वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-२६

विकिस्रोतः तः
← वैयाकरणसिद्धान्तमञ्जूषा-२५ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-२६
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-२७ →

अथ द्वन्द्वविचारः

धवखदिरौ इत्यादौ सहितौ धवखदिराविति बोधः ।
पाणिपादमित्यादौ पाणिपादसमाहर इति बोधः ।

उपदशम्, दन्तोष्ठमित्यत्र दशसमीपदन्तोष्ठसमाहारः । समाहरे दश समीपत्व़्च स्ववृत्तिदशत्वसंख्याप्रतियोगिकसामीप्यवत्‌संख्यावदवयवकत्वेनेति बोध्यम् । उपदशमित्यव्याभीभावः ।

बहुव्रीहेस्तु नानुप्रयोगः, तस्य नित्यबहुवचनान्तत्वेन दन्तोष्ठमित्यनेनान्वयायोग्यत्वात् । अनयैव दिशा अन्यत्राप्यूह्यम् ।

इति द्वन्द्वविचारः ।

इति समासादिशक्तिविचारः ।