विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः १०१-१०५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः ९६-१०० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १०१-१०५
वेदव्यासः
अध्यायाः १०६-११० →

2.101
राम उवाच ।।
स्नानमन्यत्समाचक्ष्व भगवन्पुष्टिकारकम् ।।
येन नित्यं कृतेनेह पुरुषः पुष्टिमाप्नुयात्।। १ ।।
पुष्कर उवाच ।।
श्रवणर्क्षमनुप्राप्ते देवदेवे निराकरे।
भक्त्या समाचरेत्स्नानं नदीद्वितयसङ्गमे ।।२ ।।
निम्नगायां सरसि या नदीसागरसङ्गमे ।।
स्नातः संपूजयेद्देवं विष्णुं माल्यानुलेपनैः ।। ३ ।।
धूपदीपनमस्कारैस्तथा चैवान्नसम्पदा ।।
शाल्यन्नं दधिसंयुक्तं विष्णवे विनिवेदयेत् ।। ४ ।।
पौरुषेण च सूक्तेन पायसं जुहुयात्ततः ।।
रजतं दक्षिणां दद्याद्ब्राह्मणाय भृगूत्तम ।।
उपवास विनाप्येतत्स्नानं पुष्टिप्रदं परम् ।। ५ ।।
स्नातः समाप्नोति सदा मनुष्यः कामानभीष्टाञ्छ्रवणर्क्षयोगे ।।
पापं समस्तं विजहाति राम धर्मं समाप्नोति यशश्च मुख्यम् ।।६।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुष्टिकारक श्रवणस्नानकथनन्नामैकोत्तरशततमोऽध्यायः ।। १०१ ।।
2.102
पुष्कर उवाच ।।
जन्मनक्षत्रगे सोमे सर्वौषधिसमन्वितम् ।।
कुम्भं सुपूजितं कृत्वा स्नपनं तेन कारयेत् ।। १ ।।
स्नातश्चैवार्चयेद्देवं वासुदेवं जगत्पतिम् ।।
नक्षत्रदैवतं चन्द्रं नक्षत्रं वारुणं तथा ।।२।।
वायुं चायुधपीठाद्यं छत्रं संपूजयेत्तथा ।।
यथोक्तदेवतालिङ्गैर्मन्त्रैश्च जुहुयाद्घृतम् ।। ३ ।। ।
शक्त्या च दक्षिणा देया ब्राह्मणेभ्यो भृगूत्तम ।।
ततोनुलिप्तः सुरभिः स्रग्वी विविधभूषणः ।। ४ ।।
तिष्ठन्मनुजशार्दूल हविष्याशी जितेन्द्रियः ।।।
उपवासं विनाप्येतत्पवित्रं पापनाशम् ।। ५ ।।
मातृस्थाने तु जगतां जन्मतारा विधीयते ।।
चन्द्ररूपी च भगवान्पिता विष्णुः प्रकीर्तितः ।। ६ ।। ]
तस्मात्सर्वप्रयत्नेन यमनक्षत्रसंस्थितम् ।।
भक्त्या तं पूजयेच्चन्द्रं जन्मर्क्षं च विशेषतः ।।७।।
पूजां सदा चन्द्रमसस्तु कृत्वा जन्मर्क्षसंस्थस्य भृगुप्रधान ।।
कामानवाप्नोति नरस्तु सर्वान्सुखी सदा स्याद्भुवि नष्टपाप्मा।।८।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०स० रामं प्रति पुष्करोपाख्याने जन्मर्क्षस्नानवर्णनन्नाम द्व्युत्तरशततमोऽध्यायः ।।१०२।।
2.103
पुष्कर उवाच ।।
चन्द्रमंडलवृद्धौ तु तथा चैवोत्तरायणे ।।
शुभे दिवसनक्षत्रे मुहूर्ते च तथा शुभे ।। १ ।।
तिष्याश्विनगते चन्द्रे हस्तश्रवणगेऽपि च ।।
प्राचीं वाप्यथवोदीचीं निष्क्रम्य नगराद्दिशम् ।। २ ।।
वास्तुविद्याविनिर्दिष्टे भूमिभागे मनोहरे ।।
अष्टहस्तं शुभं कुर्याच्चतुरस्रं च मण्डलम् ।। ३ ।।
बल्यर्थमपरं कुर्याद्वह्निवेद्यर्थमेव च ।।
गोमये नोपलिप्ते तु सुधालेखासमन्विते ।। ४ ।।
ध्वजातपत्रव्यजनमाल्यदामकुशाक्षतैः ।।
लाजागन्धादिभिर्मुख्यैर्मङ्गल्यैस्तं समर्चयेत्।।५।।
लाजालाजोपकरणैस्तथैव च विभूषयेत् ।।
ततः प्रस्रवणेभ्यस्तु चतुर्भ्यस्तु घटान्नवान् ।। ६ ।।
