विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः १४६-१५०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १४१-१४५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः १४६-१५०
वेदव्यासः
अध्यायाः १५१-१५५ →

2.146
।। राम उवाच ।। ।।
सामभेदौ तथा प्रोक्तौ दानदण्डौ तथैव च ।।
दण्डः सुदेशे कथितः परदेशे ब्रवीहि मे ।। १ ।।
पुष्कर उवाच ।।।
द्विविधः कथितो दण्डः परदेशे पुरातनैः ।।
प्रकाशश्चाप्रकाशश्च तं निबोध द्विजोत्तम ।।२।।
लुण्ठनं ग्रामघातश्च सस्यघातस्तथैव च ।।
चतुरङ्गेण दण्डेन परेषां च तथा वधः ।। ३।।
प्रकाशः कथितो दण्डः प्रत्यक्षं वह्निदीपनम् ।।
अप्रकाशो विषं वह्निर्गूढैश्च पुरुषैर्वधः ।। ४ ।।
दूषणं यवसादीनामुदकानां च दूषणम् ।।
रसक्रियाश्च विविधाः सुभगा भेदनादिकम् ।। ५ ।।
एवमादीनि कार्याणि परचक्रे महीक्षिता ।।
स्वराष्ट्रे च द्विजश्रेष्ठ दूषणं बलिनामपि ।। ६ ।।
चत्वार एते कथिताभ्युपायाः प्राधानभूता भुवि पार्थिवानाम् ।।
अतः परं ते कथयामि राम शेषास्त्रयस्ते न मयेरिता ये ।। ७ ।।
इति श्रीविष्णुधर्मार्त्तरे द्वितीयखण्डे मा० सं० दण्डप्रणयनवर्णनो नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ।। १४६ ।।।
2.147
पुष्कर उवाच ।।
अभिमन्येत नृपतिरनेन मम विग्रहे ।।
अनर्थायानुबन्धः स्यात्सन्धिना च तथा भवेत् ।। १ ।।
साम लज्जास्पदं चात्र दानं चात्र क्षयार्थकम् ।।
भेदे दण्डेऽनुबन्धः स्यात्तदा पक्षं समाश्रयेत् ।। २ ।।
अवज्ञोपहतस्तत्र राज्ञा कार्यो रिपुर्भवेत् ।।
उपेक्षयैव धर्मज्ञ श्रेयसे तत्र सा स्मृता ।। ३ ।।
उपेक्षया यत्र तु शक्यमर्थं क्षयव्यवाया समता न तत्र ।।
कार्यं भवेद्ब्राह्मणविग्रहेण लज्जास्पदेनाप्यथ सन्धिना वा ।। ४ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने उपेक्षावर्णनो नाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः ।।१४७।।
2.148
पुष्कर उवाच ।।
उत्पातैरनृतैः कार्यं परस्योद्वीजनं नृपैः ।।
अरातिशिबिरस्यात्र वसतिर्यस्य पक्षिणः ।। १ ।।
स्थूलस्य तस्य पुच्छस्थां कृत्वोल्कां विपुलां द्विज ।।
विसृज्यैनं ततस्तीरमुल्कापातं प्रदर्शयेत् ।। २ ।।
अनेनैवात्र सारेण बुद्ध्या निश्चित्य यत्नतः ।।
उत्पातानि तथान्यानि दर्शनीयानि पार्थिवैः ।। ३ ।।
उद्वेजनं तथा कुर्यात्कुहकैर्द्विविधैर्द्विषाम् ।।
संवत्सरानहार्षश्च नाशं ब्रूयुः परस्य च ।। ४ ।।
जिगीषुः पृथिवी राज्ये तेन चोद्वेजयेत्परान् ।।
देवतानां प्रसादानि कीर्तनीयानि तस्य तु ।। ५ ।।
