विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०२१-०२५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १६-२० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २१-२५
वेदव्यासः
अध्यायाः २६-३० →

2.21
।। पुष्कर उवाच ।। ।।
स्नानं समाचरेद्राज्ञो होमकाले पुरोहितः ।।
आदौ तु स्वेच्छया स्नातः पुनर्मृद्भिः समाचरेत् ।। १ ।।
पर्वताग्रमृदा तावन्मूर्धानं शोधयेन्नृपः ।।
वल्मीकाग्रमृदा कर्णौ चन्दनैः केशबालकान् ।। २ ।।
चन्द्रालयमृदा ग्रीवां हृदयं तु नृपाजिरात् ।।
करिदन्तोद्धृतमृदा दक्षिणं तु तथा भुजम् ।। ३ ।।
वृषशृङ्गोद्धृतमृदा वामं चैव तदा भुजम् ।। ४ ।।
सरोमृदा तथा पृष्ठं चोदरं साङ्गमे मृदा ।।
नदीकूलद्वयमृदा पार्श्वे संशोधयेत्तथा ।। ५ ।।
अश्वस्थानात्तथा जंघे राजा संशोधयेद्बुधः ।।
रथचक्रोद्धृतमृदा तथैव च करद्वयम् ।। ६ ।।
मृत्स्नातः स्नपनीयः स्यात्पञ्चगव्यजलेन तु ।।
ततो भद्रासनगतं मुख्यामात्यचतुष्टयम् ।। ७ ।।
वर्णप्रधानं भूपालमभिषिञ्चेद्यथाविधि ।।
पूर्वतो हेभकुम्भेन घृतपूर्णेन ब्राह्मणः ।। ८ ।।
रूप्यकुम्भेन याम्येन क्षीरपूर्णेन क्षत्रियः ।।
दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमतो द्विज ।। ९ ।।
माहेयेन जलेनो दक्शूद्रामात्योऽभिषेचयेत् ।।
ततोऽभिषेकं नृपतेर्बह्वृचप्रवरो द्विजः ।। १० ।।
कुर्वीत मधुना राम च्छन्दोगश्च कुशोदकैः ।।
सम्पातवन्तं कलशं तथा नुत्वा पुरोहितः ।। ११ ।।
विधाय वह्निरक्षां तु सदस्येषु यथाविधि ।।
राजसूयाभिषेके तु ये मन्त्राः परिकीर्तिताः ।। १२ ।।
तैस्तु दद्यान्महाभाग ब्राह्मणानां स्वनेन तु ।।
ततः पुरोहितो गच्छेद्वेदिमूलं तदैव तु ।। १३ ।।
विभूषितं तु राजानं सर्वतोभद्र आसने ।।
शतच्छिद्रेण पात्रेण सौवर्णेन यथाविधि ।।१४।।
अभिषिञ्चति धर्मज्ञ यजुर्वेदविशारदः ।।
या ओषधीरौषधीभिः सर्वाभिः सुसमाहितः ।।१५।।
रथे अक्षेति गन्धैश्च आब्रह्मन्ब्रह्मणेति च ।।
बीजैः पुष्पैस्तथा चैनं राम पुष्पवतीति च ।।१६।।
तेनैव चाभिमन्त्रेण फलैस्तमभिषेचयेत् ।।
आशुः शिशान इत्येव सर्वरत्नैश्च भार्गव ।।१७।।
ये देवाः पुरस्सदेति कुशाभिः परिमार्जयेत् ।।
ऋग्वेदक्रतुतो राज्ञे रोचनाया यथाविधि ।। १८ ।।
मूर्धानं च तथा कण्ठे गन्धद्वारेति संस्पृशेत् ।।
ततो ब्राह्मणमुख्याश्च क्षत्त्रियाश्च विशस्तथा ।। १९ ।।
शूद्राश्च वारमुख्याश्च नानातीर्थसमुद्भवैः ।।
नादेयैः सारसैः कौपैर्नानाकलशसंस्थितैः ।। २० ।।
चतुस्सागरजैर्लाभादलाभाद्द्विजकल्पितैः ।।
गङ्गायमुनयोश्चैव निर्झरैश्च तथोद्भिजैः ।।२१ ।।
छत्रपाणिर्भवेत्कश्चित्केचिश्चामरपाणयः ।।
अमात्यमुख्यास्तं कालं केचिद्वेत्रकरास्तथा ।। २२।।
शंखभेरीनिनादेन बन्दीनां निस्वनेन च ।।
गीतवादित्रघोषेण द्विजकोलाहलेन च ।। ।। २३ ।।
राजानमभिषिञ्चेयुस्समेत्य सहिता जनाः ।।
सर्वैः स्तुतोऽभिषिक्तश्च संमिश्रजलमिश्रितम् ।। २४ ।।
सर्वौषधियुतं पुण्यं सर्वगन्धयुतं तथा ।।
रत्नबीजसमायुक्तं फलबीजयुतं तथा ।। २५ ।।
ऊर्जितं सितसूत्रेण वेष्टितग्रीवमेव च ।।
श्वेतवस्त्राम्रपत्रैश्च संवीतं सुविभूषितम् ।। ।। २६ ।।
क्षीरवृक्षलताछत्रं सुदृढं कांचनं नवम् ।।
आदाय कलशं राज्ञा स्वयं सांवत्सरस्तथा ।। २७ ।।
मन्त्रावसाने कलशं दद्याद्भृगुकुलोद्वह ।।
ततः पश्येन्मुखं राजा दर्पणे चाथ सर्पिषि ।। २८ ।।
सोष्णीषः सितवस्त्रश्च मङ्गलालम्भनं ततः ।।
कृत्वा सम्पूजयेद्विष्णुं ब्रह्माणं शङ्करं तथा ।। २९ ।।
लोकपालान्ग्रहांश्चैव नक्षत्राणि च भार्गव ।।
ततः स्वपूजां कुर्वीत शयनीयं ततो व्रजेत् ।। ।। ३० ।।
व्याघ्रचर्मोत्तरं रम्यं सितवस्त्रोत्तरच्छदम् ।।
पुरोधा मधुपर्केण तत्रस्थं तं समर्चयेत् ।। ३१ ।।
राजा चैवार्चयेत्तत्र सांवत्सरपुरोहितौ ।।
मधुपर्केण धर्मज्ञस्ततस्तस्य सदैव हि ।। ३२ ।।
पट्टबन्धं प्रकुर्वीत मुकुटस्य च बन्धनम् ।।
ततः स बद्धमुकुटः काले पूर्वं मयेरितम् ।। ३३ ।।
परार्ध्यास्तरणोपेते पञ्चचर्मोत्तरच्छदे ।।
ध्रुवा द्यौ इति मन्त्रेण सोपवेश्य पुरोधसा ।। ३४ ।।
वृकस्य वृषदंशस्य द्वीपिनश्च भृगूत्तम ।।
तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् ।। ३५ ।।
तत्रोपविष्टस्य ततः प्रतीहारः प्रदर्शयेत् ।।
अमात्यांश्च तथा पौरान्नैगमांश्च वणिग्वरान् ।। ३६ ।।
ततः प्रकृतयश्चान्या यथावदनुपूर्वशः ।।
ततो ग्रहावरास्त्रेभतुरङ्गकनकोत्तमैः ।। ३७ ।।
गोजाविग्रहदानैश्च सांवत्सरपुरोहितौ ।।
पूजयित्वा ततः पश्चात्पूजयेद्ब्राह्मणत्रयम् ।। ३८ ।।
अनेनैव विधानेन येन राजाभिषेचितः ।।
ततस्त्वमात्यान्संपूज्य सांवत्सरपुरोधसः ।। ३९ ।।
ततो ब्राह्मणमुख्यानां पूजनं तु समाचरेत् ।।
गोवस्त्रतिलरूप्यान्नफलकाञ्चनगोरसैः ।। ।। ४० ।।
मोदकाक्षतपुष्पैश्च महीदानैश्च पार्थिवः ।।
मङ्गलालम्भनं कृत्वा गृहीत्वा सशरं धनुः ।। ४१ ।।
वह्निं प्रदक्षिणीकृत्य प्रणिपत्य तथा गुरुम् ।।
पृष्ठतो वृषमालभ्य गां सवत्सां च पार्थिव ।। ४२ ।।
पूजयित्वा च तुरगं मन्त्रितं चाभिषेचितम् ।।
मन्त्रितं दक्षिणे कर्णे स्वयं वेदविदा ततः ।। ४३ ।।
आरुह्य राजमार्गेण स्वपुरं तु परिभ्रमेत् ।।
मुख्यामात्यैश्च सामन्तैः सांवत्सरपुरोहितैः ।। ४४ ।।
सहितः कुञ्जरारूढैरभिगच्छेच्च देवताः ।।
तासां संपूजनं कृत्वा नगरे या निवेशिताः ।। ४५ ।।
