विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः १५६-१६०
← अध्यायाः १५१-१५५ | विष्णुधर्मोत्तरपुराणम् अध्यायाः १५६-१६० वेदव्यासः |
अध्यायाः १६१-१६५ → |
2.156
।। पुष्कर उवाच ।।
इन्द्रध्वजशिरो भज्येत्पतेदिन्द्रध्वजो यदि ।।
भज्यते शक्रयष्टिर्वा नृपतेर्नियतं वधः ।। १ ।।
यन्त्रभङ्गे तथा ज्ञेयं रज्जुच्छेदे तथैव च ।।
मातृकायास्तथा भङ्गे परचक्रे भयं द्विज ।। २ ।।
दिव्यान्तरिक्षभौमाः स्युरुत्पातास्तत्र वै यथा ।।
तेषां तीव्रतमं ज्ञेयं फलमत्यन्तदारुणम् ।। ३ ।।
निलीयते चेत्क्रव्यादः शक्रयष्टौ यदा द्विज ।।
राजा वा म्रियते तत्र स वा देशो विनश्यति ।। ४ ।।
इंद्रध्वजोपकरणं यत्किंचिद्द्विजसत्तम ।।
विनश्यति तदा ज्ञेया पीडा नगरवासिनाम् ।। ५ ।।
इंद्रवाजिनिमित्ते तु प्रायश्चित्तमिदं स्मृतम् ।।
इन्द्रयागं पुनः कुर्यात्सौवर्णेनेन्द्रकेतुना ।। ६ ।।
राज्यं दत्त्वा च गुरुवे बन्धनानि प्रमोचयेत् ।।
सप्ताहं पूजयित्वा च ध्वजं दद्याद्द्विजातिषु ।। ७ ।।
शान्तिरैन्द्री भवेत्कार्या यष्टव्यश्च पुरन्दरः ।।
महाभोज्यानि कार्याणि ब्राह्मणानां दिनेदिने ।। ८ ।।
गावश्च देया द्रिजपुङ्गवेभ्यो हिरण्यवासोरजतैः समेताः ।।
एवं कृते शान्तिमुपैति पाप वृद्धिस्तथा स्यान्मनुजाधिपस्य ।। ९ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे इन्द्रध्वज निमित्तशमनवर्णनो नाम षट्पञ्चाशदुत्तरशततमोऽध्यायः ।।१५६।।
2.157
राम उवाच ।।
शक्रोच्छ्राये तु यान्मन्त्रान्सोपवासो नृपः पठेत् ।।
तानहं श्रोतुमिच्छामि सर्वधर्मभृतां वर ।।१।।
पुष्कर उवाच ।।
शृणु मन्त्रानिमान्सम्यक्सर्वकिल्बिषनाशनान् ।।
प्राप्ते शक्रध्वजोच्छ्राये यः पठेत्प्रयतो नृपः ।।२।।
वरस्त्विन्द्रजिता मित्रवृत्रहन्पाकशासन ।।
देवदेव महाभाग त्वं हि वर्धिष्णुतां गतः।।३।।
त्वं प्रभुः शाश्वतश्चैव सर्वभूतहिते रतः।।
अनन्ततेजो विरजो यशोविजयवर्धनः ।।
अप्रभुस्त्वं प्रभुर्नित्यमुत्तिष्ठ सुरपूजित ।। ४ ।।
ब्रह्मा स्वयंभूर्भगवान्सर्वलोकपितामहः ।।
रुद्रः पिनाकभृद्दृप्तश्चतसृद्वयसंस्तुतः ।। ५ ।।
योगस्य नेता कर्ता च तथा विष्णुरुरुक्रमः ।।
तेजस्ते वर्धयन्त्वेते नित्यमेव महाबलाः ।। ६ ।।
अनादिनिधनो देवो ब्रह्मा स्रष्टा सनातनः ।।
अग्निस्तेजोमयो भागो रुद्रात्मा पार्वतीसुतः ।। ७ ।।
कार्तिकेयः शक्तिधरः षड्वक्त्रश्च गदाधरः ।।
शतं वरेण्यो वरदस्तेजो वर्धयतां विभुः ।। ८ ।।
देवः सेनापतिः स्कन्दः सुरप्रवरपूजितः ।।
आदित्या वसवो रुद्राः साध्या देवास्तथाश्विनौ ।। ९ ।।
भृगुरङ्गिरसश्चैव विश्वेदेवा मरुद्गणाः ।।
लोकपालास्त्रयश्चैव चन्द्रः सूर्योऽनलोऽनिलः ।। 2.157.१० ।।
देवाश्च ऋषयश्चैव यक्षगन्धर्वराक्षसाः ।।
समुद्रा गिरयश्चैव नद्यो भूतानि यानि च ।। ११ ।।
तेजस्तपांसि सत्यं च लक्ष्मीः श्रीः कीर्तिरेव च ।।
