विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः १०६-११०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १०१-१०५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः १०६-११०
वेदव्यासः
अध्यायाः १११-११५ →

2.106
पुष्कर उवाच ॥
स्नानमन्यत्प्रवक्ष्यामि तवाहं दुरितापहम् ॥
दानवेन्द्राय भुवने यज्जगादोशनाः पुरा ॥ १ ॥
धन्यं यशस्यमायुष्यं सर्वशत्रुक्षयंकरम् ॥
प्रभातायां तु शर्वर्यां भास्करेऽनुदिते तथा ॥ २॥
स्नायीत भार्गवश्रेष्ठ विधिदृष्टेन कर्मणा ॥
सौवर्णं राजतं कुम्भमथवापि महीमयम् ॥ ३ ॥
नादेयैः सागरैस्तोयैः कल्पयित्वा यथाविधिः ॥
ओषधीर्विन्यसेत्तत्र समभागाः सुचूर्णिताः ॥ ४ ॥
जया च विजया चैव तथा सूक्ष्मफलानि च ॥
प्रसन्नमुखबीजानि भाण्डीरकुसुमानि च ॥ ९ ॥
क्षीरजापत्रनिर्माल्यं देवीनिस्सारमेव च ॥
कल्लीवराङ्गना चैव गजेन्द्रस्य च मञ्जरी ॥ ६ ॥
क्षुद्रजं करजं चैव धने द्वेद्वे विभावरी ॥
महौघं पूर्तगं चैव भुवं यक्षभुवं तथा ॥ ७ ॥
शशाङ्कमृगदर्पं च दानं च करिणस्तथा ॥
ओषध्यः कथितास्तुभ्यं दाने मन्त्रमतः शृणु ॥ ८॥
( ॐनमो भगवते रुद्राय धवलपाण्डुरोपचितभस्मानुलिप्तगात्राय ॥
तद्यथा ॥
जय जय विजयविजय सर्वाञ्छत्रूनमुकस्य कलहविग्रहविवादेषु भञ्जभञ्ज मथमथ सर्वत्र प्रत्यक्षिकां योऽसौ युगान्तकाले दध्यक्षतैरिमां पूजां रौद्री मूर्तिसहस्तां सुसत्त्वां रक्षतु जीविकां संवर्तकाग्नितुल्यश्च त्रिपुरार्तिकरः यः सर्वदेवमयः सोऽपि तव रक्षतु जीवितं निखि निखि निखि स्वाहा ॥ )
एवं स्नातस्त्वनेनैव गात्रेण तिलतण्डुलम् ॥
घृताक्तं ज्वलिते वह्नौ जुहुयात्प्रयतः सदा ॥९ ॥।
ततः सम्पूजनं कुर्याद्देवदेवस्य शूलिनः ॥
घृतक्षीराभिषेकेण गन्धपुष्पफलाक्षतैः ॥ 2.106.१० ।॥
दीपधूपनमस्कारैस्तथा वान्नेन भूरिणा ॥
गीतवाद्यैः सुमधुरैर्ब्राह्मणान्स्वस्तिवाचनैः ॥ ११ ॥
माहेश्वरस्नानमिदं हि कृत्वा रक्षोहणं शत्रुनिबर्हणं च ॥
कामानवाप्नोति नरस्तु सर्वान्यान्राम कांश्चिन्मनसेच्छतीति ॥ १२ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने माहेश्वरस्नानवर्णनन्नाम षडुत्तरशततमोऽध्यायः ॥ १०६ ।॥
2.107
पुष्कर उवाच ॥
स्नानान्यन्यानि ते वच्मि निबोध गदतो मम ॥
रक्षोघ्नानि यशस्यानि मङ्गल्यानि विशेषतः ॥ १ ॥
स्नानं घृतेन कथितं चायुषो वर्धनं परम् ॥
राम गोशकृता स्नानं परं लक्ष्मीविवर्धनम् ॥ २ ॥
स्नानं च कथितं दध्ना परं लक्ष्मीविवर्धनम्॥
तथा दर्भोदकस्नानं सर्वपापनिबर्हणम् ॥ ३॥
पलाशबिल्व कमलकुशस्नानं पुरो हितम् ॥
वचा हरिद्रा मञ्जिष्ठा तगरं चारकं तथा ॥ ४॥
स्नानमेतद्विनिर्दिष्टं रक्षोघ्नं पापसूदनम् ॥
वचाहरिद्रया युक्तं स्नानं रक्षोहणं परम् ॥ ५ ॥
आयुष्यं च यशस्यं च धन्यं मेधाविवर्धनम् ॥
स्नानं पवित्रं मङ्गल्यं तथा काञ्चनवारिणा ॥ ६ ॥।
क्रमादूनतरे किञ्चिद्रूप्यताम्रोदकैस्ततः ।।
