विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः १२६-१३०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १२१-१२५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः १२६-१३०
वेदव्यासः
अध्यायाः १३१-१३५ →

2.126
पुष्कर उवाच ।।
संहितां वैष्णवीं जप्त्वा विष्णुं प्रीणाति मानवः ।।
सर्वकाममवाप्नोति तथा हुत्वा च भार्गव ।।१।।
स्कन्दस्य संहितां जप्त्वा स्कन्दात्कामानुपाश्नुते ।।
आस्यदघ्ने जले तिष्ठन्नघेनाकीर्णमानसः ।।२ ।।
त्रिःसप्तकृत्वो जप्त्वा च सर्वान्कामानुपाश्नुते ।। ।।
तथा च संहितां पित्र्यां तत्प्रसादमुपाश्नुते ।। ३ ।।
गुरुगोब्राह्मणादीनामुक्त्वा नाम प्रियं नरः ।।
सोपवासो जपेत्तोये त्विदं विष्णुर्विचक्रमे ।। ४ ।।
सदा गावश्च शुचयः प्रयाज्ययजने जपेत् ।।
अमेध्यदर्शने जापोः पन्था अमे दिवः ।। ५ ।।
एतदिन्द्रस्तवामीति सर्वपापहरं जपेत् ।।
शुक्रं तेऽन्यद्यजतं जप्त्वा स्तेयाद्विमुच्यते ।। ६ ।।
चक्रानिति तथा जप्त्वा पारयायी विमुच्यते ।।
सहन्तः सोममित्येतज्जप्त्वा मुच्येत्प्रतिग्रहात् ।। ७ ।।
यत्तत्सोम इन्द्र इति हिंसादोषविनाशनम् ।।
अग्नेर्भयात्प्रमुच्येत अग्निस्तिग्मेति वै जपन् ।। ८ ।।
सर्वपापहरं ज्ञेयं परितो षिञ्चतामिति ।।
पर्वासुसोमेति जपेज्जीवितुं तु सुकर्मणा ।। ९ ।।
अविक्रेयं च विक्रेयं जपेद्घृतवतीत्विति ।।
अप्यानी देवसवितो ज्ञेयं दुःस्वप्ननाशनम् ।। 2.126.१० ।।
त्रातारमिन्द्रमित्येव महि त्रीणामवोस्त्विति ।।
उदुत्तमं वरुणपाशेत्यायुष्याणि जपेत्सदा ।। ११ ।।
शुक्रचन्द्रेति जाप्येन पूतो भवति मानवः ।।
शुद्धाशुद्धीयमेतच्च तं वचोसूक्तमेव च ।। १२ ।।
न्यग्रोधशृङ्गमादाय शरमूलं तथैव च ।।
त्रिवृतं तु मणिं कृत्वा जुहुयाच्च सहस्रशः ।। १३ ।।
बोध्यासिरिति मन्त्रेण घृतं राम यथाविधि ।।
अभ्यज्य घृतशेषेण मेखलाबन्ध इष्यते ।। १४ ।।
स्त्रीणां यासां तु गर्भाणि पतन्ति भृगुसत्तम ।।
वणिग्जातस्य बालस्य बध्नीयात्तदनन्तरम् ।। १५ ।।
गोर्वै स्वरूपवत्सायाः शुक्लाया जुहुयाद्घृतम् ।।
उग्रप्रिया तु शरणं मंत्रेणानेन मन्त्रवित् ।। १६ ।।
रक्षसा मुच्यते जन्तुर्मणिं शिरसि धारयेत् ।।
कौत्स्यं घृतं तु प्राश्नीयान्नित्यमेव विचक्षणः ।। १७ ।।
विश्वापृतन्निति मन्त्रेण व्याधिभिर्विप्रमुच्यते ।।
चर्षणीवृतमेतेन घृतं हुत्वा यथाविधि ।। १८ ।।
शतायारिमणिं बद्ध्वा न सर्पैः परिभूयते ।।
समत्यायन्तीति जपेन्न म्रियेत पिपासया ।। १९ ।।
इष्ट्याहोत्रितयं जप्त्वा सलिले नाप्नुयाद्भयम् ।।
त्वमेमा ओषधीत्वेतज्जप्त्वा व्याधिं न चाप्नुयात् ।। 2.126.२० ।।
यत्ते पयांसि पूर्वेण ग्रासं वै प्रक्षिपेन्मुखे ।।
निगिरेदुत्तरेणैतन्नित्यमारोग्यमाप्नुयात् ।। २१ ।।
देवव्रतेन हुत्वाज्यमुच्छेषेण विचक्षणः ।।
करवीरकमभ्यज्य दण्डहस्तगतेन तु ।। २२ ।।
स्वस्तिमांस्तेन भवति यत्र क्वचन गच्छति ।।
