पिण्डः कीदृगासीदित्यत्र नासीदित्येवोत्तरम्। एवञ्च "न वाति न च तत्रासीत्" इत्यादिकं परिदेवनमात्रम्। अतद्व्यावृत्तिरेव गोत्वमित्यत्र गौरयमिति विधिमुखः प्रत्यय एव बाधकः। न ह्यनुभवोऽपि व्याख्यायते तदुक्तम्--
विधिजः प्रत्ययोऽन्योऽयं व्यतिरेकासमर्थकः" इति।
न हि गोरयमिति प्रत्ययेऽगोव्यावृत्तिरपि भासते। काऽर्त्स्नैकदेशविकल्पस्तदा भवेत् यद्येकस्य सामान्यस्य कार्त्स्नं भवेदेकदेशो वा। कृर्त्स्नता ह्यनेकाशेषता सा चैकस्मिन्नोपपन्ना। गौरयमित्याद्यनुभव एवासद्विषया न वस्तुव्यवस्थापनक्षम इति। अत्रोत्तरं वक्ष्यते।
प्राभाकरास्तु संस्थानमात्रव्यङ्ग्यं सामान्यमाचक्षते। तद्‌यद्यनुगतप्रतीतिसाक्षिकं तदा किमपराद्धं गुणकर्मगतैः सामान्यैः भवति हि रूपरसादावनुगतधीः सा च जातिव्यवस्थापिकैव बाधकाभावात्। रूपत्वादिजातिपु न तावद्व्यक्त्यभेदो बाधकः आकाशत्वादिवत्, रूपसादिव्यक्तीनामनेकत्वात्। नापि बुद्धित्वज्ञानत्वादिवत् घटत्वकलसत्वादिवद्वा तुल्यत्वं बाधकम्। तच्चान्यूनानतिरिक्तव्यक्तिकत्वम् गुणत्वापेक्षया न्यूनव्यक्तिकत्वात् नीलत्वाद्यपेक्षया चाधिकव्यक्तिकत्वात्। अत एव न सङ्करः भूतत्वमूर्त्तत्ववत्, परस्परात्यन्ताभावसामानाधिकरण्ये सति जात्यन्तरेण सामानाधिकरण्याभावात्। नाप्यनवस्था रूपत्वदिगतसामान्यान्तरानभ्युपगमात्। नापि रूपहानिर्विशेषत्ववत्, यदि विशेषाः द्रव्याश्रितत्वे सति जातिमन्तः स्युः गुणाः कर्माणि वा स्युः विभुवृत्तित्वे सति यदि जातिमन्तः स्युर्गुणाः स्युरिति यथा विशेषपदार्थस्वरूपहानिस्तथा प्रकृतेऽभावात्। नापि समवायत्ववदसम्बन्धः समवाये समवायाभ्युपगमेऽनवस्थाभयात्तथास्तु, प्रकृते तु समवायस्यैव सम्बन्धस्याभ्युपगमात्। यद्यपि समवायत्वजातिबाधको व्यक्त्यभेद एव तथापि यन्मते उत्पादविनाशशीलाः बहवः समवायास्तन्मतं द्रष्टव्यम्। अभावत्वादिजात्यभ्युपगमे वा बाधकमेतत्। विवादपदमनुगतबुद्धिः अनुगतनिमित्तसाध्या अबाधितानुगतमतित्वात् दामकुसुमबुद्धिवत् इति जातौ मानमिति वृत्तिकारास्तच्चिन्त्यम् ।। 3 ।।
</1-2-3>

<1-2-4>
सामान्यं विशेष इति द्वैविध्यं यदुक्तं तदुपपादयन्नाह--
भावोऽनुवृत्तेरेव हेतुत्वात् सामान्यमेव ।। 4 ।।
भावः सत्ता अनुवृत्तेरेव हेतुः न तु व्यावृत्तेरपि हेतुः! तथा च विशेषसंज्ञां न लभते ।। 4 ।।
</1-2-4>

