विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः १४१-१४५
← अध्यायाः १३६-१४० | विष्णुधर्मोत्तरपुराणम् अध्यायाः १४१-१४५ वेदव्यासः |
अध्यायाः १४६-१५० → |
2.141
गर्ग उवाच ।।
वडवा हस्तिनी गौर्वा यदि युग्मं प्रसूयते ।।
विजातं विकृतं वापि षड्भिर्मासैर्म्रियेत वै ।। १ ।।
वियोनिषु च गच्छन्तो मैथुनं देशनाशनाः ।।
अन्यत्र वसरोत्पत्तेर्नृणां चाजातिमैथुनम् ।। २ ।।
सर्पमूषकमार्जारमत्स्यश्वानो विवर्जिताः ।।
ज्ञेया दुर्भिक्ष्यकर्तारः स्वजातिपिशिताशिनः. ।। ३ ।।
अकालजं मदं घोरं चतुष्पान्मृगपक्षिणाम् ।।
अन्यजातिवदेतच्च धैन्वं श्वानं विशेषतः ।। ४ ।।
अमानुषा मानुषवज्जल्पन्ति प्राणिनो यदि ।।
विकृता वा प्रसूयन्ति परचक्रागमं वदेत् ।। ५ ।।
त्यागो विवासनं दानं तेषां कार्यं विजानता ।।
तर्पयेद्ब्राह्मणांश्चात्र जपहोमांश्च कारयेत् ।। ६ ।।
मृदंगवाद्यैः पटहैः सगीतैः पूजा च कार्या त्रिदिवौकसां वै ।।
धातुस्तथेज्या विधिना च कार्या देयं तथान्नं बहुगो द्विजेभ्यः ।। ७ ।।
इति श्रीविष्णुधमोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने वैकृतोपशमनवर्णनो नामैकचत्वारिंशदुत्तरशततमोऽ ध्यायः ।। १४१ ।।
2.142
गर्ग उवाच ।। ।।
यान्ति यानान्ययुक्तानि युक्तानि न हि यान्ति चेत् ।।
चोद्यमानानि तस्य स्यान्महद्दुःखमुपस्थितम् ।। १।।
वाद्यमाना न वाद्यन्ते वाद्यन्ते चाप्यनाहताः ।।
अचलाश्च चलन्त्येव न चलन्ति चलास्तथा ।। २ ।।
आकाशे तूर्यनादाश्च गतिगन्धर्वनिस्वनाः ।।
काष्ठं दार्वीविकारादि कुठारं कुरुते यदि ।। ३ ।।
गवां लांगूलसंगश्चेत्स्त्रियं तु यदि पातयेत् ।।
उपरागा दिव्यकृता घोरं शस्त्रभयं वदेत् ।। ४।।
वायोस्तु पूजा द्विज सक्तुभिश्च कृत्वा तदुक्तांस्तु जपेच्च मन्त्रान् ।।
दद्यात्प्रभूतं परमान्नमत्र प्रदक्षिणान्तेन शमोस्य भूयात् ।।५।।
इति श्रीविष्णुधमोत्तरे द्वितीयखण्डे मा० वज्रसंवादे रामं प्रति पुष्करोपाख्याने उपस्करवैकृतवर्णनो नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४२ ।।
2.143
गर्ग उवाच ।।
प्रविशन्ति यदा ग्राममरण्या मृगपक्षिणः ।।
अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलोद्भवा ।। १ ।।
जलं वा स्थलजा यान्ति घोरं वाशन्ति निर्भयाः ।।
राजद्वारे पुरद्वारे शिवाश्चाप्यशिवप्रदाः ।। २ ।।
दिवा रात्रिञ्चरा वापि रात्रौ वापि दिवाचराः ।।
ग्राम्यास्त्यजन्ति ग्रामं वा शून्यतां तस्य निर्दिशेत् ।। ३ ।।
दीप्ता वाशन्ति सन्ध्यासु मण्डलानि च कुर्वते ।।
वाशन्ते विस्वरं यत्र तदाप्येतत्फलं वदेत् ।। ४ ।।
प्रदोषे कुक्कुटो वाशेद्धेमन्ते वापि कोकिलः ।।
अर्कोदयेऽर्काभिमुखः श्वा वा नृपभयं भवेत्।। ५ ।।
गृहं कपोतः प्रविशेत्क्रव्यादो मूर्ध्नि लीयते ।।
मधु वा माक्षका कुर्यान्मृत्युं गृहपतेर्वदेत् ।। ६ ।।
प्राकारद्वारगेहेषु तोरणापणवीथिषु ।।
केतुच्छत्रायुधाद्येषु क्रव्यात्सन्निपतेद्यदि ।। ७ ।।
जायते वाथ वल्मीको मधु वा दृश्यते यदि ।।
स देशो नाशमायाति राजा च म्रियतेऽथ वा ।।८।।
मूषकाञ्छलभान्द्रष्ट्वा प्रभूतान्क्षुद्भयं भवेत् ।।