प्रवर्धयतु तत्तेजो जय शक्र शचीपते।।१२।।
तव चापि जयान्नित्यं त्विह संपद्यते शुभम् ।।
प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ।। १३ ।।
तव प्रसादात्पृथिवी नित्यं सस्यवती भवेत् ।।
शिवं भवतु निर्विघ्नं शम्यंतामीतयो भृशम् ।।१४ ।।
नमस्ते देवदेवेश नमस्ते बलसूदन ।।
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ।। १५ ।।
सर्वेषामेव लोकानां त्वमेका परमा गतिः ।।
त्वमेव परमः प्राणः सर्वस्यास्य जगत्पते ।। १६ ।।
पाशो ह्यसि पथः स्रष्टुं त्वमनल्पं पुरन्दर ।।
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोम्बरे ।। १७।।
त्वमत्र मेधा विक्षिप्ता त्वम्मे बाहुः प्रतर्दनम्।।
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ।। १८ ।।
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः ।।
त्वं ज्योतिः सर्वलोकानां त्वमादित्यो विभावसुः।।१९।।
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः ।।
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्।।। ।। 2.157.२०।।
त्वमेव चामृतं देवस्त्वं मोक्षः परमार्चितः ।।
त्वं मुहूर्तः स्थितिस्त्वं च लवस्त्वं च पुनः क्षणः ।।२१।।
शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा ।।
संवत्सरर्तवो मासा रजन्यश्च दिनानि च ।।२२।।
त्वमुत्तमा सगिरिचरा वसुंधरा सभास्करं तिमिरमम्बरं तथा ।।
सहोदधिः सतिमिङ्गिलस्तथा सहोर्मिवान्बहुमकरो झषाकुलः ।।२३।।
महद्यशास्त्वमिह सदा च पूज्यसे महर्षिभिर्मुदितमना महर्षिभिः ।।
अभिष्टुतः पिबसि च सोममध्वरे हुतान्यपि च हवींषि भूतये ।। २४ ।।
त्वं विप्रैः सततमिहेज्यसे फलार्थं भेदार्थेष्वष्टसु बलौघ गीयसे त्वम् ।।
त्वद्धेतोर्यजनपारायणा द्विजेन्द्रा वेदाङ्गान्यधिगमयन्ति सर्ववेदैः ।। २५ ।।
वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हर्ता नमुचेर्निहन्ता ।।
कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके ।।२६।।
यं वाजिनं गर्भमपां सुराणां वैश्वानरं वाहनमभ्युपैति ।।
नमः सदाऽस्मै त्रिदिवेश्वराय लोकत्रयेशाय पुरन्दराय ।। २७ ।।।
अजोऽव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः ।।
त्वमन्तकः सर्वहरः कृशानुः सहर्षशीर्षा शतमन्युरीड्यः ।। २८ ।।
कविं सप्तजिह्वं त्रातारमिन्द्रं सवितारं सुरेशम् ।।
हृदयाभिशक्रं वृत्रहणं सुषेणमस्माकं वीरा उत्तरे भवन्तु ।। २९ ।।
त्रातारमिन्द्रेन्द्रियकारणात्मञ्जगत्प्रधानं च हिरण्यगर्भम् ।।
लोकेश्वरं देववरं वरेण्यं चानन्दरूपं प्रणतोस्मि नित्यम ।। 2.157.३० ।।
इमं स्तवं देववरस्य कीर्तयेन्महात्मनस्त्रिदशपतेः सुसंयतः ।।
अवाप्य कामान्मनसोभिरामान्स्वर्लोकमायाति च देहभेदे ।। ३१ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० शक्रस्तववर्णनो नाम सप्तपञ्चाशदुत्तरशततमोऽध्यायः ।। १५७ ।।