प्रविशेत गृहं राजा प्रहृष्टनरवाहनः ।।
दानमानानि सत्कारैर्गृह्णीयात्प्रकृतीस्ततः ।। ४६ ।।
संपूजितास्तास्तु विसर्जयित्वा गृहे स्वके स्यान्मुदितो महात्मा ।।
विधानमेतत्समवाप्य राजा कृत्स्नां स पृथ्वीं वशगां हि कुर्यात्।।४७।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे राज्याभिषेकविधिर्नामैकविंशतितमोऽध्यायः ।। २१।।
2.22
राम उवाच ।।
मंत्रेण येन धर्मज्ञ कुर्याद्राज्ञोऽभिषेचनम् ।।
तमहं श्रोतुमिच्छामि त्वत्तो वरुणनन्दन ।। १ ।।
।। पुष्कर उवाच ।।
शृणुष्वाव हितो मन्त्रं राम कल्मषनाशनम् ।।
येनाभिषिक्तो नृपतिश्चिरं यशसि तिष्ठति ।। २ ।।
राज्ञोऽभिषेकशब्दान्ते दैववित्कुशवारिणा ।।
कुम्भादभ्युक्षणं कुर्यान्मन्त्रान्ते सकलं न्यसेत् ।। ३ ।।
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ।। ४ ।।
प्रद्युम्नश्चानिरुद्धस्तु भवन्तु विजयाय ते ।।
आखण्डलोग्निर्भगवान्यमो वै नैर्ऋतिस्तथा ।। ५ ।।
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।।
ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा ।। ६ ।।
भद्रो धर्मो मनुर्दक्षो रुचिः श्रद्धा च पार्थिव ।।
भृगुरत्रिर्वसिष्ठश्च सनकश्च सनन्दनः ।। ७ ।।
सनत्कुमारश्च तथा भगवानपि चाङ्गिरा ।।
पुलहश्च पुलस्त्यश्च मरीचिः कश्यपः प्रभुः ।। ८ ।।
एते त्वामभिषिञ्चन्तु प्रजाध्यक्षाः समागताः ।।
प्रभासुरा बर्हिषदो ह्यग्निष्वात्तास्तथैव च ।। ९ ।।
क्रव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः ।।
एते त्वामभिषिञ्चन्तु पितरश्चाग्निभिः सह ।। १० ।।
लक्ष्मीर्देवी सती ख्यातिरनसूया तथा स्मृतिः ।।
संभूतिस्सन्नतिश्चैव क्षमा प्रीतिस्तथैव च ।। ११ ।।
स्वाहा स्वधा च त्वा राजन्नभिषिञ्चन्तु मातरः ।।
कीर्तिलक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ।। १२ ।।
बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः सिद्धिश्च पार्थिव ।।
एतास्त्वामभिषिञ्चन्तु धर्मपत्न्यः समागताः ।। १३ ।।
अरुन्धती वसुर्जामी लम्बा भानुर्मरुत्वती ।।
संकल्पा च मुहूर्ता च साध्या विश्वास्तथैव च ।। १४ ।।
धर्मपत्न्यस्तथान्यास्त्वामभिषिञ्चन्तु पार्थिव ।।
अदितिश्च दितिस्ताम्रा ह्यरिष्टा सुरसा मुनिः ।। ।। १५ ।।
कद्रूः क्रोधवशा प्राधा विनता सुरभिस्त्रिभिः ।।
एतास्त्वामभिषिञ्चन्तु कश्यपस्य प्रियाः स्त्रियः ।। १६ ।।
पत्नी ते बहुपुत्रस्य सुप्रभा या च भामिनी ।।
समायात्वभिषेकाय विजयाय च पार्थिव ।। १७ ।।
कृशाश्वपत्नी च तथा सुप्रभा च जया तथा ।।
अस्त्रग्रामस्तयोः पुत्रो विजयं विदधातु ते ।। १८ ।।
मनोरमा भानुमती विशाला या च बाहुदा ।।
अरिष्टनेमी पत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ।। १९ ।।
कृत्तिका रोहिणी दैवी इल्वला बाहुरेव च ।।
पुनर्वसुश्च तिष्यश्च तथाश्लेषा च पार्थिव ।। २० ।।
मघा च फाल्गुनी पूर्वा तथैवोत्तरफाल्गुनी ।।
हस्तश्चित्रा तथा स्वातिर्विशाखा च नराधिप ।। २१ ।।
अनुराधा तथा ज्येष्ठा मूलं च वसुधाधिप ।।
आषाढा च तथा पूर्वा तथैव नृप चोत्तरा ।। २२ ।।
अभिजिच्च तथाश्वत्थो धनिष्ठा च नराधिप ।।
तथा शतभिषक्चैव पूर्वाभाद्रपदा च या ।। २३ ।।
उत्तरा रेवती राजन्नश्विनी भरणी तथा ।।
एतास्त्वामभिषिञ्चन्तु सोमपत्न्यः समागताः ।। २४ ।।
मृगी च मृगमन्दा च श्वेता भद्रासना हरिः ।।
भूता च कपिशा दंष्ट्री सुरसा सरमा तथा ।। २५ ।।
एताः पुलहपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ।।
श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा ।। २६ ।।
पत्न्यस्त्वामभिषिञ्चन्तु अरुणस्यार्कसारथेः ।।
आयतिर्नियतिश्चैव रात्रिर्निद्रा तथैव च ।। २७ ।।
एतास्त्वामभिषिञ्चन्तु लोकसंस्थानहेतवः ।।
उमा मेना शची चैव घ्रूम्रोर्णा निवृतिस्तथा ।। २८ ।।
गौरी शिवा च सिद्धिश्च वेला चैवाथ नड्वला ।।
असिक्नी च तथा ज्योत्स्ना या च देवी वनस्पतेः।।२९।।
एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः ।।
महाकल्पश्च कल्पश्च मन्वन्तरयुगानि च ।।३०।।
संवत्सराणि सर्वाणि तथा चैवायनद्वयम् ।।
ऋतवश्च तथा मासाः पक्षौ रात्र्यहनी तथा।।३१।।
संध्याश्च तिथयश्चैव मुहूर्ताः करणानि च ।।
एते त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः ।। ३२ ।।
आदित्यश्चन्द्रमा भौमो बुधो जीवः सितार्कजौ ।।
ग्रहास्त्वामभिषिञ्चन्तु राहुकेतू च पार्थिव ।। ३३ ।।
स्वायम्भुवो मनुः पूर्वमनुः स्वारोचिषस्तथा ।।
औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ।। ३४ ।।
वैवस्वतो यथाकर्णो दक्षो ब्रह्मसुतावुभौ ।।
धर्मपुत्रो रुद्रपुत्रो रोच्यो भौत्यश्च यो मनुः ।। ३५ ।।
एते त्वामभिषिञ्चन्तु मनवश्च चतुर्दश ।।
विश्वभुक्च विपश्चिच्च सुशान्तिश्च शिखी विभुः ।। ३६ ।।
मनोजवस्तथोजस्वी बहिरद्भुतशान्तिकौ ।।
वृषश्च ऋतधामा च दिवस्पाच्छुचिरेव च।।३७।।
एते त्वामभिषिञ्चन्तु देवनाथाश्चतुर्दश ।।
रैवतश्च कुमारश्च तथा वर्चाविनायकः ।। ।। ३८ ।।
वीरभद्रश्च नन्दी च विश्वकर्मा मनोजवः ।।
एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः ।।३९।।
आत्मा चायुर्मनोदक्षो ह्यापः प्राणस्तथैव च।।
हविष्मांश्च गविष्ठश्च ऋतः सत्यश्च पार्थिव।।४०।।
अभिषिञ्चन्तु राजंस्त्वां देवा ह्याङ्गिरसा दश ।।
