सामग्री पर जाएँ

विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः १६१-१६५

विकिस्रोतः तः
← अध्यायाः १५६-१६० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १६१-१६५
वेदव्यासः
अध्यायाः १६६-१७० →

2.161
परशुराम उवाच ।।
शान्तिमाचक्ष्व मां देव घृतकम्बलसंज्ञिताम् ।।
कार्या या पार्थिवेन्द्राणां विजयाय पुरोधसा ।। १ ।।
पुष्कर उवाच ।।
पूर्वोत्तरे तु दिग्भागे नगरात्सुमनोहरे ।।
प्रागुदक्प्रवणे देशे शान्त्यागारं तु कारयेत् ।। २ ।।
तं तमत्यन्तविस्तीर्णं नानावस्त्रविभूषितम् ।।
पुनर्वसौ गते चन्द्रे तत्र यायान्नराधिपः ।। ३ ।।
पुरस्कृत्य महाभाग सांवत्सरपुरोहितौ ।।
अभिषेचनिका मन्त्रा ये मयाभिहिताः पुरा ।। ४ ।।
देवादयस्तु तेषां वै स्थानं तत्र प्रकल्पयेत् ।।
गन्धमण्डलकैर्मुख्यैर्यथास्थानं पुरोहितः ।। ५ ।।
आवाहनं ततः कुर्यात्स्नातास्तत्र च येऽपि ते ।।
देवादीनां तु सर्वेषां ब्राह्मणैः सहिता द्विज ।।६।।
आवाहितानां सर्वेषां गन्धमाल्यान्नसम्पदा ।।
देववत्पूजनं कुर्यात्तथा नृपपुरोहितौ ।। ७ ।।
एवं संपूजनं कृत्वा सोपवासास्तु ते त्रयः ।।
स्वप्युश्च तां निशां तत्र सर्व एव समाहिताः ।। ८ ।।
ततो नैर्ऋतकं कर्म प्रदेशे तु पुरोहितः ।।
कृत्वा त्रिभागशेषायां रात्रौ कुर्यात्तु शान्तिकम् ।। ९ ।।
श्रुत्वा दशगुणानत्र स्नापयेत्तं नराधिपम् ।।
पूर्वमेव तथा स्नानं सिद्धार्थोत्साधितं तथा ।। 2.161.१० ।।
पूर्णेन घृतकुम्भेन मन्त्रेणानेन कालवित् ।।
आज्यं तेजः समुद्दिष्टमाज्यं तेजोहरं परम् ।। ११ ।।
आज्यं सुराणामाहारमाज्ये लोकः प्रतिष्ठितः ।।
तेनान्तरिक्षं दिव्यं वा धत्ते कल्मषनाशनम् ।। १२ ।।
सर्वे तदाज्यसंस्पर्शात्प्रणाशमुपगच्छतु ।।
ततो विरूक्षितं स्नातं स्नानवेद्यां नराधिपम् ।। १३ ।।
गच्छेत्तं तु पुरस्कृत्य सांवत्सरपुरोहितौ ।।
स्नानवेदी तु कर्तव्या लाजाकुसुममण्डिता ।।१४ ।।
चतुर्भिः पूर्णकुम्भैस्तु विदिक्षु ह्युपशोभिता ।।
चत्वारि तस्याश्चर्माणि प्राग्ग्रीवाणि समास्तरेत् ।। १५ ।।
वृषस्य द्वीपिनश्चैव सिंहशार्दूलयोस्तथा ।।
भद्रासनं न्यसेद्राम तेषामुपरि चर्मणाम् ।। १६ ।।
स्वासीनं नृपतिं तत्र वस्त्रैराच्छादयेन्नृपैः ।।
कार्पासिकैस्ततः पश्चादाविकैः कृमिजैस्ततः ।। १७ ।।
ततस्तु सर्पिषः कुम्भैः पूर्णैस्तमभिषेचयेत् ।।
कुम्भाष्टकं तु कर्तव्यमष्टाविंशतिरेव वा ।।१८ ।।
अथवाष्टशतं राम वृद्धिरेषा गुणोत्तरा ।।
ततोपनीय वस्त्राणि तस्यां वेद्यां पुरोहितः ।। १९ ।।
शूलेन मृन्मयं भिंद्याच्छत्रुं क्रोधसमन्वितः ।।
राज्ञस्तु कलशं दत्त्वा स्वयं सांवत्सरस्ततः ।। 2.161.२० ।।
अभिषेचनमन्त्रेण स्वर्चितं कल्पितं दृढम् ।।।
ज्योतिष्मतीं त्रायमाणामभयामपराजिताम् ।।२१।।
जीवां विश्वेश्वरीं पाठां समंगामभयां तथा ।।
सहां च सहदेवां च पूर्णकोशां शतावरीम् ।।२२।।
अरिष्टिकां शिवां भद्रां कलशं तत्र विन्यसेत् ।।
ब्राह्मी क्षेमामजां चैव सर्वबीजानि काञ्चनम् ।। २३ ।।
मङ्गल्याश्च यथालाभं सर्वौषध्यो रसस्तथा ।।
रत्नानि सर्वगन्धाश्च बिल्वं च सविकङ्कतम् ।। २४ ।।