2.158
राम उवाच ।।
विधिना पूजयेत्केन भद्रकालीं नराधिपः ।।
नवम्यामाश्विने मासि शुक्लपक्षे नरोत्तम।। १ ।।
पुष्कर उवाच ।।
पूर्वोत्तरे तु दिग्भागे शिबिरात्सुमनोहरे ।।
भद्रकालीगृहं कुर्याच्चित्रवस्त्रैरलंकृतम् ।। २।।
भद्रकालीं पटे कृत्वा तत्र सम्पूजयेद्द्विज।।
आश्विने शुक्लपक्षे तु अष्टम्यां प्रयतस्ततः।।३।।
तत्रैवायुधवर्माद्यं छत्रं केतुं च पूजयेत् ।।
राजलिङ्गानि सर्वाणि तथास्त्राणि च पूजयेत ।।४।।
पुष्पैर्गन्धैः फलैर्भक्ष्येर्भोज्यैश्च सुमनोहरैः ।।
बहुभिश्च विचित्राभिः प्रेक्षादानैस्तथैव च।।५।।
रात्रौ जागरणं कुर्यात्तत्रैव वसुधाधिपः ।।
एवं संपूजयेद्देवीं वरदां भक्तवत्सलाम्।।६।।
कात्यायनीं कामगमां वररूपां वरप्रदाम्।।
पूजितां सर्वकामैश्च सा युङ्क्ते वसुधाधिपम् ।।७।।
एवं हि सम्पूज्य जगत्प्रधानं यात्रा तु देया वसुधाधिपेन ।।
प्राप्नोति सिद्धिं परमां महेशो जनस्तथान्योऽपि हि वित्तशक्त्या ।। ८ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने भद्रकालीपूजा नामाष्टपञ्चाशदुत्तरशततमोऽध्यायः।।१५८।।
2.159
राम उवाच ।।
नीराजनविधिं त्वत्तः श्रोतुमिच्छामि सत्तम ।।
कथं कार्या नरेन्द्रस्य शान्तिं नीराजने प्रभो ।। १ ।।
पुष्कर उवाच ।।
पूर्वोत्तरे तु दिग्भागे नगरात्सुमनोहरे ।।
विस्तीर्णं कारयेद्राजा मनोहरमाश्रयम् ।। २ ।।
कटैर्गुप्तं कुशास्तीर्णं पताकाध्वजशोभितम् ।।
तोरणत्रितयं तत्र प्राङ्मुखं कारयेच्छुभम् ।। ३ ।।
कार्यं षोडशहस्तं तु तोरणं तु समुच्छ्रितम् ।।
वैपुल्यं दशहस्तं तु तत्र कार्यं भृगूत्तम ।। ४ ।।
तोरणाद्दक्षिणे भागे तत्र कार्यं समाश्रयम् ।।
देवतार्चा भवेद्यत्र तथाग्निहवन क्रिया ।। ५ ।।
अष्टहस्तायतोत्सेधमुल्मुकानां तु वामतः ।।
कार्यं भवति शुष्काणां कूटं भृगुकुलोद्वह ।। ६ ।।
पञ्चरङ्कसूत्रेण शतग्रन्थिं मनोरमाम् ।।
मध्यमे तोरणे कुर्याच्छतपाशीं तु मध्यगाम् ।। ७ ।।
छादयित्वा कुशैस्तां तु मुदा संछादयेत्पुनः ।।
तस्याश्च लंघनं वर्ज्यं प्रयत्नात्सर्वजन्तुभिः ।। ८ ।।
न लंघिता सा यावत्स्यात्प्रथमं राजहस्तिना ।।
चित्रां त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते ।। ९ ।।।
ततः प्रभृति कर्तव्या यावत्स्वातौ रविः स्थितः ।।
आश्रमे प्रत्यहं देवाः पूजनीया द्विजोत्तम ।। 2.159.१० ।।
ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवानलानिलौ।।
विनायकः कुमारश्च वरुणो धनदो यमः ।। ११ ।।
विश्वान्देवान्महाभाग उच्चैःश्रवसमेव च ।।
अष्टौ महागजाः पूज्यास्तेषां नामानि मे शृणु ।। १२ ।।
कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः ।।
सुप्रतीकाञ्जनौ नील एतेऽष्टौ देवयोनयः ।। ।। १३ ।।
पूजा कार्या ग्रहर्क्षाणां तथैव च पुरोधसा ।।
ततस्तु जुहुयाद्वह्नौ पुरोधा सुसमाहितः ।। १४ ।।
