विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०१६-०२०

विकिस्रोतः तः
Jump to navigation Jump to search

2.16
।। पुष्कर उवाच ।। ।।
धनुर्द्रव्यत्रयं लोहं शृङ्गं चारु च भार्गव ।।
ज्याद्रव्यत्रितयं चर्म वंशभंगं त्वचस्तथा ।। १ ।।
वंशत्वग्वंशचापं तु कर्तव्यं भृगुनन्दन ।।
अन्येषु राम चापेषु शेषद्रव्यमिदं भवेत ।। २ ।।
प्रमाणं नात्र निर्दिष्टं चापयोः शार्ङ्गलोहयोः ।।
दारुचापप्रमाणं तु श्रेष्ठं हस्तचतुष्टयम् ।। ३ ।।
तदर्धसमहीने तु प्रोक्ते मध्यकनीयसी ।।
मुष्टिग्राह्याणि वृत्तानि मध्ये सर्वाणि कारयेत् ।। ४ ।।
स्वल्पा कोटिस्तु वार्क्षाणां शार्ङ्गलौहमयी द्विज ।।
कामिनीभ्रूलताकारा कोटिः कार्या सुसंस्कृता ।।५।।
पृथग्वा दारुमिश्रो वा लोहशार्ङ्गे तु कारयेत् ।।
शार्ङ्गं स्नायुचितं कार्यं रुक्मबिन्दुविभूषितम् ।। ६ ।।
कुटिलस्फुटितं चापं सच्छिद्रं च न शस्यते ।।
हस्तिभग्ना द्रुमा ये च विद्युद्दग्धास्तथा च ये ।। ७ ।।
आरामदेवतावेश्मतापसाश्रमसंभवाः ।।
श्मशानसंभवा ये च न ते कार्याः कथंचन ।। ८ ।।
प्राणिनां यः सजात्येन शृङ्गी युधि निपातितः ।।
तच्छृङ्गं वर्जयेच्चापं नित्यं शार्ङ्गे विचक्षणः ।। ९ ।।
लोहानि राम चत्वारि शस्यन्ते चापकर्मणि ।।
सुवर्णं रजतं ताम्रं तथा कृष्णायसं द्विज ।। १० ।।
काञ्चनं चापरत्नं तु सरत्नमपि कारयेत् ।।
माहिषं शारभं शार्ङ्गं रौहीजं चापि कारयेत् ।। ११ ।।
वार्क्षं चन्दनजं श्रेष्ठं वैतसं धान्वतं तथा ।।
सालशाल्मलिकाशानां ककुभस्याञ्जनस्य च ।। १२ ।।
वंशस्य च महाभाग सर्वश्रेष्ठतमं विदुः ।।
शरद्गृहीतैः काष्ठैस्तु चापं कार्यं प्रयत्नतः ।। १३ ।।
वंशानामपि तच्छ्रेष्ठं यत्र गङ्गा महानदी ।।
सालानामपि तच्छ्रेष्ठं गोमती यत्र भार्गव ।। १४ ।।
वितस्ताकूलजं श्रेष्ठं वेतसीनां तथैव व ।।
एवं द्रव्यमयं कार्यं चापं लक्षणसंयुतम् ।।१५।।
ग्रहण लक्षणं चास्य भविष्यति च खड्गवत् ।।
सुखग्राहं दृष्टिकान्तं शरमोक्षमुखं तथा ।। १६ ।।
श्लक्ष्णं श्लिष्टं सुसंस्थानं सारवन्तं सुसंहतम् ।।
अवनामसुखं नित्यं पुंनामनवलोत्कटम् ।।१७।।
एतदीदृशकं श्रेष्ठं चापरत्नं विदुर्बुधाः ।।
राज्ञा चापस्य कर्तव्या पूजा बाणवरस्य च ।। १८ ।।
नित्यं देवकुले राम खड्गस्य च विशेषतः ।।
अयसश्चाथ वंशस्य शरस्याथ शरो भवेत् ।। १९ ।।
शरवंशौ ग्रहीतव्यौ शरत्काले भृगूत्तम ।।
शराः किरातजाः श्रेष्ठाः काञ्चीपुरसमीपतः ।। २० ।।
तेभ्योऽपि ते श्रेष्ठतमाः स्कन्दजन्ममहीभवाः ।।
स्निग्धा निमग्नपर्वाणः सारवन्तः समाहिताः ।। २१ ।।
ऋजवो मधुवर्णाभाः सुजाताः शारदा दृढाः ।।
स्नायुश्लिष्टाः सुनेत्राश्च सुपुङ्खाः कलवाससः ।। २२ ।।
तैलधौताश्च कर्तव्या रुक्मपुङ्खविभूषणाः ।।
तथा विषमपर्वाणः फलैश्च व्रणवर्जितैः ।। २३ ।।
एक त्रिपुङ्खं कर्तव्यं राजहंसच्छदोत्तरम् ।।
रुक्मपुङ्खसुवर्णाग्रमयःफलमनुत्तमम् ।।२४।।
स्नायुबद्धं बलं तस्य रुक्मबन्धं तु कारयेत् ।।
वज्रैश्च लक्षणोपेतैश्चित्रितं तं तु कारयेत्।।२५।।
ग्रहणं तस्य कर्तव्यं सांवत्सरकरान्नृपैः ।।