एवं स्नातो घृते दृष्ट्वा वदनं तर्पणं तथा ।।
मङ्गलालभनं कृत्वा धौतवासाः समाहितः ।। २५ ।।
अभ्यर्चनं ततः कुर्याद्देवादीनां पृथक्पृथक् ।।
तेषामेव ततो वह्नौ चतुर्थ्यन्तैस्तु नामभिः ।। २६ ।।
ओङ्कारपूतं जुहुयाद् घृतं बहु पुरोहितः ।।
आयुधाभ्यर्चनं कार्यं वाहनाभ्यर्चनं ततः ।।२७ ।।
राजचिह्नार्चनं कृत्वा ह्यलङ्कृत्य स्वकां तनुम् ।।
अनुलेपनमादद्याद्गन्धद्वारेति मन्त्रतः ।। २८ ।।
शुभं वसनमादद्याच्छ्रीसूक्तेनाभिमंत्रितम् ।।
श्रियं धातर्मयि देहि मंत्रः सुमनसां भवेत ।। २९ ।।
रायस्पोषेति च तथा मन्त्रेलङ्करणे स्मृतः ।।
ततोनुलिप्तः सुरभिः स्रग्वी रुचिरभूषणः ।। 2.161.३० ।।
केशवाभ्यर्चनं कृत्वा वह्निस्थानं ततो व्रजेत् ।।
वह्नेरुत्तरदिग्भागे ततः प्रागुक्तकर्मणाम् ।। ३१ ।।
सिंहासनं न्यसेत्पृष्ठे भव्यास्तरणसंयुतम् ।।
ततस्तु राम चर्माणि प्राग्ग्रीवाणि तु विन्यसेत् ।। ३२ ।।
वृषस्य वृषदंशस्य करेश्च पृषतस्य च ।।
तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् ।। ३३ ।।
ध्रुवा द्यौरिति मन्त्रेण नृपं तत्रोपवेशयेत ।।
दर्भपाणिस्ततो राजा तथैव च पुरोहितः ।। ३४ ।।
तयोर्हस्तगतावग्रे दर्भौ संग्रथयेद्द्विजः ।।
ततः पुरोधा जुहुयाद्ब्राह्मैर्मन्त्रैर्घृतं शुचिः ।। ३८ ।।
रौद्रवैष्णव वायव्यशाक्रसौम्यैः सवारुणैः ।।
बार्हस्पत्यैस्ततः कुर्यात्तंत्रमुत्तरसंजकम् ।। ३६ ।।
दैवज्ञः प्रयतः कुर्याद्देवतानां विसर्जनम् ।।
यान्तु देवगणाः सर्वे सानुगाः सपरिच्छदाः ।। ३७ ।।
आदाय पार्थिवात्पूजां नगरागमनाय च ।।
ततस्तु पूजयेद्राजा सांवत्सरपुरोहितौ ।। ३८ ।।
धनेन ब्राह्मणानां च ततो दद्याच्च दक्षिणाम् ।।
मङ्गलालभनं कृत्वा खड्गपाणिर्गृहाद्व्रजेत् ।।
शान्तिघोषेण महता राजा कुञ्जरगस्ततः ।। ३९ ।।
शांतिर्मया तेऽभिहिता नृवीर धन्या यशस्या रिपुनाशनी च ।।
सुखावहा राष्ट्रविवृद्धिकर्त्री कार्या नृपैर्धर्मविवृद्धिदा च ।। 2.161.४० ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने घृतकम्बलशान्तिकथनो नामैकषष्ट्युत्तरशततमोऽध्यायः ।। १६१ ।।
2.162
।।राम उवाच ।। ।।
संवत्सराभिषेकं च कथयस्व महीभृतः ।।
तत्र मे संशयं देव त्वं हि सर्वं विपश्यसि ।। १ ।।
पुष्कर उवाच ।।
राजाभिषेकनक्षत्रे प्रतिसंवत्सरं द्विजः ।।
पूर्वाभिषेकविधिना कर्तव्यमभिषेचनम् ।। २ ।।
धन्यं यशस्यं रिपुनाशनं च सौभाग्यदं पुष्टिविवर्धनं च ।।
वर्षाभिषेकं नृपतेः प्रदिष्टं सौख्यावहं राज्यविवृद्धिदं च ।।३।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने संवत्सराभिषेकाध्यायो नाम द्विषष्ट्युत्तरशततमोऽध्यायः।। १६२।।
2.163
राम उवाच ।। भगवन्सर्वधर्मज्ञ सर्वशास्त्रविदां वर ।।
यात्राकालविधानं मे कथयस्व महीक्षिताम् ।। १ ।।
पुष्कर उवाच ।।
यदा मन्येत नृपतिराक्रन्देन बलीयसा ।।
पार्ष्णिग्राहेभिभूणा तं तदा यात्रां प्रयोजयेत।। ।।२।।
पुष्टा मेद्य भृता भृत्या प्रभूतञ्च बलं मम ।।
मूलरक्षासमर्थोऽस्मि तदा यात्रां प्रयोजयेत् ।।३।।
पार्ष्णिग्राहाधिकं सैन्यं मूले निक्षिप्य वा व्रजेत्।।
चैत्रं वा मार्गशीर्षं वा यात्रां यायान्नराधिपः ।। ४ ।।
