वेदान्तपरिभाषा/विषयपरिच्छेदः

विकिस्रोतः तः
← अनुपलब्धिपरिच्छेदः वेदान्तपरिभाषा
विषयपरिच्छेदः
धर्मराजाध्वरीन्द्रः
प्रयोजनपरिच्छेदः →

अथ विषयपरिच्छेदः

एवं निरूपितानां प्रमाणानां प्रामाण्यं द्विविधम्। व्यावहारिकतत्त्वावेदकत्वं पारमार्थिकतत्त्वावेदकत्वं चेति। तत्र ब्रह्मस्वरूपावगाहिप्रमाणव्यतिरिक्तानां सर्वप्रमाणानामाद्यं प्रामाण्यं, तद्विषयाणां व्यवहारदशायां बाधाभावात्। द्वितीयं तु जीवब्रह्मैक्यपराणां “सदेव सोम्येदमग्र आसीत्” इत्यादीनां “तत्त्वमसि” इत्यन्तानाम्, तद्विषयस्य जीवपरैक्यस्य कालत्रयाबाध्यत्वात्। तच्चैक्यं तत्त्वंपदार्थज्ञानाधीनज्ञानमिति प्रथमं तत्पदार्थो लक्षणप्रमाणाभ्यां निरूप्यते।
तत्र लक्षणं द्विविधं स्वरूपलक्षणं तटस्थलक्षणं चेति। तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम्। यथा सत्यादिकं ब्रह्मस्वरूपलक्षणं, “सत्यं ज्ञानमनन्तं ब्रह्म” “आनन्दो ब्रह्मेति व्यजानात्” इत्यादिश्रुतेः। ननु स्वरूपस्य स्ववृत्तित्वाभावेन कथं लक्षणत्वमिति चेत्-- न। स्वस्यैव स्वापेक्षया धर्मधर्मिभावकल्पनया लक्ष्य-लक्षणत्वसम्भवात्। तदुक्तम्- “आनन्दो विषानुभवो नित्यत्वं चेति सन्ति धर्माः, अपृथक्त्वेऽपि चैतन्या-त्पृथगिवावभासन्ते” (इति)।
तटस्थलक्षणं नाम यावल्लक्ष्यकालमनवस्थितत्वे सति यद्व्यावर्त्तकं तदेव। यथा गन्धवत्त्वं पृथिवी-लक्षणम्। महाप्रलये परमाणुषु, उत्पत्तिकाले घटादिषु गन्धाभावात्। प्रकृते च जगज्जन्मादिकारणत्वम्। अत्र जगत्पदेन कार्य्यजातं विवक्षितं, कारणत्वं कर्तृत्वम्, अतोऽविद्यादौ नातिव्याप्तिः। कर्तृत्वं च तदुपादानगोचरा-परोक्षज्ञानविचीकर्षाकृतिमत्वम्। ईश्वरस्य तावदुपादानगोचरापरोक्षज्ञानसद्भावे च “यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः। तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते” इत्यादिश्रुतिर्मानम्। तादृशचिकीर्षासद्भावे च “सोऽकामयत बहु स्यां प्रजायेय” इत्यादिश्रुतिर्मानम्। तादृशकृतौ च “तन्मनोऽकुरुत” इत्यादिवाक्यम्। ज्ञानेच्छाद्यन्यतमगर्भलक्षणत्रितयं विवक्षितम्, अन्यथा व्यर्थविशेषणत्वापत्तेः। अत एव जन्मस्थिति-ध्वंसानामन्यतमस्यैव लक्षणे प्रवेशः। एवं च लक्षणानि नव सम्पद्यन्ते। ब्रह्मणो जगज्जन्मादिकारणत्वे च “यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति” इत्यादिश्रुतिर्मानम्।
यद्वा निखिलजगदुपादानत्वं ब्रह्मणो लक्षणम्, उपादानत्वं च जगदध्यासाधिष्ठानत्वं, जगदाकारेण परिणाममानमायाधिष्ठानत्वं वा। एतादृशमेवोपादानत्वमभिप्रेत्य “इदं सर्वं यदयमात्मा’’ “सच्च त्यच्चाभवत्” “बहु स्यां प्रजायेय” इत्यादिश्रुतिषु ब्रह्मप्रपञ्चयोस्तादात्म्यव्यपदेशः। “घटः सन्” “घटो भाति” “घट इष्ट” इत्यादिलौकिकव्यपदेशोऽपि सच्चिदानन्दरूपब्रह्मैक्याधिक्याध्यासात्।