प्रत्येकं कल्पयेद्विद्वान्कल्पिते मण्डलद्वये ।।
सूक्तिष्वथ महाभाग बीजमात्रसमन्वितान् ।। ७ ।।
ततस्तु कल्पयेत्कुम्भान्सप्तमुख्यान्नदीजलैः ।।
सर्वौषधियुतः कार्यः कुम्भ एको द्विजन्मना ।। ८ ।।
सर्वबीजयुतो धान्यरत्नोपेतस्तथा परः ।।
तथा चैवापरं युक्तं कार्यं वृक्षाग्रपल्लवैः ।। ९ ।।
पुष्पैश्चैवापरं युक्तं फलैश्चैवापरं तथा ।।
सर्वगन्धयुतं चान्यं सर्वानेव समर्चयेत् ।। 2.103.१० ।।
पूर्वमन्त्रेण च तथा सर्वानेवाभिमन्त्रयेत् ।।
ततो भद्रासनं दत्त्वा तत्र चर्मास्तरेद् बुधः ।। ११ ।।
विप्रस्य स्नातुकामस्य सौरमार्षभकं शुभम् ।।
क्षत्त्रियस्य तथा सैंहं वैयाघ्रं च तथा विशः।।१२।।
द्वीपिचर्म च वैश्यस्य स्नाप्यस्तत्रोपवेशयेत् ।।
प्रशस्तलक्षणां भार्यां वामभागे तथैव च।।१३।।
उपोषितः शिरः स्नातः सिद्धार्थैः कङ्कतं विना ।।
स्नापयेद्ब्राह्मणो विद्वान्बहुभिर्ब्राह्मणैः सह ।। १४।।
शङ्खपुण्याहघोषेण वीणावेणुरवेण च ।।
जयशब्देन महता बन्दिनां निस्वनेन च ।।१५।।
सौवर्णं च शतच्छिद्रं पात्रं शिरसि धारयेत् ।।
तत्र दद्याद्घटैस्तोयं क्रमेणानेन शास्त्रवित् ।। १६ ।।
या औषधय इत्येष मन्त्रः स्यादौषधीघटे ।।
आब्रह्मन् ब्रह्मणेत्येष बीजकुम्भे प्रकीर्तितः ।। १७ ।।
आशुः शिशान इति च तथा रत्नघटे भवेत् ।।
मन्त्रः पुष्पवतीत्येष पुष्पकुम्भे प्रकीर्तितः ।। १८ ।।
एष एव तथा मन्त्रः फलकुम्भे प्रकीर्तितः ।।
गन्धद्वारेण च तथा गन्धकुम्भे विधीयते ।। १९ ।।
एवं स्नातः परीधाय सुशुक्ले वाससी शुभे ।।
मङ्गल्यानि स्पृशेद्राम संपश्येद्वदनं घृते ।। 2.103.२० ।।
विमले च तथादर्शे ततः संपूजयेद्धरिम् ।।
वैष्णवांश्च तथा मन्त्राञ्जुहुयाज्जातवेदसि ।। २१ ।।
ततस्तूत्तरदिग्भागे वह्निं तस्योपकल्पयेत ।।
भद्रासनं शुभे देशे युक्तं पूर्वोक्तचर्मणा ।। २२ ।।
श्वेतानुलेपनः स्रग्वी मङ्गल्याभरणस्तथा ।।
निविशेतासने तस्मिन्सभार्यो भृगुनन्दन ।। २३ ।।
गन्धद्वारेतिमन्त्रेण तस्य रोचनया ततः ।।
कण्ठे मूर्ध्नि ततः कुर्यात्तिलकं ब्राह्मणः स्वयम् ।। २४ ।।
येन देवा ज्योतिषेति दर्भार्ग्रैर्ब्राह्मणस्ततः ।।
पादतस्तु प्रभृत्येनं सर्वाङ्गेषु प्रमार्जयेत् ।। २५ ।।
गुरवे दक्षिणां दद्याद्ब्राह्मणेभ्यश्च शक्तितः ।।
गन्धरत्नाज्यमाल्यानि कनकं रजतं तथा ।। २६ ।।
शतच्छिद्रं च तत्पात्रं गुरवे विनिवेदयेत् ।।
मङ्गलालम्भनं कृत्वा गतपापो द्विजाशिषा।।२७।।
शङ्खपुण्याहघोषेण प्रविशेच्च गृहं स्वकम् ।।
विनापि भार्यया राम स्नानं कार्यमिदं तथा ।।२८।।
सप्तरात्रमिदं स्नानं सर्वकल्मषनाशनम् ।।
मधु मांसं तथा क्षौद्रं मैथुनं च विवर्जयेत् ।।२९।।
अलक्ष्मीशमनं पुण्यं रक्षोघ्नं बुद्धिवर्धनम् ।।
आरोग्यदं दीप्तिकरं यशस्यं शत्रुसूदनम् ।। 2.103.३० ।।
मङ्गल्यं पापशमनं कलिदुस्वप्ननाशनम् ।।
बृहस्पतिरिदं चक्रे स्नानं मघवतः स्वयम् ।।
ब्रह्महत्याभिभूतस्य वृत्ते वृत्रवधे पुरा ।।३१।।
ततोऽस्य दत्तः स्वयमेव वज्रिणा वरो नृलोकेपि वरोऽस्य कारकः ।।