क्रतुर्दक्षो वसुस्सत्यः कालः कामो मुनिस्तथा।। ।।४१।।
कुरवोन्मनुजश्चैव रोचमानस्तथैव च ।।
एते त्वामभिषिञ्चन्तु विश्वेदेवास्तथा दश।।४२।।
अङ्गारकस्तथा सर्पो निर्ऋतिश्च तथा घसः ।।
अजैकपादहिर्बुध्न्यो धूमकेतुस्तथा द्विजः ।।४३।।
भरतश्च तथा मृत्युः कापालिरथ किङ्किणिः ।।
एकादशैते रुद्रास्त्वामभिषिञ्चन्तु पार्थिव ।।४४।।
भुवनो भावनश्चैव सुजन्यः सुजनस्तथा ।।
क्रतुः सर्वश्च मूर्धा च त्याज्यश्चैव स्तुतस्तथा ।। ४५ ।।
प्रसवश्चाव्ययश्चैव दक्षश्च मनुजाधिप ।।
एते त्वामभिषिञ्चन्तु भृगवो नाम देवताः ।। ४६ ।।
मनो मन्ता च प्राणश्च नरोऽपानश्च वीर्यवान् ।।
विनिर्भयो नयश्चैव हंसो नारायणस्तथा ।। ४७ ।।
विभुश्चापि प्रभुश्चापि देवश्रेष्ठा जगद्धिताः ।।
एते त्वामभिषिञ्चन्तु साध्या द्वादश पार्थिव ।। ४८ ।।
धाता मित्रोऽर्यमा पूषा शक्रेशौ वरुणो भगः ।।
त्वष्टा विवस्वान्सविता विष्णुर्द्वादशमस्तथा ।। ४९ ।।
एते त्वामभिषिञ्चन्तु कश्यपादितिसम्भवाः ।।
एकज्योतिश्च द्विज्योतिस्त्रिचतुर्ज्योतिरेव च।। ।। ५० ।।
एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः ।।
इन्द्राश्च गत्या दृश्यन्ते ततः प्रतिसकृत्तया ।। ५१ ।।
मितश्च सम्मितश्चैव अमितश्च महाबलः ।।
ऋतजित्सत्यजिच्चैव सुषेणः सत्यजित्तथा ।। ५२ ।।
अतिमित्रो नमित्रश्च पुरुमित्रः पुरानितः ।।
ऋतश्च ऋतधाता च विधाता धारणो ध्रुवः ।। ५३ ।।
विधारणो महातेजा वासवस्य परः सखा ।।
ईदृक्षश्चाप्यदृक्षश्च एतादृगमिताशनः ।। ५४ ।।
क्रीतिनः प्रसदृक्षश्च सरभश्च महा यशाः ।।
धातुरुग्रोध्वनिर्भीमो ह्यतियुक्तः क्षिपः सहः ।। ५५ ।।
द्युतिर्वपुरनाधृष्यो वासः कामो जयो विराट् ।।
एते त्वामभिषिञ्चन्तु मरुतस्ते समा गताः ।। ५६ ।।
देवा एकोनपञ्चाशन्महाबलपराक्रमाः ।।
चित्राङ्गदश्चित्ररथश्चित्रसेनश्च वीर्यवान् ।। ५७ ।।
ऊर्णायुरनघश्चैव उग्रसेनश्च वीर्यवान् ।।
धृतराष्ट्रश्च गोपश्च सूर्यावर्तस्तथैव च ।। ५८ ।।
युगपस्त्रणयः कार्ष्णिर्नंदश्चित्रस्तथैव च ।।
कलिः शालिः शिरा राजन्पर्जन्यो नारदस्तथा ।। ५९ ।।
वृषपर्वा च हंसश्च तथा चैव हहा हूहूः ।।
विश्वावसुस्तुम्बुरुश्च तथा च सुरुचिश्च यः ।। ६० ।।
एते त्वामभिषिञ्चन्तु गन्धर्वाः पृथिवीपते ।।
आहुत्यस्ता भवत्यश्च वर्गवत्यस्तथैव च ।। ६१ ।।
आयुर्वत्यस्तथोर्जाश्च तथा वै कुरवाः स्तवाः ।।
बह्वायुश्चामृतायुश्च भुवश्चैव रुचस्तथा ।। ६२ ।।
भीरवः शोभयंत्यश्च दिव्या याश्चाप्सरोगणाः ।।
एते त्वामभिषिञ्चन्तु समागत्य महीपते ।। ६३ ।।
अनवद्या सत्यकामा चानूना वरुणा प्रिया ।।
अनूपा सुभगा चैव सुकेशा च मनोवती ।। ६४ ।।
मेनका सहजन्या च पर्णाशा पुञ्जिकस्थला ।।
कृतस्थला घृताची च विश्वाची पूर्वचित्यपि ।। ६५ ।।
प्रम्लोचा चाप्यनुम्लोचा रंभा चैवोर्वशी तथा ।।
पञ्चचूडा सानुमती चित्रलेखा च पार्थिव ।। ६६ ।।
मिश्रकेशी मरीचिश्च विद्युत्पर्णा तिलोत्तमा ।।
अद्रिका लक्ष्मणा क्षेपा असिता रुचिका तथा ।।६७।।
सुहेमा चाथ हेमा च शाड्वली च वपुस्तथा ।।
सुव्रता च सुबाहुश्च सुगन्धा सुवपुस्तथा।।६८।।
पुण्डरीका सुदाना चासुदाना सुरसा तथा ।।
हेमा शारद्वती चैव सूनृता कमलालया।।६९।।
सुमुखी हंसपादी च वारुणी रतिलालसा ।।
एतास्त्वामभिषिञ्चन्तु राजन्नप्सरसः शुभाः ।। ७०।।
प्रह्लादश्च महातेजास्तथा राजन्विरोचनः ।।
बलिर्बाणस्तथान्ये च दितिपुत्राः समागताः।।।।।
अभिषिञ्चन्तु दैत्यास्त्वां दिव्येनाप्यम्भसा स्वयम् ।।
विप्रचित्तिमुखाः सर्वे दानवास्त्वां समागताः ।। ७२ ।।
अभिषिञ्चन्तु राजेन्द्र राजराज्येन सत्वराः ।।
हेतिश्चैव प्रहेतिश्च माली शङ्कुस्तथैव च ।। ७३ ।।
सुकेशी पौरुषेयश्च यज्ञहा पुरुषाधमः ।।
विद्युत्स्फूर्जस्तथा व्याघ्रो वधश्च रसनस्तथा ।। ७४ ।।
एते त्वामभिषिञ्चन्तु समागम्याद्य राक्षसाः ।।
सिद्धार्थो मणिभद्रश्च सुमनो नन्दनस्तथा ।। ७५।।
काण्डभिः पञ्चमश्चैव मणिमानुयमाँस्तथा ।।
सर्वानुभूतः शंखश्च पिङ्गाक्षश्चस्तरस्तथा ।। ७६ ।।
यशो मन्दरशोभी च पद्मचन्द्रप्रभङ्कराः ।।
मेघवर्णः सुभद्रश्च प्रद्योतश्च महाघसः ।।७७।।
द्युतिमान्केतुमांश्चैव मौलिमांश्च सुदर्शनः ।।
श्वेतश्च विपुलश्चैव पुष्पदन्तो जयावहः ।। ७८ ।।
पद्मवर्णो बलाकश्च कुमुदश्च बलाहकः ।।
पद्मनाभः सुगन्धश्च प्रवीरो विजयः कृतिः ।। ७९ ।।
पूर्णमासो हिरण्याक्षः शतजिह्वश्च वीर्यवान् ।।
एते त्वामभिषिञ्चन्तु राजन्यक्षेन्द्र सत्तमाः ।। ८० ।।
शंखपद्मस्तु राजेन्द्र मकरः कच्छपस्तथा ।।
एते त्वामभिषिञ्चन्तु निधयस्तु समागताः ।। ८१ ।।
पलगाश्चैव वक्राश्च ये च सूचीमुखा नृप ।।
दुःपूरणा विषादाश्च ज्वलनाङ्गारकास्तथा ।। ८२ ।।
कुम्भपाताः प्रतुण्डाश्च तपवीरा उलूखलाः ।।
अकर्णाश्च कुषण्डाश्च तथा ये पात्र पाणयः ।। ८३ ।।
पांसवश्च वितुण्डाश्च निपुणाः स्कन्दनास्तथा ।।
एते त्वामभिषिञ्चन्तु पिशाचानाञ्च जातयः ।। ८४ ।।
ब्रह्मचर्ये स्थिता दान्ताः सर्वज्ञाः सर्वदर्शिनः ।।
नानाप्रकारवदना नानाबाहुशिरोधराः ।।८५।।
चतुष्पथपुराट्टालशून्यालयनिकेतनाः ।।
मधुरत्वे भवेदेवं ये गता मनुजेश्वराः ।। ८६।।
ते त्वामद्याभिषिञ्चन्तु भूता भूतपतेः स्वयम् ।।
महाकालं पुरस्कृत्य नरसिंहं च मातरः ।। ८७ ।।
सर्वास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप ।।