चैत्र्यां सस्यं हि नंदाद्यं हन्ति पुष्टिं च शारदम् ।।
एतदेव विपर्यस्तं मार्गशीर्ष्यां नराधिपः ।। ।। ५ ।।
शत्रोर्वा व्यसने यायात्काल एव सुदुर्लभः ।।
दिव्यान्तरिक्षक्षितिजैरुत्पातैः पीडितं भृशम् ।। ६ ।।
षडृक्षपीडनात्तृप्तं पीडितं च तथा ग्रहैः ।।
प्रज्वलन्ति तथैवोल्का दिशं यस्य प्रपद्यते ।। ७ ।।
भूकम्पो यां दिशं याति यां च केतुः प्रधूमयेत् ।।
निर्घातः श्रूयते यत्र तां यायाद्वसुधाधिपः ।। ८ ।।
स्वबलव्यसनोपेतं तथा दुर्भिक्षपीडितम् ।।
सम्भूतान्तरकोपं च क्षिप्रं यायादरिं नृपः ।। ९ ।।
यूकामक्षिकबहुलं बहुविघ्नं तथा बिलम् ।।
नास्तिकं भिन्नमर्यादं तथा मङ्गलवादि च ।। 2.163.१० ।।
अपेतप्रकृतिं चैव निराशं च तथा जयेत् ।।
विष्टिनायककं सैन्यं तथा भिन्नपरस्परम् ।। ११ ।।
व्यसनासक्तनृपतिं बलं राजा नियोजयेत् ।।
गच्छेत्तु पश्चाद्धर्मज्ञ पुरस्तात्तु विगर्हितैः ।। १२ ।।
क्व यासि तिष्ठ मागच्छ किं तत्र गमनस्य च ।।
अन्ये शब्दाश्च ये दृष्टास्ते विपत्तिकरा अपि ।। १३ ।।
ध्वाजादिषु तथा स्नानं क्रव्यादानां विगर्हितम् ।।
स्खलनं वाहनानां च वस्त्रसङ्गस्तथैव च ।। १४ ।।
विनिर्गतश्च द्वाराद्यैः शिरसश्चाभिघातनम् ।।
छत्रध्वजादिवस्त्राणां पतनं च तथाशुभम् ।। १५ ।।
दृष्ट्वा निमित्तं प्रथमममङ्गल्यं विनाशनम् ।।
केशवं पूजयेद्विद्वांस्तथैव मधुसूदनम् ।। २६ ।।
द्वितीये तु ततो दृष्टे प्रतीपे प्रविशेद्गृहम् ।।
अथेष्टानि प्रवक्ष्यामि मङ्गल्यानि तथानघ ।। १७ ।।
श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भं तथैव च ।।
जलजानि च मत्स्यानि मांसं मत्स्याश्च भार्गव ।। १८ ।।
गावस्तुरङ्गमा नागा बद्ध एकः पशुस्ततः ।।
त्रिदशाः सुहृदो विप्रा ज्वलितश्च हुताशनः ।। १९ ।।
गणिकाश्च महाभागाः पूर्वाचार्यादिगोमयम् ।।
रुक्मं रौप्यं तथा ताम्रं सर्वरत्नानि चाप्यथ ।। 2.163.२० ।।
औषधानि च सर्वज्ञ वचासिद्धार्थके तथा ।।
नृवर्धमानं यानं च भद्रपीठं तथैव च ।। २१ ।।
खड्गं छत्रं पताकां च मृदमायुधमेव च ।।
राजलिङ्गानि सर्वाणि शवं रुदितवर्जितम् ।। २२ ।।
घृतं दधि पयश्चैव फलानि विविधानि च ।।
स्वस्तिकं वर्धमानं च नन्द्यावर्तं सकौस्तुभम्।।२३।।
नद्यश्च चित्रविन्यस्ता मङ्गल्यान्यपराणि च।।
अक्षताश्च तथा मुख्यास्तथा दर्पणमेव च ।।२४।।
अञ्जनं रोचनं चैव शृङ्गारो माक्षिकं तथा ।।
शङ्ख इक्षुस्तथा भक्ष्या वाचश्चैव तथा शुभाः ।। २५ ।।
वादित्राणां मुखः शब्दो गम्भीरश्च मनोहरः ।।
गान्धारषड्जऋषभा याने शस्तास्तथा स्वराः ।। २६।।
वायुः सशर्करो रूक्षः स च दिग्भ्यः समर्थितः।।
प्रतिलोमस्तथा नीचो विज्ञेयो भयकृद्द्विज ।। २७ ।।
अनुकूलो मृदुस्निग्धः सुखस्पर्शः सुखावहः ।।
ऋक्षा ऋक्षस्वराः खङ्गाः क्रव्यादाश्च विगर्हिताः ।। २८ ।।
मेघाः शस्ता घनाः स्निग्धा गजबृंहितसन्निभाः ।।
अनुलोमा तडिच्छस्ता शक्रश्चापं तथैव च ।। २९ ।।
अप्रशस्ते तथाज्ञेये पीरवेशप्रवर्षणे ।।
अनुलोमा ग्रहः शस्ता दिक्पतिस्तु विशेषतः ।। 2.163.३० ।।
आस्तिक्यं श्रद्दधानत्वं तथा पूज्याभिपूजनम् ।।
शस्तान्येतानि धर्मज्ञ यच्च स्यान्मनसः प्रियम् ।। ३१ ।।
