विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०९६-१००

विकिस्रोतः तः
Jump to navigation Jump to search

2.96
राम उवाच ।।
कर्माणि श्रोतुमिच्छामि काम्यानि गृहिणामहम् ।।
त्वत्तः समस्तधर्मज्ञ यादोगण नृपात्मज ।। १ ।।
पुष्कर उवाच ।।
कृतोपवासो याम्यर्क्षे सोपवासस्य भार्गव ।।
पुरोधाः स्नपनं कुर्यात्कृत्तिकासु यथाविधि ।।२।।
अकालमूलैः कलशैर्मृन्मयैरथ काञ्चनैः ।।
उज्वलैर्लक्षणैः पूर्णैस्तथा तीर्थोदकैः शुभैः ।। ३ ।।
अग्निमन्थशिरीषाणां न्यग्रोधाश्वत्थयोरपि ।।
पत्रपूर्णैस्तथायुक्तैस्तिलैः कृष्णैर्द्विजोत्तम ।। ४ ।।
वह्निं कुमारं शशिनं खङ्गं वरुणमेव च ।।
पूजयेत्कृत्तिकाश्चैव गन्धमाल्यान्नसम्पदा ।। ५ ।।
पीतरक्तैस्तथा वर्णैर्घृतदीपैस्तथैव च ।।
दध्ना गव्येन लाजाभिरग्निमन्थेन चाप्यथ ।। ६ ।।
कृसरोल्लोपिकाभिश्च अपूपैश्च पृथग्विधैः ।।
देवतानां यथोक्तानां प्रियङ्गुं जुहुयात्ततः ।। ७ ।।
चन्दनञ्च मयूराणां लोमानि मनुजोत्तम ।।
अग्निमन्थगृहाद्धूमं कृत्वा रुक्माङ्गदं मणिम् ।। ८ ।।
धारयेद्दक्षिणां दद्याच्छक्त्या कनकमेव च ।।
श्वेतवासास्ततः पश्चात्पूजयेन्मधुसूदनम् ।। ९ ।।
कर्मैतत्सततं कृत्वा वह्न्याधानमथाप्नुयात् ।। ।
कर्मैतदुक्तं रिपुनाशकारि सर्वाग्निकर्मप्रसमृद्धिदं च ।।
धन्यं यशस्यं च तथैव काम्यं नित्यं कृतं धर्मविदां वरिष्ठ ।। 2.96.१० ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयकाण्डे मा० सं० रामं प्रति पुष्करोपाख्याने कृत्तिकास्नानवर्णनन्नाम षष्णवतितमोऽध्यायः ।। ९६ ।।
2.97
राम उवाच ।। ।।
अग्न्याधानमथाप्नोति शत्रुनाशमथापि वा ।।
स्वेच्छया कर्मणा केन सदा यादोनृपात्मज ।। १ ।।
शत्रुनाशकरं कर्म कथयस्व ततः परम् ।।
तदहं श्रोतुमिच्छामि तत्र श्रद्धा सदा मम ।। २ ।।
पुष्कर उवाच ।।
कृतोपवासो याम्यर्क्षे कृत्तिकासु सदैव तु ।।
पूजयेद्वासुदेवं तु कुङ्कुमेन सुग न्धिना ।।३।।
रक्तैश्च कुसुमैर्हृद्यैर्धूपं दद्याच्च गुग्गुलम् ।।
घृतेन दीपं दद्याच्च रक्तवर्णं तथैव च।।४।।
निवेदनीयं देवाय तथा सर्वं निवेदयेत् ।।
होतव्यं सुसमिद्धेऽग्नौ तथैवात्र शुभं हविः ।।
आयुधानि च देयानि ब्राह्मणेभ्यश्च दक्षिणा ।।५ ।।
कर्मैतदुक्तं रिपुनाशकारि धार्यं सदा शत्रुगणप्रमाथि ।।
कृत्वैतदग्र्यं रिपुनाशमाशु प्राप्नोति मर्त्यो न हि संशयोऽत्र ।। ६ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०स० रामं प्रति पुष्करोपाख्याने शत्रुनाशकर्मवर्णनन्नाम सप्तनवतितमोऽध्यायः ।। ९७ ।।