नन्वानन्दात्मकचिदध्यासात् घटादेरिष्टत्वव्यवहारे दुःखस्यापि तत्राध्यासात् तस्यापीष्टत्वादिव्यव-हारापत्तिरिति चेत्-- न। आरोपे सति निमित्तानुसरणं, न तु निमित्तमस्तीति आरोपः इत्याभ्युपगमेन दुःखादौ सच्चिदंशाध्यासेऽपि आनन्दांशाध्यासाभावात्। जगति नामरूपांशद्वयव्यवहारस्तु अविद्यापरिणामात्मकनाम-रूपसम्बन्धात्। तदुक्तम्-
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम्।
आद्यं त्रयं ब्रह्मरूपं, जगद्रूपं ततो द्वयम्।। इति।
अथ जगतो जन्मक्रमो निरूप्यते। तत्र सर्गाद्यकाले परमेश्वरः सृज्यमानप्रपञ्चवैचित्र्यहेतु-प्राणिकर्मसहकृतः अपरिमितानिरूपितशक्तिविशेषविशिष्टमायासहितः सन् नामरूपात्मकनिखिलप्रपञ्चं प्रथमं बुद्धावाकलय्य “इदं करिष्यामि” इति सङ्कल्पयति “तदैक्षत बहु स्यां प्रजायेय” इति, “सोऽकामयत बहु स्यां प्रजायेय” इत्यादिश्रुतेः। तत आकाशादीनि पञ्च भूतानि अपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यान्युत्पद्यन्ते। तत्राकाशस्य शब्दो गुणः, वायोस्तु शब्दस्पर्शौ, तेजसस्तु शब्दस्पर्शरूपाणि, अपां तु शब्दस्पर्शरूपारसाः, पृथिव्यास्तु शब्दस्पर्शरूपरसगन्धाः। न तु शब्दस्याकाशमात्रगुणत्वं, वाय्वादावपि तदुपलम्भात्। न चासौ भ्रमः, बाधकाभावात्।
इमानि भूतानि त्रिगुणमायाकार्य्याणि त्रिगुणानि। गुणाः सत्त्वरजस्तमांसि। एतैश्च सत्त्वगुणोपेतैः पञ्चभूतैर्व्यस्तैर्यथाक्रमं श्रोत्र-त्वक्-चक्षू-रसन-घ्राणाख्यानि पञ्चेन्द्रियाणि जायन्ते। एतैरेव सत्त्वगुणोपेतैः पञ्चभूतैर्मिलितैर्मनो-बुद्धि-अहङ्कार-चित्तानि च जायन्ते । श्रोत्रादीनां पञ्चानां क्रमेण दिग्-वात-अर्क-वरुण-अश्विनोऽधिष्ठातृदेवताः। मन आदीनां क्रमेण चन्द्र-चतुर्मुख-शङ्कर-अच्युता अधिष्ठातृदेवताः।
एतैरेव रजोगुणोपेतैः पञ्चभूतैर्यथाक्रमं वाक्-पाणि-पाद-पायु-उपस्थानि कर्मेन्द्रियाणि जायन्ते। तेषां च क्रमेण वह्नि-इन्द्र-उपेन्द्र-मृत्यु-प्रजापतयोऽधिष्ठातृदेवताः। रजोगुणोपेतैः पञ्चभूतैर्मिलितैः पञ्च वायवः प्राण-अपान-व्यान-उदान-समानाख्या जायन्ते। तत्र प्राग्गमनवान् वायुः प्राणो नासादिस्थानवर्ती। अर्वाग्गमनवान् अपानः पाय्वादिस्थानवर्ती। विष्वग्गतिमान् व्यानः अखिलशरीरवर्ती। उर्ध्वगमनवानुत्क्रमणवायुरुदानः, सः कण्ठस्थानवर्ती।
