विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः १३१-१३५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १२६-१३० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १३१-१३५
वेदव्यासः
अध्यायाः १३६-१४० →

2.131
।। पुष्कर उवाच ।।
वनेषु च विहृत्यैवं तृतीयं भागमायुषः ।।
चतुर्थमायुषो भागं त्यक्तसङ्गः परिव्रजेत् ।। १ ।।
आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः ।।
भिक्षाबलपरिश्रान्तः प्रव्रजेद्व्रतवर्जितः ।। २ ।।
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।। ।।
अनपाकृत्य च ऋणं मोक्षमिच्छन्व्रजत्यधः ।। ३ ।।
अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः ।।
इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ।। ४ ।।
अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् ।।
अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन्व्रजत्यधः ।। ५ ।।
प्राजापत्यां निरूप्येष्टिं सर्ववेदस-दक्षिणाम् ।।
आत्मन्यग्नीन्समारोप्य प्रव्रजत्यभयं गृही ।। ६ ।।
तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ।।
यस्मादण्वपि भूतानां द्विज नोत्पद्यते भयम् ।।
तस्य देहाद्विमुक्तस्य भयं नास्ति कथञ्चन ।। ७ ।।
अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः ।।
समुपोढेषु काम्येषु निरपेक्षः परिव्रजेत् ।। ८ ।।
एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् ।।
सिद्धिमेकस्य तां पश्यन्न जहाति न हीयते ।। ९ ।।
अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत ।। 2.131.१० ।।।
उपेक्षकोऽसञ्चयको मुनिर्भावसमाहितः ।।
कपालं वृक्षमूलानि कुचैलमसहायता ।।
ममता नैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ।। ११ ।।
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।।
कालमेव परीक्षेत निर्दोषभृतको यथा ।। १२ ।।
(दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।।
सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ।।१३।।
अतिजडांस्तितिक्षेत नावमन्येत कञ्चन ।। १४ ।।)
न चैनं गृहमाश्रित्य वैरं कुर्वीत केनचित् ।।
क्रुध्यन्तं न प्रतिक्रुध्येदापृष्टः कुशलं वदेत् ।। १५ ।।
सप्तद्वारावकीर्णाञ्च न वाचमनृतां वदेत् ।।
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः ।। १६ ।।
आत्मनैव सहायेन तरेद्दुर्गतिमात्मनः ।। १७ ।।
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।।
नानृतस्वनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ।। १८।।
न तापसैर्ब्राह्मणैर्वा न योगिभिरथाश्रमैः ।।
आकीर्णैर्भिक्षुकैर्वर्णैरागारमुपसंव्रजेत् ।।१९।।
क्लृप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ।।
विरचेन्नियतो नित्यं सर्वभूतान्यपीडयन् ।। 2.131.२०।।
अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च ।।
तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ।। २१ ।।
अलाबुं दारुपात्रञ्च मृन्मयं वैदलं तथा ।।
एतानि यतिपात्राणि विज्ञेयानि मनीषिभिः ।। २२ ।।
सौवर्णमणिपात्रेषु कांस्यरौप्यायसेषु च ।।
भिक्षां दद्यान्न धर्मज्ञ ग्रहीता नरकं व्रजेत् ।। २३ ।।
एककालं चरेद्भैक्ष्यं न प्रसज्येत विस्तरे ।।
भैक्ष्ये प्रसक्तस्य मतिर्विषयेष्वपि सज्जते ।। २४।।
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ।।
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ।। २५ ।।
अलाभी न विषादी स्याल्लाभे चापि न हर्षयेत् ।।
प्राणयात्रिकमात्रः स्यान्मात्रासंगाद्विनिर्गतः ।।
अभिपूजितलाभाँस्तु यदि मुक्तोऽपि बध्यते ।। २६ ।।
अल्पान्नाभ्यवहारेण रहः स्थानासनेन च ।।
ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ।। २७ ।।
इन्द्रियाणां निरोधेन रागद्वेषभयेन च ।।
अहिंसया च भूतानाममृतत्वाय कल्पते ।। २८ ।।
अवेक्षेत गतिं नॄणां कर्मदोषसमुद्भवाम् ।।
निरये चैव पतनं व्याधिभिश्चोपपीडनम् ।। २९ ।।
देहानुक्रमणं चास्मात्पुनर्गर्भे च सम्भवम् ।।
योनिकोटिसहस्रेषु मृतौ चास्यान्तरात्मनः ।। 2.131.३० ।।
अधर्मप्रभवं चैव कर्मयोगं शरीरिणाम् ।।
धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ।। ३१ ।।
सूक्ष्मतां चानुवीक्षेत योगेन परमात्मनः ।।
देहेषु चैव पतितमुत्तमेष्वधमेषु च ।। ३२।।
दूषितोऽपि चरेद्धर्मं यत्रयत्राश्रमे रतः ।।
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ।। ३३ ।।
फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ।।
न नामग्रहणादेव तस्य वारि प्रसीदति ।। ३४ ।।
संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा ।।
शरीरस्यात्यये वापि समीक्ष्य वसुधां चरेत ।। ३५।।
अहोरात्रचयाज्जन्तून्हिनस्त्यज्ञानतो यदि ।।
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान्षडाचरेत् ।। ३६ ।।
प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः ।।
व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ।। ३७ ।।
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।।
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ।। ।। ३८ ।।
प्राणायामैर्दहेद्दोषान्धारणाभिस्तु किल्बिषम् ।।
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ।। ३९ ।।
उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः ।।
ज्ञानयोगेन सम्पश्येद्गतिमस्यान्तरात्मनः ।।2.131.४०।।
सम्यग्दर्शनसंपन्नः कर्मभिर्न निबध्यते ।।
दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ।। ४१ ।।
अहिंसयेन्द्रियासङ्गैर्वैद्यकैश्चैव कर्मभिः ।।
तपसश्चरणैश्चोग्रैः साधयन्तीह तत्पदम् ।। ४२ ।।