तथा रत्नोदकस्नानं सङ्ग्रामविजयावहम् ।। ७ ।।
वैडूर्यं मध्यतः कृत्वा प्रवालैः परिवारयेत् ।।
तेन पात्रेण यत्स्नानं सर्वकामकरं हितम् ।। ८ ।।
स्नानं सर्वौषधैर्मुख्यं विवादे विजयप्रदम् ।।
सर्वगन्धोदकस्नानं सौभाग्यारोग्यकारकम् ।। ९ ।।
तथा बीजोदकस्नानं सर्वकर्मप्रसाधकम् ।।
तथैवामलकस्नानमलक्ष्मीनाशनं परम् ।। 2.107.१० ।।
तिलसिद्धार्थकैः स्नानममङ्गल्यप्रणाशनम् ।।
केवलैर्वा तिलैः स्नानमथवा गौरसर्षपैः ।। ११ ।।
स्नानं प्रियङ्गुना प्रोक्तं तथा सौभाग्यवर्धनम् ।।
सौभाग्यकं तथा स्नानं नागकान्ताप्रियङ्गुभिः ।। १२ ।।
पुरोचारुककुष्ठैश्च तथैव च विनिर्दिशेत् ।।
धात्रीफलेन पद्मैश्च तथामलकवारिणा ।। १३ ।।
लक्ष्मीवृद्धिकरं स्नानं कथितं भार्गवोत्तम ।।
पद्मोत्पलकदम्बैश्च तथा लक्ष्मीविवर्धनम् ।। १४ ।।
बलामतिबलां चैव तथा नागबलामपि ।।
बलां मोटां चतुर्थी तु स्नानं वै बलवर्धनम् ।। १५ ।।
ब्रह्माकर्कोटकीमूलं कुमारी पद्मचारिणी ।।
स्नाने रोगविनाशाय स्मृताः प्रत्येकशो द्विज ।। १६ ।।
मांसीमुराचोरकनागपुष्पैः सनागदानैरतिनाशकारि ।।
तुरुष्ककक्कोलकजातिपूगैः फलैः समस्तैः सुतरां प्रदद्यात् ।। १७ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने नानाविधस्नानवर्णनन्नाम सप्तोत्तरशततमोऽध्यायः ।। १०७।।
2.108
राम उवाच ।।
स्नानानामिह सर्वेषां यत्स्नानमतिरिच्यते ।।
तन्ममाचक्ष्व सकलं सर्वकल्मषनाशनम् ।।१।।
पुष्कर उवाच ।।
शृणु पादोदकस्नानं सर्वकिल्बिषनाशनम् ।।
श्रवणर्क्षं विना ह्येतद्भवत्यर्धफलं यतः ।। २ ।।
ततः कार्यं प्रयत्नेन श्रवणर्क्षे विशेषतः ।।
अथोत्तरासु षाढासु निराहारो जितेन्द्रियः ।। ३ ।।
सर्वौषधैः सर्वगन्धैर्देवदेवस्य चक्रिणः ।।
पादं प्रलेपयेद्विद्वान्क्रमेण चतुरात्मनः ।। ४ ।।
ततस्तु कलशान्कुर्याच्चतुरः सुदृढान्नवान् ।।
सौवर्णान्राजतान्ताम्रानथ वापि महीमयान्।। ५ ।।
ततोऽनिरुद्धचरणौ कृपाद्भिः क्षालयेत्ततः ।।
ताभिस्तु कलशं पूर्णं स्थापनीयं तदग्रतः ।। ६ ।।
ततः प्रद्युम्नचरणौ क्षाल्यौ प्रस्रवणोदकैः ।।
कलशं पूरितं तच्च भवेत्स्थाप्यं तदग्रतः ।७ ।।
संकर्षणस्य चरणौ क्षाल्यौ तोयैश्च सारसैः ।।
तैस्तु संपूर्णकलशं स्थाप्यं तस्याग्रतो भवेत् ।। ८ ।।
वासुदेवस्य चरणौ नादेयैः क्षालयेद्बुधः ।।
कलशं पूरितं तैश्च स्थापनीयं तदग्रतः ।। ९ ।।
ततः पूजा तु कर्तव्या यथावच्चतुरात्मनः ।।
कलशान्पूजयेत्तांश्च गन्धमाल्यफलाक्षतैः ।। 2.108.१० ।।
ततः प्राप्ते द्वितीयेऽह्नि स्नातः पूर्वमुपोषितः ।।
सम्मुखश्चानिरुद्धस्य स्नाप्यश्च कटुको भवेत् ।। ११ ।।
प्रद्युम्नस्य च देवस्य ततः संकर्षणस्य च ।।
ततश्च वासुदेवस्य यथा रामस्य चक्रिणः ।। १२ ।।
( पवित्रमन्त्रैः सर्वेषां घण्टानामभिमन्त्रणम्।।
कर्तव्यं सात्त्वतेनाथ शुचिना भार्गवोत्तम ।।१३।।