तैश्च तमोगुणोपेतैरपञ्चीकृतभूतैः पञ्चीकृतानि भूतानि जायन्ते। “तासां च त्रिवृतं त्रिवृतमेकैकां करवाणि” इति श्रुतेः पञ्चीकरणोपलक्षणार्थत्वात्। पञ्चीकरणप्रकारश्चेत्थम्। आकाशमादौ द्विधा विभज्य तयोरेकं भागं पुनश्चतुर्धा विभज्य तेषान्तु चतुर्णामंशानां वाय्वादिषु संयोजनम्। एवं वायुं द्विधा विभज्य तयोरेकं भागं पुनश्चतुर्धा विभज्य तेषां चतुर्णामंशानामाकाशादिषु योजनम्। एवं तेजआदीनामपि। तदेवमेकैकभूतस्यार्द्धं स्वांशात्मकम्, अर्द्धान्तरं चतुर्विधभूतमयमिति पृथिव्यादिषु स्वांशाधिक्यात्पृथिव्यादिव्यवहारः। तदुक्तम्- “वैशेष्यात्तु तद्वादस्तद्वादः” इति।
तेश्चापञ्चीकृतभूतैर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्य्यन्तं स्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चक-कर्मेन्द्रियपञ्चक-प्राणादिपञ्चकसंयुक्तं जायते। तदुक्तम्-
पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्।
अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम्।। इति।
तच्च द्विविधं परमपरं चेति। परं हिरण्यगर्भलिङ्गशरीरम्। अपरम् अस्मदादिलिङ्गशरीरम्। तत्र हिरण्यगर्भलिङ्गशरीरं महत्तत्वम्। अस्मदादिलिङ्गशरीरमहङ्कार इत्याख्यायते।
एवं तमोगुणयुक्तेभ्यः पञ्चीकृतभूतेभ्यो भूम्यन्तरिक्षस्वर्महर्जनतपःसत्याख्यस्य ऊर्ध्वलोकसप्तकस्य अतल-पाताल-वितल-सुतल-तलातल-रसातल-महातलाख्यस्याधोलोकसप्तकस्य ब्रह्माण्डस्य, जरायुज-अण्डज-स्वेदज-उद्भिज्जाख्यानां चतुर्विधस्थूलशरीराणां चोत्पत्तिः। तत्र जरायुजानि जरायुभ्यो जातानि मनुष्यपश्वादीनि शरीराणि। अण्डजानि अण्डेभ्यो जातानि पक्षिपन्नगादिशरीराणि। स्वेदजानि तु स्वेदाज्जातानि यूकामशकादीनि, उद्भिज्जानि तु भूमिमुद्धिद्य जातानि वृक्षादीनि। वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरत्वम्।
अत्र च परमेश्वरस्य पञ्चतन्मात्राद्युत्पत्तौ सप्तदशावयवोपेतलिङ्गशरीरोत्पत्तौ हिरण्यगर्भस्थूलशरीरो-त्पत्तौ च साक्षात्कतृत्वम्। इतरनिखिलप्रपञ्चोत्पत्तौ हिरण्यगर्भादिद्वारा “हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति श्रुतेः।
हिरण्यगर्भो नाम मूर्त्तित्रयादन्यः प्रथमो जीवः।
“स वै शरीरी प्रथमः स वै पुरुष उच्यते।
आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्तत।।“
“हिरण्यगर्भः समवर्तताग्रे” इत्यादिश्रुतेः। एवं भूतभौतिकसृष्टिर्निरूपिता।
इदानीं प्रलयो निरूप्यते । प्रलयो नाम त्रैलोक्यनाशः । स चतुर्विधः नित्यः प्राकृतो नैमित्तिक आत्यन्तिकश्चेति। तत्र नित्यः प्रलयः सुषुप्तिः। तस्याः सकलकार्य्यप्रलयरूपत्वात्। धर्माधर्मपूर्वस्काराणाञ्च तदा कारणात्मनावस्थानम्। तेन सुप्तोत्थितस्य न सुखदुःखाद्यनुपपत्तिः, न वा स्मरणानुपपत्तिः। न च सुषुप्तावन्तःकरणस्य विनाशेन तदधीनप्राणादिक्रियानुपपत्तिः। वस्तुतः श्वासाद्यभावेऽपि तदुपलब्धेः पुरुषान्तरविभ्रममात्रत्वात्, सुषुप्तशरीरोपलम्भवत्। न चैवं सुप्तस्य परेतादविशेषः। सुप्तस्य हि लिङ्गशरीरं संस्कारात्मना अत्रैव