काष्ठोल्मुकास्थि शृङ्गाद्याः श्वानो मर्कटकैर्जिताः ।। ९ ।।
श्मशानं निर्गता ग्रामाद्ग्रामश्रेष्ठविनाशनाः ।।
एकाण्डता तु काकानां यदि चैवाप्यनण्डता ।। 2.143.१० ।।
निम्नेषु च निवेशश्च देशनाशकरः स्मृतः ।।
अपसव्यं भ्रमन्तश्च मण्डले रणवेदिनः ।। ११ ।।
दुर्भिक्षवेदिनो ज्ञेयाः काका धान्यमुषो यदि ।।
जनानभिभवन्तश्च निर्भया रणवेदिनः ।। १२ ।।
काको मैथुनसक्तश्च श्वेतश्च यदि दृश्यते ।।
राजा वा म्रियते तत्र स वा देशो विनश्यति ।। १३ ।।
उलूको वाशते यत्र विपतेद्वा तथा गृहे ।।
ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ।। १४ ।।
मृगपक्षिविकारेषु कुर्याद्धोमान्सदक्षिणान् ।।
देवाः कपोत इति च जप्तव्याः पञ्चभिर्द्विजैः ।। १५ ।।
गावश्च देया विधिवद्द्विजानां सकाञ्चना वस्त्रयुगोत्तरीयाः ।।
एवं कृते शान्तिमुपैति पापं मृगैर्द्विजैर्वा विनिवेदितं यत् ।। १६ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने औत्पातिके मृगपक्षिवैकृतवर्णनो नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४३ ।।
2.144
गर्ग उवाच ।।
प्रासादतोरणाट्टालद्वारप्राकारवेश्मनाम् ।।
अनिमित्तं तु पतनं दृढानां राजमृत्यवे ।। १ ।।
रजसा वाथ धूमेन दिशो यत्र समाकुलाः ।।
आदित्यचन्द्रताराश्च विवर्णा भयवृद्धये ।।२।।
राक्षसा यत्र दृश्यन्ते ब्राह्मणाश्च विधर्मिणः ।।
ऋतवश्च विपर्यस्ता अपूज्यः पूज्यते जनैः ।। ३ ।।
नक्षत्राणि वियोगीनि तन्महद्भयलक्षणम् ।।
केतूदयोपरागौ च च्छिद्रता शशिसूर्ययोः ।। ४ ।।
ग्रहर्क्षविकृतिर्यत्र तत्रापि भयमादिशेत् ।।
स्त्रियश्च कलहायन्ते बाला निघ्नन्ति बालकान्।। ५ ।।
शीलाचारविहीनाश्च मद्यमांसानृतप्रियाः ।।
तथा पाषाणभूयिष्ठास्त्रयीमार्गच्युता द्विजाः ।।६।।
यत्र देशे विजायन्ते तत्र विद्यादुपद्रवम् ।।
उचितैर्नाभिपूज्यन्ते यूपान्नबलिभिः सदा ।। ७।।
क्रियाणामुचितानां च विच्छित्तिर्यत्र जायते ।।
अग्निर्यत्र न दीप्येत हूयमानासु शान्तिषु ।। ८ ।।
पिपीलिकास्तु क्रव्यादो याति चातुरतस्तथा ।।
पूर्णकुम्भाः स्रवन्ते च हविर्वा विप्रलुप्यते ।। ९।।
मङ्गल्याश्च गिरो यत्र न श्रूयन्ते समन्ततः ।।
क्षवथुर्धावती चाथ प्रहसन्ति रुदन्ति च।।2.144.१०।।
न च देवेषु वर्तन्ते यथावद्ब्राह्मणेषु च ।।
मर्मदोषाणि चोच्यन्ते वाद्यन्ते विसुराणि च ।। ११ ।।
गुरुमित्रद्रुहो यत्र शत्रुपूजारता जनाः ।।
ब्राह्मणान्सुहदोऽमात्याञ्जनो यत्रावमन्यते।।१२।।
शान्तिमङ्गलहोमेषु नास्तिक्यं यत्र जायते ।।
राजा वा म्रियते तत्र स वा देशो विनश्यति।।१३।।
राज्ञो विनाशे सम्प्राप्ते निमित्तानि निबोध मे ।।
ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ।।१४।।
ब्राह्मणैर्निन्द्यते चापि ब्राह्मणांश्च जिघांसति ।।
न तान्स्मरति कृत्येषु याचितश्चाभि भूयते ।। १५।।
रमते निर्दयश्चैषां प्रशंसां नाभिनन्दति ।।
अपूर्वं तु करं लोभात्तथा पातयते जने ।। १६ ।।
एतेष्वभ्यर्च्ययेच्छक्रं सपत्नीकं द्विजोत्तम ।।
भोज्यानि चैव कार्याणि सुराणां वलयस्तथा।।१७।।
गावश्च देया द्विजपुङ्गवेभ्यो भुवं तथा काञ्चनमम्बरश्च।।