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपितम् ।।
चर्मावनद्धं दुर्गन्धि पात्रं मूत्रपुरीषयोः ।। ४३ ।।
जराशोकसमाविष्टं रोगायतनमातुरम् ।।
रजस्वलमनित्यञ्च भूतावासमिदं त्यजेत् ।। ४४ ।।
नदीकूले यथा वृक्षो वृक्षे वा शकुनिर्यथा ।।
तथा त्यजन्निमं देहं कृच्छ्रग्राहाद्विमुच्यते ।। ४५ ।।
प्रियेषु स्वेषु सुकृतं चाप्रियेषु च दुष्कृतम् ।।
विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम्।।४६।।
यदा भावेन भवति सर्वभावेषु निःसृतिः ।।
तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम्।।४७।।
अनेन विधिना सर्वान्कामांस्त्यक्त्वा शनैःशनैः ।।
सर्वद्वन्द्वैर्विनिर्मुक्तो ब्रह्मण्येवावतिष्ठति ।। ४८ ।।
ध्यानिकं सर्वमेवैतद्यदेतदतिशाब्दिकम् ।।
न ह्याध्यात्म कविः कश्चित्क्रियाफलमुपाश्नुते ।। ४९ ।।
अधियज्ञं ब्रह्म जपेत्साधिदैविकमेव च ।।
आध्यात्मिकं च सततं वेदान्ताभिहितं फलम् ।। 2.131.५० ।।
इदं शरणमज्ञानामिदं दैवं विजानताम् ।।
इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ।। ५१ ।।
अनेन क्रमयोगेण परिव्रजति यो द्विजः ।।
स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ।। ५२ ।।
एष धर्मोऽनुशिष्टस्ते यतीनां नियतात्मनाम् ।।
एव संन्यासकानान्तु कर्मयोगं निबोध मे ।। ५३।।
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।।
एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः ।। ५४ ।।
सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः ।।
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ।। ५५ ।।
सर्वेषामेव चैतेषां वेदश्रुतिविधानतः ।।
गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान्बिभर्ति हि ।। ५६ ।।
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।।
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्।।५७।।
चतुर्भिरपि तत्त्वज्ञैर्नित्यमाश्रमिभिर्द्विजैः ।।
दशलाक्षणिको धर्मः सेवितव्यः प्रयत्नतः ।।५८।।
धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्।।५९।।
दश चिह्नानि धर्मस्य ये विप्राः समधीयते ।।
अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ।। 2.131.६० ।।
दशलाक्षणिकं धर्ममनुतिष्ठन्समाहितः ।।
वेदान्तं विधिवच्छ्रुत्वा मन्येहमनृणो द्विजः ।।६१।।
सन्न्यस्य सर्वकर्माणि सर्वान्दोषानुपानुदेत् ।।
नियतो धर्ममभ्यस्य पुत्रैः सह सुखं वसेत।।६२।।
एवं सन्यस्य कर्माणि स्वकार्ये परमोऽस्पृहः ।।
संन्यासेनापहृत्येनं प्राप्नोति परमां गतिम् ।।
एष तेऽभिहितो धर्मो द्विजातीनां चतुर्विधः ।। ६३ ।।
स्वल्पोऽपि धर्मश्चरितो यथायं महाफलः स्यात्सततं द्विजानाम् ।।