वर्त्तते, परेतस्य तु लोकान्तरे इति वैलक्षण्यात्। यद्वा अन्तःकरणस्य द्वे शक्ती—ज्ञानशक्तिः, क्रियाशक्तिश्चेति। तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तौ विनाशः, न क्रियाशक्तिविशिष्टस्येति प्राणाद्यवस्थानमविरुद्धम्। “यदा सुप्तः स्वप्नं न कञ्चन पश्यन्ति, अथास्मिन् प्राणे एकधा भवति, अथैनं वाक् सर्वैर्नामभिः सहाप्येति” “सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति” इत्यादिश्रुतिरुक्तसुषुप्तौ मानम्।
प्राकृतप्रलयस्तु कार्य्यब्रह्मविनाशनिमित्तकः सकलकार्य्यनाशः। यदा तु प्रागेवोत्पन्नबह्मसाक्षात्कारस्य कार्य्यब्रह्मणो ब्रह्माण्डाधिकारलक्षणप्रारब्धकर्मसमाप्तौ विदेहकैवल्यात्मिका परममुक्तिः, तदा तल्लोकवासिना-मप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्मणा सह विदेहकैवल्यम्।
“ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्।।“ इतिश्रुतेः।
एवं तल्लोकवासिभिः सह कार्य्यब्रह्मणि मुच्यमाने तदधिष्ठितब्रह्माण्डान्तर्विनिखिललोकतदन्तर्वर्ति-स्थावरादीनां भौतिकानां भूतानां च प्रकृतौ मायायां लयो, न तु ब्रह्माणि, बाधरूपविनाशस्यैव ब्रह्मनिष्ठत्वात्। अतः प्राकृतलय इत्युच्यते।
कार्यब्रह्मणो दिवसावसाननिमित्तकस्त्रैलोक्यमात्रप्रलयो नैमित्तिकप्रलयः। ब्रह्मदिवसश्चतुर्युगसहस्र-परिमितकालः। “चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते” इति वचनात्। प्रलयकालः दिवसकालपरिमितः, रात्रिकालस्य दिवसतुल्यत्वात्। प्राकृतप्रलये नैमित्तिकप्रलये च पुराणवचनानि प्रमाणानि।
“द्विपरार्द्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः।
तदा प्रकृतयः सप्त कल्प्यन्ते प्रलयाय हि।।
एषः प्राकृतिको राजन् प्रलयो यत्र लीयते।।“ इति वचनं प्राकृतप्रलये मानम्।
“एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक्।
            शेतेऽनन्तासने नित्यमात्मसात्कृत्य चाखिलम्।।“ इति वचनं नैमित्तिके प्रलये मानम्।
तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः सर्वमोक्षः। स चैकजीववादे युगपदेव, नानाजीववादे क्रमेण। “सर्व एकीभवन्ति” इत्यादिश्रुतेः। तत्राद्यास्त्रयोऽपि प्रलयाः कर्मोपरमनिमित्ताः। तुरीयस्तु ज्ञानोदयनिमित्तः, अज्ञानेन सहैवेति विशेषः।
एवं चतुर्विधप्रलयो निरूपितः। तस्येदानीं क्रमो निरूप्यते। भूतानां भौतिकानां च न कारणलयक्रमेण लयः। कारणलयसमये कार्य्याणामाश्रयमन्तरेणावस्थानानुपपत्तेः। किन्तु सृष्टिक्रमविपरीतक्रमेण। तत्तत्कार्य्य-नाशे तत्तज्जनकादृष्टनाशस्यैव प्रयोजकतयोपादाननाशस्याप्रयोजकत्वात्। अन्यथा न्यायमतेऽपि महाप्रलये पृथिवीपरमाणुगतरूपगन्धरसादेरविनाशापत्तेः। तथा च पृथिव्या अप्सु, अपां तेजसि, तेजसो वायौ, वायोराकाशे, आकाशस्य जीवाहङ्कारे, तस्य हिरण्यगर्भाहङ्कारे, तस्य चाविद्यायामित्येवंरूप एव प्रलयः।
