वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-२५
← वैयाकरणसिद्धान्तमञ्जूषा-२४ | वैयाकरणसिद्धान्तमञ्जूषा वैयाकरणसिद्धान्तमञ्जूषा-२५ [[लेखकः :|]] |
वैयाकरणसिद्धान्तमञ्जूषा-२६ → |
त्र्प्रथ बहुव्रीहिविचारः
प्राप्तमुदकं यं स प्राप्तोदको ग्रामः । अत्रोदककर्तृकप्राप्तिकर्मीभूतो ग्राम इति बोधो वृत्तौ । यत्कर्मकप्राप्तिकर्त्रुदकमिति विग्रहे । एवमूढरथोऽनड्वान्इत्यादावप्यूह्यम् । तदुपपत्तिस्तु प्रागुत्कैव ।
दशानां सनीपे ये सन्पि, ते उपदशाः । आत्रोपः समीपपरः । दशपदार्थस्य स्ववृत्तिदशत्वप्रतियोगिकत्वसम्बन्धेन सामीप्येऽन्वयः । दशसमीपवन्त इति बोधः । ईदृशसम्बन्धेनैवान्वयेऽस्य साधुत्वम्, एकार्थीभावबलात्; "संख्ययाऽव्यय " [2।2।25] इत्यादिसूत्रवलाच्च बोध्यम् । अत एव नवैकादश वाऽनेन प्रत्याय्यन्ते, न तु दशानां वृक्षादीनां समीपे ये गवादयः, ते प्रत्याय्यन्ते । एतेनासन्नर्विशाः, अदूर्त्रिशा इति व्याख्यातम् ।
अधिकचत्वार्रिशाः--अत्र चत्वार्रिशद्भ्योऽधिका इत्यर्थः । द्वौ वा त्रयो वा द्वित्राः--अत्र वाशब्दो वीरोधज्योतकः । स चैककालिकैकाधिकरणावृत्तित्वरूपविरोधो भासते ।
क्वचित्तु, 'व्रीहिभिर्यजेत, यवैर्यजेत' इत्यादौ वाशब्दं विनापि तात्पर्यवशात् तृतीयया निरपेक्षसाधनत्ववोधनेन समुच्चयासम्भवाच्च विकल्पो बोध्यत्, चं विनापि समुच्चयवत् । अत्रापि परस्परनिरपेक्षस्यैव अनेकस्य क्रियायामन्वयः, एकस्य क्रियान्वयोत्तरमपरस्यावृत्त्या तदन्वयात् । एवञ्चात्र समभिव्याहृतकारकविशिष्टक्रियायां विभिन्नकालिकत्वं वाशब्दद्योत्यम् ।
क्वचित्तु, समभिव्याहृतार्थप्रतियोगिकाभावोऽपि वाशब्दद्योत्यः । यथा "दीर्घात् पदान्ताद् वा" [6।7।276] इत्यादौ स्थणुर्नवेत्यादौ संशयात्मकज्ञानजनक एकाधिकरणावृत्तित्वरूप एव विरोधो वार्थः, अन्यतरकोटेः सर्वथा बाध्यत्वात् । भिन्नभिन्नकोट्युपस्यितिरपि वाशब्दसमभिव्याहारदेव; अन्यथा स्थाणुर्नेत्युक्ते स्थाणुभिन्न इत्येव प्रतीत्यापत्तिः ।
क्वचित्तु, एककालिक एकाधेयानधिकरशत्वरूपो विरोधो वार्थः । यथा पटे घटे वा सौन्दर्यमित्यत्र कार्यान्वये च विकल्पः, न तु शब्दादुपस्थितौ । अतः शब्दान्नियमेन बहूनामुपस्थितेर्नित्यबहुवचनान्ततैवेत्यन्यत्र विस्तरः ।
द्विरावृत्ता दश द्विदशाः । अत्र सुजर्थान्तर्भावेण वृत्तिः, एकार्थीभावबलादित्याहुः ।
दक्षिणस्याः पूर्वस्याश्च दिशोऽन्तरालं दक्षिणपूर्वा इत्यादौ दणिपूर्वोभयमध्यदिगित्यर्थः, एकार्थीभावबलात् । समुदायस्य हि मध्यदिक् शक्या ।
केशेषु केशेषुगृहित्वा इदं युद्धं प्रवृत्तं काशाकेशि । अत्र बिग्रहे क्त्वाप्रत्ययोऽध्याहृतस्थित्यादिक्रियामादाय बोध्यः । ग्रणकर्मत्वञ्च प्रत्यासत्त्या केशादिविशिष्टपुरुषयोरेव । परसमपरग्रहणादिरूपः कर्मव्यतिहारः समुदायश्क्यः, युद्धादिरूपक्रिया च । एवञ्च परस्परकेशाधिकरणकतद्वत् पुरुषकर्मकग्रहणोत्तरकालिकस्थतिकर्तृपुरुषकर्तृका क्रिया इति बोधः । क्रिया युद्धादिरूपेति क्वचित् प्रकरणात्, क्वचिद् युद्धादिवाचकपदसमभिव्याहारात् । यथा---
मृधं किमछत्रकदण्डताण्डवं
भुजाभुजि क्षोणिभृतां दिदृक्षवः ।
इत्यादौ ।
एतेन 'कर्णाकर्णि प्रथितमयशः' इति, 'हस्ताहस्तिमिषात् स्पृशन् कुचतटीम्' इत्यादि व्याख्यातम् । आद्ये कर्णाभ्यां कर्णाभ्यामाकर्ण्य इदं प्रधनं प्रवृत्तमिति विग्रहः, प्रथितमिति क्रियाशेषणमेतत् ।
एतेनेदृशसमासो युद्धरूपार्थे एवेति कैयटद्युक्तं परास्तमित्यन्यत्र विस्तरः .
सपुत्रो गत इत्यादि सहपुत्रेण गत इत्यनेन सुबर्थवादे निरूपितबोधेन व्याख्यातम् ।
इति बहुव्रिहिविचरः ।