तस्मात्प्रयत्नादयमेव कार्यः सर्वं समुत्सृज्य महानुभावः ।। ६४ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने चतुर्थाश्रमवर्णनन्नामैकत्रिंशदुत्तरशततमोऽध्यायः ।। १३१ ।।
2.132
राम उवाच ।।
अष्टादशभ्यः शान्तिभ्यः शान्तयो याः सुरोत्तम ।।
भिद्यन्ते वा न भिद्यन्ते तन्ममाचक्ष्व पृच्छतः ।। १ ।।
पुष्कर उवाच ।।
अमृता चाभया सौम्यास्तिस्रोन्याः सन्ति भार्गव ।।
एकापि तासां विज्ञेया सर्वकर्मफलप्रदा ।। २ ।।
सर्वोत्पातप्रशमनी मङ्गल्या सिद्धिकारिका ।।।
पूर्वोक्ताः कथितेष्वेव कर्तव्या अद्भुतेषु च ।। ३ ।।
राम उवाच ।।
शान्तीनां मे त्वमाचक्ष्व स्वरूपाणि महाभुज ।।
पितामहसमो लोके सर्वज्ञोऽपि मतो मम।।४।।
पुष्कर उवाच ।।
अमृता शर्वदैवत्या अभया ब्रह्मदैवता ।।
सौम्या च सोमदैवत्या कथिता भृगुनन्दन ।। ५ ।।
अन्यासां देवता ज्ञानं नाम्नैव कथितं तव ।।
आथर्वणानां शान्तीनां निबोध गदतो मम ।। ६ ।।
अमृता चित्रवर्णा स्यादभया तु शशिप्रभा।।
सौम्या शुक्लैव विज्ञेया नीला भवति वैष्णवी ।। ७ ।।
बालार्कसदृशा रौद्री ब्राह्मी शंखसमप्रभा ।।
रुक्मवर्णा तथैवैन्द्री वायव्या हरिता भवेत्।। ८ ।।
शुक्ला च वारुणी ज्ञेया कौबेरी पद्मसुप्रभा ।।
भार्गवी शुक्लवर्णा स्यात्प्राजापत्या च पीतिका ।। ९ ।।
त्वाष्ट्री शुक्ला च विज्ञेया कौमारी ताम्रसुप्रभा ।।
आग्नेय्यग्निसुवर्णा स्याच्छुक्ला मातङ्गिनी भवेत् ।। 2.132.१० ।।
प्रवालाभा च गान्धर्वी कृष्णा वै नैनृता तथा।।
रोचनाभा चाङ्गिरसी याम्या कृष्णा तथा भवेत्।।११।।
पार्थिवी च मयूराभा वर्णतः कथितास्तव ।।
अतः परं प्रवक्ष्यामि स्थानान्यासां यथाविधि ।। १२ ।।
अमृता चाभया सौम्या तिस्रस्तु भृगुनन्दन ।।
तासां सर्वत्र संस्थानं कथितन्तु पुरातनैः ।। १३ ।।
प्राजापत्या तथाग्नेयी याम्या वै नैर्ऋती तथा ।।
कौबेरी पार्थिवी चेति पृथिव्यां परिकीर्तिताः ।। १४ ।।
वायव्या चैव कौमारी वैष्णवी रुद्रदैवता ।।
अन्तरिक्षे विनिर्दिष्टाः शान्तयो द्विजसत्तम ।। १५ ।।
ऐन्द्री मातङ्गिनी त्वाष्ट्री दिव्या ब्राह्मी तथेरिता ।।
वारुणी चैव गान्धारी भार्गव्याङ्गिरसी तथा ।। १६ ।।
आद्यास्तु कथितास्तुभ्यं कर्तव्याश्च विजानता ।।
यथा स्वदेशजातेषु चाद्भुतेषु यथाविधि ।। १७ ।।
तद्दैवत्यास्तथा मन्त्राः सर्वासां गर्भ उच्यते ।।
मणीनाञ्च तथा गर्भाः सर्वासां मन्त्र उच्यते ।। १८ ।।
मणीनाञ्च तथा मन्त्रा ज्ञातव्या मन्त्रलिङ्गतः ।।
सर्वासाञ्चैव शान्तीनां होतव्याश्च गणा दश ।। १९ ।।
शान्त्यातीतन्तु भैषज्यं त्रिसप्तीयं तथैव च ।।
अभया च तथा राम तथा चैवापराजिता ।। 2.132.२० ।।
आयुष्यं च स्वस्त्ययनं सर्ववर्मगणं तथा ।।
वास्तोष्पत्यं तथा रौद्रं गणाः प्रोक्तास्तथा दश ।। २१ ।।
होमस्तथैषां मन्तव्यः सर्वशान्तिषु भार्गव ।।
पृथक्प्रधानतः कल्पास्तिस्रः पूर्वाः प्रकीर्तिताः।।२२।।
गणेगणे तु गां दद्याद्गां गर्भे गां तथा मणौ ।।