तदुक्तं विष्णुपुराणे-
जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते।
तेजस्यापः प्रलीयन्ते तेजो वायौ प्रलीयते।।
  वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते।
अव्यक्तं पुरुषे ब्रह्मन् निष्कले च प्रलीयते।। इति।।
एवंविधप्रलयकारणत्वं तत्पदार्थस्य ब्रह्मणस्तटस्थलक्षणम्।
ननु वेदान्तैर्बह्मणि जगत्कारणत्वेन प्रतिपाद्यमाने सति सप्रपञ्चं ब्रह्म स्यात्, अन्यथा सृष्टिवाक्यानामप्रामाण्यापत्तेरिति चेत्-- न। नहि सृष्टिवाक्यानां सृष्टौ तात्पर्य्यं, किन्त्वद्वये ब्रह्मण्येव। तत्प्रतिपत्तौ कथं सृष्टेरुपयोगः। इत्थम्-- यदि सृष्टिमनुपन्यस्य प्रपञ्चस्य निषेधो ब्रह्मणि प्रतिपाद्येत तदा ब्रह्माणि प्रतिषिद्धस्य प्रपञ्चस्य वायौ प्रतिषिद्धस्य रूपस्येव ब्रह्मणोऽन्यत्रावस्थानशङ्कायां न निर्विचिकित्सितमद्वितीयत्वं प्रतिपादितं स्यात्। ततः सृष्टिवाक्यात् ब्रह्मोपादेयत्वज्ञाने सत्युपादानं विना कार्य्यस्यान्यत्र सद्भावशङ्काया निरस्ततया “नेति नेति” इत्यादिना ब्रह्मण्यपि तस्यासत्त्वोपपादने प्रपञ्चस्य तुच्छत्वावगमे निरस्तनिखिलद्वैतविभ्रमम् अखण्ड-सच्चिदानन्दैकरसं ब्रह्म सिद्ध्यतीति परम्परया सृष्टिवाक्यानामद्वितीये ब्रह्मण्येव तात्पर्य्यम्।
उपासनाप्रकरणपठितसगुणब्रह्मवाक्यानामुपासनाविध्यपेक्षितगुणारोपमात्रपरत्वं, न गुणपरत्वम्।
निर्गुणप्रकरणपठितानां सगुणवाक्यानां तु निषेधवाक्यापेक्षितनिषेध्यसम्पादकत्वेन विनियोग इति न किञ्चिदपि वाक्यमद्वितीयब्रह्मपतिपादने विरुध्यते।
तदेवं स्वरूपतटस्थलक्षणलक्षितं तत्पदवाच्यमीश्वरचैतन्यं मायाप्रतिबिम्बितमिति केचित्। तेषामयमाशयः-- जीवपरमेश्वरसाधारणचैतन्यमात्रं बिम्बम्। तस्यैव बिम्बस्याविद्यात्मिकायां मायायां प्रति-बिम्बमीश्वरचैतन्यम्, अन्तःकरणेषु प्रतिबिम्बं जीवचैतन्यम्। “कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः” इति श्रुतेः। एतन्मते जलाशयगत-शरावगतसूर्य्यप्रतिबिम्बयोरिव जीवपरमेश्वरयोर्भेदः। अविद्यात्मकोपाधे-र्व्यापकतया तदुपाधिकेश्वरस्यापि व्यापकत्वम्। अन्तःकरणस्य परिच्छिन्नतया तदुपाधिकजीवस्यापि परिच्छिन्नत्वम्।