अथ मन्त्रान्प्रवक्ष्यामि कलशेषु चतुर्षु ते।।)
मङ्गल्यांश्च यशश्यांश्चा सर्वाघविनिषूदनान् ।। १४ ।।
अरुद्धमार्गाः सर्वत्र सर्वशश्चापराजिताः ।।
वायुमूर्तिरचिन्त्यात्मा सोऽनिरुद्धः स्वयं प्रभुः ।। १५ ।।
पादोदकेन दिव्येन शिवेनाघविनाशिना ।।
तथाघमपहृत्याशु शिवं वर्धयतां प्रभुः ।। १६ ।।
लोकान्प्रद्योतयति यः प्रयुम्नो भास्करप्रभः ।।
हुताशनः स तेजस्वी मङ्गलं विदधातु मे ।। ।१७ ।।
कामदेवो जगद्योनिः सर्वशः प्रभुरीश्वरः ।।
दुःखहर्ता जगन्नाथो मङ्गलानि ददातु ते ।। १८ ।।
जगतां कर्षणाद्देवो यः स सङ्कर्षणः प्रभुः ।।
रुद्रमूर्तिरचिन्त्यात्मा सर्वगः सर्वहारकः ।। १९ ।।
कामपालोऽरिदमनः सर्वभूतस्य शङ्करः।।
विश्वयोनिर्महातेजा मङ्गलानि ददातु ते ।। 2.108.२० ।।
सर्वावासो वासुदेवो भूतात्मा भूतभावनः ।।
सर्वगश्चाप्रमेयश्च पुरुषः परमेश्वरः ।। २१ ।।
अनन्तः सर्वदेवेशो जगदाधारकारणः ।।
अघापहारी वरदो विदधातु श्रियं तव ।। २२ ।।
एवं स्नातस्ततस्त्यक्त्वा तत्रैव स्नानवाससी ।।
शुक्लवासा उपस्पृश्य पूजां कुर्यात्क्रमेण तु ।। २३ ।।
गन्धैः पुष्पैः फलैर्मुख्यैर्दीपैर्धूपैः सुगन्धिभिः ।।
नैवेद्यैर्विविधैश्चैव सात्त्वतानां च पूजनैः ।।२४।।
एवं देवार्चनं कृत्वा सात्त्वतां शान्तिदं शुभम् ।।
भोजनं गोरसप्रायं कृत्वा तिष्ठेत्सुयन्त्रितम् ।। २६ ।।
प्रादुर्भावाणि मुख्यानि शृणुयात्केशवस्य च ।।
पाखण्डिपतितानां च वर्जयेद्दर्शनं तथा ।। २६ ।।
इति पादोदकस्नानं प्रोक्तं रक्षोहणं तव ।।
मङ्गल्यं पापशमनमलक्ष्मीनाशनं परम् ।। २७ ।।
सर्वविघ्नप्रशमनं सर्वबाधाविनाशनम् ।।
दुःस्वप्नारिष्टशमनं सर्वव्याधिहरं शिवम् ।। २८ ।।
यात्रासिद्धिकरं धन्यं कर्मणां सिद्धिकारकम् ।।
शत्रुघ्नं बुद्धिदं मेध्यं बलायुःस्मृतिवर्धनम् ।।
सौभाग्यदं कामपरं यशःपुत्रविवर्धनम् ।। २९ ।।
अमोघवीर्यं पुरुषोत्तमस्य पादोदकस्नानमिदं प्रदिष्टम् ।।
स्नानोत्तरं ते रणचण्डवेग भूयस्तु ते किं कथयामि राम ।। 2.108.३० ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुरुषोत्तमपादोदकस्नानवर्णनन्नामाष्टोत्तरशततमोऽध्यायः ।। १०८ ।।
2.109
राम उवाच ।।
मणीनामथ काम्यानां श्रोतुमिच्छाम्यहं विधिम् ।।
सर्वकामकरं मुख्यं तथा च दुरितापहम् ।। १ ।।
पुष्कर उवाच ।।
आथर्वणेन विधिना मणिकर्म निबोध मे ।।
ध्रुवस्तिष्ठेत्यृचा वृक्षं प्रत्यक्षमनुमन्त्रयेत् ।। २ ।।
पादोनया मणिस्थानं प्रोक्षयेत्तु द्वितीयया ।।
अस्याः पादेनोत्तरेण निर्मिमीत मणिं ततः ।। ३ ।।
सबन्धुश्चेति तमृचा तस्माच्छिन्द्यादिति श्रुतिः ।।
आहरेत मणिं तस्मात्सूक्तादस्मात्तृतीयया ।। ४ ।।
सर्वत्र तु मणीनां च निर्माणं केवलं भवेत् ।।
उपयुक्तास्तु केवाक्षा द्रव्यास्ते परिकीर्तिताः ।।५।।
अङ्गुष्ठपर्वमात्रास्ते कर्तव्यास्तु समन्ततः ।।
सम्यगुत्पादयेत्तेषां सम्यग्ग्रन्थिचतुष्टयम् ।। ६ ।।
