विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः १५१-१५५

विकिस्रोतः तः
← अध्यायाः १४६-१५० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १५१-१५५
वेदव्यासः
अध्यायाः १५६-१६० →

2.151
।। राम उवाच ।। ।।
अजस्रं कर्म मे ब्रूहि राज्ञां राजीवलोचन ।।
यच्च कार्यं नरेन्द्राणां तधा च प्रतिवत्सरम् ।। १ ।।
।। पुष्कर उवाच ।। ।।।
द्विमुहूर्तावशेषायां रात्रौ निद्रां त्यजेन्नृपः ।।
वेणुवीणामृदङ्गानां पटहानां च निःस्वनैः ।। २ ।।
बन्दिनां निःस्वनैश्चैव तथा मङ्गलवादिनाम् ।।
ततः पश्येन्महीपालो गूढांश्च पुरुषान्निशि ।। ३ ।।
विज्ञायन्ते न ये लोके तदीया इति केनचित् ।।
आयव्ययस्य श्रवणं ततः कार्यं यथाविधि ।। ४ ।।
वेगोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत्।।
दत्ताभ्यङ्गः प्रदोषे तु कल्पमुत्सादितस्ततः ।।५।।
स्नानं कुर्यात्ततः पश्चाद्दन्तधावनपूर्वकम्।।
सौषधैर्मन्त्रपूतैस्तु पानीयैर्विविधैः शुभैः ।। ६ ।।
सन्ध्यामुपास्य प्रयतः कृतजप्यः समाहितः ।।
अग्न्यागारं प्रविश्याथ वह्नीन् पश्येत्पुरोधसा ।। ७ ।।
हुतान् सम्यक्ततः कुर्याद्वासुदेवस्य चार्चनम् ।।
दुःस्वप्नशमनं कर्म तत्र कुर्यात्पुरोहितः ।।८।।
स्वयं चौपसदे वह्नौ पवित्रां जुहुयान्नृपः ।।
तर्पयेदुदकैर्देवान्पितॄनथ यथाविधि।।९।।
दद्याद्द्विजातये धेनुं सवत्सां च सकाञ्चनाम्।
शक्त्या धनैः पूजयित्वा दत्ताशीः सततं द्विजैः।।2.151.१०।। ।
अनुलिप्तस्ततः स्रग्वी सुवासाश्चाप्यलंकृतः ।।
दर्पणे च मुखं पश्येत्ससुवर्णे च सर्पिषि ।। ११ ।।
आज्यं प्रसन्नं सुरभि यदि स्याद्विजयो भवेत् ।। ।
दीयमाने च दुर्गन्धे पतिते च भयं भवेत्।।१२।।
विकृतं चेन्मुखं पश्येद्राजा मृत्युमवाप्नुयात् ।।
सुप्रभं च यदा पश्येत्तदा तस्य शुभं भवेत् ।।१३ ।।
ततस्तु शृणुयाद्राजा सांवत्सरमुखोद्गतम् ।।
दिवसे तिथिनक्षत्रे सर्वाशुभविनाशनम् ।।१४।।
भिषजां च वचः कुर्यात्ततस्त्वारोग्यवर्धनम् ।।
मङ्गलालम्भनं कृत्वा ततः पश्येद्गुरून्नृपः ।।१५।।
कृत्वाशीर्गुरुभिः पश्चाद्राजा गच्छेत्समन्ततः ।।
तत्रस्थान्ब्राह्मणान्पश्येदमात्यान्मन्त्रिणस्तथा ।।१६।।
प्रकृतीश्च महाभाग प्रतीहारनिबोधतः ।।
तत्रेतिहासश्रवणं कुर्यात्किञ्चिदतन्द्रितः ।। १७ ।।
ततः कार्यार्थिनां कुर्याद्यथाधीः कार्यनिर्णयम् ।।१८।।