गुहः स्कन्दो विशाखश्च नैगमेयस्तथैव च ।। ८८ ।।
अभिषिञ्चन्तु राजँस्त्वां सर्वे स्कन्दग्रहाः शुभाः ।।
डाकिन्यो याश्च योगिन्यः खेचरीभूचरीश्च याः ।। ८९ ।।
सर्वास्त्वामभिषिञ्चन्तु समेत्य मनुजेश्वर ।।
गरुडश्चारुणश्चैव आरुणिश्च महाखगः ।। ९० ।।
संपाती विनतश्चैव विष्णुगन्धः कुमारकः ।।
एते त्वामभिषिञ्चन्तु सुपर्णाः पृथिवीपते ।। ९१ ।।
अनन्तश्च महानागः शेषो वासुकितक्षकौ ।।
सपर्णीरश्च कुम्भश्च वामनश्चाञ्जनस्तथा ।। ९२ ।।
ऐरावतो महानागः कम्बलाश्वतरावुभौ ।।
ऐलमन्त्रश्च शंखश्च कर्कोटकधनञ्जयौ ।। ९३ ।।
महाकर्णमहानीलौ धृतराष्ट्रबलाहकौ ।।
कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा ।। ९४ ।।
सूचीमुखो दधिमुखः कालियः शालिपिण्डकः ।।
बिल्वपादः पाण्डुरको नागश्चापूरणस्तथा ।। ९५।।
कपिलश्चाम्बरीषश्च कुमारश्चाथ कश्यपः ।।
प्रह्रादः पुष्पदन्तश्च गन्धर्वश्च मनस्विकः।। ९६ ।।
नहुषः खररोमा च शंखपालस्तथैव च ।।
पद्मश्च कुलिकश्चैव पाणिरित्येवमादयः ।। ९७ ।।
नागास्त्वामभिषिञ्चन्तु राजराज्येन पार्थिव ।।
कुमुदैरावणौ पद्मः पुष्प दन्तोऽथ वामनः ।। ९८ ।।
सुप्रतीकोञ्जनो नीलः पान्तु त्वां सर्वतः सदा ।।
चक्रं त्रिशूलं वज्रश्च नन्दकोस्त्राणि चाप्यथ ।। ९९ ।।
पैतामहास्तथा हंसा वृषभः शङ्करस्य च ।।
दुर्गासिंहश्च पान्तु त्वां यमस्य महिषस्तथा ।।१००।।
उच्चैःश्रवाश्चाश्वपतिस्तथा धन्वन्तरिर्नृप ।।
कौस्तुभः शंखराजश्च पान्तु त्वां सर्वतः सदा ।।१०१।।
सर्वेऽभिषेकं दत्त्वा ते दिशन्तु विजयं धुवम् ।।
धर्मश्च व्यवसायश्च सत्यो दानं तपस्तथा ।। १०२ ।।
यमो यज्ञस्तथा वायुर्ब्रह्मचर्य दमः शमः ।।
एते त्वामभिषिञ्चन्तु चित्रगुप्तश्च पार्थिव ।। १०३ ।।
दण्डश्च पिङ्गलश्चैव मृत्युकालावुभौ तथा ।।
वालखिल्यास्तथा सर्वे भवन्तु विजयाय ते ।।१०४।।
दिग्धेनवश्चतस्रस्त्वां सुराभिश्च तथा नृप ।।
अभिषिञ्चन्तु सर्वाभिर्गोभिः सार्धं नरेश्वर ।।१०५ ।।
वेदव्यासश्च वाल्मीकिः कमठोऽथ पराशरः ।।
देवलः पर्वतश्चैव दुर्वासाश्च तथा मुनिः ।। १०६ ।।
याज्ञवल्क्यश्च जाबालिः जमदग्निः शुचिश्रवाः ।।
विश्वामित्रः स्थूलशिराश्च्यवनोऽत्रिर्विदूरथः ।। १०७ ।।
एकतश्च द्वितश्चैव त्रितो गौतमगालवौ ।।
शाण्डिल्यश्च भरद्वाजो मौद्गल्यो वेदवाहनः ।। १०८।।
बृहदश्वः कुटिशठो जटाजानुर्घटोदरः ।।
यवक्रीतोऽर्थरैत्यश्च आत्मवानथ जैमिनिः ।।१०९।।
ऋषिः शार्ङ्गरवश्चैव तथागस्त्यो महातपाः ।।
उन्मुवुर्मुमुवुश्चैव इध्मबाहुर्महोदयः ।। ११० ।।
कात्यायनश्च कण्वश्च वल्वकाम्बोरुनन्दनः ।।
एते त्वामभिषिञ्चन्तु ऋषयः पार्थिवोत्तम ।। १११ ।।
पृथुर्दिलीपो भरतो दुष्यन्तः शत्रुजिद्बली ।।
मनुः ककुत्स्थश्चानेना युवनाश्वो जयद्रथः ।। ११२ ।।
मान्धाता मुचुकुन्दश्च तथा राजा पुरूरवाः ।।
आयुश्च नहुषश्चैव ययातिरपराजितः ।। ११३ ।।
इक्ष्वाकुश्च यदुश्चैव पुनर्भूरिश्रवास्तथा ।।
अम्बरीषश्च नाभागो बृहदश्वो महाहनुः ।। ११४ ।।
प्रद्युम्नश्चाथ सुद्युम्नो भूरिद्युम्नश्च सृञ्जयः ।।
एते चान्ये च राजानस्तव राजन्दिवङ्गताः ।।११५ ।।
समायान्त्वभिषेकाय विजयाय तथा श्रिये ।।
पर्जन्याद्यास्तथा सर्वे वास्तुदेवास्समासतः ।। ११६ ।।
द्रुमाश्चौषधयो रत्नबीजानि विविधानि च ।।
सर्वे त्वामभिषिञ्चन्तु राजन्राज्येन सत्वराः ।। ११७ ।।
पुरुषश्चाप्रमेयात्मा महाभूतानि यानि च ।।
पृथिवीवायुराकाशमापो ज्योतिस्तथैव च ।। ११८ ।।
मनोबुद्धिस्तथैवात्मा अव्यक्तश्च महीपते ।।
एते त्वामभिषिञ्चन्तु समेता वसुधाधिप ।। ११९ ।।
रुक्मभौमः शिलाभौमः पातालो नीलमृत्तिकः ।।
पीतो रक्तक्षितिश्चैव श्वेतभौमस्तथैव च ।। १२० ।।
एते त्वामभिषिञ्चन्तु विजयाय महीपते ।।
भूलोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महज्जनः ।। १२१ ।।
तपः सत्यश्च राजेन्द्र विजयाय भवन्तु ते ।।
जम्बूशाककुशक्रौञ्चाः शाल्मलिद्वीप एव च ।। १२२ ।।
गोमेधः पुष्करश्चैव स्वसाम्यं प्रदिशन्तु ते ।।
उत्तराः कुरवः पुण्या रम्या हैरण्वतस्तथा ।। १२३ ।।
भद्राश्वः केतुमालश्च वर्षश्चैव इलावृतः ।।
हरिवर्षः किंपुरुषो वर्षो भारतसंज्ञिकः ।। १२४।।
एते त्वामभिषिञ्चन्तु समेत्य वसुधाधिप ।।
इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् ।। १२५ ।।
नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ।।
अयं चरुवसस्तेषां स्वसाम्यं प्रदिशन्तु ते ।। १२६ ।।
हिमवान्हेमकूटश्च निषधो नीलपर्वतः ।।
श्वेतश्च शृङ्गवान्मेरुर्माल्यवान्गन्धमादनः ।।१२७ ।।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवांस्तथा ।।
विन्ध्यश्च पारियात्रश्च सर्व एव महीधराः ।। १२८ ।।
समागम्याभिषिञ्चन्तु त्वामद्य वसुधाधिप! ।।
ऋग्वेदोऽथ यजुर्वेदः सामवेदस्तथैव च ।। १२९ ।।
अथर्ववेदो वेदास्त्वामभिषिञ्चन्तु पार्थिव ।।
इतिहासो धनुर्वेदो गन्धर्वश्चायुस्संज्ञितः ।। १३० ।।
वेदोपवेदाश्च तथा विजयाय भवन्तु ते ।।
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः ।। १३१ ।।
छन्दोविचितिषष्ठानि विजयं प्रदिशन्तु ते ।।
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।। १३२ ।।
धर्मशास्त्रं पुराणञ्च विद्या एताश्चतुर्दश ।।
सांख्ययोगः पञ्चरात्रं वेदाः पाशुपतं तथा ।। १३३ ।।