</1-2-5>
केषां सामान्यानां विशेषसंज्ञेत्यपेक्षायामाह--
द्रव्यत्वं गुणत्वं कर्मत्वञ्च सामान्यानि विशेषाश्च ।। 5 ।।
चकारः पृथिवीत्वादीनि-द्रव्यरातजातीः, रूपत्वादीनि-गुणगतजातीः उत्क्षेपणत्वादोनि-कर्मगतजातीः समुच्चिनोति। द्रव्यत्वमित्यादावसमासः परस्परं व्याप्यव्यापकभावाभावसूचनार्थः। सामान्यानि विशेषाश्चेत्यत्राऽसमासः सामान्यत्वे सत्येव विशेषत्वं यथा ज्ञायेत तदर्थम्, अन्यथा सामान्यविशेषा इति षष्ठीसमासभ्रमः स्यात्, तथा च सामान्यत्वे सति विशेषत्वं न प्रतीयेत। ननु द्रव्याकारानुगतमतिसाक्षिकं न द्रव्यत्वम्, पृथिव्यादौ कथञ्चित् तत्-सत्त्वेऽपि वाय्वाकाशादौ तदसम्भवात्। न च गुणत्वावच्छिन्नकार्य्यसमवायिकारणतावच्छेदकतया तत्सिद्धिः नित्यानित्यवृत्तितया गुणत्वस्य कार्य्यतानवच्छेदकत्वात्, गुणत्वार्थमपि पर्यनुयोगस्य तादवस्थ्यात्। मैवम् संयोगत्वावच्छिन्नकार्यसमवायिकारणतावच्छेदकतया द्रव्यत्वसिद्धेः। सा हि न पृथिवीत्वाद्यवच्छेद्या न्यूनवृत्तित्वात्, नापि सत्तावच्छेद्याऽधिकवृत्तित्वात् अवश्यं ह्यवच्छेदकेन भवितव्यम्, अन्यथाकस्मिकतावत्तेः। तत्रपरमाणुषु द्व्यणुकासमवायिकारणवत्तया द्व्यणुकेषु त्र्यणुकासमवायिकारणवत्तया विभुचतुष्टयस्य सर्वमूर्त्तसंयोगितयैव सिद्धेः नभसि इन्द्रियमनःसंयोगाधारतया वायौ तृणादिनादनाश्रयतया प्रत्यक्षद्रव्येषु प्रत्यक्षतयैव संयोगाभ्युपगमस्यावश्यकत्वात्। अजस्तु संयोगो नास्त्येव येन संयोगत्वस्यापि कार्य्याकार्यवृत्तितया कार्यतावच्छेदकता न म्यात्। एव विभागसमवायिकारणतावच्छेदकतयाऽपि द्रव्यत्वसिद्धेः सुप्रतिपदत्वात्।
गुणत्वन्तु संयोगविभाग समवायिकारणत्वासमवायिकारणत्वशून्ये मामान्यवति यत् कारणत्वं तदवच्छेदकतयैव सिद्धमित्युक्तत्वात्। कर्मत्वमपि प्रत्यक्षद्रव्येषु चलतीति प्रत्ययसाक्षिकम्। अन्यत्र तु संयोगविभागानुमेयम संयोगविभागोभयासमवायिकारणतावच्छेदकतयाऽपि कर्मत्वसिद्धेरावश्यकत्वात्। अत एवादित्यस्य देशान्तरप्राप्त्या गत्यनुमानम्, तत्र च देशान्तरस्याकाशादेरतीन्द्रियत्वेऽपि तत्किरणसंयोगविभागयोस्तन्मण्डलेन प्रत्यक्षत्वात् तत एव गत्यनुमानम्। देशान्तरप्राप्तिमान् आदित्यः अविनाशित्वे द्रव्यत्वे च सति प्राङ्मुखोपलब्धस्य प्रत्यङ्मुखेन तेनैवोपलभ्यतया प्रत्यभिज्ञायमानत्वादिति देशान्तर प्राप्त्या अनुभितया आदित्यगत्यनुमानमित्युद्‌द्योतकराचार्याः ।। 5 ।।
</1-2-5>

<1-2-6>
ननु य एव विशेषपदार्थ उद्दिष्टः स एवं किं सामान्यविशेषत्वेनाभिधीयते इति शिष्याकाङ्क्षामपनयन्नाह--