व्यवहारांस्ततः पश्येत्समो भूत्वारिमित्रयोः ।।
त्यक्त्वा सभां ततः कुर्यान्मन्त्रं तु सह मन्त्रिभिः ।। १९ ।।
यत्रास्य कश्चित्तं मन्त्रं शृणुयान्न कथञ्चन।।
एकेन सह तं कुर्यान्न कुर्याद्बहुभिः सह ।। 2.151.२० ।।
न च मूर्खैर्न चानामैस्तथा नाधार्मिकैर्नृपः ।।
मन्त्रं स्वधिष्ठितं कुर्याद्येन राष्ट्रं न धावति ।।२१।।
राज्ञां विनाशमूलस्तु कथितो मन्त्रविभ्रमः ।।
नाशहेतुर्भवेन्मन्त्रः कुप्रयुक्तस्त्वमन्त्रवत् ।। २२ ।।
मंत्रे सुनिश्चिते सिद्धिः कथिता पृथिवीक्षिताम् ।।
क्रियमाणानि कर्माणि यस्य वेत्ति न कश्चन ।। २३ ।।
कृतान्येव विजानाति स राजा पृथिवीपतिः ।।
पृथक् च मन्त्रिभिर्मन्त्रं कृतं वै संहितैः पुनः ।। २४ ।।
विचार्यमात्मनः साधु पश्चात्तत्र समाश्रयेत् ।।
प्रज्ञाभिमानी नृपतिर्न मन्त्रिवचने रतः ।। २५ ।।
क्षिप्रं विनाशमायाति तडागमिव काजलम् ।।
आकारगूहनै राज्ञो मन्त्ररक्षा परा मता ।। २६ ।।
आकारैरिङ्गितैः प्राज्ञा मन्त्रं जानन्ति पण्डिताः ।।
सांवत्सराणां वैद्यानां मन्त्रिणां वचने रतः।।२७।।
राजा विभूतिमाप्नोति चिरं यशसि तिष्ठति ।।
त एनं मृगयासक्तं धारयन्ति विपश्चितः।।२८।।
स्त्रीषु माने तथाक्षेषु वृथा ज्यायांश्च भार्गव ।।
करप्रणयने सक्तं हिंसायां च नराधिपम् ।। २९ ।।
तथा परोक्षनिन्दायां बलवद्विग्रहेऽपि च ।।
अन्येषु चाप्यनर्थेषु प्रसक्तं वारयन्ति तम् ।। 2.151.३० ।।
मन्त्रं कृत्वा ततः कुर्याद्व्यायामं पृथिवीपतिः ।।
रथे नागे तथैवाश्वे खड्गे धनुषि चाप्यथ ।। ३१ ।।
अन्येषु चैव शस्त्रेषु नियुद्धेषु ततः परम् ।।
पद्भ्यामुद्वर्तितः स्नातः पश्येद्विष्णुं सुपूजितम्।।३२।।
हुतं च पावकं पश्येद्विप्रान्पश्येत्सुपूजितान्।।
स्वामिनो दक्षिणाभिश्च पूजितान्भृगुनन्दन ।।३३।।
ततोऽनुलिप्तः सुरभिः स्रग्वी रुचिरभूषणः ।।
सुवासा भोजनं कुर्याद्गीतं च शृणुयात्तदा ।।३४।।
आप्तं परीक्षितं वह्नौ मृगपक्षीङ्गितैस्तथा।।
पूर्वं परीक्षितं चान्यैर्जांगुल्या चाभिमन्त्रितम्।।३५।।
विषघ्नांश्च मणीन्राजा धारयन्नौषधींस्तथा ।।
भुक्त्वा गृहीतताम्बूलः परिक्रम्य विशेषतः ।। ३६।।
शयने वामपार्श्वेन ततः शास्त्राणि चिन्तयेत् ।।
कोष्ठागारायुधागारान्प्रति चाग्र्यं च वाहनम् ।। ३७ ।।
योधांश्च दृष्ट्वा चान्वास्या ततः सन्ध्या च पश्चिमा ।।
कार्याणि चिन्तयित्वा च प्रेषयित्वा ततश्चरान् ।।