मनसस्तुष्टिरेवात्र परमं जयलक्षणम् ।।
एकतः सर्वलिङ्गानि मनस्तुष्टिरथैकतः ।। ३२ ।।
यानोत्सुकत्वं मनसः प्रहर्षः सुस्वप्नलाभो मनसः प्रसादः ।।
माङ्गल्यलब्धिश्रवणं च राम ज्ञेयानि नित्यं विजयावहानि ।। ३३।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० यात्राशकुनवर्णनं नाम त्रिषष्ट्युत्तरशततमोध्यायः ।। १६३ ।।
2.164
पुष्कर उवाच ।।
तिष्ठतो गमने प्रश्ने पुरुषस्य शुभाशुभम् ।।
निवेदयन्ति शकुना देशस्य नगरस्य च ।।१।।
पथि पान्थो नृपः सैन्ये मरीचोद्दिश्य देवताम् ।।
सार्थे प्रधानः साम्ये च ज्ञातिविद्यावयोधिकः ।। २ ।।
सर्वपापफलो दीप्तः शान्तः शुभफलो मतः ।।
षट्प्रकारा विनिर्दिष्टाः शकुनानां च दीप्तता ।। ३ ।।
वेला दिग्देशकरणं स तु जातिविभेदकः ।।
पूर्वापूर्वा च विज्ञेया सा तेषां बलवत्तरा ।। ४ ।।
दिवाचरो रात्रिचरस्तथा रात्रौ दिवाचरः ।।
क्रूरस्य वेलादीप्तस्य खलर्क्षनिग्रहादिषु ।। ५ ।।
धूमितासा तु विज्ञेया यां गमिष्यति भास्करः ।।
यस्यां स्थितः सा ज्वलिता मुक्ता चाङ्गारिणी मता ।। ६ ।।
एतास्तिस्रः स्मृता दीप्ताः पञ्च शन्तास्तथा पराः ।।
दीप्तायां दिशि दिग्दीप्तः शकुनः परिकीर्तितः ।। ७ ।।
ग्राम्ये वन्यो वने ग्राम्यस्तथा निन्दितपादपे ।।
देशे चैवाशुभे ज्ञेयो देशदीप्तो द्विजोत्तम ।। ८ ।।
क्रियादीप्तो विनिर्दिष्टः स्वजात्यनुचितक्रियः।।
ततो दीप्तश्च कथितो भिन्नभैरवनिःस्वनः।।९।।
प्रतिदीप्तस्तथा ज्ञेयः केवलं मांसभोजनः ।।
दीप्तशान्तो विनिर्दिष्टः सर्वैभेदैः प्रकीर्तितः ।। 2.164.१० ।।
मिश्रांमिश्रो विनिर्दिष्टस्ततो वाच्यं बलात्फलम् ।।
गोश्वोष्ट्रगर्दभश्वानः शारिकागृहगोधिके ।।
नटिकेषां सचर्माद्ये कथिता ग्रामवासिनः ।। ११ ।।
अजाविशुक्रनागेन्द्रखरा महिषवायसौ ।।
ग्राम्यारण्या विनिर्दिष्टाः सर्वेऽन्ये वनगोचराः ।। १२ ।।
मार्जरक्तकृषो ग्राम्यस्तथान्यो वनगोचरे ।।
सर्वेऽप्येवेति विज्ञेया नित्यं रूपविभेदतः ।। १३ ।।
श्रीकण्ठशिखिचक्राह्वा ये च हारीतवायसाः ।।
कुलालकुक्कुटश्येनफांटवं जलवानराः ।। १४ ।।
शशघ्नचटकश्यामाश्चाषभास कपिञ्जलाः ।।
तित्तिरिः शतपत्रश्च कपोताश्च तथा त्रयः ।। १५ ।।
खञ्जरीटकदात्यूह शुकाण्डीवहतिक्तकाः ।।
भारद्वाजश्च सारङ्गः इति ज्ञेया दिवाचराः ।। १६ ।।
वल्गुल्युलूकः शशका शरभोत्क्रोशपिच्छलौ ।।
माषिका पिङ्गली काकः कथिता रात्रिचारिणः ।। १७ ।।
हंसाजमृगमार्जारनकुलर्क्ष भुजङ्गमाः ।।
वृकश्च सिंहव्याघ्रोष्ट्रश्वसूकरतुरङ्गमाः ।। १८ ।।
श्वावित्पृथुतगोमायुघृतकोकिलसारसाः ।।
तुरङ्गमो द्वीपिनराश्चोरा उभयचारिणः ।।१९।।
रणप्रस्थानयोः सर्वे पुरस्तात्सङ्गचारिणः ।।
जयावहा विनिर्दिष्टाः पश्चाद्विजयकारिणः ।।2.164.२०।।
गृहे गम्यो यदा चायं व्याहरेत्पुरतः स्थितः ।।
नृपावमानं वदति वामः कलहभोजने ।।२१।।
याने तद्दर्शनं धन्यं सपतङ्गस्य चाप्यथ ।।
चौरैर्दोषमथाख्याति मयूरो भिन्ननिःस्वनः ।। ।।२२।।
वमते कपिलः श्रेष्ठः तथा दक्षिणसंस्थितः ।।
पृष्ठतो निन्दितफलः तित्तिरिस्तत्र शस्यते ।। २३ ।।
एणा वराहाः पृषतो वामा भूत्वा तु दक्षिणाः।।