अन्यत्रान्त्येभ्यो विशेषेभ्यः ।। 6 ।।
अन्त्या विशेषा नित्यद्रव्यवृत्तयो येऽभिहिताः तान् वर्जयित्वा सामान्यविशेषाभिधानमित्यर्थः। अन्तेऽवसाने भवन्तीत्यन्त्या, यतो न व्यावर्त्तकान्तरमस्तीत्याचार्य्याः। उत्पादविनाशयोरन्तेऽवसाने भवन्तीत्यन्त्या नित्यद्रव्याणि तेषु भवन्तीत्यन्त्या विशेषा इति वृत्तिकृतः। ते हि विशेषा एव त्र्यावृत्तिबुद्धिहेतवो न तु सामान्यरूपा अपीति ।। 6 ।।
</1-2-6>

<1-2-7>
सत्तासामान्यमित्यत्र बहूनां विप्रतिपत्तिरतस्तत्र प्रमाणमाह--
सदिति यतोद्रव्यगुणकर्मसु सा सत्ता ।। 7 ।।
इतिकारेण यतो प्रत्ययव्यवहारयोः प्रकारमुपदिशति। तथा च द्रव्यादिषु त्रिषु सत्सदिति-प्रकारको यतः प्रत्ययः सदिदं सदिदमित्याकारकः शब्दप्रयोगो वा यदधीनः सा सत्ता ।। 7 ।।
</1-2-7>

<1-2-8>
ननु द्रव्यगुणकर्मभ्यः पृथग्‌बावेन सत्ता नानुभूयतेऽतो द्रव्याद्यन्यतममेव सत्ता यतो हि यद् भिन्नं भवति तत्ततो भेदेनानुभूयते यथा घटः पटात्, न च सत्ता तेभ्यो भेदेनानुभूयते इति तदात्मिकैवेत्यत आह--
द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता ।। 8 ।।
द्रव्यादयोऽननुगताः सत्ता चानुगता। तथा च अनुगतत्वाननुगतत्वलक्षणविरुद्धधर्माध्यासेन तेभ्यो भेदस्य सिद्धत्वात्। यत्तु तेभ्योःऽन्यत्र नोपलभ्यते तदयुतसिद्धिबलात् घटपटयोस्तु युतसिद्धिः। न च व्यक्तिस्वरूपमेव सत्ता, व्यक्तीनामननुगमात्। स्वरूपत्वं यद्यनुगतं तदा सैव सत्ता, अननुगतैरपि स्वरूपैरनुगतव्यवहारश्चेत्तदा गोत्वादिभिरपि गतम्। अत एव यत्र सत्ता समवैति तादृशैराधारैरेव तद्व्यवहारोपपत्तौ किं सत्तयेत्यपास्तम्। अत एवार्थक्रयिकारित्वं वा प्रामाणिकत्वं सत्त्वमित्ययुक्तं तदननुसन्धानेऽपि सन् इति प्रत्ययात् ।। 8 ।।
</1-2-8>

<1-2-9>
भेदकान्तरमाह--
गुणकर्मसु च भावान्न कर्म न गणः ।। 9 ।।
न गुणो न कर्मेति वक्तव्ये व्यत्ययेनाभिधानं न द्रव्यमित्यपि सूचयति। न हि कर्म कर्मसु वर्त्तते न वा गुणो गुणेषु न वा द्रव्यं गुणे कर्मणि वा, सत्ता तु गुणेकर्मणि च वर्त्तते तेन द्रव्यगुणकर्मवैधर्म्यात्तेभ्यो भिन्नैव सत्ता ।। 9 ।।
</1-2-9>

<1-2-10>
भेदकान्तरमाह--
सामान्यविशेषाभावेन च ।। 10 ।।
यदि सत्ता द्रव्यं गुणः कर्म वा स्यात् तदा सामान्यविशेषवती स्यात्। न च सत्तायां सामान्यविशेषा द्रव्यत्वादय उपलभ्यन्ते न हि भवति सत्ता द्रव्यं गुणः कर्म वेति केषाञ्चिदनुभवः ।। 10 ।।
</1-2-10>