अन्तःपुरचरो भूत्वा लघु भुक्त्वा तथा हितम् ।। ३८ ।।
सवेणुवीणापटहस्वनेन सेवेत निद्रां कृतपूर्वरक्षाम् ।।
एतद्यशस्यं हि नराधिपानामाजस्रिकं ते कथितं विधानम् ।। ३९ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने आजस्रिको नामैकपञ्चाशदुत्तरशततमोऽध्यायः ।। १५१ ।।
2.152
।। पुष्कर उवाच ।।
राजा तु जन्मनक्षत्रे प्रति मासं समाचरेत् ।।
जन्मनः क्षालनं कर्म यत्तत्पूर्वं मयेरितम् ।। १ ।।
पुष्पस्नानं ततः कुर्यात्प्रतिमासं नराधिपः ।।
संक्रान्तौ पूजयेत्सूर्यं बालमिन्दुं तथैव च ।।२ ।।
ग्रहं सम्पूजयेद्राजा निर्गतं रविमण्डलात्।।
अगस्त्यस्योदये कार्या तथा पूजा नराधिपैः ।। ३ ।।
पूजयेच्चतुरो मासान्प्रसुप्तं मधुसूदनम् ।।
प्रोष्ठपादामले रक्षेत्पूजयेच्च शतक्रतुम् ।।४।।
नवम्यामाश्वयुच्छुक्ले भद्रकालीं च पूजयेत् ।।
रवौ स्वातिमनुप्राप्ते कुर्यान्नीराजनं तथा।।५।।
संवत्सरात्कोटिहोमं कुर्याच्च घृतकेवलम्।।
राज्यसंवत्सरग्रन्थौ कुर्यात्तद्रुद्रपूजनम्।।
कर्माण्यथैतानि नराधिपस्य नित्यानि ते राम मयोदितानि ।।
एतानि कृत्वा विधिवन्नरेन्द्रश्चिरं समाग्रां वसुधां प्रशास्ति।।७।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने सांवत्सरिक वर्णनो नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः ।।१५२।।
2.153
राम उवाच ।।
कथं हि चतुरो मासान्कार्यं केशवपूजनम् ।।
पार्थिवेन सुरश्रेष्ठ तन्ममाचक्ष्व पृच्छतः ।। १ ।।
पुष्कर उवाच ।।
उद्युक्तेन सदा भाव्यं राज्ञा भृगुकुलोद्वह ।।
आषाढशुक्लपक्षान्ते राजा स्थानमुपाश्रयेत् ।। २ ।।
अधृष्यं परराष्ट्राणां प्रभूतयवसेन्धनम् ।।
तोयोपेतं विपङ्कं च प्रावृट्कालहतं तथा ।।३।।
यत्रस्थश्च स्वविषयं सर्वं शक्नोति रक्षितुम् ।।
तत्रस्थश्चतुरो मासानजांश्च पोषयेन्नृपः ।। ४ ।।
स्नेहपानैर्बहुविधैः प्रतिपानैश्च भार्गव ।।
आषाढशुक्लपक्षान्ते दशम्यूर्द्ध्वं नराधिपः ।। ५ ।।
उत्सवन्तु महत्कुर्याद्देवस्य चार्चने रतः ।।
अर्चायां वा पटे वापि कृतं देवमथार्चयेत ।। ६ ।।
देवभोगमयं विष्णुं श्रीसहायमरिन्दमम् ।।
बलिभिर्विविधाभिस्तु पुष्पैर्धूपैः सुगन्धिभिः ।। ७ ।।
उत्सवं तु महत्कुर्यात्ततः पञ्चदिनं नृपः ।।
ततः प्रभृति नित्यं स्याद्वासुदेवस्य पूजनम् ।।८।।
सात्त्वतैर्भार्गवश्रेष्ठ सांवत्सरपुरोहितैः ।।
गीतनृत्यैस्तथा देवं विशेषेणात्र पूजयेत् ।।९।।