2.98
राम उवाच ।।
काम्यानि त्वं समाचक्ष्व स्नानान्यन्यानि देवज ।।
केन स्नानेन धर्मज्ञ कं कं काममवाप्नुयात् ।।१।।
पुष्कर उवाच ।।
पुरोधाः सोपवासस्तु सर्वस्नानानि कारयेत् ।।
सोपवासस्य धर्मज्ञ तथा सर्वत्र मानवः ।। २ ।।
अकालमूलाः कलशाः कार्याः सर्वेषु भार्गव ।।
पूजा चन्द्रमसः कार्या वरुणस्य तथैव च ।। ३ ।।
नक्षत्रदेवतानां च नक्षत्रस्य तथैव च ।।
सर्वगस्याप्रमेयस्य वासुदेवस्य चाप्यथा।।४।।
येषां च पूजा कर्तव्या तेषां च जुहुयाद्धविः ।।
काम्यं स्नानं सदा कुर्यान्नक्षत्रं तु न लंघयेत्।।
मन्त्रयेत्स्नानकलशं मन्त्रेणानेन भार्गव ।।५ ।।
मन्त्रः-
आपः सोमाद्याः संबभूवुः पवित्राग्निः पावनः सोमसूर्यसंस्थिता वायुना नष्टदोषाश्च यो नित्य मच्छ्रेयसे सत्कृत्याप्सु स्युः स्वाहा शान्तिः श्रीर्नवपुष्टिर्मह्यं भूयासं सर्वशिरः ।।
साधुस्वाहेति सूर्यः संस्थिता वायुनामाष्टदोषा ।।'
कर्मैतदुक्तं रिपुनाशकारि साधारणं स्नानमिदं पवित्रम् ।।
अतः परं ते कथयामि राम स्नानानि काम्यानि सुखप्रदानि ।। ६ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०स० रामं प्रति पुष्करोपाख्याने साधारणस्नानवर्णनन्नामाष्टनवतितमोऽध्यायः ।। ९८ ।।
2.99
पुष्कर उवाच ।।
कृत्तिकास्नानमुक्तं ते वह्निकर्मप्रसाधनम् ।।
तथारिनाशनं मुख्यं वह्न्याध्येयप्रदं तथा ।। १।।
रोहिणीषु तथा स्नानं प्रोक्तं पुत्रप्रदं पुत्रप्रदं तव ।।
ब्रह्मवर्चसकामस्य स्नानं सौम्यमिदं शृणु ।। २ ।।
पूर्णमौदुम्बरैः पत्रैः कृत्वा राम घटत्रयम् ।।
पूर्णचन्द्राङ्कितैः शुक्लैः सूत्रमाल्यैरलंकृतम् ।। ३ ।।
तेन संस्नापितः पश्चात्क्षौमवासा यथाविधि ।।
देवतापूजनं कृत्वा घृतं हुत्वा हुताशने ।। ४ ।।
ओङ्कारपूतं सोमाय क्षीरं हुत्वा तथा जले ।।
निवेदनीयं सोमाय तथा पृष्ठमृगत्रयम् ।। ५ ।।
मृगशृङ्गेण धूपं च तथा दद्यादनन्तरम् ।।
सोमेन च मणिर्धार्यो जातरूपपरिष्कृतः ।। ६ ।।
दक्षिणा चात्र दातव्या शुभधेनुः पयस्विनी ।।
कृत्वा तन्नित्यमाप्नोति ब्रह्मवर्चसमुत्तमम् ।। ७ ।।
घृताम्रमधुपूर्णेन स्नातः कुम्भेन मानवः ।।
पट्टिशालंकृतेनाथ रक्तचन्दनवारिणा ।। ८ ।। ।
रुद्राय मांसं रुधिरं तथा च मधु पायसम् ।।
कृष्णानि वासांसि तथा धूपं गुग्गुलमेव च ।।९।।
दद्याद्घृतेन च तथा होमो मन्त्रैर्विधीयते ।।
कृष्णानि वासांसि तथा दातव्या दक्षिणा भवेत् ।। 2.99.१० ।।
मेषाश्वनरलोमानि गर्दभस्य विशेषतः ।।
आयसी तु मणौ कृत्वा द्वारि शत्रोर्निधापयेत् ।। ११ ।।