पथि देवव्रतं जप्त्वा भयेभ्यो विप्रमुच्यते ।। २३ ।।
यदिन्द्रो अनयत्वेति हुतं सौभाग्यवर्धनम् ।।
भद्रान्नो अग्निरिति च दन्तकाष्ठं च भक्षयेत् ।। २४ ।।
संवत्सरमनिष्ठीवन्मध्वाज्यसहितं सदा ।।
सौभाग्यं महदाप्नोति यत्र क्वचन गच्छति ।। २५ ।।
भगो न चित्र एतेन नेत्रयोरञ्जनं स्मृतम् ।।
सौभाग्यवर्धनं राम नात्र कार्या विचारणा ।। २६ ।।
जपन्निन्द्रेति वर्गं च तथा सौभाग्यमाप्नुयात् ।।
करिप्रियो दिवः कविः काम्यां संश्रावयेत्स्त्रियम् ।। २७ ।।
सा तं कामयते राम नात्र कार्या विचारणा ।।
रथन्तरं वामदेव्यं ब्रह्मवर्चसवर्धनम् ।। २८ ।।
यशसामेति जुहुयात्पुष्पेण तु प्रियङ्गुकम् ।।
यशसा योगमाप्नोति कर्मणानेन मानवः ।। २९ ।।
प्राशयेद्बालकं नित्यं वचाचूर्णं घृताप्लुतम् ।।
इन्द्रमिद्गाथिनं जप्त्वा भवेच्छ्रुतिधरस्त्वसौ ।। 2.126.३० ।।
हुत्वा रथन्तरं जप्त्वा पुत्रमाप्नोत्यसंशयम् ।।
गीर्वाणः पाहि सततं जप्तं स्यादघतारकम् ।। ३१ ।।
मयि श्रीरिति मन्त्रेण जप्तव्यं श्रीविवर्धनम् ।।
दानाविशति देवोऽपि मन्त्रेणानेन धर्मवित् ।। ३२ ।।
क्रीत्वा घृतं तु पुष्पेण सुषुमाणीत्यतः पिबेत् ।।
अलक्ष्मीनाशनं कर्म मयैतत्ते प्रकीर्तितम् ।। ३३ ।।
पुष्पेण सर्षपान्गौरांश्चूर्णयित्वा विचक्षणः ।।
इन्द्रेहिमत्स्यं धर्मेति कुर्यादुत्सादनं बुधः ।। ३४ ।।
घृतस्नानं बुधः कृत्वा सर्षपाञ्जुहुयात्ततः ।।
अद्येत्वीडाविन्द्रियेति मन्त्रेणानेन मन्त्रितम् ।। ३५ ।।
पुष्टिदं कर्म कथितं मयैतत्तव भार्गव ।।
मिश्रान्व्रीहि यवानग्नौ हुत्वा भृगुकुलोद्भव ।। ३६ ।।
मुनीशो धाम एतेन धान्यभागी भवेत्सदा ।।
मध्वाज्यदधिमिश्राणि विप्राणीति जुहोति यः ।। ३७ ।।
साष्टं सहस्रं धर्मज्ञ श्रावयन्तीह मानवाः ।।
मासोपवासी लभते कनकं बहु भार्गव ।। ३८ ।।
गव्येषुणेति च द्वाभ्यां यस्तु संवत्सरं नरः ।।
न्यग्रोधजपनिष्ठीवं भक्षयेद्दन्तधावनम् ।। ३९ ।।
सहस्रसङ्ख्यं स धनं लभते नात्र संशयः ।।
भद्रो न अग्न इत्येतत्तथा हुत्वा सहस्रशः ।। 2.126.४० ।।
औदुम्बरेध्महोमेन मन्त्रेणानेन गां लभेत् ।।
हुत्वा व्रीहियवानग्नौ धान्यमाप्नोति मानवः ।। ४१ ।।
एवासि वीरेयुरिति द्वादशाहमुपोषितः ।।
सर्पिषा त्वयुतं हुत्वा ग्राममाप्नोति मानवः ।। ४२ ।।
वैरूपाष्टकवन्नित्यं प्रयुञ्जानः श्रियं लभेत् ।।
श्रान्ताष्टकं प्रयुञ्जानः सर्वान्कामानवाप्नुयात् ।। ४३ ।।
गव्येषुणेति यो नित्यं सायं प्रातरतन्द्रितः ।।
उपस्थानं गवां कुर्यात्तस्य स्युस्ताः सदा गृहे ।। ४४ ।।
अग्ने विवस्वदुषसा मन्त्रेणानेन मन्त्रवित् ।।
भाजनस्योपनीतस्य यस्त्वग्रं जुहुयात्सदा ।। ४५ ।।
उत्तरेण बलिं दत्त्वा सर्वान्कामानवाप्नुयात् ।।
क्षीरैकवृक्षमासाद्य मणिभद्राय मानवः ।। ४६ ।।
अष्टरात्रोषितः पूजां कृत्वा दद्यात्ततो बलिम् ।।
सुसंस्कृतेन मांसेन कृष्णपक्षं क्षपेद्बुधः ।। ४७ ।।
एषस्यतेति मधुमन्निन्द्र एतेन भार्गव ।।