अराजा भूमिपालस्तु दद्याद्दश दशैव तु ।।२३।।
निष्कामः सभुवं चैव तथा दद्यात्पुरोधसे ।।
अभयाया मणिः कार्यो वरुणस्य भृगूत्तम ।।२४।।
शतकाण्डोऽमृतायाश्च सौम्यायाः शङ्खजो मणिः।।
वैष्णव्यास्त्रिवृतः प्रोक्तः स्नातो रौद्र्यास्तथा मणिः ।। २५ ।।
ब्रह्मरक्षस्तथा ब्रह्म्या मैत्र्याः स्यात्कनको मणिः ।।
वायव्याश्चाङ्गिरः प्रोक्तो वायव्यः शङ्खजो भवेत् ।। २६ ।।
औदुम्बरश्च कौबेर्या भार्गव्यायाः शतावरीम् ।।
प्राजापत्या बिल्वमणिस्त्वाष्ट्र्याः संस्कृतको मणिः ।। २७ ।।
दाक्षायणश्च कौमार्य्या आग्नेय्याश्च तदेव तु ।।
मातङ्गिन्या जिगितजं गान्धर्व्या अजशृङ्गजम् ।। २८ ।।
नैर्ऋत्यामायसं चैव आङ्गिरस्यास्तथाञ्जनम् ।।
शतकाण्डश्च याम्यायाः पार्थिव्या अपि पार्थिवम् ।। २९ ।।
अद्भुतस्य बलं ज्ञात्वा कृच्छ्रं कुर्यात्पुरोहितः ।।
प्रागेव कुर्याच्छमनमादावेवाद्भुतस्य तु ।। 2.132.३० ।।
कृतकृच्छ्रस्तु कुर्वीत ततः शान्तिमुपोषितः ।।
अरण्यां पातयेद्वह्निं सर्वास्वेतासु शान्तिषु ।। ३१ ।।
उपवासदिनस्यान्ते वह्निमुत्पाद्य यत्नतः ।।
उत्पन्नमन्नं विभजेत्क्रव्यादं सौम्यमेव च ।। ३२ ।।
कृत्वा कपाले क्रव्यादं ध्रुवेण नैर्ऋतीं दिशम् ।।
शान्त्यागारे स्थापयेच्च शान्त्यर्थे सौम्यमेव वा ।। ३३ ।।
कृष्णोष्णीषः कृष्णवासाः कृष्णमाल्यानुलेपनः ।।
पुरोहितः प्रदेशं तु गत्वा वै नैर्ऋतीं यजेत् ।। ३४ ।।
मृन्मयं जीर्णशीर्षे तु गन्धमाल्यानुसम्पदा ।।
कृष्णवस्त्रैस्तु संच्छाद्य ततस्तूपहरेद्बलिम् ।। ३५ ।।
वाद्यघोषेण महता तथा कोलाहलैः शुभैः ।।
ततोऽग्नौ जुहुयात्सम्यङ्मेदःप्रभृति वै द्विज ।। ३६ ।।
ये पिशाचाश्चतुर्भिस्तु इषीका शर्करी ततः ।।।
केवले जुहुयाद्वह्नौ करशुक्त्या श्रवामया ।। ३७।।
फलीकरणमग्नौ च हुत्वा भुक्त्वा च पावकम् ।।
अपश्यन्स्वगृहं यायात्स्नात्वा श्वेताम्बरस्ततः ।।। ।।। ३८ ।।
अहोमुचं शान्तिकं च जप्त्वा तिष्ठेत्सुयन्त्रितः ।।
रात्रौ त्रिभागशेषायां शान्तिकर्म समारभेत् ।। ३९ ।।
शान्तिकल्पविधानज्ञः सदस्यैः सहितस्ततः ।।
एकः कर्मणि युक्तः स्यादेको मन्त्रस्य निश्चये ।।2.132.४०।।
एष शान्तिविधिः प्रोक्तः समासात्सर्वशान्तिषु ।।
विस्तरे विस्तरः प्रोक्तः शान्तिकर्म ह्यथर्वणः ।।४१।।
धनेन पूज्योऽथ पुरोहितः स्यात्तथोपदेष्टा गुरुरप्रमत्तः ।।
सांवत्सरो यस्तु ततः सदस्याः पूज्यास्ततो विप्रवराश्च सर्वे।।४२।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने शान्तिकर्मवर्णनन्नाम द्वात्रिंशदुत्तरशततमोऽध्यायः ।। १३२ ।।।
2.133
।। राम उवाच ।।
काका शान्तिर्भवेत्का वा कस्मिन्कस्मिंस्तथाद्भुते ।।
एतन्मे संशयं छिन्धि देवारिबलसूदन ।।१।।
पुष्कर उवाच ।।
सर्वोत्पातप्रशमिनी ह्यमृता चाभया स्मृता ।।
सौम्या चैव महाशांतिः सर्वकर्मफलप्रदा ।। २ ।।