आर्द्रास्नानमिदं राम सर्वशत्रुविनाशनम् ।।
सर्वगन्धैः फलैर्बीजैः पूर्णं कृत्वा घटत्रयम् ।। १२ ।।
स्नापनं तेन कर्तव्यमादित्यैस्तदनन्तरम् ।।
नवनीतं च कुल्माषं मत्स्यांश्चैव स्वरांस्तथा ।। १३ ।।
निवेदयेच्चैव तथा मत्स्यानि सुरभीणि च ।।
घृताक्षताभ्यां धूपेन होमश्चैव विधीयते ।। १४ ।।
तद्दिने तु नदी यत्र योगे गच्छतु तां मुदा ।।
सुवर्णरूप्यगन्धश्च धारणीयस्तथा मणिः ।। १५ ।।
दक्षिणा चात्र दातव्या राम धेनुः पयस्विनी ।।
स्नातः पुनर्वसावेव जातिश्रैष्ठ्यमवाप्नुयात् ।। १६ ।।
पुत्रान्वा सुमहाभाग यदीच्छति तदाप्नुयात् ।।
गौरसर्षपकल्केन रामोत्सादितविग्रहः ।।१७।।
गव्याज्यपूर्णकुम्भेन स्नातः स्नातस्तथौषधैः ।।
अहताम्बरसंवीतः पायसं विनिवेदयेत् ।। १८ ।।
शुक्लानि चैव माल्यानि वासांस्यपहतानि च ।।
होमश्च पायसेनात्र धूपं गन्धैश्च दापयेत् ।। १९ ।।
मणिः शिरसि धार्यश्च दण्डाग्रे ब्रह्मचारिणः ।।
सुवर्णगर्भं पुष्पेण स्नानं पुष्टिकरं भवेत् ।।2.99.२०।।।
दक्षिणा चात्र दातव्या घृतं कनकसंयुतम् ।।
षड्ध्वजां नीलसूत्रेण नीलपुष्पैश्च वेष्टिताम् ।। २१ ।।
सर्षपान्वेष्टयेद्राम नागपुष्पेण भूरिणा ।।
वल्मीकानां सहस्तस्य तथैवाग्रमृदा द्विज।।२२।।
तै स्नातः सर्वनागेभ्यो मधुलाजां निवेदयेत्।।
गन्धोदकं तथा धानाः षट्कृत्वाथ पुनःपुनः।।२३।।।
क्षीरेण होमः कर्तव्यो धूपः सर्वत्वचा तथा ।।
सर्पत्वङ् नागपुष्पं च सुवर्णं च मणिर्भवेत् ।। २४ ।।
दक्षिणा चात्र दातव्या शयनीयं मनोहरम् ।।
स्नानं सार्पेण ते प्रोक्तं भोग्यं सिद्धिकरं भवेत् ।।२५।।
श्रीप्रदं वा महाभाग कथितं कामतस्तव ।।
प्लक्षपत्रैस्तिलैः कृष्णैर्घटषट्कं तु पूरयेत् ।।२६।।
वेष्टयेत्कृष्णमाल्यैश्च तेन स्नातोऽहताम्बरः ।।
दक्षिणाग्रेषु दर्भेषु सप्तपिण्डानुपाहरेत् ।। २७ ।।
सुभास्वरो बर्हिषदो ह्यग्निष्वात्तास्तथैव च ।।
क्रव्यादश्चोपहूताश्च आज्यपाश्च सुकालिनः ।। २८ ।।
पितरः कथितास्तेषां पिण्डं दद्यात्क्रमेण च ।।
धूपं व्रीहियवैर्दद्यात्तिलैर्होमं तु कारयेत् ।। २९ ।।।
दातव्या दक्षिणा चात्र तिलान्रजतमेव च ।।
वचा च कोरकं चैव त्रिवृतं धारयेन्मणिम् ।। 2.99.३० ।।
पितृप्रसादं प्राप्नोति कर्मसिद्धिमथापि च ।।
मघास्नानमिदं कृत्वा नित्यमेव समाहितः ।। ३१ ।।
माक्षिकं च मधूकं च तथैव मधुयष्टिकाम् ।।
कृत्वा कुम्भद्वयं पूर्णं भग्नाङ्गः स्नापयेन्नरम् ।। ३२ ।।
शालिपिष्टं ततः स्नातो घृतेन मधुना युतम् ।।
गन्धमाल्यं बहुविधं बहुकृत्वा भगाय तु ।। ३३ ।।