यथाभिमतदेवानां मन्त्रैस्तल्लिङ्गसंज्ञकम्।।
तथा च मन्त्रहीनानां प्रणवेन महाभुज ।। १५ ।।
समिधः क्षीरवृक्षाणां तथा सिद्धार्थकानि च ।।
घृतं तिलांश्च धर्मज्ञ तथा चैवाक्षतानि च ।। १६।
हुत्वा च कलशान्कुर्यात्सोदकान्गन्धसंयुतान् ।।
पूजितान्माल्यगन्धैश्च वनस्पतिविभूषितान् ।। १७ ।।
पञ्चरङ्गकसूत्रेण कुर्याद्वस्त्रगतांस्तथा ।।
भल्लातशालिसिद्धार्था वचाकुष्ठप्रियङ्गवः ।। १८ ।।
तोरणात्पश्चिमे भागे कलशैः पूर्वकल्पितैः ।।
ततः संस्नापनीयाः स्युर्मंत्रपूतैर्गजोत्तमैः ।। १९ ।।
तुरगांश्च महाभाग चालङ्कृत्य ततस्तु तान् ।।
ततोभिषेकनागस्य तथा तत्तुरगस्य च ।।2.159.२०।।
अन्नपिण्डं ततो देयमभिमन्त्र्य पुरोधसा ।।
तस्याभिनन्दने राज्ञो विनयः परिकीर्तितः ।। २१ ।।
त्यागे च तस्य विज्ञेयं महद्भयमुपस्थितम् ।।
निष्क्रामयेत्तोरणैस्तु ततो हि प्रथमं गजान् ।। २२ ।।
तत्रापि प्रथमं राम अभिषिच्य गजोत्तमम् ।।
तस्यादौ शतपाशीं तु नरः पञ्चनखोऽपि वा ।। २३ ।।
अथ ह्यन्यो लंघयेत्तां राज्ञो मरणमादिशेत् ।।
दुर्भिक्षं तत्र विज्ञेयं गोखरोष्ट्रैश्च लंघने ।। २४ ।।
लंघयेद्वामपादेन यदि तां नृपकुञ्जरः ।।
राजा पुरोहितामात्यराजपुत्रहितं भवेत् ।।२५ ।।
राज्ञस्तु मरणं बूयादाक्रमेत्तं यदापरः ।।
राज्ञोपि जयमाचष्टे लंघयेन्दक्षिणेन ताम् ।। २६ ।।
राजहस्तिनि निष्क्रान्ते सा त्वया स्यात्तदा भवेत् ।।
निष्क्रामेयुस्ततः सर्वेः प्राङ्मुखास्तोरणैर्गजाः ।। २७ ।।
ततोस्त्राः सुमहाभाग ततस्तु नरसत्तम ।।
ततश्छत्रं ध्वजं चैव राजलिङ्गानि यानि च ।। ।। २८ ।।
आश्रमे तानि संस्थाप्य पूजयेदायुधानि च ।।
पञ्चरङ्गकसूत्रेण यास्ताः प्रतिसरा कृताः ।। २९ ।।
दूष्यादूष्येतिमन्त्रेण निबध्नीयात्पुरोहितः ।।
सर्वेषां नृपनागानां तुरगाणां च भार्गव ।। 2.159.३० ।।
स्वगृहेषु ततो नेया कुञ्जरास्तुरगैः सह ।।
स्वातिस्थः सविता यावत्तावच्छायासु संस्थितान् ।। ३१ ।।
पूजयेत्सततं राम नाक्रोशेन्न च ताडयेत् ।।
राजचिह्नानि सर्वाणि पूजयेदाश्रमे सदा ।। ३२ ।।
पूजयेद्वरुणं नित्यं तथाप्सु विधिवद्द्विज ।।
भूतेज्या च तथा कार्या रात्रौ बलिभिरुत्तमैः ।। ३३ ।।
आश्रमं रक्षणीयं स्यात्पुरुषैः शस्त्रपाणिभिः ।।
वसेतामाश्रमे नित्यं सांवत्सर पुरोहितौ।।३४।।
अश्ववैद्यप्रधानश्च तथा नागभिषग्वरः ।।
दीक्षितैस्तैस्तथा भाव्यं ब्रह्मचारिभिरेव च।।३५।।
स्वातिं त्यक्त्वा यदा सूर्यो विशाखां प्रतिपद्यते।।
अलंकुर्याद्दिने तस्मिन्वाहनांश्च विशेषतः।।३६।।
पूजिता राजलिङ्गाश्च कर्तव्या नरहस्तगाः।।
हस्तिनं तुरगं छत्रं खड्गं वा पञ्चदुन्दुभिम् ।।३७।।
ध्वजं पताकां धर्मज्ञ कालज्ञस्त्वभिमंत्रयेत् ।।
अभिमन्त्र्य ततः सर्वान्कुर्यात्कुञ्जरधूर्गताम।।३८।।
कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ ।।