कामानभीष्टान्समवाप्य पूजितो महेन्द्रलोकं स सुखी प्रयास्यति ।। ३२ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने बार्हस्पत्यस्नानवर्णनन्नाम त्र्युत्तरशततमोऽध्यायः ।। १०३ ।। ।।
2.104
राम उवाच ।।
स्नानमन्यत्समाचक्ष्व भगवन्दुरितापहम् ।।
सकृदेव कृतं यत्तु पापेभ्यो विप्रमोचयेत् ।। १ ।।
पुष्कर उवाच ।।
राजयक्ष्माभिभूतेषु विषमज्वरितेषु च ।।
छायोन्मादोपतप्तेषु विषमज्वरितेषु च ।। २ ।।
विनायकग्रहार्त्तेषु मूढचित्तेष्वतीव हि ।।
येषां न सिध्यते विद्या सस्यं येषां न रोहति ।। ३ ।।
सीदेद्यस्य कुटुम्बं च पण्यं नायाति विक्रयम् ।।
न लभेत्तु जयं युद्धे बलवानपि यो नरः ।। ४ ।।
युक्तान्यपि च कार्याणि विपद्यन्ते पुनःपुनः ।।
कलहश्च भवेद्येषां सुहृत्स्वजनबान्धवैः।। ।। ५ ।।
गर्भः प्रस्रवते यस्या जातो वापि विनश्यति ।।
पुष्पं यस्याः क्षयं याति न च किञ्चित्प्रजायते ।। ६ ।।
गृह्णाति या न बीजं च जनयेद्वाप्यमानुषान् ।।
नाप्नोति च पतिं कन्या तस्मात्स्नेहमथापि वा ।। ७ ।।
सौभाग्यं च न चायाति सुहृत्स्वजनबन्धुषु ।।
एवमुक्तेषु चान्येषु त्वनुक्तेषु च भार्गव ।। ८ ।।
प्रसमीक्ष्य विधानज्ञः स्नानमेतत्समाचरेत् ।।
स्नापयेत्सरितस्तीरे ग्रहाविष्टान्विचक्षणः ।। ९ ।।
राजयक्ष्माभिभूता ये विषम ज्वरिताश्च ये ।।
तेषां देवालये स्नानं कुर्याद्वा सिद्धसेविते ।। 2.104.१० ।।
छायोन्मादोपतप्ता ये ये चापस्मारशोषिणः ।।
तेषां मुनिगणावासे तीर्थे वा स्नानमिष्यते ।। ११ ।।
विनायकग्रहार्ता ये ये च मूढा विचेतसः ।।
सज्जनाचरिते देशे तेषां स्नानं विधीयते ।। १२ ।।
त्रैविद्या येन सिध्यन्ति गुणा येषां प्रपूजिताः ।।
तेषां स्नानमिहोद्दिष्टं सिद्धदेवस्य मन्दिरे ।। १३ ।।
येषां नास्ति जयो युद्धे येषां स्वजनसंक्षयः ।।
कान्तारे वा वने तीर्थे तेषां स्नानं प्रशस्यते ।। १४ ।।
सततं कलहो येषां जायते च यतस्ततः ।।
त्रिपथे वा तडागे वा स्नानं तेषां प्रकल्पयेत् ।। १५ ।।
पद्मिन्यां स्नपयेन्नारीं गर्भो यस्याः स्रवेत्तथा ।।
अशोकसन्निधौ स्नाप्या जातो यस्याः विनश्यति ।। १६ ।।
न च गृह्णाति या शुक्रं स्नाप्या सा सफले तरौ ।।
महोदधितटे स्नाप्या यदापत्यं विनश्यति ।। १७ ।।
अमानुषान्या जनयेत्स्नापयेत्तां चतुष्पथे ।।
यादृशं या च भर्तारं न लभेत वराङ्गना ।। १८ ।।
स्नापयेदेकलिङ्गे तां स्थाने वा वृक्षसंकुले ।।
रूपलावण्ययुक्ता या सौभाग्यं या न विन्दति ।। १९ ।।
स्नानं वृद्धिकरं तस्या वेश्यागारे प्रकल्पयेत्।।
अन्येषामथ कर्तव्यं सदा स्नानं मनोहरम्।।2.104.२०।।
समे सज्जनसंकीर्णे शुचौ देशे विकण्टके।।
सहायैः प्रयतैः सार्धमहोरात्रोषितो द्विजः।।२१।।
स्नानकर्म प्रयुञ्जीत सोपवासस्य मानद।।
अहोरात्रासमर्थस्य कार्यं वा हविषाशनम्।।२२।।
शरद्वसन्तयोः कार्यं स्नानं स्वस्थस्य भार्गव ।।
सर्वकालेष्वथार्त्तस्य ग्रहव्याधिनिबर्हणम् ।। २३ ।।
मुहूर्ते तत्र सावित्रे ब्राह्मणः स्नापयेद्द्विज ।।
मैत्रेऽथ विजये चैव राजन्यं स्नापयेत्तथा ।। २४ ।।
वैश्यं पैतामहे शूद्रं शेषेषु स्नापयेत्तथा ।।