स स्वप्नलाभांश्च तथा जिगीषुः प्रतिकीर्तयेत् ।।।
दुःस्वप्नलाभं च तथा परेषामिति निश्चयः ।। ६ ।।
आगतं नो मित्र बलं प्रहरध्वमभीतवत् ।।
एवं ब्रूयाद्रणे प्राप्ते मया भग्नाः परे इति ।। ७ ।।
क्ष्वेडाः किलकिलाशब्दं मम शत्रुर्हतस्तथा ।।
देवाज्ञाबृंहितो राजा सन्नद्धः समरं प्रति ।।८।।
एवं प्रकारा द्विजवर्य मायाः कार्या नरेन्द्रैररिषु प्रहृष्टैः ।।
मायाहतः शत्रुरथ प्रसह्य शक्यः सुखं हन्तुमदीनसत्त्वः ।। ९ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने उपाधिवर्णनं नामाष्टचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४८ ।।
2.149
पुष्कर उवाच ।।
चतुरङ्गं बलं राजा मायाजालेन दर्शयेत् ।।
सहायार्थमनुप्राप्तान्दर्शयेत्त्रिदिवौकसः ।। १ ।।
रक्तवृष्टिश्च संदर्श्या परेषां शिवरं प्रति ।।
छिन्नानि रिपुशीर्षाणि प्रसादाग्रेषु दर्शयेत् ।। २ ।।
आधित्सता सन्धिमहीनसत्व कार्यं भवेद्राम महेन्द्रजालम् ।।
वक्ष्यामि तच्चोपनिषत्सु तुभ्यं योगानि चान्यानि जयावहानि ।। ३ ।।
इति श्रीविष्णुधर्मोत्तरे मार्कण्डेयवज्रसंवादे इन्द्रजालवर्णनो नामैकोनपञ्चाशदुत्तरशततमोऽध्यायः ।। १४९ ।।
2.150
पुष्कर उवाच ।।
सन्धिश्च विग्रहश्चैव वैगुण्यं कथितं बुधैः ।।
यदाश्रित्य तथैवान्यैः षाड्गुण्यं परिकीर्तितम् ।।१।।
सन्धिश्च निग्रहश्चैव यानमासनमेव च ।।
द्वैधीभावं संश्रयं च षाड्गुण्यं परिकीर्तितम् ।। २ ।।
पणबन्धः स्मृतः सन्धिरपकारस्तु विग्रहः ।।
जिगीषोः शत्रुविषये यानं यात्रा विधीयते ।। ३ ।।
विग्रहेऽपि स्वके देशे स्थितिरासनमुच्यते ।।
बलार्धेन प्रमाणं तु द्वैधीभावं तदुच्यते ।। ४।।
उदासीने मध्यमे वा संश्रयात्संश्रयः स्मृतः ।।
समेन सन्धिरन्वेष्यो हीनेन च बलीयसः ।। ।। ५ ।।
हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा ।।
तत्रापि तस्य पार्ष्णिस्तु बलीयान्न समाश्रयेत् ।। ६ ।।
आसीनः कर्मविच्छेदं शक्तः कर्तुं रिपुर्यदा ।।
अशुद्धपार्ष्णिर्बलवान्द्वैधीभावं समाश्रयेत् ।। ७ ।।
बलिना निगृहीतन्तु यो मन्येद्येन पार्थिवः ।।
संश्रयस्तेन कर्तव्यो गुणानामधमो गुणः ।।८।।
बहुक्षयव्ययायासं तेषां यानं प्रकीर्तितम् ।।
बहुलाभकरम्भः स्यात्तदा राम समाश्रयेत् ।। ९ ।।
सर्वशक्तिविहीनस्तु तदा कुर्यात्तु संश्रयम् ।।2.150.१० ।।
एवं च बुद्ध्वा नृपतिर्गुणानां काले च देशे च तथा विभागे ।।
समाश्रयेद्भार्गववंशमुख्यं चैतावदुक्तं नृपतेस्तु कार्यम् ।। ११ ।।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने षाड्गुण्यवर्णनो नाम पञ्चाशदुत्तरशततमोऽध्यायः ।। १५०।।।