कृतान्नपञ्चकं ह्येतच्छास्त्राणि विविधानि च ।।
गायत्री पापशमनी दुर्गा देवी महाशिवा ।। १३४ ।।
गन्धारी च तथा विद्या विजयं प्रदिशन्तु ते ।।
देवदानवगन्धर्वयक्षराक्षसपन्नगाः ।। १३५ ।।
ऋषयो मनवो गावो देवमातर एव च ।।
देवपत्न्यो द्रुमा नागाः दैत्याश्चाप्सरसाङ्गणाः ।। १३६ ।।
शस्त्राणि सर्वशास्त्राणि राजानो वाहनानि च ।।
औषधानि च रत्नानि कालस्यावयवास्तथा ।।१३७।।
स्थानानि च समस्तानि पुण्यान्यायतनानि च ।।
जीमूतानि च सर्वाणि तद्विकाराश्च ये तथा ।। १३८ ।।
उक्तानि चाप्यऽनुक्तानि विजयाय भवन्तु ते ।।
लवणः क्षारतोयश्च घृतमण्डोदकस्तथा ।। १३९ ।।
दधिमण्डोदकश्चैव सुरोदश्च नराधिप ।।
तथैवेक्षुरसोदश्च तथा स्वादूदकश्च यः ।। १४० ।।
गर्भोदश्च स्वतोयैस्त्वामभिषिञ्चन्तु पार्थिव ।।
चत्वारस्सागराश्चैव स्वेन तोयेन पार्थिव ।। १४१ ।।
समागम्याभिषिञ्चन्तु विजयं प्रदिशन्तु ते ।।
पुष्करश्च प्रयागश्च प्रभासो नैमिषस्तथा ।। १४२ ।।
तथा ब्रह्मसरः पुण्यं गयाशीर्षं च पार्थिव ।।
कालोदको नन्दिकुण्डः तथैवोत्तरमानसः ।। १४३ ।।
स्वर्गमार्गप्रदश्चैव तथा पञ्चनदश्च यः ।।
भृगुतीर्थं चौजसश्च तथैवामरकण्टकः।।१४४।।
आश्रमः कालिकायाश्च तृणबिन्दोस्तथाश्रमः।।
गोपतीर्थं चापतीर्थं विमलः स्वर्ग एव च।।१४५।।
जम्बूमार्गश्च राजेन्द्र पुण्यस्तण्डुलिकाश्रमः ।।
कपिलस्य तथा तीर्थं तीर्थे वाटिकषण्डिके ।। १४६ ।।
महासरस्तथागस्त्यः कुमारी तीर्थ एव च ।।
गङ्गातीरः कुशावर्तो बिल्वको नीलपर्वतः ।। १४७ ।।
वराहपर्वतश्चैव तीर्थः कनखलस्तथा ।।
स्वर्गन्धा वशकुम्भा च तथा शाकम्भरी च या ।। १४८ ।।
भृगुतुङ्गः सकुब्जाम्रः कपिलस्य तथाश्रमम् ।। १४९ ।।
चमसोद्भेदनः पुण्यस्तथा विनशनः शुभः ।।
अजतुङ्गश्च सोमश्च अजोगन्धश्च पार्थिव ।।
कालिञ्जरश्च केदारो रुद्रकोटिस्तथैव च ।। १५० ।।
महालग्नश्च राजेन्द्र वदनाश्रम एव च ।।
नन्दा च सूर्यतीर्थं च सोमतीर्थं शतक्रतोः ।। १५१ ।।
अश्विनोर्वरुणस्यापि वायोवैर्श्रवणस्य च ।।
ब्रह्मणश्चैव शर्वस्य यमस्य च्यवनस्य च ।।१५२ ।।
विरूपाक्षस्य धर्मस्य तथा चाप्सरसां नृप ।।
ऋषीणां च वसूनां च साध्यानां मरुतां तथा ।। १५३ ।।
आदित्यानां च रुद्राणां तथा चाङ्गिरसां नृप ।।
विश्वेदेवभृगूणां च गन्धर्वाणां च मानद ।। १५४ ।।
प्लक्षप्रस्रवणश्चैव सुषेणश्च नराधिप ।।
शालिग्रामसरश्चैव वाराहो वामनस्तथा ।। १५५ ।।
कामश्रमस्त्रिकूटश्च चित्रकूटस्तथैव च ।।
सप्तर्चः क्रतुसारश्च तथा विष्णुपदं सरः ।। १५६ ।।
कपिलस्य तथा तीर्थं वासुकेस्तीर्थमेव च ।।
सिन्धूत्तमं तपो दानं तथा शूर्पाकरः शुभः ।। १५७ ।।
पौण्डीरकश्च राजेन्द्र गङ्गासागरसङ्गमः ।।
सिन्धुसागरयोश्चैव सङ्गमः सुमनोहरः ।। १५८ ।।
तथा कुन्दावसुन्धश्च मानसं च महत्सरः ।।
तथा बिन्दुसरः पुण्यं सरश्चाच्छोदकं तथा ।। १५९ ।।
धर्मारण्यं फल्गुतीर्थं सविमुक्तं तथैव च ।।
लौहित्यश्च तथा पुण्यो बदरीपावनः शिवः ।। १६० ।।
तीर्थं सप्तऋषीणां च वह्नितीर्थं च पार्थिव ।।
वस्त्रापथस्ततो मेषश्छागलेशश्च पार्थिव ।। ।।१६१।।
पुष्पन्यासस्सकामेशस्तीर्थो हंसपदस्तथा ।।
अश्वशीर्षः स कृष्णाख्यो मणिभद्रस्तथैव च ।। १६२ ।।
देविका सिन्धुमार्गश्च स्वर्णबिन्दुस्तथैव च ।।
आहल्यकस्तथा तीर्थस्तीर्थश्चैरावतस्तथा।।१६३।।
ऐरावतिसमुद्भेदे तीर्थं भोगयशस्तथा ।।
करवीराश्रमश्चैव नागमोदानिकस्तथा।।१६४।।
पापमोचनिकश्चैव ऋणमोचनिकस्तथा ।।
उद्वेजनस्तथा पुण्यः पुण्यश्च हरिशेश्वरः ।। १६५ ।।
देवब्रह्मसरः पुण्यं सर्पिर्दर्वी च पार्थिव ।।
एते चान्ये च बहवः पुण्यसङ्कीर्तनाः शुभाः ।। १६६ ।।
तोयैस्त्वामभिषिञ्चन्तु सर्वपातकनाशनैः ।।
गङ्गा महानदी पुण्या ह्रादिनी ह्लादिनी तथा ।। ।। १६७ ।।
पावनी च तथा सीता चक्षुः सिन्धुश्च नर्मदा ।।
सुप्रभा कातराक्षी च शिथिला मानसी ह्रदा ।। १६८ ।।
सरस्वत्योघनादा च सुवेणुर्विमलोदका ।।
सिप्रा शोणः शतद्रुश्च सरयूर्गण्डकी तथा ।। १६९ ।।
अच्छोदा च विपाशा च चन्द्रभागा इरावती ।।
वितस्ता देविका रम्भा पीता देवह्रदा शिवा ।। १७० ।।
तथैवेक्षुमती पुण्या कौशिकी यमुना तथा ।।
गोमती धूतपापा च बाहुदा च दृषद्वती ।। १७१ ।।
निःशीरा च तृतीया च लौहित्यश्च महानदः ।।
वेदस्मृतिर्वेदसिनी वेत्रघ्नी वरदा तथा ।। १७२ ।।
वर्णा मा चन्दना चैव बहुनीरा कुमुद्वती ।।
पारा चर्मण्वती रूपा विदिशा वेणुवत्यपि ।। १७३ ।।
अवन्ती च तथा कुन्ती सुरसा च पलाशिनी ।।
मन्दाकिनी दशार्णा च चित्रकूटा दृषद्वती ।। ।। १७४ ।।
तमसा पिप्पला सेनी करमोदा पिशाचिका ।।
चित्रोपला चित्त्रवर्णा मंजुला वालुकावती ।। १७५ ।।
शुक्तीमती सिली रन्ध्रा सङ्कुणात्ययकाप्ततः ।।
तापी पयोष्णी निर्विन्ध्या सिता च निषधावती ।। १७६ ।।
वेणा वैतरणी भीमा चर्मा रामा तथा कुहुः ।।
तोया चैव महागौरी दुर्गा मतुशिला तथा ।। १७७ ।।
गोदावरी भीमरथी कृष्णा वेणा च वंजुला ।।
तुङ्गभद्रा सुप्रकारा बाह्या कावेरिरेव च ।। १७८ ।।
कृतमाला ताम्रपर्णी पुष्पजा ह्युत्पलावती ।।
त्रिसमा ऋषिकुल्या च पृथुका त्रिदिवालया ।। १७९ ।।
लाङ्गूलिनी वंशधरा सुकुमारा कुलावती ।।
ऋषिका करिवेगा च मन्दगा मन्दवाहिनी ।। १८० ।।
कृपी दर्वी दया व्योमा परोष्णी कोलवाहिनी ।।
कम्पना च विशल्या च करतोयांशुवाहिनी ।। १८१ ।।