पञ्चमी सप्तमी श्रेष्ठा स्नपने ब्राह्मणस्य व ।। २५ ।।
त्रयोदशी तृतीया च क्षत्त्रियस्य विशिष्यते ।।
द्वितीया दशमी चैव तथा वैश्यस्य मानद ।। २६ ।।
षष्ठी चतुर्दशी चैव शूद्राणां स्नानकर्मणि ।।
एकादशी द्वादशी च तथा कृष्णचतुर्दशी ।। २७ ।।
सर्वेषामेव वर्णानां स्नानकर्मणि पूजिता ।।
ध्रुवेषु वैष्णवे पुष्ये रेवत्यां भगदैवते ।। २८ ।।
हस्ते पुनर्वसौ सौम्ये ज्येष्ठायामथ वारुणे ।।
धनिष्ठायां तथा स्नानं सर्वेषामेव पूजितम् ।। २९ ।।
वेत्रासनं भद्रपीठं वैदलं दारवं तथा ।।
वर्णानामानुपूर्व्येण परिकीर्तितमासनम् ।। 2.104.३०।।
कृष्णाजिनं च वैयाघ्रं रौरवं बास्तमेव च ।।
पादोपधानं वर्णानामानुपूर्व्येण कल्पयेत ।। ३१ ।।
वृषाश्वरथ पृष्ठे च गजपृष्ठे तथैव च ।। ।।
नरस्कन्धेङ्गनाङ्गे वा प्रायशः स्नापयेच्छिशून् ।। ३२ ।।
स्नातुकामस्य तस्याथ पूर्वमुत्सारसः स्मृतम् ।।
यैर्द्रव्यैर्भृगुशार्दूल तानि वक्ष्याम्यतः परम् ।। ३३ ।।
पुनर्नवां रोचनां च शताह्वागुरुणीं त्वचम् ।।
मधूकं च रजन्यौ द्वे तगरं नागकेसरम् ।। ३४ ।।
आसुरीं सर्जिकां चैव मांसीं रामठ चन्दनम् ।।
प्रियङ्गुं सर्षपान्कुष्ठं कुंकुमं बहुपुत्रिकाम् ।। ३५ ।।
बलेन्द्रहस्तीं ब्राह्मीं च पञ्चगव्यं तथैव च ।।
सक्तुना मिश्रयित्वा च कार्यमुद्वर्तनं भवेत् ।। ३६।।
ततः स्नानदिने प्राप्ते प्राग्वदुत्सादयेत्पुनः ।।
ततो मनोहरे देशे मण्डलं कल्पयेद् बुधः ।।३७ ।।
चतुरस्रं गोमयेन सर्वतोऽष्टदिशं समम् ।।
सतोरणं चतुर्द्वारं प्राकारैरुपशोभितम् ।। ३८ ।।
तत्र मध्ये लिखेत्पद्ममष्टपत्रं सुशोभितम् ।।
कर्णिकायां लिखेद्विष्णुं मेघाभं पीतवाससम् ।।३९।।
कौस्तुभोद्भासितोरस्कं शङ्खचक्रगदाधरम्।।
ब्रह्माणं दक्षिणे न्यस्य पद्मवर्णं समालिखेत् ।। 2.104.४०।।
अजिनाम्बरसंयुक्तं श्वेतयज्ञोपवीतिनम् ।।
रजताभ्रनिभं वामे भागे रुद्रं समालिखेत् ।। ४१ ।।
व्याघ्रचर्माम्बरधरं त्रिनेत्रं शूलधारिणम् ।।
पूर्वपत्रे लिखेच्छक्रं सवज्रं च सुदर्शनम् ।। ४२ ।।
गजपृष्ठाधिरूढं तु स्वर्णाभं पीतवाससम् ।।
प्राग्दक्षिणे तथा पत्रे लिखेद्वह्निं महाप्रभम् ।। ४३ ।।
धूमाभवसनं देवं शुकयानगतं प्रभुम् ।।
अतसीपुष्पसंकाशं पीताम्बरधरं शुभम् ।। ४४ ।।
सदण्डं महिषारूढं लिखेत्पत्रे तु दक्षिणे ।।
उष्ट्रारूढं विरूपाक्षं लिखेद्दक्षिणपश्चिमे ।। ४५ ।।
रक्ताम्बरधरं कृष्णं खड्गपाणिं विभीषणम् ।।
पश्चिमे वरुणं देवं सपाशं हंसवाहनम् ।। ४६ ।।
सशुक्लवसनं देवं स्वच्छवैडूर्यसन्निभम् ।।
पश्चिमोत्तरतो वायुं वायुमण्डलमध्यगम् ।। ४७ ।।
लिखेच्छुभ्राम्बरं श्वेतं सर्वाभरणभूषितम् ।।
कुबेरमुत्तरे पत्रे व्योमयानगतं लिखेत् ।। ४८ ।।
कवचोत्तमसंयुक्तं गदिनं कमलप्रभम् ।।
वृषारूढमथेशानं पत्रे पूर्वोत्तरे लिखेत् ।।४९।।
व्याघ्रचर्माम्बरधरं भालचन्द्र विभूषितम् ।।
चतुर्भिः सागरैः पद्मं चतुरस्रं समन्ततः ।। 2.104.५० ।।
यादोगणयुतैश्चैव क्रमेण परिवारयेत् ।।
सागराणां तु पूर्वेण लिखेत्पद्मं मनोहरम् ।। ५१ ।।
ततश्चक्रं तथा दण्डं वज्रं मकरमेव च ।।