भवन्त्यर्थकरा नित्यं विपरीता विगर्हिताः ।।२४।।
वृकाश्च जम्बुकव्याघ्र सिंहमार्जारगर्दभाः ।।
वाच्छितार्थकरा ज्ञेया दक्षिणाद्वामभागगाः ।।२५।।
शिवा श्यामा रला च्छुच्छः पिङ्गला गृहगोधिकाः ।।
सूकरी परपुष्टा च पुंनामानश्च वामतः ।। २६ ।।
श्रीसंज्ञा चाषभषककपिश्रीकर्णछिक्कराः ।।
कपिश्रीकर्णपिप्पीका रुरुश्येनाश्च दक्षिणाः ।।२७।।
जाहकाहिशशक्रोडगोधानां कीर्तनं शुभम् ।।
ततः सन्दर्शनं नेष्टं प्रतीपं वानरर्क्षयोः ।। २८ ।।
फलकृत्पूर्वशकुनः प्रस्थितस्य च योन्वहम् ।।
भवेत्तस्य फलं वान्यत्तदेव दिवसं बुधैः ।। २९ ।।
मत्ता भिक्षार्थिनो बाला विरक्ताभास्तथैव च ।।
सीमान्तनद्यन्तरिता विज्ञेया निष्फला द्विज ।। 2.164.३० ।।
एकद्वित्रिचतुर्भिस्तु शिवा धन्या ततो भवेत् ।।
पञ्चभिश्च तथा षड्भिरधन्याः परिकीर्तिताः ।। ३१ ।।
सप्तभिश्च तथा धन्या निष्फला परतो भवेत् ।।
नृणां रोमाञ्चजननी वाहनानां भयप्रदा।। ३२ ।।
ज्वालानना सूर्यमुखी विज्ञेया भयवर्धिनी ।।
प्रथमं शार्ङ्गके दृष्टे शुभे देशे शुभं वदेत् ।। ३३ ।।
संवत्सरं मनुष्यस्य ह्यशुभे चाशुभं तथा ।।
यथाविधि नरः पश्यञ्छकुनं प्रथमेहनि ।। ३४ ।।
आत्मनश्च तथा तेन ज्ञातव्यं वत्सरं फलम् ।।
शार्ङ्गक च नरो दृष्ट्वा भुजङ्गमशिरोगतः ।। ३५ ।।
अवश्यं तदवाप्नोति यत्किञ्चिन्मनसेच्छति ।।
विशन्ति येन मार्गेण वायसा बहवः परम् ।। ३६ ।।
तेन मार्गेण वै तस्य पुरस्य ग्रहणं भवेत् ।।
सेनायां यदि वासार्थे विनिष्टो वायसो भवेत् ।। ३७ ।।
वासो भयाय रात्रस्थो भयं वदति दुस्तरम् ।।
छायाङ्गवाहनोपानच्छत्रवस्त्रादिकुण्ठनैः ।। ३८ ।।
मृत्युस्तत्पूजने पूजा तद्विष्ठाकरणे शुभम् ।।
प्रोषितागमकृत्काकः कुर्वन्द्वारि गतागतम् ।। ३९ ।।
रक्तं दग्धं गृहे द्रव्यं विक्षपन्वह्निवेदकः ।।
न्यसेद्रजं पुरस्ताच्चेन्निवेदयति बन्धनम् ।। 2.164.४० ।।
पीतद्रव्यं तथा रुक्मं रूप्यं श्वेतं तु भार्गव ।।
यश्चैवोपलभेद्द्रव्यं तस्य लब्धिं विनिर्दिशेत् ।। ४१ ।।
द्रव्यं चोपनयेद्यत्तु तस्य हानिं द्विजोत्तम ।।
परतो धनलब्धिः स्याद्राम मांसस्य भक्षणे ।। ४२ ।।
श्रीलब्धिः स्यान्मृगक्षेपे राज्यं रत्नार्पणे महत् ।।
यातुः काकोनुकूलस्थः क्षेप्यः कर्णसमो भवेत् ।। ४३ ।।
नन्वर्थसाधको ज्ञेयः प्रतिकूलो भयावहः ।। ४४ ।।
समुखोऽभ्येति विततः यात्राघातकरो भवेत् ।।
वामः काकः स्मृतो धन्यो दक्षिणस्तु विनाशकृत् ।। ४५ ।।
वामोऽनुलोमगः प्रेष्ठो मध्यमो दक्षिणः स्मृतः ।।
प्रतिलोमकृतिर्वामो गमनप्रतिषेधकृत् ।। ।। ४६ ।।
निवेदयति यात्रार्थमभिप्रेतं गृहे रतः ।।
एकाक्षिचरणस्त्वर्क वक्ष्यमाणो भयावहः ।। ४७ ।।
कोटरे वासमानस्तु महानर्थकरो भवेत् ।।
न शुभः सूकरे काकः पङ्कान्तः स तु दृश्यते ।। ४८ ।।
अमेध्यपूर्णवदनः काकः सर्वार्थसाधकः ।।
ज्ञेयाः पतत्रिणोऽन्येमी काकवद्भृगुनन्दन ।। ।। ४९।।
स्कन्दादौ राम सव्यस्थाः श्वानो रिपुविनाशकाः ।।
इन्द्रस्थाने नरेन्द्रस्य पुरेशस्य तु गोपुरे ।। 2.164.५० ।।
अन्तर्गृहे गृहेशस्य मरणाय भवेद्भृशम् ।।
यस्य व्रजति वामाङ्गं तस्य स्याद्दीर्घसिद्धये ।। ५१ ।।