अग्रतो मूलतो वापि कल्पमानेऽतिरिच्यते ।।
अरातीयोरित्यनया छिन्द्याच्छस्त्रेण तत्त्ववित् ।। ७ ।।
अर्थं च सुशिरः कृत्वा ततः प्रक्षाल्य वारिणा ।।
पात्रं तमग्नौ कृत्वा तु सम्यगेव यथाविधि ।। ८ ।।
यत्राचक्रुरित्यनया ससूत्रमत उत्तरम् ।।
कुर्यात्तदग्निकुण्डं च प्रबोध्य जुहुयाद् घृतम् ।। ९ ।।
प्रत्यृचा स्वेन मन्त्रेण सम्पातानयनं भवेत् ।।
कृतशान्त्युदके पात्रे रम्ये लोहमये दृढे ।। 2.109.१० ।।
स्वलिङ्गोद्धृमन्त्रेण दर्विदण्डादतः परम् ।।
विमुच्य सर्वं तेनैव मन्त्रेण भ्रामयेन्मणिम् ।। ११ ।।
पात्रे तस्मिंस्ततस्तस्मादुद्धृत्या बन्धनं भवेत् ।।
सकलेनैव मन्त्रेण मन्त्रयेच्च तथोद्गतम् ।। १२ ।।
सामान्यमिदमुक्तं ते शृणु वैशेषिकं द्विज ।।
अभीवर्तमणौ कर्म तव वक्ष्याम्यतः परम् ।। १३ ।।
अभीवर्त्तेन मणिनेत्याद्याभिस्तिसृभिर्मणौ ।।
अत्रायं वासवं पात्रं द्वेभ्यश्च प्रत्यृचं पुनः १४ ।।
दत्त्वा सर्वेण सूक्तेन मणेराधन्वनं भवेत् ।।
अभीवर्तमणिः प्रोक्तो नो वा काष्ठान्भृगूत्तम ।। १५ ।।
अयं योनिरत इति तस्य होमो विधीयते ।।
शशकेष्विह ये श्रान्तवत्सभैषज्यभाजनम ।। १६ ।।
क्षुद्रेषु यदपामार्गं मणिः शान्तविसंज्ञकः ।।
इत्येते यावदुक्ताः स्युर्विवाहमधुराश्च ये ।। १७ ।।
पूर्वोक्तेन भवेद्धर्म एतेषामिति मे मतिः ।।
द्रव्यौषधिमणीनां च सभार्याणां तथैव च ।। १८ ।।
दाक्षायणमणीनां च भवेद्धोमाधिको विधिः ।।
ओषधीनामिहेदानीं विधानं शृणु भार्गव ।। १९ ।।
व्रीहीणां वा यवानां वा मूले तु परितः किरेत् ।।
यदि सौम्य सुमन्त्रेण फलकान्येकविंशतिः ।। 2.109.२० ।।
अमुष्मिन्स्थानरूढासु यथाभिलषितां बुधः ।।
योजयेन्नाम सम्भूताममुकस्य विभूतये ।। २१ ।।
घृताहुतेति च द्वाभ्यां घृतेन प्रोक्षयेत्ततः ।।
मा ते रिषसीत्यनया ह्या त्वा तमभिमन्त्रयेत् ।। २२ ।।
गन्धं संछादयेच्चैव ततो भूमेत्यनन्तरम् ।।
इत्यौषधीनां सर्वासां सामान्योऽयं विधिः स्मृतः ।। २३ ।।
एककाद्यास्तु मणयः सलिङ्गं निखनेद्बुधः ।।
मन्त्रेण तान्प्रवक्ष्यामि यथावदनुपूर्वशः ।। २४ ।।
एकाङ्क एककामायेत्येकांके विधिवत्खनेत् ।।
आक्रन्दयति सूक्तेन प्रदध्नां यद्यथाविधि ।। २५ ।।
इयं वीरुदित्यनया विधिवन्मधुघः खनेत् ।।
सूक्तेन सुकलेनास्य मणेराबन्धनं भवेत् ।। २६ ।।
इमां खनामीत्यनया नितनीलिङ्गया खनिम् ।।
प्रतीची सौममसितां बध्नीयात्तु यथाविधि ।। २७ ।।
यात्वा गन्धर्व इन्द्राभ्यां कपिकच्छुं खनेद्वधः ।।
सूक्तेनानेन तन्मेढ्रे प्रबध्नीयादिति स्थितः ।। २८ ।।
इमां खनामीत्यनया दशधास्रुतया खनेत् ।।
पाठासूक्तेन बध्नीयादेका राज्ञीमिति श्रुतिः ।। २९ ।।
दशशीर्ष इति द्वाभ्यां महाख्यं विधिवत्खनेत् ।।
आपः पुनन्त्वित्यनेन बध्नीयात्तां यथाविधि ।। 2.109.३० ।।
इमां खनाम्यौषधीं त्वां ढबीं नाम तथोत्खनेत् ।।