सुवर्णमाप्नोति नरो यावदिच्छति शत्रुहन् ।। ४८ ।।
शुक्लपक्षचतुर्दश्यां त्रिरात्रोपोषितो नरः ।।
मौनं मासं पायसं च रसत्रय समन्वितम् ।। ४९ ।।
सप्तधेनवो दुदुहुर्मन्त्रेणानेन मन्त्रवित् ।।
कृष्णपक्षचतुर्दश्यां त्रिरात्रोपोषितस्तथा ।। 2.126.५० ।।
मत्स्यानुपहरेद्रात्रावासुरीमाप्नुयाच्छ्रियम् ।।
बलयुक्तश्च भवति दीप्ततेजास्तथैव च ।। २१ ।।
धानावन्तं करम्भिणं मन्त्रेणानेन पायसम् ।।
हुत्वा दिगष्टके दद्याद्दिक्पालानां ततो बलिम् ।। ५२ ।।
वास्तुदोषहरं कर्म मयैतत्परिकीर्तितम् ।।
राजा समाचरेत्स्नानं पुष्येण श्रवणेन च ।। ५३ ।।
आप्रातृव्य इति सदा रहस्यं स्नानमाचरेत् ।।
स्वेच्छापतितजीवन्तीगवां शृङ्गसमुद्भवैः ।। ५४ ।।
काशैर्मध्वाज्यसम्पूर्णैर्दधिक्षीरयुतैस्तथा ।।
निःसपत्नमवाप्नोति राज्यं निर्गतकण्टकम् ।। ५५ ।।
घृताक्तं तु यवद्रोणं वात आवतभेषजम् ।।
अनेन हुत्वा विधिवत्सर्वान्दोषान्व्यपोहति ।।५६।।
प्रादेवो दास एतेन कृष्णान्हुत्वा तथा तिलान् ।।
कृत्वा कर्माणि तीर्थोदैः स्तैन्यात्क्षिप्रं विमुच्यते ।।५७ ।।
अभि त्वा पूर्वपीतं ये वषट्कारसमन्वितम् ।।
बाधकेध्मसहस्रं तु हुतं युद्धे जयप्रदम् ।। ५८ ।।
हस्त्यश्वपुरुषान्कुर्याद्बुधः पिष्टमयाञ्छुभान् ।।
परकीयानथोद्दिश्य प्रधानपुरुषाँस्तथा ।। ५९।।
स्वस्त्यन्नापिष्टपचने क्षुरेणोत्कृत्य भागशः ।।
अभित्वा शूर नो नुमो मन्त्रेणानेन मन्त्रवित् ।। 2.126.६० ।।
कृत्वा सर्षपतैलाक्तान्क्रोधेन जुहुयात्ततः ।।
एतत्कृत्वा बुधः कर्म संग्रामे जयमाप्नुयात् ।। ६१ ।।
आषाढ्यां पौर्णमास्यां तु सोपवासो विचक्षणः ।।
सायं धान्यानि वस्त्राणि सस्यानि तोलयेद बुधः ।।६२ ।।
इध्ममिद्देवतामन्ने मन्त्रेणामन्त्रयेत्तु ताम् ।।
पूजितां वासयेद्रात्रौ देशे परमपूजिते ।। ६३ ।।
देशानां भूमिपालानां तथा देवचतुष्पदाम् ।।
मृन्मयानां तु कर्तव्यं तथा रात्र्याधिवासनम् ।। ६४ ।।
तुलितानां द्वितीयेह्नि तत्तद्वृद्धि प्रवर्धने ।।
हीनस्य क्षयमादेश्यं समस्य समता तथा।।६५।।
गोव्रतं तु बुधः कुर्यादादौ मासचतुष्टयम् ।।
ततस्त्वरण्यं प्रविशेत्तत्र कुर्याज्जपं शुभम् ।।६६।।
तपः सदृशमासाद्य जाप्त्वैतदिति वै सदा ।।
सहस्रकृत्वस्तु जपेत्सप्तरात्रत्रये गते।।६७।।
मनसा कांक्षितान्कामान्ध्रुवमाप्नोति मानवः।।
अन्तरिक्षेण वा याति रूपान्यत्वं करोति वा ।।६८।।
अदृश्यत्वमवाप्नोति दैत्यत्वमथ वा पुनः ।।
तंतं काममवाप्नोति यंयं वा मनसेच्छति ।।६९।।
साम्नस्तु देवतां ज्ञात्वा तेन साम्ना तु देवताम् ।।
आराधयेत्सुप्रसन्ना साम्ना स्यात्संशयं विना।।2.126.७०।।
अमूषु पूर्वं तु सदा मन्त्रमावर्तयेच्छुचिः ।।
चन्दनेनानुलिप्तांगो जातिपुष्पधरस्तथा ।। ७१ ।।
श्वेतोष्णीषः श्वेतवासाः सर्वान्कामानवाप्नुयात् ।।
एवं दुदुहकेत्येतत्सोपवासस्तु यो जपेत् ।। ७२ ।।
अक्षतैः सुमनोभिश्च तथा वा गौरसर्षपैः ।।