भयाय दक्षिणं चांगं तथा भुजमदक्षिणम् ।।
यात्राघातकरो यस्तु हर्षं प्रति मुखागतः ।। ५२ ।।
मार्गावरोधको मार्गे चौरस्तुदति भार्गव ।।
अलातास्थिमुखः पापो रज्जुमीरमुखस्तथा ।। ५३ ।।
सोपानत्कमुखो धन्यो मांसपूर्णमुखोऽपि च ।।
अमङ्गल्यमथ द्रव्यं देशं चैवाशुभं तथा ।। ५४ ।।
अवमूल्याग्रतो याति यातस्य न भयं भवेत् ।।
तथावमूत्त्यां व्रजति शुभं देशं तथा क्रमम् ।। ५५ ।।
मङ्गल्यं च तथा द्रव्यं तस्य स्यादर्थसिद्धये ।।
एवञ्च राम विज्ञेयास्तथा वै जम्बुकादयः ।। ५६ ।।
भयाय स्वामिनो ज्ञेया अनिमित्तभयं गवाम् ।।
निशि चौरभयाय स्याद्विकृतं मृत्यवे तथा ।। ९७ ।।
शिवाय स्वामिनो रात्रौ बलीवर्दो नदन्भवेत् ।।
उत्सृष्टवृषभो राज्ञो विजयं संप्रयच्छति ।।५८।।
अभक्ष्यं भक्ष्ययन्तश्च गावो न्यासस्तथाम्बकान् ।।
त्यक्तस्नेहाश्च वत्सेषु गवां क्षयकरो मतः ।। ५९ ।।
भूमिं पादैर्विनिर्हत्य दीना भूता विकारणात् ।।
अन्योन्यलग्नपुच्छाश्च गावो भयकरा मताः।।2.164.६०।।
आर्द्राङ्गा हृष्टरोमाश्च प्रविशन्त्यस्तथा गृहम् ।।
शृङ्गलग्नमृदो वापि विज्ञेयाः स्वामिवृद्धये ।। ६१ ।।
महिष्यादिषु चाप्येतत्सर्वं वाच्यं विजानता ।।
नेत्रनासापुटप्रोथस्कंधस्यासनमूर्धसु ।। ६२ ।।
हयानां ज्वलनं शस्तमतोन्यत्र प्रशस्यते ।।
सर्वाङ्गज्वलनं नेष्टं तथा धूमसमुद्धवः ।। ६३ ।।
विस्फुलिङ्गोद्भवश्चैव शकृत्यां स्वशनं तथा ।।
आरोहणं तथान्येन सपर्याणस्य वाजिनः ।। ६४ ।।
जलोपवेशनं नेष्टं भूमौ च परिवर्तनम् ।।
विपत्कल्पतरङ्गस्य स्वतो वाप्यनिमित्ततः ।। ६५ ।।
यवसोदकयोर्द्वेषस्त्वकस्माच्चैव शस्यते ।।
क्रीतः काकैः कपोतैर्वा शारिकाभिस्तुरङ्गमः ।। ६६ ।।
आत्मनः स्वामिनो वापि तदा मरणवेदकः ।।
दुःखार्तध्यानशीलश्च साश्रुनेत्रो भयावहः ।। ६७ ।।
जिह्वया लेढि चरणमसावपि भयङ्करः ।।
निर्निमित्तं पतति वा तदा स्यान्नृषु वृद्धये ।। ६८ ।।
वामपादेन च तथा विलिखंश्च वसुन्धराम् ।।
स्वेनैव वामपार्श्वेन दिवा वा न शुभप्रदः ।। ६९ ।।
प्रवेपमाना ह्रेषन्ते रोदन्ते च मुहुर्मुहुः ।।
शकृन्मूत्रे विमुञ्चन्तो वेदयन्ति महद्भयम् ।। 2.164.७० ।।
उत्तिष्ठन्तो निषीदन्तः सन्ध्यायां दीनमानसाः ।।
स्रस्ताः सास्राश्च दीनाश्च ह्रेषमाणा भयावहाः ।। ७१ ।।
ह्रेषतस्तु यदा ज्वाला ज्योत्स्ना वा मुखतो भवेत् ।।
तदा विजयमाख्याति स्वामिनो ध्रुवमेव हि ।। ७२ ।।
दक्षिणेन पदा भूमिं विकिरञ्जयवर्धनः ।।
रात्रौ दक्षिणपार्श्वेन प्रस्वपंश्च नरोत्तम ।। ७३ ।।
आरोहणं नवे दद्यात्प्रतीपं वा गृहं व्रजेत् ।।
यात्राविघातमाचष्टे वामं पादं तथा स्पृशन् ।। ७४ ।।
अनुलोमं यदा याति पुरस्तात्प्रतिह्रेषिते ।।
दक्षिणं वा तथा पार्श्वं मुखेनोपरि मार्जति ।।७५।।
,प्रेरितस्त्वनुकूलेन पवनेन रणे हयः ।।
ह्रेषमाणः परान्याति तदा स्याद्विजयावहः ।। ७६ ।।
ग्रामे व्रजति नागश्चेन्मैथुनं देशहा भवेत् ।।
प्रसूता नागवनिता मत्ता चान्ताय भूपतेः ।। ७७ ।।
दन्तभङ्गे शुभे देशे द्रुमे वा भयवर्धनः ।।
क्रूरेषु वेलालग्नेषु तथा राम विशेषतः ।। ७८ ।। ।
गण्डूषधारणं कृत्वा वक्त्रभागे तु दक्षिणे ।।