काण्डीयाऋक्तया त्वेते बध्नीयात्तु यथाविधि ।। ३१ ।।
य आत्मजा इत्यनया खन्यादिति तथैव ताम् ।।
1(vd2.4)
अनेनैव प्रबध्नीयाद्विद्वान्सूक्तेन तं मणिम् ।। ३२ ।।
अरिष्टस्त्वा खनतु वै पिप्पलं तु खनेत्तथा ।।
यावद्द्यौरिति सूक्तेन तस्य चाबन्धनं भवेत् ।। ३३ ।।
साहसीनावचेत्येवं सैधकं च तथा खनेत् ।।
अनेवैव प्रबध्नीयात्सूत्रेण तु यथाविधि ।। ३४ ।।
पयोऽसीत्यथवा हन्यात्स्वर्गपत्रीं यथाविधि ।।
सूक्तेन तां प्रबध्नीयादनेनैव यथाक्रमम् ।। ३५ ।।
इमां खनामीत्यनया माषपर्णीं तथा खनेत् ।।
द्वाभ्यां चानर्थसक्तत्वप्रबध्नीयादिति श्रुतिः ।।३६।।
ततः खण्डारिकां खन्याद्राजा त्वां वरुणः खनेत्।।
ऋचानया समस्तेन सूक्तेनाबन्धनं भवेत् ।।३७।।
एकार्कप्रभृतीनां तु लिङ्गः कल्प्यं फलं बुधैः ।।
सामीयात्वाह वरुणेत्येवमादिषु संश्रिताः ।। ३८ ।।
सामीदयः पदार्थास्ते उपक्लृप्तास्तथा स्मृताः ।।
द्रव्यैस्तैस्तु मणिं कुर्यादाम्नायोक्तैर्यथाविधि ।। ३९ ।।
तल्लिङ्गेन तु मन्त्रेण यथावदनुपूर्वशः ।।
कुष्ठस्य मणयः पञ्च उदपात्रे विदुर्बुधाः ।। 2.109.४० ।।
प्रत्यैकपाठसंस्कार शुद्धये वेति नः श्रुतम् ।।
चतुरस्रं प्रबध्नीयान्मणिमञ्जनवत्तथा ।। ४१ ।।
सैन्धवं लवणं सिद्धमुभयत्र परिग्रहात् ।।
कुर्याद्वाक्ष्यं च संस्कारं व्याघ्रत्यपमणौ तथा।।४२ ।।
चतुरस्रौ तु कर्तव्यौ मणी कारणकालजौ ।।
नैमित्तिकाश्च मणयो मणयः संविदुश्च ये ।। ४३ ।।
स्वंस्वं मन्त्रं भवेत्तेषामिति मे निश्चिता मतिः ।।
नैमित्तिकानां घोरास्ते तेषां नैमित्तिकं भवेत् ।। ४४ ।।
सम्पदानां तथा मध्ये साम्पदं नात्र संशयः ।।
सीमात्र्यात्वाहेत्यनेन सीमसं जनवद्भवेत् ।। ४५ ।।
पिशाचशातनः पुंसां यातुधानविनाशनः ।।
मन्त्रलिङ्गादयं ज्ञेयो मन्त्रश्चास्य प्रवक्ष्यते ।। ४६ ।।
शरकाष्ठे तु संयोज्य सीसं कृत्वेति बुद्धिमान् ।।
भार्ङ्गीं ज्यां धनुषः कृत्वा बाधकेनाथ तेन तत ।। ४७ ।।
भूमौ पिशाचमालिख्य भगवेन तु ताडयेत् ।।
उत्तरेण शरेणैव पिशाचो नाशमाप्नुयात् ।। ४८ ।।
शंकुधारमणेर्मन्त्र अनुसूर्यमिति स्मृतिः ।।
प्रज्ञातवर्णशाब्दाश्च रोहितस्य परिग्रहः ।। ४९ ।।
चर्मणः स्यात्तथा वर्गो रोहितासाभवेच्च गाः ।।
शंकुर्निधीयते यत्र विस्तरार्थं तु चर्मणः ।। 2.109.५० ।।
तस्माद्देशान्मणिः कार्यः शंकुर्धनपरिग्रहः ।।
मणिधनं च दुग्धं स्यादुपविष्टाय चर्मणि ।। ५१ ।।
यजमानाय धर्मज्ञ उदपात्रं तथामया ।।
अतिकामल रोगघ्नमायुष्यश्च तथा मणिः ।। ५२ ।।
इमं मे कुष्ठेत्यनेन पञ्चानां स्यात्परिग्रहः ।।
अत्यर्थमेव नैतेषां जलं कुष्ठेन संयुतम् ।। ५३ ।।
सत्कृत्य पानयोगत्वाद्यजमानः पिबेत्ततः ।
मणयः पञ्चकुष्ठे द्वौ मणिशब्दपरिग्रहम् ।। ५४ ।।
तुल्येन विधिना कार्याः फलं तेषां पृथक्पृथक् ।।
शिरोर्तिनाशनः पूर्वो द्वितीयो विषदूषकः ।। ५९ ।।
तृतीयश्च तथा प्रोक्तो विषमज्वरनाशनः ।।