अवकीर्य शुभं देशं त्वेकाकी प्रस्वपेन्निशि ।। ७३ ।।
वाग्यतस्तु तथा स्वप्ने पश्यतीति शुभंशुभम् ।।
यथावद्भृगुशार्दूल भविष्यद्भूतमेव वा ।। ७४ ।।
भारुण्डं वामदेव्यं च रथन्तरबृहद्रथौ ।।
सर्वपापप्रशमनाः कथिताः संशयं विना ।। ७५ ।।
साम्नां विधिस्ते कथितो नृवीर संक्षेपतः कर्मकरो मयैषः ।।
आथर्वणं वच्मि निबोध तन्मे चेतः समाधाय महानुभाव ।। ७६ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने सामविधिकथनन्नाम षड्विंशत्युत्तरशततमोऽध्यायः ।। १२६ ।।
2.127
।। पुष्कर उवाच ।।
शान्तातीतं गणं हुत्वा शान्तिमाप्नोति मानवः ।।
भैषज्यं च गणं हुत्वा सर्वान्रोगानपोहति ।। १ ।।
त्रिषस्तीयं गणं हुत्वा सर्वपापैः प्रमुच्यते ।।
क्वचिन्नाप्नोति च भयं हुत्वा चैवाभयं गणम् ।। २ ।।
न क्वचिज्जायते राम गणं हुत्वा पराजयः ।।
आयुष्यं च गणं हुत्वा चापमृत्यून्व्यपोहति।।३।।
एते दशगुणाश्चैव होतव्याः स्युर्यथाक्रमम् ।।
अष्टादशसु धर्मज्ञ दशशान्तिषु भार्गव ।। ४ ।।
वैष्णवी च तथा चैन्द्री ब्राह्मी रौद्री तथैव च ।।
वायव्या वारुणी चैव कौबेरी भार्गवी तथा ।। ५ ।।
प्राजापत्या तथा त्वाष्ट्री कौमारी वह्निदेवता ।।
मारुद्गणी च गान्धारी शान्तिर्वै रुदती तथा।।६।।
शान्तिरांगिरसी याम्या पार्थिवी च भृगूत्तम ।।
एतास्तु शान्तयः प्रोक्ताः सर्वकर्महिताः सदा ।। ७ ।।
यस्त्वामृत्युरितीत्येतज्जप्तं मृत्युविनाशनम् ।।
हुत्वा च मातृनामानि कामानेवमवाप्नुयात् ।। ८ ।।
सुपर्णस्त्विति हुत्वा च भुजगैर्नैव बाध्यते ।।
यस्येदं भूमिमिति च भूमिकामो जपेत्सदा ।। ९ ।।
पृथिव्यामुत्तमोसीति हुतं श्रैष्ठ्यप्रदं सदा ।।
औदुम्बरं यो न इति तथा वीर्यविवर्धनम् ।। 2.127.१० ।।
इन्द्रेण दत्तमित्येतत्सर्वबाधाविनाशनम् ।।
हिरण्यवर्ण इति च स्नानं पापहरं भवेत् ।। ११ ।।
असितस्येति सर्वाणि विषघ्नानि भृगूत्तम ।।
सारस्वतीति मन्त्रांश्च विषघ्नान्निर्विशेद्बुधः ।।१२ ।।
शरभादीनि सर्वाणि पिशाचक्षपणानि च ।।
यमस्य लोकादित्येतद्दुःस्वप्नशमनं परम् ।। १३ ।।
अग्नेर्व इति चाप्येतत्कथितं मन्युनाशनम् ।।
ऊर्ध्वो भवति विज्ञेयः कृत्वा स्थानकरः परः।।१४।।
इन्द्रं वयं वणिजमिति पण्यलाभकरं परम् ।।
कामो मे राज्ञीति हुतं स्त्रीणां सौभाग्यवर्धनम्।।१५।।
भद्राय कर्णमित्येतत्कर्णप्रस्यन्दने जपेत् ।।
भद्रासाक्षिवधे जाता कर्णप्रस्यन्दने तथा ।। १६ ।।
तुभ्यमेवाजिरिति आयुष्यं तु हुतं भवेत् ।।
आयातु पितमित्येतन्मित्रलब्धिकरं हुतम् ।। १७ ।।
आशासानमिदं जना मिश्रधान्येन होमयेत् ।।
आधिपत्यमवाप्नोति सर्वत्र मनुजोत्तम ।।१८।।
अग्निरीशेभिरित्येतद्गवां वृद्धिकरं परम् ।।
द्वादशाहं तु जुहुयात्पराकेण विशेषतः ।। १९ ।।
शातो हविरितीत्येतद्ग्रामस्वास्थ्यकरं भवेत् ।।
तस्माद्ग्रामान्मृदा कृत्वा वेदिसाम्यं समश्नुते ।। 2.127.२० ।।
विधाय स्वेति सर्वाणि राष्ट्रस्वीकरणानि तु ।।