<1-2-11>
एवं सत्ताया द्रव्यगुणकर्मभ्योऽर्थान्तरत्वमभिधाय द्रव्यत्वस्य तेभ्योऽर्थोन्तरत्वमाह--
अनेकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् ।। 11 ।।
अनेकं द्रव्यं समवायितया यस्यास्ति तदनेकद्रव्यवत्। अनेकपदमिह सर्वपरं तेन पृथिवीत्वादिभ्यो भेदः, नित्यत्वन्तु सामान्यलक्षणप्राप्तमेव तेनावयविभ्यो भेदः, अनेकद्रव्यवत्त्वञ्च अनेकद्रव्यमात्रसमवेतत्वं तेन सत्ताया भेदः। तेन नित्यमनेकद्रव्यमात्रसमवेतं द्रव्यत्वम्, अजः संयोगो नेष्यत इत्युक्तम्। द्रव्यत्वञ्च साधितमेव। द्रव्यत्वमुक्तमिति। द्रव्यत्वमपि सत्तावदेव व्याख्यातमित्यर्थः ।। 11 ।।
</1-2-11>

<1-2-12>
ननु द्रव्यत्वमपि जातिः स्याश्रयादभिन्नमेव स्यात् को दोष इत्यत आह--
सामान्यविशेषाभावेन च ।। 12 ।।
यदि द्रव्यत्वं जातिर्द्रव्याद्यात्मिकैव स्यात् तदा तस्यां पृथिवोत्वजलत्वतेजस्त्वादयः सामान्यविशेषाः स्युरित्यर्थः। न हि भवति द्रव्यत्वं पृथिवी जलं तेजो वेति केषाञ्चित् प्रत्यय इत्यर्थः ।। 12 ।।
</1-2-12>

<1-2-13>
गुणत्वमाह--
तथा गुणेषु भावाद् गुणत्वमुक्तम् ।। 13 ।।
गुणेष्वेव भावात् समवायात् गुणत्वं द्रव्यगुणकर्मभ्यो भिन्नं सत्तावदेवोक्तमित्यर्थः ।। 13 ।।
</1-2-13>

<1-2-14>
भेदकान्तरमाह--
सासान्यविशेषाभावेन च ।। 14 ।।
यदि द्रव्यगुणकर्मभ्यो गुणत्वमतिरिक्तं न भवेत्तदा द्रव्यत्वगुणत्वकर्मत्वं तदवान्तरजातिमत्तया उपलभ्येतेत्यर्थः ।। 14 ।।
</1-2-14>

<1-2-15>
द्रव्यगुणकर्मभ्यो भेदकं कर्मत्वस्याह--
कर्मसु भावात् कर्मत्वमुक्तम् ।। 15 ।।
कर्मस्वेव भावात् समवायात् कर्मत्वमपि जात्यन्तरं द्रव्यगुणकर्मभ्यो भिन्नमुक्तं सत्तावदित्यर्थः ।। 15 ।।
</1-2-15>

<1-2-16>
भेदकान्तरमाह--
सामान्यविशेषाभावेन च ।। 16 ।।
कर्मत्वं यदि द्रव्याद्यात्मकं भवेत्तदा द्रव्यत्वादिसामान्यविशेषस्तत्र समवेयादित्यर्थः। सेयमेकाकारा चतुःसूत्रो सत्ताद्रव्यत्वगुणत्वकर्मत्वानां चतसृणां जातीनां द्रव्यगुणकर्मभेदप्रतिपादनाय एकप्रकरणेनोक्तेत्यवधेयम् ।। 16 ।।
</1-2-16>

<1-2-17>
ननु सत्ता द्रव्यगुणकर्मसु वर्त्तमाना द्रव्यत्वाद्यवच्छेदभेदेन भिन्नैव कथं न स्यादत आह--
सदितिलिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको भावः ।। 17 ।।
सदित्याकारकं ज्ञानं शब्दप्रयोगो वा सत्ताया लिङ्गम्। तच्च द्रव्यगुणकर्मसु समानमविशिष्टम्। तेन भावः सत्ता एकैव तेषु वर्त्तते अन्यथा द्रव्यत्वादिभिस्तुल्यव्यक्तिकतया सत्ता वा न स्यात् तानि वा न स्युः। विशेषलिङ्गाभावाच्चेति। विशेषो भेदस्तत्र यल्लिङ्गमनुमानं तदभावाच्च न भेद इत्यर्थः। भवति हि स एवायं दीप इत्यनुगमस्तत्र यथा विशेषलिङ्गं दीर्घह्रस्वत्वादिपरिमाणभेदस्तथात्र विशेषलिङ्ग नास्तीति भावः ।। 17 ।।
</1-2-17>
इति श्रीभगवत्कणादसूत्रोपस्कारे शाङ्करे प्रथमाध्यायस्य
द्वितीयमाह्निकम्।