विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः १३६-१४०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १३१-१३५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः १३६-१४०
वेदव्यासः
अध्यायाः १४१-१४५ →

2.136
गर्ग उवाच।।
अनग्निर्दीप्यते यत्र राष्ट्रे भृशसमन्वितः ।।
न दीप्यते चेन्धनं वा सराष्ट्रः पीड्यते नृपः ।।१।।
प्रजलादम्बुनाशं च तथार्द्रं वाति किञ्चन ।।
प्रसादस्तोरणं द्वारं नृपवेश्म सुरालयम् ।।२ ।।
एतानि यत्र दह्यन्ते तत्र राजभयं भवेत् ।।
विद्युता वा प्रदह्यन्ते तथापि नृपतेर्भयम् ।।३।।
अनैश्यानि तमांसि स्युर्दिश पांसुरजांसि च ।।
धूमश्चानग्निजो यत्र तत्र विद्यान्महद्भयम् ।। ४
रात्रावनभ्रे गगने भयं स्यादृक्षवर्जिते ।।
दिवा सतारे गगने तथैव भयमादिशेत् ।। ५ ।।
ग्रहनक्षत्रवैकृत्ये ताराविकृतदर्शने ।।
पुरवाहनयानेषु चतुष्पान्मृगपक्षिषु ।। ६ ।।
आयुधेषु च दीप्तेषु धूमायत्सु तथैव च ।।
निर्यत्सु कोशाश्च तथा संग्रामस्तुमुलो भवेत् ।। ७ ।।
विनाग्निं विस्फुलिङ्गाश्च दृश्यन्ते यत्र कर्हिचित् ।।
स्वभावाच्चापि पूर्यन्ते धनूंषि विकृतानि च ।। ८ ।।
विकाराश्चायुधानां स्युस्तत्र संग्राममादिशेत् ।।
त्रिरात्रोऽपोषितस्तत्र पुरोधाः सुसमाहितः ।। ९ ।।
समिद्भिः क्षीरवृक्षाणां सर्षपैश्च घृतेन च ।।
अग्निलिङ्गैश्च जुहुयाद्वह्निं श्वेताम्बरः शुचिः ।। 2.136.१० ।।
दद्यात्सुवर्णं च तथा द्विजेभ्यो गाश्चैव वस्त्राणि तथा भुवं च ।।
एवं कृते पापमुपैति नाशं यद्वह्निवैकृत्यभवं द्विजेन्द्र ।। ११ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने औत्पातिकाग्निवर्णनो नाम षटत्रिंशदुत्तरशततमोऽध्यायः ।। १३६ ।।
2.137
गर्ग उवाच ।।
पुरेषु येषु दृश्यन्ते पादपा दैवचोदिताः ।।
रुदन्तो वा हसन्तो वा स्रवन्तो वा बहून्रसान् ।। १ ।।
पुरोगवा विना वासं शाखां मुञ्चन्त्यसंश्रमात् ।।
फलपुष्पं तथा बाला दर्शयन्ति त्रिहायना ।। २ ।।
सर्वावस्थां दर्शयन्ति फलपुष्पमथाभवम् ।।
क्षीरं स्नेहं सुरां रक्तं मधु तोयं स्रवन्ति च ।। ३ ।।
शुष्यन्त्यरोगाः सहसा शुष्का रोहन्ति वा पुनः ।।
उत्तिष्ठन्तीह पतिताः पतन्ति च तथोत्थिताः ।।४।।
तत्र वक्ष्यामि ते ब्रह्मन्विपाके फलमेव च ।।
रोदने व्याधिमाख्याति हसने देशविप्लवम् ।। ५।।
शाखाप्रपतने कुर्यात्संग्रामे योऽधपातनम् ।।
बालानां मरणे कुर्याद्बालानां फलपुष्पता ।। ६ ।।
स्वराष्ट्रभेदं कुरुते फलपुष्पसनातनम ।।
क्षयं सर्वत्रगे क्षीरे स्नेहे दुर्भिक्षलक्षणम् ।। ७ ।।
वाहनापचयं मध्ये रक्ते संग्राममादिशेत् ।।
मधुस्रावे भवेद्व्याधिर्जलस्रावेण वर्षति ।। ८ ।।
अरोगशोषणाज्ज्ञेयं ब्रह्मन्दुर्भिक्षलक्षणम् ।।
शुष्केषु संप्ररोहत्सु वीर्यमन्नं च हीयते ।। ९ ।।
उत्थाने पतितानां च भयं भेदकरं भवेत् ।।
स्थानात्स्थानात्तुरंगाणां देशभङ्गं तथादिशेत्।।2.137.१०।।
जल्पत्स्वपि च वृक्षेषु रुदत्स्वपि धनक्षयम् ।।
एतत्पूजितवृक्षेषु सर्वं राज्ञो विपच्यते।।११।।
पुष्पे फले वा विकृते राज्ञो मृत्युं तदादिशेत् ।।
अन्येषु चैवं युक्तेषु वृक्षात्पातेष्वतन्द्रितः ।।१२।।
आच्छादयित्वा तं वृक्षं गन्धमाल्यैर्विभूषयेत् ।।
वृक्षोपरि तथा छत्रं कुर्यात्तापप्रशान्तये ।। १३ ।।
शिवमभ्यर्चयेद्देवं पशुं चास्मै निवेदयेत् ।।
मूलेभ्य इति षण्माषान्हुत्वा रुद्रीं जपेत्तथा ।। १४ ।।