हस्तं गृहीत्वा हस्तेन नागस्यान्यस्य वा पुनः ।। ७९ ।।
उच्चैर्वा करमुन्नम्य विषाणे वाथ दक्षिणे ।।
गम्भीरं श्रोत्रमधुरं राज्ञस्तद्विजयावहम् ।। 2.164.८० ।।
अतोन्यथा विपर्यस्तं त्वशुभं परिकीर्तितम् ।।
अरोहणं न चेद्दद्यात्प्रतीपं वा गृहं व्रजेत् ।।८१।।
मदं वा वारणो जह्याद्यात्राघातकरो भवेत् ।।
ग्राहगृहीतो द्विरदः सग्राहः सलिलाशयात् ।। ८२ ।।
उत्तरन्विजयाय स्यात्सग्राहो भयवर्धनः ।।
शस्त्राङ्कुशपताकानां भूमौ निपतनं गजात् ।। ८३।।
लोष्टकाष्ठकरीषाणां क्षेपणे चापि यद्भवेत् ।।
अनुयात्रं जयायैतत्प्रतियात्रं न शस्यते ।। ।। ८४ ।।
वार्यमाणो यदा नागः शत्रुणाभिमुखो व्रजेत् ।।
तन्प्रसुप्ततारं च तदा तेजः प्रशङ्कितः ।। ८५ ।।
इष्टांस्तु यस्तु भक्ष्यांश्च तथा स्पृशति हस्तिनीम् ।।
राम बृंहितघण्टानां प्रतिशब्देन कुप्यते ।। ८६ ।।
कक्षायां बद्ध्यमानायां यदा वोच्चैर्नदत्यपि ।।
यात्रानुगश्च भवति प्रहृष्टश्चैव वारणः ।। ८७ ।।
वामं दक्षिणपादेन पादमाक्रमते तथा ।।
दक्षिणं च तथा दन्ते परिमार्ष्टि करेण चेत् ।। ८८ ।।
वेष्टयत्यथ वा कर्णौ तथा स्तब्धौ करोति च ।।
जयाय राज्ञो भवति जनयन्नपि शीकरम् ।। ८९ ।।
वामं तु वेष्टयेद्दन्त पादं वामेन दक्षिणम् ।।
पादमाक्रममाणश्च प्रस्खलन्निपतन्नपि ।। 2.164.९० ।।
अग्रहस्तं नोद्धरति यदा च वसुधातलात् ।।
 सासुश्च कवलद्वेषी दीनो भयविवर्धनः ।। ९१ ।।
निःश्वासं परमं कुर्वञ्छान्तं विकृतमेव च ।।
भयावहो विनिर्दिष्टः प्रतिलोमगतिस्तथा ।। ९२ ।।
क्षीरपादपगुल्मानां निहन्ता विजयावहः ।।
तथा विकासिताक्षश्च राम लब्धपदोऽपि च ।।९३।।
वृषोश्वः कुञ्जरो वापि रिपुसैन्यं यदा व्रजेत् ।।
पराजयस्ततो ज्ञेयं लक्षणं भृगुनन्दन ।। ९४ ।।
खण्डमेघाभिदृष्ट्या च सेनानाशमवाप्नुवान् ।।
प्रतिकूलग्रहर्क्षा च तथा संमुखमासता ।। ९५ ।।
यात्राकाले रणे वापि च्छत्रादिपतनाद्भयम् ।।
विज्ञेयं भूमिपालस्य घोराणां दीनता तथा।।९६।।
नराश्वनागा हृष्टाश्च विधूमोग्निस्तथा ज्वलन् ।।
अनुलोमा ग्रहाश्चैव विज्ञेयञ्जयलक्षणम् ९७ ।।
आयुधानां प्रज्वलनं कोशादपि विनिर्गमः ।।
संग्रामकाले विज्ञेयं विजयस्य तु लक्षणम् ।।९८।।
काकैर्योधाभिभवनं क्रव्यादैर्मण्डलक्रिया ।।
सैन्योपर्युपसैन्येन विज्ञेयं भयलक्षणम् ।। ९९ ।।
कण्डूतिर्दक्षिणे हस्ते छाया च शुभलक्षणा ।।
शोभा मनुजशार्दूल तत्कालं विजयावहा ।। 2.164.१०० ।।
सेनाङ्गसंस्थो भयकृद्द्विजेन्द्र क्रव्याद्भवेद्वाप्यथ मक्षिका च ।।
शुभावहाः स्युः शतपत्रचाषमयूरहंसाश्च सजीवजीवाः ।। १०१ ।। ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने शकुनवर्णनो नाम चतुःषष्ट्युत्तरशततमोऽध्यायः ।। १६४ ।।
2.165
।। पुष्कर उवाच ।।
प्रष्टुर्देशे शुभे वेद्यं शुभं भवति भार्गव ।।
अशुभे वाशुभं राम तन्मे निगदतः शृणु ।। १ ।।
श्मशानसूनाभवनबन्धनागारवेश्मसु ।।
रथ्याकर्दमदुर्गेषु शून्येषु भवनेषु च ।। २ ।।
कण्टकिद्रुमयुक्तेषु शीर्णप्राकारवेश्मसु ।।
वल्मीकमूषिकासर्पसकीटेष्वशुभं वदेत् ।। ३ ।।
मांसस्पृष्टोपलिप्तेषु सुपुष्पेषु विशेषतः ।।