निवेदयित्वा देयानि चित्रमांसानि चाप्यथ ।।
घृतेन धूपो दातव्यो होमः कार्यः प्रियङ्गुना ।। ३४ ।।
दक्षिणा चात्र दातव्या चित्रवासांसि चाप्यथ ।।
पारावतस्य पक्षाणि चक्रवाकस्य मानद ।। ३५ ।।
त्रिवृतानि तथा कृत्वा मणिं शिरसि धारयेत् ।।
सौभाग्यं महदाप्नोति स्नात्वैव भगदैवते ।। ३६ ।।
तिलमाक्षिकपूर्णेन स्नातः कुम्भद्वयेन तु ।।
आर्यक्षे पायसं दद्यात्पीतरक्ते च वाससी ।। ३७ ।।
धूपे शतावरी देया होमः कार्यस्तथाक्षतैः ।।
तेजोवन्ती प्रियङ्गुश्च त्रिवृतं धारयेन्मणिम् ।। ३८ ।।
दक्षिणा चात्र दातव्या तथा रक्ते च वाससी ।।
उत्तराफल्गुनीस्नानं सर्वारम्भप्रसिद्धिदम् ।। ३९ ।।
वीर्यस्य वर्धनं चापि कर्तव्यमनुसूनुना ।।
गजकामस्य ते स्नानं हस्ते पूर्वं मयोदितम् ।। 2.99.४० ।।
परसैन्यजयार्थाय स्नानं तदपि शस्यते ।।
मंजिष्ठां च समङ्गां च मिसिकान्तां च भार्गव ।। ४१ ।।
कनकं रजतं चैव पूर्णकुम्भे विनिक्षिपेत् ।।
तेनाभिषिक्तश्चित्राणि माल्यवासांस्यनन्तरम् ।। ४२ ।।
त्वाष्ट्रे निवेदयेद्भक्त्या होमं क्षीरेण कारयेत् ।।
दक्षिणा चात्र दातव्या चित्रवस्त्राणि मानद ।। ४३ ।।
सर्वगन्धैस्तथा धूपं बलिं चित्रं तथैव च ।।
पृथक्स्रुतिप्रसूतानां पुष्पानां कनकैर्वृतम् ।। ४४ ।।
अष्टादशानां च तथा मणिं शिरसि धारयेत् ।।
एवं स्नातस्तु चित्रासु सौभाग्यं महदश्नुते ।। ४५ ।।
सर्वभूतेषु चाधिक्यं यदिच्छति तदाप्नुयात् ।।
रुक्ममश्ववत्थपत्रं च खड्गशृङ्गं तथैव च ।। ४६ ।।
पूर्णकुम्भे विनिक्षिप्य स्नातः शीधुसुरासवम् ।।
वायव्ये प्रयतो दद्यात्क्षीरं सपललं दधि ।। ४७ ।।
गन्धं धूपं तथा दद्याद्धोमे कार्यं तथा घृतम् ।। ।
दक्षिणा चात्र दातव्या वासांसि विविधानि च ।। ४८ ।।
द्वष्टाश्वश्यामहारीतहंसपक्षैः पयोऽन्वितम् ।।
धारयेच्च मणिं विद्वान्स्वातावेवं समाचरेत् ।। ।। ४९ ।।
वाणिज्ये सम्यगाप्नोति सिद्धिं च महतीं नरः ।।
विशाखासु तथा स्नानं कार्यं कुम्भद्वयेन तु ।। 2.99.५० ।।
कृत्तिकासु महाभाग ततः शाकं निवेदयेत् ।।
इन्द्राग्निभ्यां च वासांसि पीतरक्तानि चाप्यथ ।। ५१ ।।
माल्यानि च महाभाग धूपं च घृतगुग्गुलम् ।।
होमार्थे च घृतं कुर्याद्दक्षिणा कनकं तथा ।। ५२ ।।
गणाधिपत्यमाप्नोति कृत्वैवं नात्र संशयः ।।
सहस्रवीर्यं चानन्तां मधूकं च तथा मिसिम् ।। ५३ ।।
पूर्णकुम्भत्रये कृत्वा कृतस्वस्तिकलक्षणे ।।
अहताम्बरसंवीतः सर्वगन्धफलाक्षतैः ।। ५४ ।।
मधुना च बलिं दद्यान्मित्राय च महात्मने ।।
वृश्चिकेन तथा धूपं यवैर्होमं च मानद ।। ५५ ।।