शक्तिं ध्वजं त्रिशूलं तु क्रमेणैव तु विन्यसेत् ।। ५२ ।।
ततः प्राकारसंलग्नानिषून्द्वादश विन्यसेत् ।।
चतुरः सूक्तिषु तथा द्वारेष्वष्टौ भृगूत्तम ।। ५३ ।।
सुसंहतान्समाञ्श्लक्ष्णान्दुरङ्गान्पत्रनिर्गतान् ।।
व्यामार्धसम्मितांस्तीक्ष्णान्पार्श्वे तक्षविभूषितान् ।। ९४ ।।
पञ्चरङ्गं ततः सूत्रं बध्नीयात्तेषु भार्गव ।।
अरुन्धन्द्वारमार्गांस्तु सुदृढं सुमनोहरम् ।। ५५ ।।
वितानं मण्डलीकुर्याच्छ्वेतवर्णं मनोहरम् ।।
ध्वजं छत्राणि खड्गांश्च घण्टादर्शांश्चतुर्दिशम् ।। ५६ ।।
प्राकारोपरि दण्डेषु सुदृढेष्वनिरोधयेत्।।
स्नाने मण्डलकान्कुर्यात्प्राकारस्य ततो बहिः ।। ५७ ।।
त्रिसमान्भृगुशार्दूल चतुरस्रान्मनोहरान् ।।
ज्वालामाल्यार्घरचितान्दिशासु विदिशासु च ।। ५८ ।।
स्नानमण्डलकानां तु समीपे सुसमन्ततः ।।
गावः सवत्साः संस्थाप्या वृषभाश्च सुपूजिताः ।। ५९ ।।
अजाश्चार्भकसम्पन्ना जीवमोक्षाश्च पक्षिणः ।।
प्राकारस्योत्तरे भागे वेदिं कुर्यात्सुशोभिताम् ।। 2.104.६० ।।
दर्भैराच्छाद्य तान्सर्वान्सलिलेन समुक्षयेत् ।।
तत्राग्निं जुहुयान्मन्त्रैर्महाव्याहृतिपूर्वकम् ।। ६१ ।।
यथोक्तदेवतालिंगैस्तथा मन्त्रैश्च भार्गव ।।
ॐकारेण तथास्त्राणां नामयुक्तेन वै पृथक् ।। ६२ ।।
अश्वत्थोदुम्बरप्लक्षबिल्वार्कखदिराः शमी ।।
स्वराह्वयमपामार्गं पलाशयवकान्यपि ।। ६३ ।।
वंशिका चाश्वगन्धा च कदम्बश्चार्जुनासनौ ।।
एतेषां समिधः शस्ताः किष्कुमात्रा घृतप्लुताः ।। ६४ ।।
एकैकमप्यष्टशतं हव्यं सर्षपसंयुतम् ।।
तिलान्यवांस्तथाक्षोटाँल्लाजाश्चाग्नौ समावपेत् ।। ६५।।
ततश्चावपयेच्छान्तिं ब्राह्मणान्गुणसंयुतान् ।।
अभ्यर्च्य दक्षिणाभिश्च पुष्पाक्षतफलैस्तथा ।।६६।।
ततस्तु स्थापयेत्कुम्भान्मण्डले सागरोपरि ।।
यथा दिग्देवनामाङ्कान्दिशासु विदिशासु च ।। ६७ ।।।
काञ्चनान्राजतांस्ताम्रानथ वापि महीमयान् ।।
नामान्यथैषां वक्ष्यामि तानि मे गदतः शृणु ।। ६८ ।।
भद्रः सुभद्रः सिद्धार्थश्चतुर्थः पुष्टिवर्धनः ।।
अमोकश्चित्रभानुश्च पर्जन्योऽथ सुदर्शनः ।।६९ ।।
वापीकूपसरिद्भ्यश्च पूजयित्वा जलेन तान् ।।
वनस्पतिसमायुक्तानर्घ्यमाल्यादिपूजितान्।।2.104.७०।।
मन्त्रानुमन्त्रितानेतांस्तत्र मन्त्रं निबोध मे ।।
स्थापयन्तु घटानेतान्साश्विरुद्रमरुद्गणाः ।। ७१।।
विश्वेदेवास्तथादित्या वसवो मुनयस्तथा ।।
अधिश्रयन्तु सुप्रीतास्तथान्या अपि देवताः ।।७२।।
एवं संस्थाप्य तान्कुम्भान्स्थाप्या मण्डलकेष्वथ।।
ऐन्द्रादिक्रमशः स्थाप्यास्त्वासने पूर्वचोदिते ।। ७३।।
पूर्वे मण्डलके स्थाप्यः शुक्लपुष्पान्वरान्वितः ।।
सर्वत्र ग्राहयेद्विप्रैर्वक्ष्यमाणगुणान्घटान् ।। ७४ ।।
प्रत्येकं स्याच्चतुर्भिस्तु द्वारस्योपरि भार्गव ।।
अपां पूर्णं घटं तत्र यथाशं च यथास्वकम् ।। ७५ ।।
तथा दद्याद्यथास्नानं सम्यक्स्नाप्यस्य जायते ।।
ओषधीश्चात्र वक्ष्यामि यास्तु कुम्भेषु निक्षिपेत् ।। ७६ ।।
अस्थापितेषु धर्मज्ञ ततः संस्थापनं भवेत् ।।
जयां जयन्तीं विजयां सूकरीं मर्कटीं वचाम्।। ७७ ।।