अश्ववैद्य प्रधानश्च तथा नागभिषग्वरः ।। ३९ ।।
ततोऽभिमन्त्रितं राजा समारुह्य तुरङ्गमम् ।।
निष्क्रम्य तोरणे नागमभिमन्त्र्य समारुहेत् ।। 2.159.४० ।।
तोरणेन विनिष्क्रम्य कुर्यात्सुरविसर्जनम् ।।
बलिं विसृज्य विधिवद्राजा कुञ्जरधूर्गतः ।।४१।।
रत्नैरलङ्कृतः सर्वैर्वीज्यमानश्च चामरैः ।।
उल्मुकानां च निचयमादीपितमनन्तरम् ।। ४२ ।।
राजा प्रदक्षिणं कुर्यात्त्रीन्वारान्सुसमाहितः ।। ४३ ।।
चतुरङ्गबलोपेतः सर्वसैन्यसमन्वितः ।।
क्ष्वेडाकिलकिला शब्दैः सर्ववादित्रनिःस्वनैः ।। ४४ ।।
वल्गितैश्च पदातीनां हृष्टानां मनुजोत्तम ।।
एवं कृत्वा गृहं गच्छेद्राजा सैन्यपुरःसरः ।। ४५ ।।
जनं सम्पूज्य च गृहात्सर्वमेव विसर्जयेत् ।।
शान्तिर्नीराजनाख्येयं कर्तव्या वसुधाधिपैः।।
क्षेम्या वृद्धिकरी राम नरकुञ्जरवाजिनाम् ।। ४६ ।।
धन्या यशस्या रिपुनाशनी च सुखावहा शान्तिरनुत्तमा च ।।
कार्या नृपै राष्ट्रविवृद्धिहेतोः सर्वप्रयत्नेन भृगुप्रवीर ।। ४७ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने नीराजनशान्तिवर्णनो नामैकोनषष्ट्युत्तरशततमोऽध्यायः ।। १५९ ।।
2.160
।। राम उवाच ।।
छत्राश्च केतुकरिणां पताका खड्गचर्मणाम् ।।
तथा दुन्दुभिचापानां ब्रूहि मन्त्रान्ममानघ ।। १ ।।
पुष्कर उवाच ।।
शृणु मन्त्रान्महाभाग भगवान्यत्पराशरः ।।
गालवाय पुरोवाच सर्वधर्मभृतां वरः ।। २ ।।
पराशर उवाच ।।
यथाम्बुदश्छादयति शिवायेमां वसुन्धराम ।।
तथाच्छादय राजानं विजयारोग्यवृद्धये ।। ३ ।।
इति च्छत्रमन्त्रः ।।
पराशर उवाच ।।
गन्धर्वकुलराजस्त्वं मा भूयाः कुलदूषकः ।।
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ।। ४ ।।
प्रभावश्च हुताशस्य भवस्य त्वं तुरङ्गम ।।
तेजसा चैव सूर्यस्य मुनीनां तपसां तथा ।। ५ ।।
रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च ।।
स्मर त्वं राजपुत्रोऽसि कौस्तुभं च मणिं स्मर ।।६।।
यां गतिं ब्रह्महा गच्छेत्पितृहा मातृहा तथा ।।
भूम्यर्थेऽनृतवादी च क्षत्त्रियश्च पराङ्मुखः ।। ७ ।।
सूर्याचन्द्रमसौ वायुर्यावत्पश्यन्ति दुष्कृतम् ।।
व्रजेत्त्वेतां गतिं क्षिप्रं तच्च पापं भवेत्तव ।। ८ ।।
विकृतिं यदि गच्छेन्नो युद्धेऽध्वनि तुरङ्गम ।।
रिपून्विजित्य समरे सहभर्त्रा सुखी भव ।। ९ ।।
इत्यश्वमन्त्रः ।।
पराशर उवाच ।।
शक्रकेतो महावीर सुपर्णस्तत्सुताश्रितः ।।
पतत्रिराट् वैनतेयस्तथा नारायणध्वजः ।। 2.160.१० ।।
काश्यपेयोऽमृताहर्ता नागारिर्विष्णुवाहनः ।।
अप्रमेयो दुराधर्षो रणे चैवारिसूदनः ।। ११ ।। ।
गरुत्मान्मारुतगतिः त्वयि सन्निहितः स्थितः ।।
साश्ववर्मायुधान्योधान्रक्षास्माकं महद्रिपून् ।। १२।।
इति ध्वजमन्त्रः ।।
पराशर उवाच ।।
कुमुदैरावणौ पद्मः पुष्पदन्तोथ वामनः ।।
सुप्रतीकोञ्जनो नील एतेष्टौ देवयोनयः ।। १३ ।।
तेषां पुत्राश्च पौत्राश्च धनान्यष्टौ समाश्रिताः ।।