विशेषेण तु भौमेषु शान्तिः कार्यामृता भवेत् ।।
अभया चान्तरिक्षेषु सौम्या दिव्येषु भार्गव ।। ३ ।।
विजिगीषुः परान्राजा भूमिकामश्च योजयेत् ।।
आरोग्यधनकामश्च सौम्यां तां कारयेत्सदा ।। ४ ।।
विजिगीषुः परानेवमभियुक्तस्तथा परैः ।।
तथाभिचारशङ्कायां शत्रूणामपि शासने ।। ५ ।।
भये महति च प्राप्ते त्वभया शान्तिरिष्यते ।।
राजयक्ष्माभिभूतस्य क्षतक्षीणस्य चाप्यथ ।। ६ ।।
सौम्या प्रशस्यते शान्तिर्यज्ञकामस्य चैव हि ।।
भूमिकम्पे समुत्पन्ने प्राप्ते चान्नक्षये तथा ।। ७ ।।
अतिवृष्ट्यामनावृष्ट्यां शलभाखुभयेषु च ।।
प्रपन्नेषु च चौरेषु वैष्णवीशान्तिरिष्यते ।। ८ ।।
पशूनां मरणे प्राप्ते नराणामपि दारुणे ।।
भूतेषु दृश्यमानेषु रौद्री शान्तिस्तथेष्यते ।। ९ ।।
भविष्यत्यभिषेके च परचक्रभयेषु च ।।
स्वराष्ट्रभेदेऽरिवधे शान्तिरैन्द्री प्रशस्यते ।। 2.133.१० ।।
त्र्यहातिरिक्ते पवने रूक्षे सर्वदिगुत्थिते ।।
वैकृते वातजे व्याधौ वायवी शान्तिरिष्यते ।। ११ ।।
अनावृष्टिभये जाते जाते विकृतवर्षणे ।।
जलाशयविकारे च वारुणी शांतिरिष्यते ।। १२ ।।
अभिशापभये प्राप्ते भार्गवी च तथा द्विज ।।
जाते प्रसववैकृत्यं प्राजापत्या महाभुज ।। १३ ।।
उपस्कराणां वैकृत्यं त्वाष्ट्री भार्गवनन्दन ।।
बालानां शान्तिकामस्य कौमारी च तथा शुभा ।। १४ ।।
आग्नेयीं कारयेच्छान्तिं सम्प्राप्ते वह्निवैकृते ।।
कार्या मारुद्गणी शान्तिर्दुर्बलेन महीक्षिता ।। १५ ।।
आज्ञाभंगे तथा जाते जाते भृत्यादिसंक्षये ।।
अश्वानां शांतिकामस्य तद्विकारे तथोत्थिते ।। १६ ।।
गजान्कामयमानस्य गान्धर्वी शांतिरिष्यते ।।
गजानां शांतिकामस्य तद्विकारे तथोत्थिते ।। १७ ।।
गजान्कामयमानस्य शान्तिराङ्गिरसी भवेत् ।।
पिशाचाधिभये जाते शान्तिर्वै नैर्ऋती मता ।। १८ ।।
अपमृत्युभये जाते दुःस्वप्ने च तथा द्विज ।।
काम्यां तु कारयेच्छांतिं प्राप्ते तु मरके तथा ।। १९ ।।
धननाशे समुत्पन्ने कौबेरी शांतिरिष्यते ।।
वृक्षाणां च तथार्च्चानां वैकृते समुपस्थिते ।। 2.133.२० ।।
भूमिकामस्तथा शांतिं पार्थिवीं संप्रयोजयेत् ।।
प्रथमे दिनयामे च रात्रौ च मनुजोत्तम ।। २१ ।।
हस्ते स्वातौ च चित्रायामादित्ये चाश्विने तथा ।।
अर्यम्णे सौम्यजातेषु वायव्यां त्वद्भुतेषु च ।। २२ ।।
द्वितीये दिनयामे च रात्रौ च भृगुनन्दन ।।
पुष्याग्नेयविशाखासु पित्र्यासु भरणीषु च ।। २३ ।।
उत्पातेषु तथा भाग्ये त्वाग्नेयी शान्तिरिष्यते ।।
तृतीयदिनयामे च रात्रौ च भृगुनन्दन ।। २४ ।।
रोहिण्यां वैष्णवे ब्राह्मे वासवे विश्वदैवते ।।
ज्येष्ठायां च तथा मैत्रे ये भवंत्यद्भुताः क्वचित् ।।२५ ।।
ऐन्द्री तेषु प्रयोक्तव्या शान्तिर्भृगुकुलोद्भव ।।
चतुर्थे दिनयामे वा रात्रौ च भृगुनन्दन ।। २६ ।।
सार्पे पौष्णे तथार्द्रायां त्वाहिर्बुध्न्ये च दारुणे ।।