ताम्रारुणा वेत्रवती गोमती चाथ नद्यपि ।।
अद्रिणी त्रिकसा चैव सुप्रकारा हिरण्वती ।। १८२ ।।
आपगा चालका भासी सन्ध्या च मडवा नदी ।।
नन्दा चालकनन्दा च शुद्धा च वसुवाहिनी ।। १८३ ।।
एताश्चान्याश्च राजेन्द्र नद्यस्त्वां विमलोदकाः ।।
सर्वपापप्रशमनास्सर्वलोकस्य मातरः ।।
स्वतोयपूर्णैः कलशैरभिषिञ्चन्तु पार्थिव ।। १८४ ।।
एतैर्यथोक्तैर्नृप राजराज्ये दत्ताभिषेकः पृथिवीं समग्राम् ।।
ससागरां भुंक्ष्व चिरं च जीव धर्मे च ते बुद्धिरतीव चास्तु।।१८५।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० भार्गवरामं प्रति पुष्करव्याख्यानेऽभिषेकमन्त्रो नाम द्वाविंशतितमोऽध्यायः।।२२।।
2.23
पुष्कर उवाच ।।
मन्त्रा ये कीर्तिता राम मयास्मिंस्तव भार्गव ।।
तेषां संकीर्तनं धन्यं सर्वपापप्रणाशनम् ।।१।।
ऐतेषां कल्यमुत्थाय यः कुर्यात्कीर्तनं नरः ।।
सर्वपापविनिर्मुक्तः स्वर्गलोकमवाप्नुयात्।।२।।
तिर्यग्योनिं न गच्छेत्तु नरकं संकराणि च ।।
न च दुःखं न च भयं मरणं न स च मुह्यति ।। ३ ।।
एतेषां च नमस्कारं यः कुर्यात्प्रयतो नरः ।।।
न तस्य तिष्ठते पापमब्बिन्दुरिव पुष्करे ।। ४ ।।
एतेषां तर्पणं कृत्वा स्नातः प्रयतमानसः ।।
महापातकयुक्तोऽपि त्वचेवाहिर्विमुच्यते ।। ५ ।।
एतेषां पुष्पदानेन महतीं श्रियमश्नुते ।।
एतेषां चार्घ्यदानेन पूज्यो भवति मानवः ।। ६ ।।
एतेषां दीपदानेन भ्राजन्ते चन्द्रवद्दिवि ।।
एतेषामाहुतिं दत्त्वा कामानाप्नोति पुष्कलान् ।। ७ ।।
नैवेद्यं च बलिं दत्त्वा भोगान्प्राप्नोत्यनुत्तमान ।।
एतानुद्दिश्य विप्रेषु दत्त्वा भार्गव भोजनम् ।। ८ ।।
संतर्प्य दक्षिणाभिश्च त्रिदिवं प्राप्नुयाच्चिरम् ।।
अभिषेकदिने राज्ञां पुष्पस्नाने तथैव च ।। ९ ।।
तथा संवत्सरग्रन्थौ सर्वे पूज्या हितैषिणा ।।
यानि तीर्थानि चोक्तानि सरितश्च समासतः ।। १० ।।
तेषां गमेन पूज्यन्ते येऽपि पातकिनो जनाः ।।
स्नानं महाफलं तेषां तपः श्राद्ध क्रियास्तथा ।। ११ ।।
दानं बहुफलं प्रोक्तं दर्शनं पापनाशनम् ।।
कीर्तनं भार्गवश्रेष्ठ न मे चास्ति विचारणा ।। १२ ।।
तीर्थेष्वथैतेषु भृगुप्रधान स्नाता नरा यान्ति नरेन्द्र सद्यः।।
तीर्थानि गम्यानि ततः प्रयत्नात्पुण्याश्च सर्वास्सरितश्च राम।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे तीर्थफलवर्णनो नाम त्रयोविंशतितमोध्यायः ।। २३ ।।
2.24
।। राम उवाच ।। ।।
राज्ञोऽभिषिक्तमात्रस्य किन्नु कृत्यतमं भवेत् ।।
एतन्मे सर्वमाचक्ष्व सर्वं वेत्ति यतो भवान् ।। १ ।।
।। पुष्कर उवाच ।। -
अभिषेकार्द्रशिरसा राज्ञा राजीवलोचन ।।
सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम् ।। २ ।।
यदप्यल्पतरं कर्म तदथैकेन दुष्करम् ।।
पुरुषेणासहायेन किन्नु राज्यं महत्पदम् ।। ३।।
तस्मात्सहायान्वरयेत्कुलीनान्नृपतिः स्वयम् ।।
शूरानुत्तमजातीयान्बलयुक्ताञ्छ्रुतान्वितान् ।। ४ ।।
रूपसत्वगुणौदार्यसंयुक्तान्क्षमया युतान्।।
क्लेशक्षमान्महोत्साहान्धर्मज्ञांश्च प्रियंवदान् ।। ५ ।।
हितोपदेशिकान्प्राज्ञान्स्वामिभक्तान्यशोर्थिनः ।।
एवं विधान्सहायांस्तु शुभ कर्मणि योजयेत् ।। ६ ।।
गुणहीनानपि तथा विज्ञाय नृपतिः स्वयम् ।।
कर्मस्वेव नियुञ्जीत यथायोग्येषु भार्गव ।। ७ ।।
कुलीनाः शीलसंपन्ना धनुर्वेदविशारदाः ।।
हस्तिशिक्षाश्वशिक्षासु कुशलाश्श्लक्ष्णभाषितैः ।। ८ ।।
निमित्ते शकुनज्ञाने वित्तवैद्यचिकित्सके ।।
पुरुषान्तरविज्ञाने षाड्गुण्येन विनिश्चिताः ।। ९ ।।
कृतज्ञाः कर्मणां शूरास्तथा क्लेशसहा ऋजुः ।।
व्यूहतत्त्वविधानज्ञः फल्गुसारविशेषवित् ।। १० ।।
राज्ञां सेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽथवा ।।
प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः ।। ११ ।।
चित्तग्राहश्च सर्वेषां प्रतीहारो विधीयते ।।
यथोक्तवादी धूर्त्तः स्याद्देशभाषाविशारदः ।। १२ ।।
शाब्दः क्लेशसहो वाग्मी देशकालविभाषिता ।।
विज्ञाय देशं कालं वा हितं यत्स्यान्महीक्षितः ।। १३ ।।
वक्तापि तस्यः यः काले स दूतो नृपतिर्भवेत् ।।
प्रांशवो व्यायताः शूरा दृढभक्ता निराकुलाः ।। १४ ।।
राज्ञा तु रक्षिणः कार्यास्तदा क्लेशसहा हिताः ।।
अहार्याश्चानृशंसाश्च दृढभक्ताश्च पार्थिवे ।। १५ ।।
ताम्बूलधारी भवति नारी चाप्यथ तद्गुणा ।।
षाड्गुण्यविधि तत्त्वज्ञो देशभाषाविशारदः ।। १६ ।।
सन्धिविग्रहकः कार्यो राज्ञा नयविशारदः ।।
आयव्ययज्ञो लोकज्ञो देशोत्पत्तिविशारदः ।। १७ ।।
कृताकृतज्ञो भृत्यानां ज्ञेयः स्याद्दक्षरक्षिता ।।
सुरूपस्तरुणः शूरो दृढभक्तः कुलोचितः ।। १८ ।।
शूरः क्लेशसहश्चैव खड्गधारी प्रकीर्तितः ।।
शूरश्च बहुयुक्तश्च गजाश्वरथकोविदः ।। १९ ।।
कोशधारी भवेद्राज्ञः सदा क्लेशसहश्च यः ।।
निमित्तशकुनज्ञानहयशिक्षाविशारदः ।।२० ।।
हयायुर्वेदतत्त्वज्ञो भूमिभागविशेषवित् ।।
बलाबलज्ञो रथिनां स्थिरदृष्टिर्विशारदः ।। २३ ।।
शूरश्च कृतविद्यश्च सारथिः परिकीर्तितः ।।
अनाहार्यः शुचिर्दक्षः चिकित्सकवचोरतः ।। २२ ।।
सूदशास्त्रविधानाज्ञः सूदाध्यक्षः प्रशस्यते ।।
सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः ।। २३ ।।
सर्वे महानसे कार्या नीचकेशनखा जनाः ।।
समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः ।। २४ ।।
विप्रमुख्यः कुलीनश्च धर्माधिकरणो भवेत् ।।