कायस्थां च वयस्थां च बृहतीं बहुपुत्रिकाम् ।।
सहस्तशतवीर्ये च त्रायमाणां कटुम्बराम् ।। ७८ ।।
अतिच्छत्रां तथा च्छत्रां जीवन्तीमपराजिताम् ।।
जटिलां पूतनां कीशां सुरां यक्षसुरां तथा ।। ७९ ।।
अवीतराक्षसीं वीरां स्थिरां भद्रां यशोबलाम् ।।
शङ्खपुष्पीं विष्णुदत्तां नाकुलीं गन्धनाकुलीम् ।। 2.104.८० ।।
गोलोम्यतिबले चैव व्याघ्रीमश्ववतीं तथा ।।
श्यामां ज्योतिष्मतीं चैव तेषु कुम्भेषु निक्षिपेत् ।। ८१ ।।
चन्दनोशीरतगरकुम्भमागुरुकेसरान्।।
त्वक्पत्रमुस्तह्रीबेरप्रियङ्ग्वेलारसांस्तथा।।८२।।
गन्धमांसीं तथा स्पृक्कां रोचनं रामकं बुटिम्।।
कशीरुकामृतानं च ककुभं पद्मकं तथा ।। ८३ ।।
कस्तूरिकां तरुष्कं च कर्पूरं नाडिकं तथा ।।
जातीफलं लवङ्गाश्च कक्कोलैः सह चूर्णिताः ।। ८४ ।।
गन्धद्रव्याणि चान्यानि यथालाभं विनिक्षिपेत् ।।
श्वेता रक्ता तथा पीता कृष्णा चैव हि मृत्तिका ।। ८५ ।।
याश्चान्या विविधाः शस्ता मृत्तिकास्ता निबोध मे ।।
वृषाग्रशृङ्गाद्वल्मीकाद्देवतायतनाद्व्रजात् ।। ८६ ।।
अग्न्यागाराद्धस्तिदन्तात्सुभगागणिकागृहात् ।।
राजद्वारात्पुरद्वारात्कूपाद्दानगृहात्तथा ।। ८७ ।।
कुम्भकारगृहान्नद्याः पद्मिन्याः श्रोत्रियालयात् ।।
इन्द्रनीलतडागाच्च ह्रदात्प्रस्रवणादपि ।। ८८ ।।
चतुष्पथात्सप्तपथान्मृत्तिकाशकटात्तथा ।।
गजाश्वगणशालाभ्यस्तथाथर्वणवेश्मनः ।। ८९ ।।
अजाविकान्वितागाराद्राजकोशान्महासनात् ।।
अशोकात्क्षीरवृक्षाणां समीपात्सफलस्य च ।। 2.104.९० ।।
सदाध्ययनशालातो यज्ञभूमेश्च मृत्तिकाः ।।
प्रगृह्य सर्वाः सम्भृत्य पञ्चगव्यसमन्विताः ।। ।। ९१ ।।
सर्वबीजैः समायोज्य स्नानकुम्भेषु निक्षिपेत् ।।
ततः कुम्भान्प्रतिष्ठाप्य स्नाप्यं संस्थापयेद्द्विजः ।। ९२ ।।
मण्डलेषु क्रमेणैव दिशासु विदिशासु च ।।
पूर्वे मण्डलके स्नाप्यः श्वेतमाल्यानुलेपनः ।। ९३ ।।
श्वेतश्चैव पटो धार्यश्चतुर्भिर्ब्राह्मणैर्भवेत् ।।
एवं दक्षिणतस्तस्य सर्वं नीलं प्रकल्पयेत् ।। ९४ ।।
कृष्णं च कल्पयेत्सर्वं तथा दक्षिणपश्चिमे ।।
( पीतं प्रकल्पयेत्सर्वं तथा भागे तु पश्चिमे ।।)
पश्चिमोत्तरयोः सर्वं शुक्लवर्णं प्रकल्पयेत् ।। ९५ ।।
तथैवोत्तरदिग्भागे पद्मवर्णं प्रकल्पयेत् ।।
प्रागुत्तरे तथा भागे चित्रं सर्वं प्रकल्पयेत्।। ९६ ।।
राज्याभिषेकविहितो मन्त्रश्चात्र विधीयते ।।
प्रत्येकमथ कुम्भेषु दिशासु विदिशासु च ।। ९७ ।।
एवं स्नाप्यो महाभाग शङ्खपुण्याहनिस्वनैः ।।
स्नातः शुक्लाम्बरधरः श्वेतमाल्यानुलेपनः ।। ९८ ।।
मण्डले तु निविष्टानां सुराणां पूजनं ततः ।।
कुर्वीत प्रयतः शुद्धिं गन्धमाल्यार्घसम्पदा ।। ९९ ।।
दीपैर्धूपैर्नमस्कारैर्वस्त्रैराभरणैस्तथा ।।
अपूपान्पायसं भक्ष्याञ्शुक्लमाल्यानुलेपनम् ।। 2.104.१०० ।।
विविधं च फलं क्षीरं ब्रह्मणेभ्यो निवेदयेत् ।।
दध्ना च परमान्नेन श्वेतमाल्यानुलेपनैः ।। १०१ ।।
फलैः प्रसूनैश्च तथा केशवाय हरेद्बलिम् ।।
क्षीरेण परमान्नेन दध्ना सकृसरेण च ।। १०२ ।।
फलैः कालोद्भवैः पुष्पैः शङ्कराय हरेद्बलिम् ।।