त्रिभ्यो भद्रेभ्य इत्येतद्वास्तोष्पतमुदाहृतम् ।। २१ ।।
ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत् ।।
अच्युतापोस्तथा राम कथितं स्थानलाभदम् ।।२२ ।।
पयो देवेष्विति हुतं रायस्पोषकरं परम् ।।
युनक्त सीरेति शुना कृषिलाभकरं भवेत् ।। २३ ।।
अयं ते योनिरित्येतत्पुत्रलाभकरं भवेत् ।।
शुने वत्सा तथा ह्येतद्गवां वृद्धिकरं हुतम् ।। २४ ।।
... ... मेति कथितं सर्वत्र श्रैष्ठ्यकारकम् ।।
यदग्न इति चाप्येतद्बन्धनान्मोक्षकारकम् ।। २५ ।।
यो न स्व इति चाप्येतच्छत्रुनाशकरं परम् ।।
सवन्नहन्निति तथा नात्र कार्या विचारणा।।२६।।
( त्वमत्वममितीत्येतद्यशसो वर्धनं परम् ।।
यथा वृषिमितीत्येतत्स्त्रीणां सौभाग्यवर्धनम् ।। ।। २७ ।।
आनो अग्न इत्येतच्च कथितं पतिलाभदम् ।।
येन वेहेति मां चैव गर्भलाभकरं भवेत् ।। २८ ।।
इमं तपस्विन्निति तथा भवेत्सौभाग्यवर्धनम् ।।
यत्पृथिव्यामनावृत्तं हुतमेतद्यथाविधि ।।२९ ।।
कृत्वा तु संशनं ज्ञेयं नात्र कार्या विचारणा ।।
...........।।2.127.३०।।।)
शिवं शिवाभिरित्येतद्भवेच्छ्रेयस्करं परम् ।।
दूत्या दूषणमित्येतत्कृत्यादूषणमुच्यते ।। ३१ ।।
बृहस्पतिः परिपातु पथि स्वस्त्ययनं भवेत् ।।
मनो विवन्न भयदं पथि स्वस्त्ययनं भवेत् ।। ३२ ।।
अयन्नो अग्निरध्यक्षो भवेदग्निप्रसादतः ।।
संवत्सरं तु शिरसा धारयेद्यो हुताशनम् ।। ३३ ।।'
 मन्त्रमेतज्जपेन्नित्यमाग्नेयाशामुखः स्थितः ।।
अनग्निज्वलनं कुर्याद्रामसंवत्सरे गते।।३४।।
दूत्या दूतिरसीत्येतज्जपेन्मन्त्रमनुत्तमम् ।।
कुर्यात्प्रदिसराबन्धं सर्वदोषनिबर्हणम्।।३५।।
प्राणसूक्तञ्च कथितं तथा प्राणविवर्धनम् ।।
मुञ्चामि त्वेति कथितमपमृत्युविमोक्षणम् ।।३६।।
अथर्वशिरसोऽध्येता सर्वपापैः प्रमुच्यते ।।
परमं पावनं तद्धि सर्वकल्मषनाशनम्।।३७।।
एवमेते शुभा मन्त्राः प्रतिवेदं मया तव ।।
समासात्कथिता राम समुद्धृत्य प्रधानतः ।। ३८ ।।
एकैकस्य च मन्त्रस्य विनियोगाः सहस्रशः ।।
कथिता भृगुशार्दूल पुराणैः सुमहात्मभिः ।। ३९ ।।
न ते शक्या महाभाग वक्तुं वर्षशतैरपि ।।
प्राधान्येन तु मन्त्राणां किञ्चित्कर्म तवेरितम् ।। 2.127.४० ।।
होमे यत्र न निर्दिष्टं मया द्रव्यं पुरा तव ।।
हवींषि तत्र वक्ष्यामि तानि मे गदतः शृणु ।। ४१ ।।
वृक्षाणां यज्ञियानान्तु समिधः प्रथमं हविः ।।
आज्यञ्च व्रीहयश्चैव तथा वै गौरसर्षपाः ।। ४२ ।।
अक्षतानि तिलाश्चैव दधि क्षीरञ्च भार्गव ।।
दर्भास्तथैव दूर्वाश्च बिल्वानि कमलानि च ।। ४३ ।।
शान्तिपुष्टिकराण्याहुर्द्रव्याण्येतानि भार्गव ।।
तैलेन्धनानि धर्मज्ञ राजिकां रुधिरं विषम् ।। ४४ ।।
समिधः कण्टकोपेता अभिचारेषु योजयेत् ।।
आर्षं वै दैवतं छन्दस्त्वविज्ञाय भृगूत्तम ।। ।। ४५ ।।
मन्त्रस्य तेन मन्त्रेण जप्यहोमौ न कारयेत् ।।
छन्दसि ब्राह्मणे सूक्ते यदव्यक्तं प्रदृश्यते ।। ४६ ।।
विद्वद्भि सह निश्चित्य तद्यज्ञमवतारयेत् ।।
सम्भारा ये यथा यत्र यानि द्रव्याणि यो विधिः ।। ४७ ।।
शाखां प्रति तथा तत्र तत्प्रमाणमिति स्थितिः ।।
यः स्वसूत्रमतिक्रम्य परसूत्रेण वर्तते ।। ४८ ।।
अप्रमाणमृषिं कृत्वा सोऽप्यधमेण युज्यते ।।
तस्मात्सर्वप्रयत्नेन स्वसूत्त्रं न विलंघयेत् ।। ४९ ।।
प्राक्तन्त्रोत्तरतन्त्रे द्वे स्वशाखाप्रत्यया द्विज ।।
सर्वकर्मसु कर्तव्ये मध्ये कर्म विधीयते ।। 2.127.५० ।।
अथर्वणोऽयं कथितो विधिस्ते संक्षेपतो भार्गववंशमुख्य ।।
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ।। ५१ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीय खण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्यानेऽथर्वविधिकथनन्नाम सप्तविंशत्युत्तरशततमोऽध्यायः ।। १२७ ।।
2.128
राम उवाच ।।
एकं मन्त्रं समाचक्ष्व देव लक्ष्मीविवर्धनम् ।।
प्रतिवेदं जगन्नाथ यादोगणनृपात्मज ।। १ ।।
पुष्कर उवाच ।।
श्रीसूक्तं प्रतिवेदञ्च ज्ञेयं लक्ष्मीविवर्धनम् ।।
अस्मिँल्लोके परे वापि यथाकामं द्विजस्य तु।।२।।
राम उवाच ।।
प्रतिवेदं समाचक्ष्व श्रीसूक्तं पुष्टिवर्धनम् ।।
श्रीसूक्तस्य तथा कर्म सर्वधर्मभृतां वर।। ।।३।।
पुष्कर उवाच ।।
हिरण्यवर्णा हरिणीमृचः पञ्चदश द्विज ।।
श्रीसूक्तं कथितं पुण्यमृग्वेदे पुष्टिवर्धनम् ।।४।।
रथे अक्षेषु वाजेति चतस्रस्तु तथा ऋचः ।।
श्रीसूक्तं तु यजुर्वेदे कथितं पुष्टिवर्धनम् ४५।।
श्रायन्तीयं तथा मासं सामवेदे प्रकीर्तितम् ।।
श्रियं दातुर्मयि देहि प्रोक्तमाथर्वणे तथा ।।६।।
श्रीसूक्तं यो जपेद्भक्त्या तस्यालक्ष्मीर्विनश्यति ।।
जुहुयाद्यश्च धर्मज्ञ हविष्येण विशेषतः।।७।।
श्रीसूक्तेन तु पद्मानां घृताक्तानां भृगूत्तम ।।
अयुतं होमयेद्यस्तु वह्नौ भक्तियुतो नरः ।।८।।
पद्महस्तद्वया लक्ष्मीस्तं नरं तूपतिष्ठति ।।
दशायुतं तु पद्मानां जुहुयाद्यस्तथा जले ।।९।।
नापैति तत्कुलाल्लक्ष्मी विष्णोर्वक्षोगता यथा ।।
घृताक्तानान्तु बिल्वानां हुत्वा रामायुतं तथा ।। 2.128.१० ।।
बहुवित्तमवाप्नोति स यावन्मनसेच्छति ।।
बिल्वानां लक्षहोमेन कुले लक्ष्मीमुपाश्नुते ।।११।।
पद्मानामथ बिल्वानां कोटिहोमं समाचरेत् ।।
श्रद्दधानः समाप्नोति देवेन्द्रत्वमपि ध्रुवम् ।। १२ ।।
संपूज्य देवीं वरदां यथावत्पद्मैः सितैर्वा कुसुमैस्तथान्यैः ।।
क्षीरेण धूपैः परमान्नभक्ष्यैर्लक्ष्मीमवाप्नोति विधानतश्च ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने श्रीसूक्तमाहात्म्यकथनन्नामाष्टाविंशत्युत्तरशततमोऽध्यायः ।। १२८ ।।
2.129
राम उवाच ।।
एकं मन्त्रं समाचक्ष्व सर्वकर्मकरं शिवम् ।।
ऐहिकं सर्वधर्मज्ञ पारलौकिकमेव च ।। १ ।।
पुष्कर उवाच ।।
प्रतिवेदं महाभाग यत्सूक्तं पौरुषं स्मृतम् ।।
सर्वकर्मकरं ज्ञेयं पवित्रं माधुसूदनम् ।। २ ।।
एकैकया ऋचा राम स्नातो दत्त्वा जलाञ्जलीः ।।
पौरुषेण च सूक्तेन मुच्यते सर्वकिल्बिषैः ।।।
अन्तर्जलगतो जप्त्वा तथा सूक्तं तु पौरुषम् ।।