एतन्मते अविद्याकृतदोषाः जीव इव परमेश्वरेऽपि स्युः, उपाधेः प्रतिबिम्बपक्षपातित्वादित्यस्वरसात् बिम्बात्मकमीश्वरचैतन्यम् इत्यपरे। तेषामयमाशयः-- एकमेव चैतन्यं बिम्बत्वाक्रान्तमीश्वरचैतन्यं, प्रति-बिम्बत्वाक्रान्तं जीवचैतन्यम्। बिम्बप्रतिबिम्बकल्पनोपाधिश्चैकजीववादे अविद्या, अनेकजीववादे अन्तः-करणान्येव। अविद्यान्तःकरणोपाधिप्रयुक्तो जीवपरभेदः। उपाधिकृतदोषाश्च प्रतिबिम्बे जीव एव वर्तन्ते, न तु बिम्बे परमेश्वरे, उपाधेः प्रतिबिम्बपक्षपातित्वात्। एतन्मते च गगनसूर्यस्य जलादौ भासमानप्रतिबिम्बसूर्यस्येव जीवपरयोर्भेदः। ननु ग्रीवास्थमुखस्य दर्पणप्रदेश इव बिम्बचैतन्यस्य परमेश्वरस्य जीवप्रदेशे अभावात् तस्य सर्वान्तर्यामित्वं न स्यादिति चेत्-- न। साभ्रनक्षस्याकाशस्य जलादौ प्रतिबिम्बितत्वे बिम्बभूतमहाकाशस्यापि जलादिप्रवेशसम्बन्धदर्शनेन परिच्छिन्नबिम्बस्य प्रतिबिम्बदेशासम्बन्धेऽप्यपरिच्छन्नब्रह्मबिम्बस्य प्रतिबिम्बप्रदेशसम्बन्धाविरोधात्। न च रूपहीनस्य ब्रह्मणो न प्रतिबिम्बसम्भवः, रूपवत एव तथात्वदर्शनादिति वाच्यम्। नीरूपस्यापि रूपस्य प्रतिबिम्बदर्शनात्। न च नीरूपस्य द्रव्यस्य प्रतिबिम्बाभावनियमः, आत्मनो द्रव्यत्वाभावस्योक्तत्वात्। “एकधा बहुधा चैव दृश्यते जलचन्द्रवत्” “यथा ह्ययं ज्योतिरात्मा विवस्वानापो भिन्ना बहुधैकोऽनुगच्छन्” इत्यादिवाक्येन ब्रह्मप्रतिबिम्बाभावानुमानस्य बाधितत्वाच्च। तदेवं तत्पदार्थो निरूपितः।
इदानीं त्वंपदार्थो निरूप्यते। एकजीववादे अविद्याप्रतिबिम्बो जीवः। अनेकजीववादे त्वन्तःकरण-प्रतिबिम्बः। स च जाग्रत्स्वप्नसुषुप्तिरूपावस्थात्रयवान्। तत्र जाग्रद्दशा नाम इन्द्रियजन्यज्ञानावस्था। अवस्थान्तरे इन्द्रियाभावान्नातिव्याप्तिः। इन्द्रियजन्यज्ञानं चान्तःकरणवृत्तिः, स्वरूपज्ञानस्यानादित्वात्। सा चान्तःकरणवृत्तिरावरणाभिभवार्थेत्येकं मतम्। तथा हि-- अविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधिष्ठानचैतन्यस्य जीवरूपतया जीवस्य सर्वदा घटादिभानप्रसक्तौ घटाद्यवच्छिन्नचैतन्यावरकमज्ञानं मूलविद्यापरतन्त्रमवस्थापदवाच्यमभ्युपगन्तव्यम्। एवं सति सर्वदा न घटादेर्भानप्रसङ्गः, अनावृत्तचैतन्यस्यैव भानप्रयोजकत्वात्। तस्य चावरणस्य सदातनत्वे कदाचिदपि घटादिभानं न स्यादिति तद्भङ्गे वक्तव्ये, तद्भङ्गजनकं न चैतन्यमात्रं, तद्भासकस्य तदनिवर्त्तकत्वात्। नापि वृत्त्युपहितचैतन्यं, परोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्षव्यावृत्तवृत्तिविशेषस्य तदुपहितचैतन्यस्य वाऽऽवरणभङ्गजनकत्वमित्यावरणाभिभवार्था वृत्तिरित्युच्यते।
सम्बन्धार्था वृत्तिरित्यपरं मतम्। तत्राप्यविद्योपाधिकोऽपरिच्छिन्नो जीवः। स च घटादिप्रदेशे विद्य-मानोऽपि घटाद्याकारापरोक्षवृत्तिविरहदशायां न घटादिकमवभासयति, घटादिना सम्बन्धाभावात्। तत्तदाकार-वृत्तिदशायां तु भासयति, तदा सम्बन्धसत्त्वात्। नन्वविद्योपाधिकस्यापरिच्छिन्नजीवस्य स्वत एव समस्तवस्तु-सम्बद्धस्य वृत्तिविरहदशायां सम्बन्धाभावाभिधानमसङ्गतम्। असङ्गत्वदृष्ट्या च सम्बन्धाभावाभिधाने वृत्त्यन-न्तरमपि सम्बन्धो न