तस्य पूजा सदा कार्या साभिषेकसमा भवेत् ।। २६ ।।
यात्रायामभिषेके च मङ्गलेषु च कर्मसु ।।
सपताके तु तं चापं सपताकं तु कारयेत् ।।
मङ्गल्यं तन्नरेन्द्राणां कथितं भृगुनन्दन ।। २७ ।।
ये चापरत्नं विनतं तु भूपाः सुवर्णरत्नोपचितं सदैव ।।
बाणेन साकं परिपूजयन्ति भवन्ति ते राम विपन्नदुःखाः ।। २८ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे चापशरलक्षणं नाम षोडशोऽध्यायः ।। १६ ।।
2.17
।। पुष्कर उवाच ।।
पुरा सुमेरुशिखरे काञ्चने रत्नपर्वते ।।
स्वर्गङ्गायास्तटे ब्रह्मा यज्ञं यजति भार्गव ।। १ ।।
तस्मिन्यज्ञे स ददृशे विघ्नं खे लोहदानवम् ।।
विघ्नस्य शमनं तस्य चिन्तयामास तत्त्ववित् ।। २ ।।
तदा चिन्तयतस्तस्य पुरुषः पावकाद्बभौ ।।
नीलोत्पलदलश्यामः स्वरुचा वञ्चितेक्षणः ।। ३।।
प्रांशुः सुवदनः श्रीमान्बलेनाप्रतिमो भुवि ।।
स ववन्दे तदा गत्वा देवं कमलसम्भवम् ।। ४ ।।
अभ्यनन्दन्त जातेन तेन देवास्सवासवाः ।।
तस्मात्स नन्दको नाम खङ्गरत्नमभूत्तदा ।। ५ ।।
तं दृष्ट्वा भगवान्ब्रह्मा केशवं वाक्यमब्रवीत् ।।
खड्गं गृह्णीष्व गोप्तारं धर्मस्य जगतां पते ।। ६ ।।
यज्ञविघ्नकरं हत्वा खड्गेनानेन केशव ।।
निपातय महाबाहो बलिनं लोहदानवम् ।। ७ ।।
इत्येवमुक्तो जग्राह ग्रीवया तं जनार्दनः ।।
गृहीतमात्रे देवेन विकोशः समपद्यत ।। ८ ।।
खड्गः कमलपत्राक्षो नीलोत्पलसमद्युतिः ।।
रत्नमुष्टिर्महान्राम निर्मलाकाशसन्निभः ।। ९ ।।
एतस्मिन्नन्तरे तत्र व्यदृश्यत तदा महान् ।।
करालः कृष्णवदनः शतबाहुर्महोदरः।। १०।।
प्रांशुः सुवृत्तदंष्ट्राग्रो बलवाँल्लौहदानवः ।।
यज्ञविघ्नार्थिनं प्राप्तं स दृष्ट्वा लोहदानवम् ।। ११ ।।
खड्गमादाय वेगेन ययौ तं प्रति केशवः ।।
स केशवमनादृत्य देवाञ्छक्रपुरोगमान् ।। १२ ।।
विद्रावयामास तदा गदया भीमवेगया ।।
तदा भग्नेषु देवेषु युद्धं कृत्वा हरिश्चिरम् ।। १३ ।।
खड्गेन तस्य गात्राणि चिच्छेद मधुहा रणे ।।
खड्गच्छिन्नानि गात्राणि नानादेशेषु भूतले ।। १४ ।।
निपेतुस्तस्य धर्मज्ञ शतशोऽथ सहस्रशः ।।
नन्दकस्य तु संस्पर्शात्तानि गात्राणि भार्गव ।। १५ ।।
लोहीभूतानि सर्वाणि प्रसादात्केशवस्य तु ।।
हतायास्मै वरं प्रादाद्भगवान्मधुसूदनः ।। १६ ।।
त्वदङ्गानि पवित्राणि भविष्यन्ति महीतले ।।
आयुधानि च तैर्लोके करिष्यन्तीह मानवाः।।१७।।
एवमुक्त्वा हरिर्देवो ब्राह्मणं वाक्यमब्रवीत् ।।
विना विघ्नं मखमिदं कुरु शीघ्रं जगद्गुरो।।१८।।
एवमुक्तस्तदा ब्रह्मा यज्ञेन मधुसूदनम् ।।
आत्मना पूजयामास सुसमिद्धमनोरथः।।१९।।
उत्पत्तिरुक्ता खड्गस्य लोहस्य च मया तव ।।
अतः परं प्रवक्ष्यामि खड्गलक्षणमुत्तमम् ।। २० ।।
प्रधानदेहसंभूतैर्दैत्यास्थिभिररिन्दम ।।
लोहं प्रधानं खड्गार्थे प्रशस्तं तद्विशेषतः ।। २१ ।।
कटीकदूरऋषिकं वङ्गे शूर्पाकरेषु च ।।
विदेहेषु तथाङ्गेषु मध्यमं ग्रामचेदिषु ।। २२ ।।
सहग्रामेषु नीपेषु तथा कालञ्जरेपि च ।।
लौहं प्रधानं तज्जानां खड्गानां शृणु लक्षणम् ।।२३।।
कटीकदूरजाता ये दर्शनीयास्तु ते स्मृताः ।।
कायच्छिन्नास्तु ