वेदान्तपरिभाषा/अनुपलब्धिपरिच्छेदः

विकिस्रोतः तः
← अर्थापत्तिपरिच्छेदः वेदान्तपरिभाषा
अनुपलब्धिपरिच्छेदः
धर्मराजाध्वरीन्द्रः
विषयपरिच्छेदः →

अथानुपलब्धिपरिच्छेदः

इदानीं षष्ठं प्रमाणं निरूप्यते। ज्ञानकरणाजन्याभावानुभवासाधारणकारणमनुपलब्धिरूपं प्रमाणम्। अनुमानादिजन्यातीन्द्रियाभावानुभवहेतौ अनुमानादावतिव्याप्तिवारणायाजन्यान्तेति पदम्। अदृष्टादौ साधारण-कारणेतिव्याप्तिवारणायासाधारणेति पदम्। अभावस्मृत्यसाधारणहेतुसंस्कारेऽतिव्याप्तिवारणायानुभवेति विशे-षणम्। न चाभावानुमितिस्थलेऽप्यनुपलब्ध्यैवाभावो गृह्यतां, विशेषाभावादिति वाच्यम्। धर्माद्यनुपलब्धि-सत्त्वेऽपि तदभावानिश्चयेन योग्यानुपलब्धेरेवाभावग्राहकत्वात्।
ननु केयं योग्यानुपब्धिः, किं योग्यस्य प्रतियोगिनोऽनुपलब्धिः, उत योग्येऽधिकरणे प्रतियोग्य-नुपलब्धिः। नाद्यः, स्तम्भे पिशाचादिभेदस्याप्रत्यक्षत्वापत्तेः। नान्त्यः, आत्मनि धर्माद्यभावस्य प्रत्यक्षत्वापत्तेरिति चेत्—न। योग्या चासावनुपलब्धिश्चेति कर्मधारयाश्रयणात्। अनुपलब्धेर्योग्यता च तर्कितप्रतियोगिसत्त्वप्रसञ्जितप्रतियोगिकत्वम्। यस्याभावो गृह्यते तस्य यः प्रतियोगी तस्य सत्त्वेनाधिकरणे तर्कितेन प्रसञ्जितमापादनयोग्यं यत्प्रतियोग्युपलब्धिस्वरूपं यस्यानुपलम्भस्य, तत्त्वं तदनुपलब्धियोग्यत्वम्। तथा हि स्फीतालोकवति भूतले ‘यदि घटः स्यात्तदा घटोपलम्भः स्यात्’ इत्यापादनसम्भवात् तादृशभूतले घटाभावोऽनुपलब्धिगम्यः। अन्धकारे तु तादृशापादनाभावान्नानुपलब्धिगम्यता। अत एव स्तम्भे तादात्म्येन पिशाचसत्त्वे स्तम्भवत्तत्प्रत्यक्षतापत्त्या तदभावोऽनुपलब्धिगम्यः। आत्मनि धर्माधर्मसत्त्वेऽपि तस्यातीन्द्रिय-तया निरुक्तोपलम्भापादनासम्भवान्न धर्माद्यभावस्यानुपलब्धिगम्यत्वम्।
ननूक्तरीत्याधिकरणेन्द्रियसन्निकर्षस्थले अभावस्यानुलब्धिगम्यत्वं त्वदनुमतं, तत्र क्लृप्तेन्द्रियमेव अभावाऽऽकारवृत्तावपि करणम् इन्द्रियान्वयव्यतिरेकानुविधानादिति चेत्-- न। तत्प्रतियोग्यनुपलब्धेरपि अभावग्रहहेतुत्वेन क्लृप्तत्वेन करणत्वमात्रस्य कल्पनात्। इन्द्रियस्य चाभावेन सह सन्निकर्षाभावेना-भावग्रहाहेतुत्वात्, इन्द्रियान्वयव्यतिरेकयोरधिकरणज्ञानाद्युपक्षीणत्वेनान्यथासिद्धेः।
ननु भूतले घटो नेत्याद्यभावानुभवस्थले भूतलांशे प्रत्यक्षत्वमुभयसिद्धमिति तत्र वृत्तिनिर्गमनस्या-वश्यकत्वेन भूतलावच्छिन्नचैतन्यवत् तन्निष्ठघटाभावावच्छिन्नचैतन्यस्यापि प्रमात्रभिन्नतया घटाभावस्य प्रत्यक्षतैव सिद्धान्तेऽपीति चेत्-- सत्यम्। अभावप्रतीतेः प्रत्यक्षत्वेऽपि तत्करणस्यानुपलब्धेर्मानान्तरत्वात्। नहि फलीभूतज्ञानस्य प्रत्यक्षत्वे तत्करणस्य प्रत्यक्षप्रमाणतानियतत्वमस्ति। तत्त्वमस्यादिवाक्यजन्यज्ञानस्य प्रत्यक्षत्वेऽपि तत्करणस्य वाक्यस्य प्रत्यक्षप्रमाणभिन्नप्रमाणत्वाभ्युपगमात्। ननु फलवैजात्यं विना कथं प्रमाणभेद इति चेत्-- न। वृत्तिवैजात्यमात्रेण प्रमाणवैजात्योपपत्तेः। तथा च घटाभावाकारवृत्तिः नेन्द्रियजन्या, इन्द्रियस्य विषयविशेषणासन्निकर्षात्, किन्तु घटानुपलब्धिरूपमानान्तरजन्येति भवत्यनुपलब्धेर्मानान्तरत्वम्।
नन्वनुपलब्धिरूपमानान्तरपक्षेऽभावप्रतीतेः प्रत्यक्षत्वे घटवति घटाभावभ्रमस्यापि प्रत्यक्षत्वापत्तौ तत्राप्यनिर्वचनीयघटाभावोऽभ्युपगम्येत। न चेष्टापत्तिः, तस्य मायोपादनकत्वेऽभावत्वानुपपत्तिः। मायोपादानकत्वाभावे मायायाः सकलकार्य्योपादानत्वानुपपत्तिरिति चेत्।
न, घटवति घटभावभ्रमो न तत्कालोत्पन्नघटाभावविषयकः, किन्तु भूतलरूपादौ विद्यमानो लौकिको घटाभावो भूतले आरोप्यत इत्यन्यथाख्यातिरेव, आरोप्यसन्निकर्षस्थले सर्वत्रान्यथाख्यातेरेव व्यवस्थापनात्। अस्तु वा प्रतियोगिमति तदभावभ्रमस्थले तदभावस्यानिर्वचनीयत्वं, तथापि तदुपादानं मायैव। नह्युपादानो-पादेययोरत्यन्तसाजात्यं, तन्तुपटयोरपि तन्तुत्वपटत्वादिना वैजात्यात्। यत्किञ्चित्साजात्यस्य मायाया अनिर्वचनीयस्य घटाभावस्य मिथ्यात्वधर्मस्य विद्यमानत्वात्। अन्यथा व्यवहारिकं घटाभावं प्रति कथं मायो-पादानमिति कुतो न शङ्केथाः। न च विजातीययोरप्युपादानोपादेयभावे ब्रह्मैव जगदुपादानं स्यादिति वाच्यम्। प्रपञ्चविभ्रमाधिष्ठानत्वरूपस्य तस्येष्टत्वात्। परिणामित्वरूपस्योपादानत्वस्य निरवयवे ब्रह्मण्यनुपपत्तेः। तथा च प्रपञ्चस्य परिणाम्युपादानं माया, न ब्रह्मेति सिद्धान्त इत्यलमतिप्रसङ्गेन।
स चाभावश्चतुर्विधः। प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति। तत्र मृत्पिण्डादौ कारणे कार्य्यस्य घटादेरुत्पत्तेः पूर्वं योऽभावः स प्रागभावः। स च भविष्यतीति प्रतीतिविषयः।
तत्रैव घटस्य मुद्गरपातानन्तरं योऽभावः स ध्वंसाभावः। ध्वंसस्यापि स्वाधिकरणकपालनाशे नाश एव। न च घटोन्मज्जनापत्तिः, घटध्वंसध्वंसस्यापि घटप्रतियोगिकध्वंसत्वात् । अन्यथा प्रागभावध्वंसात्मक-घटस्य नाशे प्रागभावोन्मज्जनापत्तिः। न चैवमपि यत्र ध्वंसाधिकरणं नित्यं तत्र कथं ध्वंसनाश इति वाच्यं, तादृशमधिकरणं यदि चैतन्यव्यक्तिरिक्तं यदा तस्य नित्यत्वमसिद्धं, ब्रह्मव्यतिरिक्तस्य सर्वस्य ब्रह्मज्ञाननिव-र्त्यतया वक्ष्यमाणत्वात्। यदि च ध्वंसाधिकरणं चैतन्यं, तदाऽसिद्धिः, आरोपितप्रतियोगिकप्रध्वंसस्याधिष्ठाने प्रतीयमानस्याधिकरणमात्रत्वात्। तदुक्तम्-
                “अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः” इति।।
एवं शुक्तिरूप्यविनाशोऽपीदमवच्छिन्नचैतन्यमेव।
यत्राधिकरणे यस्य कालत्रयेऽप्यभावः सोऽत्यन्ताभावः। यथा वायौ रूपात्यन्ताभावः। सोऽपि वियदादिवद् ध्वंसप्रतियोग्येव।