स्यादिति चेत्— उच्यते। नहि वृत्तिविरहदशायां जीवस्य घटादिना सह सम्बन्धसामान्यं निषेधामहे, किं तर्हि घटभानप्रयोजकं सम्बन्धविशेषम्। स च सम्बन्धविशेषो विषयस्य जीवचैतन्यस्य च व्यङ्ग्यव्यञ्जकभावलक्षणः कादाचित्कः तदाकारवृत्तिनिबन्धनः। तथा हि तैजसमन्तःकरणं स्वच्छद्रव्यत्वात्स्वत एव जीवचैतन्याभिव्यञ्जनसमर्थं, घटादिकं तु न तथा, अस्वच्छद्रव्यत्वात्। स्वाकारवृत्तिसंयोगदशायां तु वृत्त्यभिभूतजाड्यधर्मकतया वृत्त्युत्पादितचैतन्याभिव्यञ्जनयोग्यताश्रयतया च वृत्त्युदयानन्तरं चैतन्यमभि-व्यनक्ति। तदुक्तं विवरणे-- अन्तःकरणं हि स्वस्मिन्निव स्वसंसर्गिण्यपि घटादौ चैतन्याभिव्यक्ति-योग्यतामापादयति। दृष्टं चास्वच्छद्रव्यस्यापि स्वच्छद्रव्यसम्बन्धदशायां प्रतिबिम्बग्राहित्वम्। यथा कुड्यादेर्जलादिसंयोगदशायां मुखादिप्रतिबिम्बग्राहिता। घटादेरभिव्यञ्जकत्वं च तत्प्रतिबिम्बग्राहित्वं, चैतन्याभिव्यक्तत्वं च तत्र प्रतिबिम्बितत्वम्। एवंविधाभिव्यञ्जकत्वसिद्ध्यर्थमेव वृत्तेरपरोक्षस्थले बहिर्निर्गमनाङ्गीकारः। परोक्षस्थले तु वह्न्यादेर्वृत्तिसंयोगाभावेन चैतन्यानभिव्यञ्जकतया नापरोक्षत्वम्। एतन्मते विषयाणामपरोक्षत्वं चैतन्याभिव्यञ्जकत्वमिति द्रष्टव्यम् (मतान्तरं तु पूर्वोक्तं-- घटादेर्विषयस्य प्रत्यक्षत्वं तु प्रमात्रभिन्नत्वम्)। एवं जीवस्यापरिच्छिन्नत्वेऽपि वृत्तेः सम्बन्धार्थत्वं निरूपितम्।
इदानीं परिच्छिन्नत्वपक्षे सम्बन्धार्थत्वं निरूप्यते। तथा हि अन्तःकरणोपाधिको जीवः। तस्य च घटाद्यनुपादानता, घटादिदेशासम्बन्धात्। किन्तु ब्रह्मैव घटाद्युपादानं, तस्य मायोपहितचैतन्यस्य सकलघटाद्य-न्वयित्वात्। अत एव ब्रह्मणः सर्वज्ञता। तथा च जीवस्य घटाद्यधिष्ठानब्रह्मचैतन्याभेदमन्तरेण घटाद्यवभासा-सम्भवे प्राप्ते तदवभासाय घटाद्यधिष्ठानब्रह्मचैतन्याभेदसिद्ध्यर्थं घटाद्याकारवृत्तिरिष्यते। ननु वृत्त्यापि कथं प्रमातृविषयचैतन्ययोरभेदः सम्पाद्यते? घटान्तःकरणरूपोपाधिभेदेन तदवच्छिन्नचैतन्ययोरभेदासम्भवादिति चेत्-- न। वृत्तेर्बहिर्देशनिर्गमनाङ्गीकारेण वृत्त्यन्तःकरणविषयाणामेकदेशस्थत्वेन उपधेयभेदाभावस्य उक्तत्वात्। एवमपरोक्षस्थले मतभेदेन वृत्तेर्विनियोग उपपादितः।
इन्द्रियाजन्यविषयगोचरापरोक्षान्तःकरणवृत्त्यवस्था स्वप्नावस्था। जाग्रदवस्थाव्यावृत्त्यर्थम् इन्द्रिया-जन्येति। अविद्यावृत्तिमत्त्यां सुषुप्तावतिव्याप्तिवारणायान्तःकरणेति।
सुषुप्तिर्नामाविद्यागोचरा अविद्यावृत्त्यवस्था। जाग्रत्स्वप्नयोरविद्याकारवृत्तेरन्तःकरणवृत्तित्वान्न तत्रातिव्याप्तिः। अत्र केचित्- मरणमूर्च्छयोरवस्थान्तरत्वमाहुः। अपरे सुषुप्तावेव तयोरन्तर्भावमाहुः। तत्र तयोरवस्थात्रयान्तर्भावबहिर्भावयोस्त्वंपदार्थनिरूपणे उपयोगाभावान्न तत्र यत्यते।