होमश्च कार्यः सुरपूजनं च एवं कृते शान्तिमुपैति पापम् ।।१८।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने उत्पातप्रशमनं नाम चतुश्च त्वारिंशदुत्तरशततमोऽध्यायः।।१४४।।
2.145
राम उवाच ।।
किं नु कृत्यतमं राज्ञस्तन्ममाचक्ष्व पृच्छतः।।
राज्यतन्त्रं कथं राज्ञा पालनीयं विपश्चिता।।।।।
।। पुष्कर उवाच ।।
सप्तांगस्य च राज्यस्य भावयुक्तेन भूभृता ।।
एतावदेव कर्तव्यं राज्ञा तन्त्रं भृगूत्तम ।। २ ।।
साम दानं तथा दुर्गं कोशो दण्डस्तथैव च ।।
मित्रं जनपदश्चैव राज्यं सप्ताङ्गमुच्यते ।। ३ ।।
सप्ताङ्गस्य च राज्यस्य विघ्नकर्तॄन्विवासयेत् ।।
अहितान्घातयेद्राजा क्षिप्रमेवाविचारयन् ।। ४ ।।
सप्ताङ्गस्य च राज्यस्य वृद्धिः कार्या सुमण्डले ।।
मण्डलेषु च सर्वेषु कर्षणीया महीक्षिता ।। ५ ।।
राम उवाच ।।
मण्डलानि समाचक्ष्व विजिगीषोर्यथाविधि ।।
यान्याश्रित्य नृपैः कार्यं सन्धिविग्रहचिन्तनम् ।। ६ ।।
पुष्कर उवाच ।।
आत्ममण्डलमेवात्र प्रथमं मण्डलं भवेत् ।।
समन्तात्तस्य विज्ञेया रिपवो मण्डलस्य तु ।। ७ ।।
अधिकृत्याऽभियोज्यं तु तत्रापि शृणु कल्पनम् ।।
अभियोज्यः स्मृतः शत्रुस्तत्रापि च प्रतीक्षिता ।। ८ ।।
तत्परस्तु सुहृज्ज्ञेयो मित्रं मित्ररिपुस्तथा ।।
एतत्पुरस्तात्कथितं पश्चादपि निबोध मे ।। ९ ।।
पार्ष्णिग्राहस्ततः पश्चात्ततस्त्वाक्रन्द उच्यते ।।
आसारस्तु ततोप्यन्यस्त्वाक्रन्दासार उच्यते ।। 2.145.१० ।।
जिगीषोः शस्त्रयुक्तस्य वियुक्तस्य तथा द्विज ।।।
निग्रहानुग्रहे शक्तो मध्यस्थः परिकीर्तितः ।। ११ ।।
निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत् ।।
उदासीनः स कथितो बलवान्पृथिवीपतिः ।। १२ ।।
एतावदेव ते राम प्रोक्तं द्वादशराजकम् ।।
नात्रापि निश्चयः शक्यो वक्तुं मनुजपुङ्गव ।। १३ ।।
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते ।।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ।। १४ ।।
त्रिविधा रिपवः प्रोक्ताः कुल्यानन्तर कृत्रिमाः ।।
पूर्वः पूर्वो गुरुस्तेषां दुश्चिकित्स्यतमो मतः ।।१५।।
अनन्तरोऽपि यः शत्रुः सोऽपि मे कृत्रिमो मतः।।
पार्ष्णिग्राहो भवेद्राजा शत्रोर्मित्राभियोगिनः ।। १६ ।।
पार्ष्णिग्राहमुपायैस्तु शमयेच्च तथा स्वकम् ।।
मित्रेण शत्रोरुच्छेदं न शंसन्ति पुरातनाः ।। १७ ।।
मित्रं हि शत्रुतामेति सामन्तत्वादनन्तरम् ।।
शत्रुं जिगीषुरुच्छिन्द्यात्स्वयं शक्नोति चेद्यदि ।। १८ ।।
प्रतापवृद्धौ तेनास्य न मित्राज्जायते भयम् ।।
नान्यथा पृथिवीं जेतुं शक्त्या राम जिगीषुणा ।। १९ ।।
प्रतापवृद्धिः कर्तव्या तस्माद्राज्ञा यथा तथा ।।
तथास्य नोद्विजेल्लोको विश्वास्यश्च यथा भवेत ।। 2.145.२० ।।।
जिगीषुर्धर्मविजयी तथा लोकं वशं नयेत् ।।
यः स्यादधर्मविजयी तस्मादुद्विजते जनः ।।
प्राप्यापि वसुधां कृत्स्नां न चिरं श्रिथमश्नुते ।। ।। २१।।
धर्मेण यज्ञो भवतीह वृद्धिर्धर्मेण वृद्धिश्च तथापरत्र ।।
धर्मेण लब्धा वसुधा जितारिर्भुक्त्वा चिरं नाकमनुप्रयाति ।।२२।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने राज्यमण्डलवर्णनं नाम पञ्चचत्वरिंशदुत्तरशततमोऽध्यायः ।। १४५ ।।। ।