प्रशस्तद्रुमयुक्तेषु विद्याद्विजयलक्षणम् ।। ४ ।।
सशाद्वलेषु तीरेषु सरितां सरसामपि ।।
भवनेषु विचित्रेषु शुभं वाच्यं विजानता ।। ५ ।।
अभ्यक्तं शोच्यमानं च मुक्तकेशं तथैव च ।।
भूमिष्ठमुपसर्पन्ति तेषां विद्यादशोभनम् ।। ६ ।।
हृष्टशुक्लाम्बरोपेता सुमनस्कास्तथैव च ।।
दैवज्ञमुपसर्पन्ति तेषां विद्याच्छुभं द्विजाः ।।७।।
बहवो दण्डहस्ताश्च काषायवसनास्तथा ।।
अभ्यक्तमुण्डपतितास्तथा क्लीबाश्च योषितः ।।८।।
शृङ्खलारज्जुहस्ताश्च संक्लिन्नफलपाणयः ।।
पृच्छन्तस्ते तु विज्ञेया नृष्वशेषभयावहाः ।।९।।
शुक्लाम्बरा सपुष्पाश्च तथैव फलपाणयः।।
रत्नहस्ताः शुभा ज्ञेयास्तथा मङ्गलवादिनः ।।2.165.१०।।
वेलाः सर्वाः प्रपश्येत पूर्वाह्णे परिपृच्छतः ।।
सन्ध्ययोरपराह्णे च निशायां च विगर्हिताः।।११।।
शान्तां दिशमथास्थाय पृच्छतः सिद्धिमादिशेत ।।
उदीचीं प्रागुदीचीं च पूर्वां चैव विशेषतः ।। १२ ।।
अङ्गुष्ठनखपादोरुगुल्फमुष्कमुरस्तनाः ।।
गण्डशृङ्गाक्षिकौ कर्णौ दन्तोष्ठभुजमस्तकम् ।। १३ ।।
गुरुलुर्गुरुवस्तिश्च वक्षः कक्षोरुसन्धयः ।।
पुन्नामान्येवमादीनि स्पृशतः पृच्छतः शुभम् ।। १४ ।।
कर्णपालिर्भ्रुवौ नासाजिह्वाग्रीवाकृकाटिकाः ।।
नाभिश्रोणी स्फिचे जंघे पिण्डिकाङ्गुलयोऽपि च ।। १५ ।।
पाणिपादाश्रया रेखा वलयः सर्वसन्धिषु ।।
पार्ष्णिरित्येवमादीनि स्त्रीनामान्यभिनिर्दिशेत् ।। १६ ।।
शिरो ललाटं चिबुकं मुखं पृष्ठोदरं त्रिकम् ।।
जठरं वस्तिशीर्षं च मेहनं जानुनी तथा ।। १७ ।।
कर्णपीठेऽक्षिकूटे च पार्श्वे च हृदयं तथा ।।
नपुंसकानि जानीयुरंगविद्याविशारदाः ।। १८ ।।
पुंनामानं दृढं स्निग्धमविभग्नमपीडितम् ।।
समं समाहितं चांगं वीरुजं च यदा स्पृशेत् ।। १९ ।।
यमर्थमभिपृच्छेत तस्य सिद्धिं विनिर्दिशेत् ।।
शत्रुणाप्युदये प्रष्टुस्तल्लग्नस्य तथोदये ।।2.165.२०।।
शत्रुराश्युदये प्रष्टुस्तेषां वाप्यधिपोदये ।।
पराजयं तु वक्तव्यं स्वलग्नस्याष्टमोदये ।। २१ ।।
स्वराशेश्च महाभाग तथा विद्यादशोभनम् ।।
स्वलग्नस्योदये राम शत्रुराश्युदये तथा ।। २२ ।।
लग्नाद्वा राशितो वापि त्रिषष्टदशमोदये ।।
एकादशोदये वापि तेषां वाप्यधिपोदये ।। २३ ।।
प्रष्टुः सर्वार्थसंपत्तिर्विज्ञेया भृगुनन्दन ।।
लग्ने वा तच्चतुर्थे वा सप्तमे दशमेऽपि वा ।। २४ ।।
पञ्चमे नवमे वापि शस्ताः सौम्यग्रहाः स्मृताः ।।
त्रिषड्दशसमं स्थाने पापाश्चैकादशे शुभाः।।२५।।
सर्वार्थसाधका ज्ञेयाः प्रष्टुर्भृगुकुलोद्वह ।।
सौम्या बलाधिका ज्ञेयाः पापा हीनबलास्तथा ।। २६ ।।
बलवच्च तथा लग्नं प्रश्नकाले शुभप्रदम् ।।
एवं तु प्रश्रकालेन शुभं विज्ञाय भूपतिः।।२७।।
यात्रा राम शुभा ज्ञेया नान्यथा तु कदाचन ।।
जातकं चाथ विज्ञाय दशाकाले सुशोभने ।।
अष्टवर्गबले शुद्धे यात्राकालः प्रशस्यते ।। २८ ।।
परस्य देवे त्वशुभे द्विजेन्द्र यात्रा च देया स्वशुभाय नित्यम् ।।
ग्रहादिपाकेषु शुभेषु चैव दत्ता भवेत्कार्यकरी यथावत् ।। २९ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० वज्रसंवादे श्रीपरशुरामं प्रति पुष्करोपाख्याने अंगविद्यायोगो नाम पञ्चषष्ट्युत्तरशततमोऽध्यायः ।। १६५ ।।