पुरद्वारं कटाहाश्च चूडाकाष्ठं सकाञ्चनम् ।।
धारयेद्दक्षिणां दद्यात्तथा च कनकं द्विज ।। ५६ ।।
एवं मैत्रे सदा स्नातः सर्वभूतैः समाप्नुयात् ।।
मैत्रीं मनुजशार्दूल पुरं वा कुरुते वशे ।। ५७ ।।
तडागपद्मिनीकूलनदीनदसमुद्भवैः ।।
तोयैः पूर्ण घटान्कृत्वा सर्वबीजसमन्वितान् ।। ५८ ।।
सर्वरत्नौषधीपूर्णान्स्त्रीस्नानं तैः समाचरेत् ।।
क्षौमवासास्तु रत्नानि माल्यानि च फलानि च ।। ।। ५९ ।।
रत्नानि दद्याच्छक्राय प्राङ्मुखः सुसमाहितः ।।
धूपं दद्याच्च शीर्षेण विशाखावन्मणिर्भवेत् ।। 2.99.६० ।।
छत्रं च दक्षिणा देया ज्येष्ठायां भृगुनन्दन ।।
स्नानमेव सदा कृत्वा राज्यमाप्नोत्यकण्टकम् ।। ६१ ।।
कृषिकामस्य मूलेन स्नानमुक्तं मया पुरा ।।
तथा वाणिज्यकामस्य प्रागषाढासु भार्गव ।। ६२ ।।
अथोत्तरासु षाढासु कुर्याद्घटचतुष्टयम् ।।
पुष्पबीजफलोपेतं तेन स्नातस्तु मानवः ।। ६३ ।।
क्षौमवासाः सुरां चैव पायसं च निवेदयेत् ।।
मुद्गमिश्रं च धर्मज्ञ माल्यवासांसि चेच्छया ।। ६४ ।।
होमे च पायसं कुर्याद्धूपे गोशृङ्गमेव च ।।
धात्रीपुष्पशमीबिल्वैर्मणिर्धार्यः सकाञ्चनैः ।। ६५ ।।
दक्षिणा चात्र दातव्या सुवर्णं रौप्यमेव च ।।
राजश्रेष्ठत्वमाप्नोति विवादेषु जयं तथा ।। ६६ ।।
बिल्वं च तगरं चैव चन्दनं मधुयष्टिकाम् ।।
प्रियङ्गुं च मधूकं च त्रिषु कुम्भेषु निक्षिपेत् ।। ६७ ।।
संगमादाहृतं तोयं तन्मृदं च भृगूत्तम ।।
तेन स्नातस्ततः स्नानं कुर्यात्सर्वौषधैर्द्विज ।। ६८ ।।
कुलत्थाऽन्नं सशाल्यन्नं मुख्यानि च फलानि च ।।
बलिं च विष्णवे दद्यान्मुद्गैर्धूपं तथैव च ।। ६९ ।।
राजच्छत्रस्य दण्डाग्रात्काष्ठं शक्रध्वजात्तथा ।।
सिंहदंष्ट्रामणिश्चात्र सरुक्मः शिरसि स्मृतः ।। 2.99.७० ।।
दक्षिणा चात्र दातव्या धेनुः कांस्योपदोहिनी।।
एवं तु श्रवणस्नायी राज्यमाप्नोत्यकण्टकम् ।। ७१ ।।
अन्यदेशाधिपत्यं वा राज्यमाप्नोति भार्गव ।।
अतिमुक्तकपत्राणि बिल्वस्य च तथा क्षिपेत् ।। ७२ ।।
कुम्भेषु पञ्चसु ततः स्नानं तैस्तु समाचरेत् ।।
वास्तुभ्यस्तु बलिं दद्यात्सुवर्णं माक्षिके ततः ।। ७३ ।।
धूपं वायसपक्षैस्तु होमः कार्यो घृतेन तु ।।
ब्रह्मचारिशिलालोपकाकपक्षं तथैव च ।। ७४ ।।
काकमाचीं रुक्मयुतां मणिं शिरसि धारयेत् ।।
दक्षिणा चात्र दातव्या धेनु कांस्योपदोहिनी ।। ७५ ।।
धनं प्राप्नोति सुमहद्विवाहे वापि कन्यकाम् ।।
एवं स्नातो धनिष्ठासु नित्यमेव भृगूत्तम ।। ७६ ।।
आरोग्यकारकं स्नानं पूर्वमुक्तं तु वारुणम् ।।
रत्नोदकेन स्नातस्तु नरः कुम्भद्वयेन तु ।। ७७ ।।