अपूपैः परमान्नेन भक्ष्यैः क्षीरेण सर्पिषा ।। १०३ ।।
माल्यानुलेपनैः शुक्लैर्महेन्द्राय हरेद्बलिम् ।।
यवानां च तिलानां च गोधूमानां तथा सकृत् ।।१०४ ।।
भक्ष्यैः सगुडसर्पिष्कैर्बलिं कुर्यात्तु वह्नये ।।
गुडोदनगुडापूपान्पक्वमांसं तथामिषम् ।। १०५ ।। ।
यमाय च बलिं दद्याद्रक्तमाल्यानुलेपनम् ।।
पक्वमांसं तथा मांसं कृष्णमाल्यानुलेपनम् ।। १०६ ।।
विरूपाक्षाय तु सुरां दद्यात्सौवीरकं तथा ।।
मुद्गापूपांस्तिलापूपाञ्जलजान्मन्दिरांस्तथा ।। १०७ ।।
वरुणाय बलिं दद्यात्पीतं माल्यादिकं तथा ।।
यवगोधूमचणकमाषसक्तून्सगोरसान् ।। ।। १०८ ।।
कुल्माषघृतसंयुक्तान्बलिं दद्यात्तु वायवे ।।
भक्ष्यांश्च मधुसंयुक्तान्मुद्गमिश्रांस्तथामिषम् ।। १०९ ।।
चित्रं माल्यं कुंकुमं च कुबेराय हरेद्बलिम् ।।
शिम्बिधान्यभवान्भक्ष्याञ्शाल्यन्नं सगुडं दधि ।।2.104.११०।।
ईशानाय बलिं दद्याच्छुक्लमाल्यानुलेपनैः ।।
शुक्लौदनं शुक्लमाल्यं शूलायोपहरेद्बलिम् ।।१११।।
तथा पञ्चरसैः सिद्धं दद्याद्विज्ञाय बुद्धिमान् ।।
कृसरं गन्धपुष्पाढ्यं दद्याच्छक्राय पायसम्।।११२।।
फलोदनं रक्तमाल्यं दद्याच्छक्त्यै तथा बलिम् ।।
स्नानमण्डलकेभ्योऽपि बलिं दद्यात्ततो बलिम्।।११३।।
बालक्रीडनकान्भक्ष्यान्फलानि विविधानि च ।।
मत्स्यामिषं सरुधिरं पायसं तिलतण्डुलम् ।। ११४ ।।
सकृदन्त्राणि हृदयं भूतेभ्यो बलिमाहरेत् ।।
ॐकाराद्यैश्चतुर्थ्यन्तैः स्वाहाकारसमन्वितैः ।।११५।।
राज्याभिषेकमन्त्रोक्तदेवतानां पृथक्पृथक् ।।
नामभिर्जुहुयाद्वह्नौ यथाश्रद्धं यथाघृतम् ।। ११६।।
पूर्णाहुतिं ततो दत्त्वा देया विप्रेषु दक्षिणा ।।
कनकं रजतं गावो वासांसि विविधानि च ।। ११७ ।।
कर्त्रे च दक्षिणा देया तथा राम विशेषतः ।।
दत्तं वस्त्रादि देवेभ्यस्तथा स्तानघटादिकम् ।। ११८ ।।
कर्ता यथेष्टं विभजेत्तस्य भागो हि स स्मृतः ।।
घृतेऽथ वदनं दृष्ट्वा नमस्कृत्य च देवताः ।।११९ ।।
मङ्गल्यालम्भनं कृत्वा फलपाणिरुदङ्मुखः ।।
तस्माद्देशाद्विनिर्गत्य गृहं यायात्ततः स्वकम् ।। 2.104.१२० ।।
तत्र तिष्ठेद्धविष्याशी ब्रह्मचारी च तां निशाम् ।।
स्नापितो ब्रह्मपूतेन स्नानेनायं यथा भवेत् ।। १२१ ।।
सर्वान्कामानवाप्नोति स्वर्गलोकं च गच्छति ।।
पुरा देवासुरे युद्धे शक्रायैतद्बृहस्पतिः ।। १२२।।
कृतवान्पुरुहूताय ततः शक्रः सुराधिपः ।।
जघान दैत्यमुख्यानां नवतीर्नव भार्गव ।। १२३।।
धन्यं यशस्यं रिपुनाशकारि रक्षोहणं पापहरं पवित्रम् ।।
रोगापहं विघ्नविनाशकारि स्नानं मया ते विहितं यथार्थम्।।१२४।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखंडे मा०सं० रामं प्रति पुष्करोपाख्याने दिक्पालस्नानवर्णनन्नाम चतुरुत्तर
शततमोऽध्यायः ।। १०४ ।।
2.105
राम उवाच ।।
स्नानमन्यत्समाचक्ष्व भगवन्दुरितापहम् ।।
विनायकोपसृष्टानां सर्वकर्मप्रसाधकम् ।। १ ।।
पुष्कर उवाच ।।
विनायकः कर्मविघ्नसिध्यर्थं विनियोजितः ।।
गणानामधिपत्ये च केशवेन पितामहैः ।। २ ।।
तेनोपसृष्टो यस्तस्य लक्षणानि निबोध मे ।।