सर्वकल्मषनिर्मुक्तो यथेष्टां लभते गतिम् ।। ४ ।।
एकैकया ऋचा स्नातः पुष्पं पुष्पं निवेदयेत ।।
पुरुषाय जले राम सर्वपापैर्विमुच्यते ।। ५ ।।
एकैकया ऋचा स्नातो दत्त्वा राम फलंफलम् ।।
सर्वान्कामानवाप्नोति यान्कांश्चिन्मनसेच्छति ।। ६ ।।
पौरुषेण च सूक्तेन प्राणायामो महाफलः ।।
जपहोमौ तथा राम सर्वकल्मषनाशनौ ।।७।।
सुरापो ब्रह्महा स्तेनस्तथैव गुरुतल्पगः ।।
पापेभ्यो विप्रमुच्येत जप्त्वा सूक्तं तु पौरुषम् ।। ८ ।।
कृच्छैर्विशोधितः पूर्वं मध्याह्ने सलिलापगः ।।
स्नातस्तु पौरुषं सूक्तं जपेन्नित्यमतन्द्रितः ।। ९ ।।
संवत्सरेण देवेशं वासुदेवं प्रपश्यति ।।
स्वयमेव महाभाग शाकमूलफलाशनः ।।2.129.१०।।
तस्मात्काममवाप्नोति यद्राम मनसेच्छति ।।
श्रियमग्र्यां तथा रूपं जीवितं दीर्घमेव च।।११।।
अणिमां लघिमां प्राप्तिं महिमां च भृगूत्तम ।।
ईशित्वञ्च वशित्वञ्च प्रकाम्यञ्च भृगूत्तम ।। १२।।
यत्र कामावसायित्वं तस्मात्प्राप्नोति मानद ।।
दुरवापमथान्यद्वा यत्किञ्चिन्मनसेच्छति ।। १३।।
अकामः पौरुषं सूक्तं जप्त्वा नित्यमतन्द्रितः ।।
तत्र याति महाभाग यद्विष्णोः परमं पदम् ।। १४ ।।
मांगल्यमेतत्परमं पवित्रं संसारदुःखौघविनाशकारि ।।
सुखप्रदं धर्मविधं नराणां मनोरमावाप्तिकरं प्रदिष्टम् ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुरुषसूक्तमाहात्म्यवर्णनन्नामैकोनत्रिंशदुत्तरशततमोऽध्यायः ।। १२९ ।।
2.130
राम उवाच ।। ।
पुरा धर्माणि प्रोक्तानि ब्रह्मचारिगृहस्थयोः ।।
कर्माण्युक्तानि च ब्रूहि शिष्टमप्याश्रमद्वयम् ।। १ ।।
(गृहस्थधर्मानाश्रित्य काम्यानि सुरसत्तम ।।।
कर्माणि तानि मे ब्रूहि शिष्टान्यप्याश्रमद्वये ।। २ ।।
पुष्कर उवाच ।
सुखं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः ।।
वने वसेत्तु नियतो यथावद्विजितेन्द्रियः ।। ३ ।।)
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः ।।
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ।। ४ ।।
संत्यज्य ग्राम्यमाहारं सर्वञ्चैव परिच्छदम् ।।
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ।। ५ ।।
अग्निहोत्रं समादाय गृह्यं चाग्निं परिच्छदम् ।।
ग्रामादरण्यं निःसृत्य निवसेद्विजितेन्द्रियः ।। ६ ।।
मुन्यन्नैर्विविधैमेध्यैः शाकमूलफलेन वा ।।
सर्वानेव महायज्ञान्निर्वपेद्विधिपूर्वकम् ।। ७ ।।
वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा ।।
जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखांस्तथा ।।८।।
यद्यच्च स्यात्ततो दद्याद्बलिं भिक्षाञ्च शक्तितः ।।
समूलफलभिक्षाभिरर्चयेदाश्रमागतान् ।। ९ ।।
स्वाध्यायनित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः ।।
दाता नित्यमनादाता सर्वभूतानुकम्पकः ।। 2.130.१० ।।
वैतानिकश्च जुहुयादग्निहोत्रं यथाविधि ।।
दर्शयन्स्कन्दयन्पर्वं पौर्णमासीञ्च योगतः ।। ११ ।।