मूले वरुणदैवत्ये ये भवन्त्यद्भुतास्तथा ।। २७ ।।
वारुणी तेषु कर्तव्या महाशांतिर्महीक्षिता ।।
भिन्नमण्डलवेलासु ये भवन्त्यद्भुताः क्वचित् ।। २८ ।।
तेषु शांतिद्वयं कार्यं निमित्ते सति नान्यथा ।।
निर्निमित्ता कृता शांतिर्निमित्तायोपजायते ।।२९।।
बाणप्रहारा न भवंति यद्वन्नृणां रणे सन्नहनैर्युतानाम् ।।
दैवोपघाता न भवंति तद्वद्धर्मात्मनां शांतिपरायणानाम् ।।2.133.३०।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने अद्भुतेषु शान्तिकर्मवर्णनो नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः ।। १३३।।
2.134
राम उवाच ।।
अद्भुतानां फलं देव शमनं च तथा वद ।।
त्वं हि वेत्सि विशालाक्ष ज्ञेयं सर्वमशेषतः।।१।।
पुष्कर उवाच ।।
अत्र ते वर्णयिष्यामि यदुवाच महातपाः।।
अत्र यो वृद्धगर्गस्तु सर्वधर्मभृतां वरः।।२।।
सरस्वत्यां सुखासीनं गर्गं स्रोतसि भार्गव ।।
पप्रच्छात्रिर्महातेजा गर्गं मुनिजनप्रियम्।।३।
अत्रिरुवाच ।।
नश्यतां पूर्वरूपाणि जनानां कथयस्व मे ।।
नगराणां तथा राज्ञां त्वं हि सर्वविदुच्यसे ।।४।।
गर्ग उवाच।।
पुरुषापचारान्नियतमपरज्यन्ति देवताः ।।
ततोपरागाद्देवानामुपसर्गः प्रवर्तते ।। ५ ।।
दिव्यान्तरिक्षभौमं तत्त्रिविधं परिकीर्तितम् ।।
गृहर्क्षं वैकृतं दिव्यमांतरिक्षं निबोध मे ।। ६ ।।
उल्कापातो दिशां दाहः परिवेषस्तथैव च ।।
गन्धर्वनगरं चैव वृष्टिस्तु विकृता च या ।। ७ ।।
एवमादीनि लोकेस्मिन्नांभसानि विनिर्दिशेत् ।।
चरस्थिरभयं भूमौ भूकलामपि भूमिजम् ।। ८ ।।
जलाशयानां वैकृत्यं भूमौ तदपि कीर्तितम् ।।
भौमं याम्यफलं ज्ञेयं चिरेण भुवि पश्यते ।। ९ ।।
नाभसं मध्यफलदं मध्यकालफलप्रदम् ।।
दिव्यं तीव्रफलं ज्ञेयं शीघ्रकारि तथैव च ।। २.१३४.१० ।।
अद्भुते तु समुत्पन्ने यदि वृष्टिः शिवा भवेत् ।।
सप्ताहाभ्यन्तरे ज्ञेयमद्भुतं निष्फलं हि तत् ।। ११ ।।
अद्भुतस्य विपाकश्चेद्विना शान्तेर्न दृश्यते ।।
त्रिभिर्वर्षैस्तथा ज्ञेयं सुमहद्भयकारकम् ।। १२ ।।
राज्ञः शरीरे लोके च पुरदारे पुरोहिते ।।
पाकमायाति पुत्रेषु तथा वै कोशवाहने ।। ३३ ।।
दत्तस्वभावजा ये च भवन्त्यद्भुतसंज्ञका ।।
शुभावहास्ते विज्ञेयास्ताँश्च मे गदतः शृणु ।। १४ ।।
वज्राशनिमहीकम्पसन्ध्यानिर्वातनिस्वनाः ।।
परिवेषं रजो धूमं रक्तार्कोस्तमनोदये ।। १५ ।।
द्रुमेभ्यो वरयश्चेह बहुपुष्पफलापगाः ।।
गोपक्षमधुवृद्धिश्च शुभानि मधुमाधवे ।। १६ ।।
तारोल्कापातकलुषं कपिलार्कं तु मण्डलम् ।।
अनग्निज्वलनास्फोटधूमरेष्वनिलावहम् ।। १७ ।।
रक्तपद्मारुणं सान्ध्यं नभः क्षुब्धार्णवोपमम् ।।
सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ।। १८ ।।
शक्रायुधं परीवेशं विधुशुष्कविरोहणम् ।।
कम्पोद्वेलनवैकृत्यं त्रसनं दारुणं क्षितेः ।। १९ ।।
नद्योदपानसरसां वृद्ध्यश्वतरण प्लवाः ।।