मध्वाज्ययुक्तेन तु पायसेन संपूज्य विप्रांश्च भुवं च दद्यात् ।।
गीतेन नृत्येन तथार्चयेत देवं भवं पापविनाशहेतोः ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने औत्पातिके वृक्षवैकृत्यवर्णनो नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः।।१३७।।
2.138
।। गर्ग उवाच ।।
अतिवृष्टिरनावृष्टिर्दुर्भिक्षायोभयं मतम् ।।
अनृते भदिने रिक्ता वृष्टिर्ज्ञेया भयावहा ।। १ ।।
अनभ्रे विकृता चैव विज्ञेया राजमृत्यवे ।।
शीतोष्णताविपर्यासे जन्तूनां रिपुजं भयम् ।। २ ।।
शोणितं वर्षते यत्र तत्र शस्त्रभयं भवेत् ।।
अङ्गारपांसुवर्षेण नगरं तद्विनश्यति ।। ३ ।।
मज्जास्थिस्नेहमांसानां जनमारभयं भवेत् ।।
फलपुष्पे तथा धान्यं हिरण्यादि भयाय तु ।। ४ ।।
पांसुजन्तूपलानां तु वर्षणे रोगजं भयम् ।।
छिद्राणां तु प्रवर्षे च सस्यानामीतिवर्धनम् ।। ५ ।।
विरजस्के रवौ व्यभ्रे यदा छाया न दृश्यते ।।
दृश्यते तु प्रतीपा वा तत्र देशभयं भवेत् ।। ६।।
निरभ्रे चाथ रात्रौ वा श्वेतं याम्योत्तरेण तु ।।
इन्द्रायुधं तदा दृष्ट्वा उल्कापातांस्तथैव च ।। ७ ।।
दिग्दाहपरिवेषौ वा गन्धर्वनगरं तथा ।।
परचक्रभयं ब्रूयाद्देशोपद्रवमेव वा ।। ८ ।।
सूर्येन्दुपर्जन्यसमीरणानां यागस्तु कार्यो विधिवद्द्विजेन्द्र ।।
धान्यान्नगोकाञ्चनदक्षिणाश्च देया द्विजानां भयनाशहेतोः ।। ९ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुप्करोपाख्याने औत्पातिकेषु वृष्टिवैकृत्यवर्णनो नामाष्टत्रिंशदुत्तरशततमोऽध्यायः ।। १३८ ।।
2.139
गर्ग उवाच ।।
नगरादपसर्पन्ति समीपमुपयान्ति वा ।।
अशोष्या अपि शुष्यन्ति समीपं प्रवहन्ति वा ।। १ ।।
नद्यो ह्रदप्रस्रवणा विसराश्च भवन्ति चेत् ।।
विवर्णं कलुषं तप्तं फेनवज्रं तु संकुलम् ।। २ ।।
क्षीरं स्नेहं सुरां रक्तं वहन्ते वा कुलोदकाः ।।
षण्मासाभ्यन्तरं तत्र परचक्रभयं भवेत् ।। ३ ।।
जलाशया नदन्ते वा प्रजल्पन्ति क्वथन्ति वा ।।
विमुञ्चतेऽथ वा ब्रह्मञ्जलान्धूमरजांसि च ।। ४ ।।
अखाते वा जलोत्पत्तिः ससत्त्वा वा जलाशयाः ।।
संगीतशब्दा दृश्यन्ते जनमारभयं वदेत् ।। ५ ।।
जलाशयानां वैकृत्ये संयतस्तु जलाशये ।।
स्थालीपाकेन पशुना वरुणं पूजयेद्द्विज ।। ६ ।।
दिव्यमम्भः पयः सर्पिर्मधु चात्रावसेचनम् ।।
जप्तव्या वारुणा मन्त्रास्तैश्च होमो जले भवेत् ।। ७ ।।
मध्वाज्ययुक्तं परमान्नमत्र देयं द्विजानां द्विज भोजनार्थे ।।
गावश्च देया द्विज वस्त्रयुक्तास्तथोदकुम्भाः सकलाङ्गशान्त्यै ।। ८ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने जलवैकृत्यवर्णनो नामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः ।। १३९ ।।
2.140
।। गर्ग उवाच ।। ।।
कालप्रसवना नार्यः कालातीताः प्रजास्तथा ।।
विकृतप्रसवाश्चैव युग्मप्रसविकास्तथा ।। १ ।।
अमानुषा अरुण्डाश्च सञ्जातव्यसनास्तथा ।।
हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः ।। ।। २ ।।
पशवः पक्षिणश्चैव तथा चैव सरीसृपाः ।।
विनाशं तस्य देशस्य कुलस्यापि विनिर्दिशेत् ।। ३ ।।
विवासयेत्तान्नृपतिः स्वराष्ट्रात्प्रियं च पूज्याश्च ततो द्विजेन्द्राः ।।
किमिच्छकैर्ब्राह्मणतर्पणं च कार्यं ततः शान्तिमुपैति पापम् ।। ४ ।।
इति श्रीविष्णुधमोत्तरे द्वितीयखण्डे मार्कण्डेयवज्र संवादे रामं प्रति पुष्करोपाख्याने स्त्रीप्रसववैकृत्यवर्णनो नाम चत्वारिंशदुत्तरशततमोऽध्यायः ।।१४०।।