इदमिदं नेति प्रतीतिविषयोऽन्योन्याभावः। अयमेव विभागो भेदः पृथक्त्वं चेति व्यवह्रियते, भेदातिरिक्तविभागादौ प्रमाणाभावात्। अयं चान्योन्याभावोऽधिकरणस्य सादित्वे सादिः, यथा घटे पटभेदः। अधिकरणस्यानादित्वेऽनादिरेव। यथा जीवे ब्रह्मभेदः, ब्रह्मणि जीवभेदः। द्विविधोऽपि भेदो ध्वंसप्रतियोग्येव, अविद्यानिवृत्तौ तत्परतन्त्राणां निवृत्त्यवश्यंभावात्। पुनरपि भेदो द्विविधः। सोपाधिको निरुपाधिकश्चेति। तत्रोपाधिसत्ताव्याप्यसत्ताकत्वं सोपाधिकत्वम्। तच्छून्यत्वं निरुपाधिकत्वम्। तत्राद्यो यथा-- एकस्यैवाकाशस्य घटाद्युपाधिभेदेन भेदः, यथा चैकस्य सूर्य्यस्य जलभाजनभेदेन भेदः, यथा चैकस्य ब्रह्मणोऽन्तःकरणभेदाद्भेदः। निरूपाधिकभेदो यथा-- घटे पटभेदः। न च ब्रह्मण्यपि प्रपञ्चभेदाभ्युपगमेऽद्वैतविरोधः। तात्त्विकभेदानभ्युपगमेन वियदादिवदद्वैताव्याघातात्। प्रपञ्चस्याद्वैते ब्रह्मणि कल्पितत्वाङ्गीकारात्। तदुक्तं सुरेश्वराचार्य्यैः-
अक्षमा भवतः केयं साधकत्वप्रकल्पने।
किं न पश्यसि संसारं तत्रैवाज्ञानकल्पितम्।। इति।
अत एव विवरणे अविद्यानुमाने प्रागभावव्यतिरिक्तत्वं विशेषणं, तत्त्वप्रदीपिकायां चाविद्यालक्षणे भावत्वविशेषणं सङ्गच्छते।
एवं चतुर्विधानामभावानां योग्यानुपलब्ध्या प्रतीतिस्तत्रानुपलब्धिर्मानान्तरम्।
एवमुक्तानां प्रमाणां प्रामाण्यं स्वत एवोत्पद्यते ज्ञायते च।
तथा हि स्मृत्यनुभवसाधारणं संवादिप्रवृत्त्यनुकूलं तद्वति तत्प्रकारकज्ञानत्वं प्रामाण्यम्। तच्च ज्ञान-सामान्यसामग्रीप्रयोज्यं, न त्वधिकगुणमप्यपेक्षते, प्रमामात्रेऽनुगतगुणाभावात्। नापि प्रत्यक्षप्रमायां भूयोऽ-वयवेन्द्रियसन्निकर्षः, रूपादिप्रत्यक्षे आत्मप्रत्यक्षे च तदभावात्। सत्यपि तस्मिन् पीतः शङ्ख इति प्रत्यक्षस्य भ्रमत्वात्। अत एव सल्लिङ्गपरामर्शादिकमप्यनुमित्यादिप्रमायां न गुणः, असल्लिङ्गपरामर्शादिस्थलेऽपि विषयाबाधेनानुमित्यादेः प्रमात्वात्। न चैवप्रमापि प्रमा स्यात्, ज्ञानसामान्यसामग्र्या अविशेषादिति वाच्यम्। दोषाभावस्यापि हेतुत्वाङ्गीकारात्। न चैवं परतस्त्वम्, आगन्तुकभावकारणापेक्षायामेव परतस्त्वात्।
ज्ञायते च प्रामाण्यं स्वतः। स्वतोग्राह्यत्वं च दोषाभावे सति यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वम्। स्वाश्रयो वृत्तिज्ञानं, तद्ग्राहकं साक्षिज्ञानं, तेनापि वृत्तिज्ञाने गृह्यमाणे तद्गतप्रामाण्यमपि गृह्यते। न चैवं प्रामाण्यसंशयानुपपत्तिः, तत्र संशयानुरोधेन दोषस्यापि सत्त्वेन दोषाभावघटितस्वाश्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाग्रहात्। यद्वा यावत्स्वाश्रयग्राहकग्राह्यत्वयोग्यत्वं स्वतस्त्वम्। संशस्थले प्रामाण्यस्योक्त-योग्यतासत्त्वेऽपि दोषवशेनाग्रहान्न संशयानुपपत्तिः।
अप्रामाण्यं तु न ज्ञानसामान्यसामग्रीप्रयोज्यं, प्रमायामप्यप्रामाण्यापत्तेः। किन्तु दोषप्रयोज्यम्। नाप्यप्रामाण्यं यावत्स्वाश्रयग्राहकग्राह्यम्, अप्रामाण्यघटकतदभाववत्त्वादेर्वृत्तिज्ञानानुपनीतत्वेन साक्षिणा ग्रहीतु-मशक्यत्वात्। किन्तु विसंवादिप्रवृत्त्यादिलिङ्गकानुमित्यादिविषय इति परत एवाप्रामाण्यमुत्पद्यते ज्ञायते च।
।। इति वेदान्तपरिभाषायामनुपलब्धिपरिच्छेदः।।६।।