वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-२७
← वैयाकरणसिद्धान्तमञ्जूषा-२६ | वैयाकरणसिद्धान्तमञ्जूषा वैयाकरणसिद्धान्तमञ्जूषा-२७ [[लेखकः :|]] |
वैयाकरणसिद्धान्तमञ्जूषा-२८ → |
अथ सुबन्तप्रकृतिकक्यजाद्यरथो निरूप्यते
तत्र 'घटमिच्छितीति घटियति देवदत्तः' इत्यत्र क्यजर्थ इच्छा, प्रकृतेश्र्व कर्तृसम्बन्धिनि घटे लक्षणा । अत एव पुत्रीयत्यात्मानं देवदत्त इति न । अत एव 'अस्याकर्मकत्वादितः कर्मणि लकारो न' इति "सुप आत्मनः" [3।2। ] इति सूत्रस्थं भाष्यं सङ्गच्छते ।
अत्र च क्यजेव तात्पर्यग्राहकः । "सुप आत्मनः क्यच्" इति सूत्रात् एषितृसम्बन्धीछाकर्मवाचकादिच्छायां क्यजिति तदर्थः । एवञ्च एकदेवदत्तकर्त्तृ का स्वसम्बन्धिघटकर्मिकेच्छेति बोधः । कर्मत्वं तु विशिष्टशक्तिलभ्यम् । काम्यचि अप्येवमेव ।
तथा "उपमानादाचारे" [3।2।220] इति सूत्रेणापि क्यच् । उपमानवाचकात् कर्मणः आचारे क्यजित्यर्थः । उपमानञ्चात्रचरनिरूपितमेव गृह्यते, प्रत्यासत्तेः । 'विष्णूयति द्विजम्' इत्युदाहरणम् । तत्र विष्णुपदं विष्णुकर्मकाचारसदृशर्थकम् । आचारः क्यजर्थः । एवञ्च 'एकदेवदत्तकर्त्तृ को द्विजकर्मको विष्णुकर्मकाचारसदृश आचारः' इति बोधः । तत्र प्रत्यासत्त्या विष्णुकर्मकाचारोऽपि देवदत्तादिकर्त्तृ क एव, 'आत्मनः' इत्यनुवृत्तेर्वा ।
न चैतन्मते 'सुपर्वभिः शोभितं त्रिविष्टपं भारतायते' इत्यत्राप्यनुपपत्तिः, भारताचारसदृशाचारस्य त्रिविष्टब्वृत्तेरप्रसिद्धेः । सुपर्वभिः शोभितमित्यत्र तु श्लेषेणाभेदाध्यवसाय एव, न सादृश्याध्यवसाय इति वाच्यम्, एकशब्दोपात्तत्वेनाभेदबुद्धेरिव शब्दरूपसाधर्म्येण सादृश्यबुद्धेरप्टुपपत्तेः ।
'कृष्णायते देवदत्तः' इत्यत्र कृष्ण इवाचरतीत्यर्थे क्यङ् । अत्रापि क्यङ्प्रकृतेः कृष्णाकर्तृकाचारसदृशोऽर्थः । क्यर्ङ्थ आचारः । तथाच 'कृष्णकर्तृकाचारसदृश एकदेवदत्तकर्तृक आचारः' इति बोधः । विष्णुद्विजयोः कृष्णदेवदत्तयोश्र्व उपमानोपमेयभावोऽर्थाद् गम्यते, न तु शाब्द इति ध्येयम् ।
अत्र पुत्रकृष्णादिपदार्थानां क्यजाद्यर्थेनैकार्थीभावे साध्यत्वेनैव भानम्, शब्दशक्तिस्वभावात् । अत एव 'व्याकरणं सूत्रं करोति' इतिवाक्ये सम्बन्धित्वेनान्वितस्यापि व्याकरणस्य 'व्याकरणं सूत्रयति' इत्यादौ कर्मत्वमित्याद्यूह्यम् ।
इति क्यजाद्यर्थविचारः ।