अस्मिन्नेव तथा काले कोटिहोमं समाचरेत् ।।
कार्तिक्यां तत्समाप्तिस्तु यथा भवति भार्गव।।2.153.१०।।
शुक्लपक्षत्रिभागेन्त्ये कार्तिकस्य ततो नृपः ।।
उत्सवं सुमहत्कुर्याद्देवदेवार्चनं तथा ।। ११ ।।
वैकुण्ठं पूजयेद्देवमर्चायामथवा पटे ।।
महादानं ततो दद्यात्प्रेक्ष्यां दद्यात्तथैव च ।। १२ ।।
मल्लानामथ झल्लानां नटानां नर्तकैः सह ।।
यात्राविधानं सकलं तथा कुर्यान्महीपतिः ।। १३ ।।
एतत्कृत्वा ततो यात्रा देया भवति पार्थिवैः ।।
शरत्काले गतातंकैः पुष्टाश्वरथकुञ्जरैः ।। १४ ।।
एवं च राज्ञा चतुरो हि मासान्पूज्यो भवेद्देववरो हि हर्ता ।।
सन्त्यक्तचिह्नं मधुसूदनं च संपूज्य यात्राभिमतप्रदा स्यात् ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने चातुर्मास्यविधिकथनो नाम त्रिपञ्चाशदुत्तरशततमोऽध्यायः ।। १५३ ।।
2.154
।। राम उवाच।।
शक्रसम्पूजनं कार्यं कथं राज्ञा सुरोत्तम ।।
सम्यग्भाद्रपदे मासि तन्ममाचक्ष्व पृच्छतः ।। १ ।।
पुष्कर उवाच ।।
असुरैस्तु सुरा भग्नाः पुरा युद्धे भृगूत्तम ।।
ब्रह्माणं शरणं जग्मुः सर्वभूतहिते रतम् ।। २ ।।
ते तु मूढाः सुराः सर्वे निर्जिता दानवैर्वधम् ।।
तानुवाच ततो ब्रह्मा क्षीरोदे मधुसूदनम् ।। ३ ।।
गच्छध्वं सहिताः सर्वे स वः श्रेयः करिष्यति ।।
एवमुक्त्वा सुराः सर्वे क्षीरोदे केशवं ययुः ।। ४ ।।
ददृशुश्च तदा देवं वासुदेवं जगद्गुरुम् ।।
अमृताध्मातमेघाभं शङ्खचक्रगदाधरम् ।। ५ ।।
तुष्टुवुश्च महाभागं त्रिदशास्तं पुनःपुनः ।।
सर्वेषामीश्वरं देवं भुवनस्यैककारणम् ।। ६ ।।
देवा ऊचुः ।।
नमस्ते पुण्डरीकाक्ष शरणागतवत्सल ।।
देवारिबलदर्पघ्न त्रिदशेन्द्रसुखप्रद ।।७।।
चामीकराभवसन तार्क्ष्यप्रवरकेतन ।।
शेषपर्यङ्कशयन लक्ष्मीहृदयवल्लभ ।। ८ ।।
सुरासुरशिरोरत्ननिघृष्टचरणाम्बुज ।।
उन्निद्रचारुकमलविराजितकराम्बुज ।। ९ ।।
स चैकदैव भग्नानामस्माकमसुरैर्भवान् ।।
गतिस्तेन स्म सम्प्राप्ता दैत्यभग्नास्त्वदन्तिकम् ।। 2.154.१० ।।
प्रसीद देवदेवेश जहि तानसुराधमान् ।।
येऽस्माकं देवदेवेश पीडयन्ति सदैव तु ।। ११ ।।
भगवानुवाच ।।
ध्वजमेतं प्रदास्यामि भवतामरिनाशनम् ।।
दृष्टमात्रेण येनेह विद्रविष्यन्ति दानवाः ।। १२ ।।
श्रीपुष्कर उवाच ।।
एवमुक्त्वा ध्वजं तेषां ददौ विष्णुरनुत्तमम् ।।
सौवर्णमुच्छ्रितं दिव्यं शक्रध्वजमिति श्रुतम् ।।१३।।