शीर्णता चाह्नि गेहानां वर्षासु च भविष्यति।।२.१३४.२०।।
दिव्यस्त्रीभूतगन्धर्वविमानाद्भुतदर्शनम् ।।
ग्रहनक्षत्रताराणां दर्शनं च दिवाकरे।।२१।।
गीतवादित्रनिर्घोषो वनपर्वतसानुषु ।।
रसवृद्धीरसोत्पत्तिः शरत्काले शुभाः स्मृताः ।। २२ ।।
शीतालुलत्तुपारत्वं नन्दनं गृहपक्षिणाम् ।।
रक्षोयक्षादिसत्त्वानां दर्शनं वागमानुषी ।।२३।।
दिशो धूम्रान्धकारश्च शरभोधनपर्वताः ।।
उच्चैः सूर्योदयास्तौ च हेमन्ते शोभनाः स्मृताः ।।२४।।
हिमपातानिलोत्पातौ विरूपाद्भुतदर्शनम् ।।
कृष्णाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम्।।२५।।
चित्रगर्भोद्भवं स्त्रीषु गोजाश्वमृगपक्षिषु ।।
पत्राङ्कुरलतानां च विकाराः शिशिरे शुभाः।।२६।।
ऋतुस्वभावेन विनाद्भुतस्य जातस्य दृष्टस्य तु शीघ्रमेव।।
कृत्वा शमं शान्तिरनन्तरं तु कार्या यथोक्ता वसुधाधिपेन।।२७।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने नानाविधोत्पातकथनो नाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः।।१३४।।
2.135
गर्ग उवाच ।।
देवतार्चाः प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च ।।
आरटन्ति च रोदन्ति प्रस्विद्यन्ति हसन्ति च ।।१।।
उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति वसन्ति च ।।
भुञ्जते विक्षिपन्ते वा गात्रप्रहरणाध्वजान् ।।२।।
अवाङ्मुखावतिष्ठन्ति स्थानात्स्थानं भ्रमन्ति च ।।
वमन्त्यग्निं तथा धूमं स्नेहरक्ते तथा वसाम्।।३।।
एवमादीनि दृश्यन्ते विकारा सहसोत्थिताः।।
लिङ्गायतनचित्रेषु तत्र वासं न रोचयेत्।।४।।
राज्ञो वा व्यसनं तत्र सर्वादेशो विनश्यति।।
देवयात्रां सचोत्पातां दृष्ट्वा देशभयं वदेत् ।। ५ ।।
पितामहर्षिधर्मेषु यन्निमित्तं द्विजेषु तत् ।।
गुरुशुक्राग्निजातानि यानि तानि पुरोहिते ।।६।।
पशूनां रुद्रजं ज्ञेयं नृपाणां लोकपालजम्।।
ज्ञेयं सेनापतीनां तु यत्स्यात्स्कन्दविनायकम् ।।७।।
लोकानां विष्णुवाय्विन्द्रविश्वकर्मसमुद्भवम् ।।
विनायकोद्भवं ज्ञेयं गणानां ये तु नायकाः ।। ८ ।।
देवप्रेष्यनृपप्रेष्यदेव स्त्रीषु नृपस्त्रियः ।।
वास्तुदेवेषु विज्ञेयं गृहिणामेव नान्यथा ।। ९ ।।
देवतार्चाविकारेषु श्रुतिवेत्ता पुरोहितः ।।
देवतार्चां ततो गत्वा स्नातामाच्छाद्य भूषयेत् ।। 2.135.१० ।।
पूजयेच्च महाभाग गन्धमाल्यान्नसम्पदा ।।
मधुपर्केण विधिवदुपतिष्ठेदनन्तरम् ।। ११ ।।
तल्लिङ्गेन च मन्त्रेण स्थालीपाकं यथाविधि ।।
पुरोधा जुहुयाद्वह्नौ सप्तरात्रमतन्द्रितः ।। १२ ।।
विप्राश्च पूज्या मधुरान्नपानैः सदक्षिणैः सप्तदिनं द्विजेन्द्र।।
प्राप्तेऽष्टमेऽह्नि क्षितिगोप्रदानैः सकाञ्चनैः शांतिमुपैति पापम् ।।१३।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने अर्चाविकारोपशमनवर्णनो नाम पञ्चत्रिंशदुत्तरुशततमोऽध्यायः।।१३५।।