भद्रो मन्दो मृगश्चैव गजः संकीर्ण एव च ।। १४ ।।
वनेवने प्रसृतास्ते स्मर योनिं महागज ।।
पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ।। १५ ।।
भर्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम् ।।
अवाप्नुहि जयं युद्धे गमने स्वस्ति नो व्रज ।। १६ ।।
श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्याज्जवोऽनिलात् ।।
स्थैर्यं मेरोर्जयं रुद्राद्यशो देवात्पुरन्दरात् ।। १७ ।।
युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः ।।
अश्विभ्यां सह गन्धर्वा पान्तु त्वां सर्वतः सदा ।। १८ ।।
इति हस्तिमंत्रः ।।
पराशर उवाच ।।
हुतभुग्वसवो रुद्रा वायुः सोमो महर्षयः ।।
नागकिन्नरगन्धर्वयज्ञभूतगणग्रहाः ।। १९ ।।
प्रमथास्तु सहादित्यैर्भूतेशो मातृभिः सहः ।।
शक्रसेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि ।। 2.160.२० ।।
प्रदहन्तु रिपून्सर्वान्राजा विजयमिच्छतु ।।
यानि प्रयुक्तान्यरिभिर्दूषणानि समन्ततः ।। २१ ।।
पतन्तूपरि शत्रूणां हतानि तव तेजसा ।।
कालनेमिवधे यद्वद्यश्च त्रिपुरपातने ।। २२ ।।
हिरण्यकशिपोर्यद्वद्वधे सर्वासुरेषु च ।।
शोभितासि तथैवाद्य शोभस्व समयं स्मर ।। २३ ।।
नीलाञ्श्वेतानिमान्दृष्ट्वा नश्यंत्वाशु नृपारयः ।।
व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्जिताः ।। २४ ।।
पूतना रेवती नाम्ना कालरात्रीति पठ्यते ।।
दहत्वाशु रिपून्सर्वान्पताके त्वामुपाश्रिता ।। २५ ।।
इति पताकामन्त्रः ।।
पराशर उवाच ।।
असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः ।।
श्रीगर्भो विजयश्चैव धर्माचारस्तथैव च ।। २६ ।।
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।।
नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ।। २७ ।।
रोहिण्याश्च शरीरं ते दैवतं तु जनार्दनः ।।
पिता पितामहो देवः स त्वं पालय सर्वदा ।। २८ ।।
इति खड्गमन्त्रः ।।
पराशर उवाच ।।
वर्मप्रदस्त्वं समरे धर्मसैन्याय मानद ।।
रक्ष मां रक्षणीयोऽहं तवानघ नमोस्तु ते ।। २९ ।।
इति वर्ममन्त्रः ।।
पराशर उवाच ।।
दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकंपनः ।। 2.160.३० ।।
तव भूमिपसैन्यानां तथा विजयवर्धनः ।।
यथा जीमूतघोषेण हृष्यन्ति शरवारणाः ।।
तथा च तव शब्देन त्रस्यन्त्वस्मद्द्विषो रणे ।। ३१ ।।
इति दुन्दुभिमंत्रः ।।
पराशर उवाच ।।
सर्वायुधमहामात्र सर्वदेवारिसूदन ।।
चापस्त्वं सर्वदा रक्ष साकं शरवरैः सदा ।। ३२ ।।
इति चापमन्त्रः ।।
पुष्कर उवाच ।।
मंत्रास्तवैतेऽभिहिता नृवीर सम्मंत्रणे वैजयिका यथावत् ।।
एतैस्तु मंत्रैरभिमन्त्रितानां चलत्यमोघं बलमप्रमृष्यम् ।। ३३ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने मन्त्राध्यायवर्णनो नाम षष्ट्युत्तरशततमोध्यायः ।। १६० ।।