तमादाय सुराः सर्वे प्रययुर्दानवालयम्।।
देवानुपगताञ्छ्रुत्वा दानवा निर्ययुस्ततः ।। १४ ।।
सुसन्नद्धबलाः सर्वे प्रगृहीतायुधास्तथा ।।
दृष्ट्वा देवबलं ते च शक्रकेतुविराजितम् ।। १५ ।।
तत्तेजसा महाभाग मूर्च्छीभूताः क्षणेन तु ।।
मूर्च्छितास्तु ततो दैत्यास्त्रिदशैर्विनिपातिताः ।।१६ ।।
केचिद्भग्ना दिशो जग्मुस्समुद्रं विविशुस्ततः ।।
ततो लब्धजयः शक्रः पूजयामास तं ध्वजम् ।। १७।।
पूजयित्वा नृपतये वसवे प्रददौ तदा ।।
गर्गोक्तेन विधानेन तं च पूजितवान्वसुः ।। १८।।
तेनास्य तुष्टो मघवानिदं वचनमब्रवीत् ।।
इन्द्र उवाच ।।
येप्यन्ये भूमिपाः श्रेष्ठाः शक्रध्वजमहोत्सवम् ।।१९।।
अद्य प्रभृति धर्मज्ञ करिष्यन्ति समाहिताः ।।
तेषां तु विविधा वृद्धिर्भविष्यति सदा द्विज ।। 2.154.२० ।।
दुर्भिक्षं मरको व्याधिः परचक्रभयं तथा ।।
सर्वाण्येतानि नश्यन्ति कृते शक्रध्वजोत्सवे ।। ।।२१।।
पुष्कर उवाच ।।
ततः प्रभृति राजानो राम शक्रमहोत्सवम् ।।
कुर्वन्ति गर्गकथितं सर्वाभयविनाशनम् ।।२२।।
धन्यं यशस्यं रिपुनाशकारि कीर्तिप्रदं धर्मफलप्रदं च ।।
कार्यं नरेन्द्रैर्विजयाय यत्नाच्छक्रोत्सवं तत्कथयामि तुभ्यम् ।। २३ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने शक्रध्वजोत्पत्तिवर्णनो नाम चतुःपञ्चाशदुत्तरशततमोऽध्यायः ।। १५४ ।।
2.155
पुष्कर उवाच ।।
शिबिरात्पूर्वदिग्भागे भूमिभागे तथा शुभे ।।
प्रागुदक्प्रवणे देशे शक्रार्थं भवनं शुभम् ।। १ ।।
वासोभिः शयनैः शुद्धैर्नानारागैस्तथैव च ।।
ततः शक्रध्वजस्थानं मध्ये संस्थाप्य यत्नतः ।। १ ।।
मघवन्तं पटं कुर्यात्तस्य भागे तु दक्षिणे ।। ३ ।।
वामभागे पटे कुर्याच्छचीं देवीं तथैव च ।।
प्रोष्ठपादसिते पक्षे प्रतिपत्प्रभृति क्रमात् ।। ४ ।।
तयोस्तु पूजा कर्तव्या सततं वसुधाधिपैः ।।
वनप्रवेशविधिना शक्रयष्टिं ततो नृप ।। ५ ।।
आनयेद्गोरथेनाथ वायवैः पुरुषैरथ ।।
अर्जुनस्याजकर्णस्य प्रियकस्य वचस्य च ।। ६ ।।
सुरदारुणश्च तथा तथैवोदुम्बरस्य च ।।
चन्दनस्याथ वा राम पद्मकस्याथ वा यदि ।। ७ ।।
अलाभे सर्वकाष्ठानां यष्टिं कुर्वीत वैणवीम् ।।
सुवर्णनद्धां धर्मज्ञ तां च सम्यक्प्रवेशयेत् ।।८।।
प्रोष्ठपादसिते पक्षे अष्टम्यां रिपुसूदन ।।
क्रमप्रमाणा विज्ञेया शक्रयष्टिस्ततो नृप ।।९।।
चतुर्भिरङ्गुलैर्हीना साग्रे भवति शर्मदा ।।