चतुर्थश्च तथा प्रोक्तः सततज्वरनाशनः ।। ५६ ।।
चक्षुष्यः पञ्चमः प्रोक्तो मणिर्भार्गवनन्दन ।।
कृत्वोदपात्रं कुष्ठाम्भो नवनीतविमिश्रितम् ।। ५७ ।।
भूयः कुष्ठं क्षिपेत्तत्र मणिं तत्रावतारयेत् ।।
मणिबन्धं ततः कृत्वा तोयं तत्पाययेन्नरम् ।। ५८ ।।
लिप्येच्च सरुजं देशमुदपात्रजलेन तु ।।
याः पुरस्तादित्यनेन मणिः स्याल्लवणस्य तु ।। ५९ ।।
पितुर्वस्त्रपुटे बद्ध्वा लवणस्य तु तन्मणिम् ।।
आबन्धे कुष्ठवत्स्याच्च यातुधानविनाशनः ।। 2.109.६० ।।
व्याघ्ररूप इत्यनेन खंतव्यं वाटरूषकम् ।।
व्याघ्ररूप इति द्वाभ्यामृग्भ्यामाबन्धनं भवेत् ।। ६१ ।।
पिशाचनाशकस्त्वेवं स मणिः स्यादसंशयम् ।।
एवमेवोत्तराभ्यां च भवेप्रत्यभिचारकः ।। ।। ६२ ।।
विष्कन्दस्येत्यनेनाह त्रिपर्णी विश्वभेषजी ।।
स्कन्दस्योपरि यः स्कन्दो भवेत्तस्य विनाशिनी ।। ६३ ।।
यस्मादङ्गादिति भवेद्गणादित्वात्परिग्रहः ।।
गणस्य कर्म सामान्यं प्रतिसूक्तं न कारयेत ।। ६४ ।।
गोराचवारि कर्माणि हन्तव्यानीवमादिभिः ।।
पतङ्गाद्याश्च चत्वारः संस्कृत्य प्राणिनो बुधः ।। ६५ ।।
तृष्णत्वप्तैश्च मन्त्रेण गात्रं प्रक्षालयेत्खिलम् ।।
प्रथमेन तु सूक्तेन वेणुपौत्रे द्रवो मणिः ।। ६६ ।।
वेणुः कुर्याद्भवेद्धर्मो वाक्षवद्देवदारुणः ।।
संस्कृत्य पूर्वमन्त्रेण माषकादीन्प्रमर्दयेत् ।। ६७ ।।
गात्रसंस्कारसहितैः पिष्टैर्वा प्रकृतिर्भृशम् ।।
केवलेनैव मन्त्रेण मर्दयेत्तु विनश्यति ।। ६८ ।।
तथा स्वलोमप्रभृती विधूलो धूशिरो युतिः ।।
देवप्रवेशं जतुना स्थगयित्वा तु रक्तिका ।। ६९ ।।
दूष्या इति प्रतीकेन कुर्यात्प्रतिसरं मणिम्।।
कृत्वा दूषणमायुष्यं तदा प्रत्यभिवादकः।।2.109.७०।।
अयं प्रतिसरः पाणौ यात्राकाले सपत्नहा ।।
सूत्रेणानेन बध्नीयाल्लिङ्गात्प्रतिसरो परः।।७१।।
अनेन विधिना वृत्रं निजघान शतक्रतुः ।।
अशंस इति मन्त्रेण प्रबध्नीयाद्यथाविधि।।७२।।
भूतिश्रीप्रभृतीनां च विघ्नमेवं करोति यः ।।
विनाशनं तस्य भवेदाबन्धाद्यक्षनाशनम्।।७३।।
ज्यासूत्रप्रोथिताः सप्त वंशप्राप्ताः समुद्भवाः ।।
रत्तयान्तरव्यवहिता गर्भिण्या उद्धरेद् बुधः ।। ७४।।
मासे चतुर्थे बध्नीयान्मन्त्रेणानेन बुद्धिमान् ।।
एकैकस्मिन्नतीते तु मासे सूत्रान्तरे मणिः ।। ७५।।
एकैकं प्रक्षिपेद्धीमान्ससूत्रं पश्चिमं तथा ।।
प्राची दिगिति मन्त्रेण उदीची भयनाशनी ।।७६ ।।
अक्षीयाभ्यामित्यनेन दाप्यः स्याद्यक्ष्मनाशनः ।।
सन्धानार्थं शीतमग्ने रात्रीमातेत मोहनः ।।
मयूरगोसुरवृद्धौ द्वौ वेतीति प्रकीर्तितम् ।।७७।।
प्रोक्तास्तथैते मणयो नृवीर काम्या मया सर्वहिताय पुण्याः ।।
येषां हि बन्धो दुरितापहारी भयापहः केवलवृद्धिकारी ।।७८।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने मणिबन्धवर्णनन्नाम नवोत्तरशततमोऽध्यायः ।। ।। १०९।।

टिप्पणी