तस्य मायोपाध्यपेक्षयैकत्वम्, अन्तःकरणोपाध्यपेक्षया नानात्वं व्यवह्नियते। एतेन जीवस्याणुत्वं प्रत्युक्तम्। “बुद्धेर्गुणेनात्मगुणेन चैवाराग्रमात्रो ह्यवरोऽपि दृष्टः” इत्यादौ जीवस्य बुद्धिशब्दवाच्यान्तःकरण-परिमाणोपाधिकस्य परमाणुत्वश्रवणात्। स च जीवः स्वयंप्रकाशः स्वप्नावस्थामधिकृत्य “अत्रायं पुरुषः स्वयंज्योतिः” इति श्रुतेः। अनुभवरूपश्च, “प्रज्ञानघन एव” इत्यादिश्रुतेः। अनुभवामीति व्यवहारस्तु वृत्तिप्रतिबिम्बितचैतन्यमादायोपपद्यते। एवं त्वंपदार्थो निरूपितः।
अधुना तत्त्वंपदार्थयोरैक्यं महावाक्यप्रतिपाद्यमभिधीयते।
ननु नाहमीश्वर इत्यादिप्रत्यक्षेपण किञ्चि-ज्ज्ञत्वसर्वज्ञत्वविरुद्धधर्माश्रयत्वादिलिङ्गेन “द्वा सुपर्णा” इत्यादिश्रुत्या, द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते।।
इत्यादिस्मृत्या च जीवपरभेदस्यावगतत्वेन तत्त्वमस्यादिवाक्यम् “आदित्यो यूपः” “यजमानः प्रस्तरः” इत्यादिवाक्यवदुपचरितार्थमेवेति चेत्— न। भेदप्रत्यक्षस्य सम्भावितकरणदोषस्यासम्भावितदोषवेदजन्यज्ञानेन बाध्यमानत्वात्, अन्यथा चन्द्रगताधिकपरिमाणग्राहिज्योतिःशास्त्रस्य चन्द्रप्रादेशग्राहिप्रत्यक्षेण बाधापत्तेः। पाकरक्ते घटे “रक्तोऽयं न श्याम” इतिवत् सविशेषणे हीति न्यायेन जीवपरभेदग्राहिप्रत्यक्षस्य विशेषणीभूत-धर्मभेदविषयत्वाच्च। अत एव नानुमानमपि प्रमाणम्, आगमविरोधात्, मेरुपाषाणमयत्वानुमानवत्। नाप्यागमा-न्तरविरोधः, तत्परातत्परवाक्ययोस्तत्परवाक्यस्य बलवत्त्वेन लोकसिद्धभेदानुवादिद्वासुपर्णादिवाक्यापेक्षया उप-क्रमोपसंहाराद्यवगताद्वैततात्पर्य्यविशिष्टस्य तत्त्वमस्यादिवाक्यस्य प्रबलत्वात्।
न च जीवपरैक्ये विरुद्धधर्माश्रयत्वानुपपत्तिः। शीतस्यैव जलस्यौपाधिकोष्ण्याश्रयत्ववत्स्वभावतो निर्गुणस्यैव तस्यान्तःकरणाद्यौपाधिककर्तृत्वाद्याश्रयत्वप्रतिभासोपपत्तेः। यदि च जलादावौष्ण्यमारोपितं, तदा प्रकृतेऽपि तुल्यम्। न च सिद्धान्ते कर्तृत्वस्य क्वचिदप्यभावात् आरोप्यप्रमाहितसंस्काराभावे कथमारोप इति वाच्यम्। लाघवेनारोप्यविषयसंस्कारत्वेनैव तस्य हेतुत्वात्। न च प्राथमिकारोपे का गतिः? कर्तृत्वाद्यध्यास-प्रवाहस्यानादित्वात्। तत्त्वंपदवाच्ययोर्विशिष्टयोरैक्यायोग्यत्वेऽपि लक्ष्यस्वरूपयोः ऐक्यमुपपादितमेव। अत एव तत्प्रतिपादकतत्त्वमस्यादिवाक्यानाम् अखण्डार्थत्वं, सोऽयमित्यादिवाक्यवत्। न च कार्य्यपराणामेव प्रामाण्यम्, “चैत्र पुत्रस्ते जातः” इत्यादौ सिद्धेऽपि सङ्गतिग्रहात्। एवं सर्वप्रमाणाविरुद्धं श्रुतिस्मृतीतिहासपुराणप्रतिपाद्यं जीवपरैक्यं वेदान्तशास्त्रस्य विषय इति सिद्धम्। इति विषयपरिच्छेदः।