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डं च पश्यति ।। ३ ।।
काषायवाससश्चैव क्रव्यादांश्चाधिरोहति ।।
अन्त्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठते ।। ४ ।।
व्रजमानस्तथात्मानं मन्यतेऽनुगतं परैः ।।
विमना विफलारम्भः संसीदन्ननिमित्ततः ।। ५ ।।
तेनोपसृष्टो लभते न राज्यं राजनन्दनः ।।
या कुमारी च भर्तारमपत्यं गर्भमङ्गना ।। ६ ।।
आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा ।।
वणिङ् न लाभमाप्नोति न कृषिं तु कृषीवलः ।। ७।।
स्नपनं तस्य कर्तव्यं पुण्येह्नि विधिपूर्वकम् ।।
हस्तपुष्याश्वयुक्सौम्यवैष्णवान्यतमे शुभे ।। ८।।
नक्षत्रे च मुहूर्ते च मैत्रे वा ब्रह्मदैवते ।।
चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासनं भवेत् ।। ९ ।।
भद्रासनोपविष्टस्य स्वस्ति वाच्यं द्विजोत्तमान् ।।
गौरसर्षपकल्केन मेध्येनोत्सादितस्य च ।। 2.105.१० ।।
सर्वौषधैः सर्वगन्धैः प्रलिप्तशिरसस्तथा ।।
चतुर्भिः कलशैः कार्यं स्नपनं मन्त्रसंयुतम् ।।११ ।।
तथैकवर्णाः कलशाः कर्तव्यास्ते ह्रदाम्भसा ।।
अश्वस्थानाद्गजस्थानाद्वल्मीकात्सङ्गमाद्धृदात् ।। १२ ।।
मृत्तिकां रोचनं गन्धान्गुग्गुलं तेषु निक्षिपेत् ।।
सर्वौषधीश्च बीजानि स्नानमन्त्रानतः शृणु ।। १३ ।।
सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।।
तेन त्वामभिषिञ्चामः पावमानीः पुनन्तु ते ।। १४ ।।
भगं ते वरुणो राजा भगं शुक्रो बृहस्पतिः ।।
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ।। १५ ।।
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ।।
ललाटकर्णयोरक्ष्णोरापस्तद्धन्तु ते सदा ।। १६ ।।
दर्भपिञ्जलमादाय वामहस्ते ततो गुरुः ।।
स्नातस्य सार्षपं तैलं सुवेणौदुम्बरेण तु ।। १७ ।।
जुहुयान्मूर्ध्नि धर्मज्ञ चतुर्थ्यन्तैश्च नामभिः ।।
ॐकारपूतैर्धर्मज्ञ स्वाहाकारसमन्वितैः ।। १८ ।।
मिताय संमितायाथ सालङ्कटकटाय च ।।
कूष्माण्डराजपुत्राय तथैव च महात्मने ।। १९ ।।
नामभिर्बलिमन्त्रैश्च वषट्कारसमन्वितैः।।
दद्याच्चतुष्पथे शीर्षे कुशानास्तीर्य सर्वतः ।।2.105.२०।। ।
कृतरक्तांस्तण्डुलांश्च पललौदनमेव च ।।
मत्स्यान्पक्वांस्तथैवामान्मांसमेतावदेव तु ।। २१ ।।
पुष्पं चित्रं सुगन्धं तु सुरां च त्रिविधामपि ।।
मूलकं पूरिकापूपास्तथैवैण्डर्यकाणि च ।। २२।।
एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः।।
विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम्।।२३।।
रूपं देहि यशो देहि सौभाग्यं सुभगे मम।।
पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे।।२४।।
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः।।
भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि ॥ २५ ॥
विनायकस्नानमिदं यशस्यं रक्षोहणं विघ्नविनाशकारि।।
सर्वामयघ्नं रिपुनाशकं च कर्तव्यमेतन्नियमेन राम॥२६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने विनायकस्नानवर्णनन्नाम पञ्चोत्तरशततमोऽध्यायः ॥ १०५ ॥