अजैकपादाय बलिं छागं दद्यात्तु पायसम् ।।
शुक्लानि चैव माल्यानि फलानि विविधानि च ।। ७८ ।।
खट्वाङ्गञ्च तथा धूपं होमं च पयसा तथा ।।
व्याघ्रदंष्ट्रा तथा लोमनखं कनकमेव च ।। ७९ ।।
मणिर्धार्यो भवेद्राम छागो देया च दक्षिणा ।।
अजैकपादे स्नातस्तु नित्यमेव समाहितः ।। 2.99.८० ।।
उद्धरेत्तु निधिं राम शत्रून्वा विजयेद्ध्रुवम् ।।
आहिर्बुध्न्यं तथा स्नानं गोदमुक्तं पुरा तव ।। ८१।।
चन्दनं च हरिद्रा च दर्भमूलं तथैव च।।
कृत्वा कुम्भे नरः स्नायात्कृत्वा पिष्टेन कन्यकाम्।। ।। ८२ ।।
स्नानालङ्कारवस्त्राद्यान्पूष्णे दद्याद्बलिं ततः ।।
मधुलाजास्तथैवात्र धूपं दद्याद्घृतेन च ।। ८३।।
होमं घृतेन कर्तव्यं दक्षिणा कनकं भवेत् ।।
ब्राह्मीं सुवर्चलां होमं होमगर्भो मणिर्भवेत् ।। ८४ ।।
एवं पौष्णे सदा स्नातो यः सदा युज्यते नरः ।।
आश्विने सुप्रदं स्नानं पूर्वमुक्तं मया तव ।। ।। ८५ ।।
वैजयन्तीं बलां चैव समङ्गां च भृगूत्तम ।।
इन्द्रहस्तां मधूकं च कुर्याद्राम घटत्रये ।। ८६ ।।
तेन स्नातो यमायाथ प्रपद्यात्तिलतण्डुलम् ।।
माल्यानि चैव चित्राणि पीतानि वसनानि च ।। ८७ ।।
उरभ्रशृङ्गं धूपार्थे होमार्थे च तथा तिलम् ।।
दक्षिणा चात्र दातव्या तिलं कनकमेव च ।। ८८ ।।
दर्भमूलैर्मणिः कार्यः कनकेन च वेष्टितः ।।
एवं स्नातो नरो याम्ये दीर्घं जीवितमाप्नुयात् ।। ८९ ।।
स्नानानि मुख्यानि तवोदितानि काम्यानि पापप्रशमाय राम ।।
एतानि कार्याणि सदा द्विजेन्द्र धरान्वितेनाथ विचक्षणेन ।।2.99.९०।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने नक्षत्रस्नानकथनन्नाम नवनवतितमोऽध्यायः ।। ९९ ।।
2.100
पुष्कर उवाच ।।
उपोष्य चोत्तराषाढां ब्रह्मस्नानं विधीयते ।।
सूर्ये मध्यमनुप्राप्ते नरेन्द्रो - - - ।।
सर्वैर्बीजैस्तथा रत्नैः फलैः पुष्पैस्तथौषधैः ।।
स्नातश्च सोदकैः कुर्यात्ततः पूजां स्वयंभुवः ।। २ ।।
धूपं च दद्याद्धर्मज्ञ कुशमूलघृताक्षतैः ।।
होमं घृताक्षतैः कुर्याद्दद्यात्कनकमेव च ।। ३ ।।
क्रियमाणे स्रुवे चूर्णं तथा चैव रणो द्विजः ।।
सोमं चूर्णं च त्रिवृतं मणिं शिरसि धारयेत् ।। ४ ।।
स्नानं तु राज्यकामस्य प्रोक्तमेतन्मया तव ।।
ब्रह्मवर्चसकामस्य स्वेच्छया च यथोदितम् ।। ५ ।।
ब्राह्मं तव स्नानमिदं प्रदिष्टं सर्वाधिनाशाय भृगुप्रधान ।।
कार्यं सदा वा दिनमध्ययाते दिवाकरे कामकरं प्रशस्तम् ।। ६ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने अभिजित्स्नानवर्णनन्नाम शततमोऽध्यायः ।। १०० ।।