२.१०९.४ सबन्धुश्चेति - ऋग्वेदः खिल ४.५.२०

2.110
राम उवाच ।।
भगवञ्छ्रोतुमिच्छामि कर्म काम्यमहं नृणाम् ।।
कृतेन येन कामानां नरो भवति भाजनम् ।। १।।
पुष्कर उवाच ।।
सर्वेषामेव कामानामीश्वरो भगवान्हरिः ।।
तस्य सम्पूजनादेव सर्वान्कामानुपाश्नुते ।। २ ।।
स्नापयित्वा घृतक्षीरैश्चन्दनेनानुलेपयेत् ।।
शुक्लैः सम्पूज्य पुष्पैश्च सप्तमस्य बलिं हरेत् ।। ३ ।।
रक्तपित्तान्नरो घोरान्मुच्यते नात्र संशयः ।।
तैलक्षौद्रघृतैर्देवं स्नापयित्वा जनार्दनम् ।। ४ ।।
भस्मत्रयेणानुलिप्य सम्पूज्य कुसुमैः सितैः ।।
पञ्चमुद्गबलिं दद्यादतीसारात्प्रमुच्यते ।। ५ ।।
संस्नाप्य पञ्चगव्येन दत्त्वा पञ्चानुलेपनम् ।।
पञ्चसस्यबलिं दत्त्वा सुखं कुष्ठात्प्रमुच्यते ।। ६ ।।
त्रिरसस्नापितं देवं त्रिसुगन्धेन लेपितम् ।।
कृत्वा दत्त्वा त्रिसूत्रं च बलिं कामाद्विमुच्यते ।। ७ ।।
स्नापयित्वा तु तैलेन त्रिभिरुष्णैर्विलेपयेत् ।।
पञ्चमाषबलिं दत्त्वा वातव्याधिं विमुञ्चति ।। ८ ।।
द्विस्नेहस्नपितं देवं शीतोष्णेनानुलेपितम् ।।
पञ्चभिः स्नापयित्वा च रसैर्देवं जनार्दनम् ।। ९ ।।
अनुलिप्य च धर्मज्ञ तथा पञ्चसुगन्धिना ।।
पञ्चवर्णानि पुष्पाणि तथा दत्त्वा यथाविधि ।। 2.110.१० ।।
धूपं च पञ्चनिर्यासं दत्त्वा चैवाप्यनुत्तरम् ।।
ततश्च पञ्चमधुरं बलिं सम्यङ् निवेदयेत् ।। ११ ।।
अनेन रोगतः शीघ्रं मुच्यते नात्र संशयः ।।
विष्णुं सहस्रमूर्धानं चराचरगुरुं हरिम् ।। १२ ।।
स्तुवन्नामसहस्रेण ज्वरान्सर्वान्व्यपोहति ।।
घृतेन स्नापितं देवं चन्दनेनानुलेपयेत् ।। १३ ।।
पञ्चभिर्जलजैः पुष्पैस्ततः सम्पूजयेद्विभुम् ।।
धूपं दद्यात्त्रिवारं च पञ्चगव्यं तथा बलिम् ।। ।। १४ ।।
पञ्चगौडं तथा राम बद्धो मुच्येत बन्धनात् ।।
त्रिशीतस्नापितं देवं त्रिशीतेनानुलेपयेत् ।। १५ ।।
त्रिशीतैः कुसुमैः पूज्यं धूपं दद्यात्त्रिशीतलम् ।।
त्रिशीतं च बलिं दत्त्वा राजकोपाद्विमुच्यते १६ ।।
शीतोष्णस्नापितं देवं त्रिशीतैरनुलेपयेत् ।।
धूपं दत्त्वा च शीतोष्णं शीतोष्णं च तथा बलिम् ।। १७ ।।
गुरुप्रसादमाप्नोति नात्र कार्या विचारणा ।।
यमलस्नापितं देवं यमलेनानुलेपितम् ।। १८ ।।
अभ्यर्च्य यमलैः पुष्पैर्धूपं च यमलं दहेत् ।।
यमलं च बलिं दत्त्वा सौभाग्यं प्राप्नुयान्नरः ।। १९ ।।
सौभाग्यकामा नारी च सौभाग्यं महदाप्नुयात् ।।
सौभाग्यकामोऽपि नरः सौभाग्यं महदश्नुते ।। 2.110.२० ।।
त्रिभिः संस्नापितं देवं सौभाग्यं महदाप्नुयात् ।।
त्रिभिः फलैः स्नापयित्वा त्रिसारेणानुलेपयेत् ।।२१।।
त्रिशीतं च बलिं दद्याद्यशः प्राप्नोत्यनुत्तमम् ।।
त्रितैलस्नापितं देवं त्रिरक्तेनानुलेपितम् ।।२२।।
धूपयेन्महिषाक्षेण त्रिरक्तं च बलिं हरेत् ।।
रौद्रकर्म तु प्राप्नोति सिद्धिरस्ति न संशयः।।२३।।
त्रिगन्धस्नापितं देवं त्रिशीतेनानुलेपितम् ।।
पूजयेच्छ्वेतपद्मानां सहस्रेण महाभुजम्।। ।। २४।।