अष्टाभिश्च तथा मूले छित्त्वा तोये यथा क्षिपेत् ।। 2.155.१० ।।
यायादुद्धृत्य नगरं सम्यगेव प्रवर्तते ।।
तस्याः प्रवेशे नगरं पताकाध्वजमालि च ।। ११ ।।
सिक्तराजपथं कुर्यात्तथालंकृतबालकम् ।।
नटनर्तकसङ्कीर्णं तथा पूजितदैवतम् ।। १२ ।।
सम्पूजितगृहं राम तथा पूजितवानयम् ।।
पौरैरनुगतो राजा सुवंशैः फलपाणिभिः ।।१३।।
अष्टम्यां वाद्यघोषेण तां तु यष्टिं प्रवेशयेत् ।।
प्राक्छिरास्तां ततः कुर्याद्वस्त्रैः संच्छादितां शुभैः ।। १४ ।।
पूजितां पूजयेत्तान्तु यावत्सा द्वादशीफलम् ।।
एकादश्यां सोपवासो नृपः कुर्यात्प्रजागरम् ।। १५ ।।
सांवत्सरेण सहितो मन्त्रिणा सपुरोधसा ।।
रात्रौ जागरणं कार्यं नागरेण जनेन तु ।। १६ ।।
स्थानेस्थाने महाभाग देया प्रेक्ष्या तथा मधु ।।
पूजयेन्नृत्यगीतेन रात्रौ शक्रं नराधिपः ।। १७ ।।
द्वादश्यां तु शिरःस्नातो नृपतिः प्रयतस्ततः ।।
यन्त्रेणोत्थापनं कुर्याच्छक्रकेतोः समाहितः ।। १८ ।।
सुयंत्रितं तु तं कुर्याद्गृहं स्तम्भचतुष्टयम् ।।
पूजयेत्तन्महाभाग गन्धमाल्यान्नसम्पदा ।। १९ ।।
नित्यं च पटयोः पूजा यष्टिपूजां च कारयेत् ।।
बलिभिस्तु विचित्राभिस्तथा ब्राह्मणपूजनैः ।।2.155.२०।।
नित्यं च जुहुयान्मन्त्रान्पुरोधाः शाक्रवैष्णवान् ।।
नित्यं नृत्येन गीतेन तथा शक्रं च पूजयेत् ।। २१ ।।
द्वादश्यां पूजयेद्राजा ब्राह्मणान्धनसञ्चयैः ।।
विशेषेण च धर्मज्ञ सांवत्सर पुरोहितौ ।। २२ ।।
उत्थाने च प्रवेशे च शक्रभूयान्नराधिपः ।।
वक्ष्यमाणेन मन्त्रेण कालवित्सपुरोहितः ।। २३ ।।
पूजयेदुत्थितं केतुं भूषणैर्विविधैरपि ।।
छत्रेण च तथा वस्त्रैर्माल्यदामैस्तथैव च ।। २४ ।।
एवं सम्पूजयेद्राम तदा दिनचतुष्टयम् ।।
पञ्चमे दिवसे प्राप्ते शुक्रकेतुं विसर्जयेत् ।। २५।।
पूजयित्वा महाभाग बलेन चतुरङ्गिणा ।।
नीत्वा करीन्द्रैस्त्रितयं ततो नद्यां प्रवाहयेत् ।। २६ ।।
वाद्यघोषेण महता संगीतं तत्र कीर्तितम् ।।
पौरा जानपदास्तत्र क्रीडां कुर्युस्तदाम्भसि ।।
उत्सवं च तथा कार्यं जलतीरगतैर्महत् ।। २७ ।।
एतद्विधानं नृपतिस्तु कृत्वा प्राप्नोति वृद्धिं धनवाहनानाम् ।।
नाशं तथा शत्रुगणस्य राम महत्प्रसादं त्रिदशाधिनाथम् ।। २८ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने शक्रध्वजोत्सववर्णनो नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः ।। १५५ ।।