कार्यास्तथाविधास्तत्र द्विजमुख्याः सभासदः।।२५।।
सर्वदेशाक्षराभिज्ञाः सर्वशास्त्रविशारदाः ।।
लेखकाः कथिता राम सर्वाधिकरणेषु वै।।२६।।
शीर्षोपेतान्सुसंपूर्णान्समद्रोणीगतान्समान् ।।
अक्षरान्विलिखेद्यस्तु लेखकः स वरः स्मृतः ।। २७ ।।
उपायवाक्यकुशलः सर्वशास्त्रविशारदः ।।
बह्वर्थवक्ता चाल्पेन लेखकः स्याद्भृगूत्तम ।। २८ ।।
पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः ।।
धर्माधिकरणे कार्या जनाह्वानकरा नराः ।। २९।।
एवंविधास्तथा कार्या राज्ञो दौवारिका जनाः ।।
लोहवस्त्रादिधातूनां रत्नानां च विभागवित् ।।३०।।
विज्ञाता फल्गुसाराणां त्वनाहार्यः शुचिस्सदा ।।
निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्तितः ।। ३१ ।।
आयद्वारेषु सर्वेषु धनाध्यक्षसमा नराः ।।
व्ययद्वारेषु सर्वेषु कर्तव्याः पृथिवीक्षिता ।। ३२ ।।
परं पारं गतो यः स्यादष्टाङ्गेषु चिकित्सिते ।।
अनाहार्यस्स वैद्यः स्याद्धर्मात्मा च कुलोद्गतः ।। ३३ ।।
प्राणाचार्यस्स विज्ञेयो वचनं तस्य भूभुजा ।।
राम स्नेहात्सदा कार्यं यथा कार्यं पृथग्जनैः ।। ३४ ।।
हस्तिशिक्षाविधानज्ञो वनजातिविशारदः ।।
क्लेशक्षमस्तथा राज्ञो गजाध्यक्षः प्रशस्यते ।। ३५ ।।
एतैरेव गुणैर्युक्तो स्वाधीनश्च विशेषतः ।।
गजारोहो नरेन्द्रस्य सर्वकर्मसु शस्यते ।। ३६ ।।
हयशिक्षाविधानज्ञ स्तच्चिकित्सितपारगः ।।
अश्वाध्यक्षो महीभर्त्तुः स्वासनश्च प्रशस्यते ।। ३७ ।।
अनाहार्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः ।।
दुर्गाध्यक्षः स्मृतो राम उद्युक्तः सर्वकर्मसु ।। ३८ ।।
वास्तुविद्याविधानज्ञो लग्नहस्तो जितश्रमः ।।
दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः ।। ३९ ।।
यन्त्रमुक्ते पाणिमुक्ते अमुक्ते मुक्तधारिते ।।
अस्त्राचार्यो नियुद्धे च कुशलश्च तथेष्यते ।। ४० ।।
पञ्चाशदधिका नार्यः पुरुषाः सप्ततिस्तथा ।।
अन्तःपुरचराः कार्या राज्ञा सर्वेषु कर्मसु ।। ४१ ।।
स्थविरा जातितत्त्वज्ञाः सततं प्रतिजाग्रतः ।।
राज्ञः स्यादायुधागारे दक्षः कर्मसु चोद्यतः ।। ४२ ।।
कर्माण्यपरिमेयानि राज्ञां भृगुकुलोद्वह ।।
उत्तमाधममध्यानि बुद्ध्वा कर्माणि पार्थिव ।। ४३ ।।
उत्तमाधममध्याँस्तु पुरुषान्विनियोजयेत ।।
न कर्मणि विपर्यासाद्राजा नाशमवाप्नुयात् ।। ४४ ।।
नियुक्तपुरुषे भक्तिं श्रुतं शौर्यं बलं कुलम् ।।
ज्ञात्वा वृत्तिर्विधातव्या पुरुषाणां महीक्षिता ।। ४५ ।।
पुरुषान्तरविज्ञाने तत्त्वमात्रनिबन्धनाः ।।
नरेन्द्रलक्ष्या धर्मज्ञास्तत्रायत्तो भवेन्नृपः ।।४६।।
स्वभृत्याश्च तथा पुष्टास्सततं प्रतिमानिताः ।।
राज्ञा सहायाः कर्तव्याः पृथिवीं जेतुमिच्छता ।।४७।।
यथार्हं चाथ सुभृतान्राजा कर्मसु योजयेत ।।
धर्मिष्ठान्धर्मकार्येषु शूरान्संग्रामकर्मणि ।। ४८ ।।
निपुणानर्थकृत्येषु सर्वत्र च तथा शुचीन् ।।
स्त्रीषु षण्ढान्नियुञ्जीत तीक्ष्णान्दारुणकर्मसु ।।४९।।
धर्मे चार्थे च कामे च भये च भृगुनन्दन ।।
राजा यथार्हं कुर्यात्तान्ह्युपधाभिः परीक्षितान् ।। ५० ।।
समतीतो यथार्हायां कुर्याद्धस्तिवने चरान् ।।
उत्पादान्वेषणं यत्तानध्यक्षाँस्तत्र कारयेत् ।। ५१ ।।
एवमादीनि कर्माणि यत्नैः कार्याणि भार्गव ।।
सर्वथा नेष्यते राज्ञस्तीक्ष्णोपकरणक्षयः ।। ५२ ।।
पापसाध्यानि कर्माणि यानि राज्ञां भृगूत्तम ।।
सन्तस्तानि न कुर्वन्ति तस्मात्तान्बिभृयान्नृपः ।। ५३ ।।
नेष्यते पृथिवीशानां तीक्ष्णोपकरणक्षयः ।।
यस्मिन्कर्मणि यस्य स्याद्विशेषेण च कौशलम् ।। ५४ ।।
तस्मिन्कर्मणि तं राजा परीक्ष्य विनियोजयेत् ।।
पितृपैतामहान्भृत्यान्सर्वकर्मसु योजयेत् ।। ५५ ।।
विना दायादकृत्येषु तत्र ते हि समासतः ।।
राजा दायादकृत्येषु परीक्ष्य स्वकृतान्नरान् ।। ५६ ।।
नियुञ्जीत महाभागः तस्य ते हितकारिणः ।।
परराजगृहान्प्राप्ताञ्जनसंग्रहकाम्यया ।। ५७ ।।
उष्टान्वाप्यथ वा दुष्टान्संश्रयेत प्रयत्नतः ।।
दुष्टं विज्ञाय विश्वासं न कुर्यात्तत्र भूमिपः ।। ६८ ।।
वृत्तिं तस्यापि वर्त्तेत जनसंग्रहकाम्यया ।।
राजा देशान्तरप्राप्तं पुरुषं पूजयेद्भृशम् ।। ५९ ।।
सहायं देशसंप्राप्तं बहुमानेन चिन्तयेत ।।
कामं भृत्यार्जनं राजा नैव कुर्याद्भृगूत्तम ।। ६० ।।
न वै वासं विभक्तं तु भृत्यं कुर्यात्कथञ्चन ।।
शस्त्रमग्निं विषं सर्पान्निस्त्रिंशमपि चैकतः ।। ६१ ।।
भृत्या मनुजशार्दूल कुभृत्याश्च तथैकतः ।।
तेषां चारेण विज्ञानं राज्ञा विज्ञाय नित्यशः ।। ६२ ।।
गुणिनां पूजनं कुर्यान्निर्गुणानां च शासनम् ।।
कथिताः सततं राम राजानश्चारचक्षुषः ।। ।। ६३ ।।
स्वदेशे परदेशे च जातिशीलान्विचक्षणान् ।।
अनाहार्यान्क्लेशसहान्नियुञ्जीत सदा चरान् ।। ६४ ।।
जनस्याविततान्सौम्यांस्तथा ज्ञातान्परस्परम् ।।
वणिजो मन्त्रकुशलान्सांवत्सरचिकित्सितान् ।। ६५ ।।
तथा प्रव्रजिताकारान्राजा चारान्नियोजयेत ।।
नैकस्य राजा श्रद्दध्याच्चारस्यापि च भाषितम् ।। ६६ ।।
द्वयोस्संवादमाज्ञाय सन्दध्यान्नृपतिस्ततः ।।
परस्परस्याविदितौ यदि स्यातां न तावुभौ ।। ६७ ।।
तस्माद्राजा प्रयत्नेन गूढांश्चारान्प्रयोजयेत ।।
राज्यस्य मूलमेतावद्यद्राज्ञश्चारदृष्टिता ।। ६८ ।।
चाराणामपि यत्नेन राज्ञा कार्यं परीक्षणम् ।।
रागापरागौ भृत्यानां जनस्य च गुणागुणान् ।। ६९ ।।