ऋक्षेष्ट्याग्रयणश्चैव चातुर्मास्यानि चाहरेत् ।।
उत्तरायणञ्च क्रमशो दक्षिणायनमेव च ।। १२ ।।
वासन्तैः शारदैमेध्यैर्मुन्यन्नैः सुसमाहृतैः ।।
पुरोडाशांश्चरूँश्चैव विधिवन्निर्वपेत्पृथक् ।। १३ ।।
देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः ।।
शेषमात्मनि युञ्जीत लवणञ्च स्वयं कृतम्।।१४।।
स्थलजोदकशाकानि पुष्पमूलफलानि च ।।
मध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंयुतान् ।। १५ ।।
वर्जयेन्मधुमांसानि भौमानि कवकानि च ।।
भूस्तृणं शिग्रुकञ्चैव भल्लातकफलानि च ।।१६।।
त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् ।।
जीर्णानि चैव वासांसि पुष्पमूलफलानि च ।। १७ ।।
न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् ।।
न ग्रामजातमन्नञ्च पुष्पाणि च फलानि च ।। १८ ।।
अग्निपक्वाशनो वा स्यात्कालपक्वभुगेव वा ।।
अश्मविद्धो भवेद्वापि दन्तोलूखलिकस्तथा ।। १९ ।।
सद्यः प्रक्षालिको वा स्यान्माससञ्चयिकोऽपि वा ।।
षण्मासनिचयो वा स्यात्समानिचय एव वा।।2.130.२०।।
नक्तं वान्नं समश्नीयाद्दिवा चाहृत्य शक्तितः।।
चतुर्थकालिको वा स्यात्स्याद्वा चाष्टमकालिकः ।। २१ ।।
चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्तयेत् ।।
पक्षान्तयोर्वाप्यश्नीयाद्यवागूं क्वथितां सकृत् ।। २२ ।।
पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा ।।
कालपक्वैः स्वयं शीर्णैर्वैखानसपथि स्थितः ।। २३ ।।
भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् ।।
स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः ।। २४ ।।
ग्रीष्मे पञ्चतपास्तु स्याद्वर्षासु भावकाशकः ।।
आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ।। २५ ।।
उपस्पृशंस्त्रिषवणं पितॄन्देवांश्च तर्पयेत् ।।
तपश्चरंश्चोग्रतरं शोषयेद्देहमात्मनः ।। २६ ।।
अग्नीनात्मनि वैतानान्समारोप्य यथाविधि ।।
अनग्निरनिकेतश्च मुनिर्मूलफलाशनः ।। २७ ।।
अप्रपन्नः सुखार्थेषु ब्रह्मचारी धराश्रयः।।
शरणेषु समश्चैव वृक्षमूलनिकेतनः ।। २८ ।।।
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ।।
गृहमेध्येषु चान्येषु द्विजेषु वनवासिषु ।। २९ ।।
ग्रामादाहृत्य नाश्नीयादष्टौ ग्रासान्वने वसन् ।।।
विविधाश्चोपनिषदो ह्यात्मसंशुद्धये श्रुतीः ।। 2.130.३० ।।
ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः ।।
विद्यातपोभिवृद्ध्यर्थं शरीरस्य च शुद्धये ।। ३१ ।।
अपराजितां वास्थाय व्रजेद्दिशमजिह्मगः ।।
आनिपाताच्छरीरस्य युक्तो वार्यनिलाशनम् ।। ३२ ।।
त्यक्त्वा तनुं सम्यगथोदितस्य विधेरथैकस्य वने निवासी ।।
प्राप्नोति लोकं स पितामहस्य त्यक्त्वा भयं नात्र विचारमस्ति ।। ३३ ।।
इति श्रीविप्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने वानप्रस्थाश्रमकथनन्नाम त्रिंशदुत्तरशततमोऽध्यायः ।। १३० ।।