निवेद्य परमान्नं च श्रियं प्राप्नोत्यनुत्तमाम् ।।
घृतेन स्नापितं देवं चन्दनेनानुलेपितम्।।२५।।
परमान्नं बलिं दत्त्वा यथेष्टं काममाप्नुयात् ।।
घृतेन स्नापितं देवं चन्दनेनानुलेपितम् ।।२६।।
अपूपैः परमान्नेन कुल्माषेण च पूजयेत् ।।
आम्रातकानां मुख्यानां ततस्त्वष्टाधिकं शतम् ।। २७ ।।
क्षौद्रन्त्रिवृत्तं देवाय यथावद्विनिवेदयेत् ।।
सौभाग्यं महदाप्नोति नात्र कार्या विचारणा ।। २८ ।।
पञ्चगव्यबलिं दत्त्वा धनमाप्नोत्यनुत्तमम् ।।
त्रिरक्तस्नापितं देवं त्रिरक्तेनानुलेपितम् ।।२९।।
रक्तपुष्पैः समभ्यर्च्य त्रिभिरेव यथाविधि ।।
त्रिरक्तं च बलिं दत्त्वा हुत्वा वै सर्षपत्रयम् ।। 2.110.३० ।।
त्रिलोहं दक्षिणां दत्त्वा शत्रुनाशमवाप्नुयात्।।
त्रिफलस्नापितं देवं त्रिरक्तेनानुलेपितम्।।५३१ ।।
त्रिशीतं च बलिं दत्त्वा पुन्नामकुसुमानि च ।।
पुन्नामकानि मुख्यानि फलानि विविधानि च।।३२।।
पुत्रजन्म समाप्नोति नात्र कार्या विचारणा ।।
घृतेन स्नापितं देवं त्रिरक्तेनानुलेपितम्।।३३।।
कृत्वा तदेव धूपं तु दत्त्वा क्षीरं निवेदयेत् ।।
घृतपूरं बलिं दत्त्वा नरः प्राप्नोति जीविकाम् ।। ३४ ।।
क्षीराज्यस्नापितं देवं चन्दनेनानुलेपितम् ।।
तदेव धूपं दातव्यं जातीपुष्पाणि चाप्यथ ।। ३५ ।।
पञ्चगव्यबलिं दत्त्वा हुत्वा वह्नौ तथा घृतम् ।।
गां च दत्त्वा महाभाग गाः समाप्नोति मानवः ।। ३६ ।।
यमलस्नापितं देवं यमलेनानुलेपितम ।।
अभ्यर्च्य यमलैः पुष्पैर्धूपं च यमलं दहेत् ।। ३७ ।।
यमलं च बलिं दत्त्वा जुहुयादक्षतांस्तथा ।।
तिलसिद्धार्थकयुतान्सर्पिः क्षीरं घृतं तथा ।। ३८ ।।
अश्वं च दक्षिणां दत्त्वा हयान्प्राप्नोत्यनुत्तमान् ।।
घृतेन स्नापितं देवं तथैव घृतलेपितम् ।। ३९ ।।
पुष्पैश्चतुर्भिः सम्पूज्य धूपं दत्त्वा चतुःसमम् ।।
त्रिशुकं च तथा दत्त्वा तथैव पानकत्रयम् ।। 2.110.४० ।।
त्रिशुकं च तथा हुत्वा त्रिस्नेहेन समन्वितम् ।।
त्रिलोहं दक्षिणां दत्त्वा गाणपत्यमवाप्नुयात् ।। ४१ ।।
मधुरत्रितयेनाथ स्नापयित्वा जनार्दनम् ।।
अनुलिम्पेत्त्रिशीतेन पूजयेच्चमकैस्तथा ।। ४२ ।।
धूपं दहेत्त्रिशीतेन दद्यात्त्रिमधुरं बलिम् ।।
मधूकपुष्पाणि तथा द्राक्षां खर्जूरमेव च ।। ४३ ।।
सर्वभूतैः सहाप्नोपि सख्यमेव न संशयः ।।
घृतेन स्नापितं देवं वचया निशया तथा ।। ४४।।
चन्दनेनानुलिम्पेत्तु जातीपुष्पैरथार्चयेत् ।।
घृतक्षौद्रयुतं दत्त्वा तथा धूपं च गुग्गुलम् ।। ४५ ।।
त्रिशूकं च बलिं दत्त्वा तथा त्रिलवणं नरः ।।
कनकं दक्षिणां दत्त्वा विद्यामाप्नोत्यभीप्सिताम् ।। ४६ ।।
चन्दनमाज्यं जाती परमान्नं गुग्गुलुं च देवाय।।
दत्त्वा भक्त्या पुरुषः सर्वान्कामानवाप्नोति।।४७।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने भगवदनुलेपनस्नानवर्णनन्नाम दशोत्तरशततमोऽध्यायः ।।११०।।