शुभानामशुभानां च विज्ञानं राम कर्मणाम् ।।
सर्वं राज्ञां चरायत्तं तेष्वायत्तस्सदा भवेत् ।। ७० ।।
कर्मणा केन मे लोके जनस्सर्वोऽनुरज्यते ।।
विरज्यते तथा केन विज्ञेयं तन्महीक्षिता ।।
विरागजननं सर्वं वर्जनीयं प्रयत्नतः ।। ७१ ।।
जनानुरागप्रभवो हि लक्ष्यो राज्ञां यतो भार्गववंशचन्द्र ।।
तस्मात्प्रयत्नेन नरेन्द्रमुख्यैः कार्योऽनुरागो भुवि मानवेषु ।। ७२ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे सहायसम्पत्तिर्नाम चतुर्विंशोऽध्यायः ।। २४ ।।
2.25
।। पुष्कर उवाच।।
यथानुवर्तितव्यं स्याद्राम राजोपजीविभिः ।।
तथा ते कथयिष्यामि निबोध गदतो मम ।। १ ।।
आज्ञा सर्वात्मना कार्या स्वशक्त्या भृगुनन्दन ।।
आक्षिप्य वचनं तस्य न वक्तव्यं तथा वचः ।। २ ।।
अनुकूलं प्रियं तस्य वक्तव्यं जनसन्निधौ ।।
रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत् ।। ३ ।।
परार्थमथ वक्तव्यं स्वस्थे चेतसि भार्गव ।।
स्वास्थ्यं सुहृद्भिर्वक्तव्यं न स्वयं तु कथंचन ।। ४ ।।
कार्यातिपातकं कार्यै रक्षितव्यं प्रयत्नतः ।।
न च हिंस्यधनं किञ्चिन्नियुक्तेन च कर्मणि ।। ५ ।।
नोपेक्ष्यं तस्य मानं च तथा राज्ञा प्रियो भवेत् ।।
राज्ञश्च न तथा कार्यं वेशभाषितचेष्टितम् ।।६।।
राजलीला न कर्तव्या तद्दिष्टं च विवर्जयेत् ।।
राज्ञस्समाधिकौ वेशौ न तु कार्यौ विजानता ।। ७ ।।
द्यूतादिषु तथैवास्य कौशलं तु प्रदर्शयेत् ।।
प्रदर्श्य कौशलं चास्य राजानं न विशेषयेत् ।। ८ ।।
अन्तःपुरधनाध्यक्षैर्वैरिदूतैर्निराकृतैः ।।
संसर्गं न व्रजेद्राम विना पार्थिवशासनम् ।। ९ ।।
निम्नेहतां चावमानं तत्प्रयुक्तं च गोपयेत् ।।
यच्च गुह्यं भवेद्राज्ञस्तन्न लोके प्रकाशयेत् ।। १० ।।
नृपेण श्रावितं यत्स्याद्गुह्याद्गुह्यं भृगूत्तम ।।
न तत्संश्रावयेल्लोके तथा राज्ञः प्रियो भवेत् ।। ११ ।।
आज्ञप्यमाने चान्यस्मिन्समुत्थाय त्वरान्वितः ।।
अहं किङ्करवाणीति वाच्यो राजा विजानता ।। १२ ।।
कार्यावस्थां च विज्ञाय कार्यमेतत्तथा भवेत् ।।
सततं क्रियमाणेस्मिँल्लाघवं तु व्रजेद्बुधः ।। १३ ।।
राज्ञः प्रियाणि वाक्यानि न चात्यर्थं पुनःपुनः ।।
न हास्यशीलश्च भवेन्न चापि भृकुटीमुखः।। ।। १४ ।।
नातिवक्ता न निर्वक्ता न च मात्सरिकस्तथा ।।
आत्मसम्भावितश्चैव न भवेत्तु कथञ्चन ।। १५ ।।
दुष्कृतानि नरेन्द्रस्य न च संकीर्तयेत्क्वचित् ।।
वस्त्रं पत्रमलङ्कारं राज्ञा दत्तं तु धारयेत् ।। १६ ।।
औदार्येण न तद्देयमन्यस्मिन्भूतिमिच्छता ।।
न चैवाध्यशनं राज्ञः स्वपनं चापि कारयेत् ।। १७ ।।
नानिर्दिष्टे तथा द्वारे प्रविशेत कथञ्चन ।।
न च पश्येत राजानमयोग्यासु च भूमिषु ।। १८ ।।
राज्ञस्तु दक्षिणे पार्श्वे वामे चोपविशेत्तदा ।।
पुरस्तात्तु यथा पश्चादासनं तु विगर्हितम्।।१९।।
जृम्भा निष्ठीवनं कामं कोपं पर्यंकिकाश्रयम्।।
मुकुटं वातमुद्गारं तत्समीपे विवर्जयेत्।।
स्वयं तथा न कुर्वीत स्वगुणाख्यापनं बुधः।।
स्वगुणाख्यापने कुर्यात्परानेव प्रयोजकान्।।२१।।
हृदयं निर्मलं कृत्वा परं भक्तिमुपाश्रितैः ।।
अनुजीविगणैर्भाव्यं नित्यं राज्ञामतन्द्रितैः ।। २२ ।।
शाठ्यं लौल्यमपैशुन्यं नास्तिक्यं क्षुद्रतां तथा ।।
चापल्यं च परित्याज्यं नित्यं राजानुजीविना ।। २३ ।।
श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना ।।
राजसेवां ततः कुर्याद्भूतये भीतिवर्धनः ।। २४ ।।
नमस्कार्यास्सदा चास्य पुत्रवल्लभमन्त्रिणः ।।
सचिवैश्चास्य विश्वासं न तु कार्यं कथञ्चन ।। २५ ।।
अपृष्टश्चास्य न ब्रूयात्कामं ब्रूयात्तथापदि ।।
हितं पथ्यं च वचनं हितैस्सह सुनिश्चितम् ।। २६ ।।
चित्तं चैवास्य विज्ञेयं नित्यमेवानुजीविना ।।
भर्तुराराधनं कुर्याच्चित्तज्ञो मानवः सुखम् ।। २७ ।। ।
रागापरागौ चैवास्य विज्ञेयौ भूतिमिच्छता ।।
त्यजेद्विरक्तं नृपतिं रक्ताद्वृत्तिं तु कामयेत् ।। २८ ।।
कर्मोपकारयोर्नाशं विपक्षाभ्युदयं तथा ।।
आशासंवर्धनं कृत्वा फलनाशं करोति च ।। २९ ।।
अकोपोपि प्रकोपाभः प्रसन्नोपि च निष्फलः ।।
वाक्यं समन्दं वदति वृत्तिच्छेदं करोति च ।। । ।। ३० ।।
प्रवेशवाक्यानुदितौ न संभावयतीत्यथ ।।
आराधनासु सर्वासु सुप्तवच्च विचेष्टते ।। ३१ ।।
कथासु दोषैः क्षिपति वाक्यच्छेदं करोति च ।।
लक्ष्यते विमुखश्चैव गुणसङ्कीर्तने कृते ।। ०५२ ।।
दृष्टिं क्षिपत्यथान्यत्र क्रियमाणे च कर्मणि ।।
विरक्तलक्षणं श्रुत्वा शृणु रक्तस्य लक्षणम् ।। ३३ ।।
दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् ।।
कुशलादिपरिप्रश्ने संप्रयच्छति चासनम् ।। ३४ ।।
विविक्तदर्शने चास्य रहस्ये न च शङ्कते ।।
जायते हृष्टवदनः श्रुत्वा तस्य तु सङ्कथाम् ।। ३५ ।।
अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दति ।।
उपायनं च गृह्णाति स्तोकमप्यादरात्तथा ।। ३६ ।।
कथान्तरेषु सरति प्रहष्टवदनस्तथा ।।
इति रक्तस्य कर्तव्या सेवा भृगुकुलोद्वह ।।
आपत्सु न त्यजेत्पूर्वं विरक्तमपि सेवितम्।।३७।।
मित्रं न चापत्सु तथा न भृत्यं व्रजन्ति ये निर्गुणमप्रमेयम् ।।
प्रभुं विशेषेण च ते व्रजन्ति सुरेन्द्रधामासुरवृन्द जुष्टम् ।। ३८ ।। ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अनुजीविवृत्तं नाम पञ्चविंशोध्यायः ।। २५ ।।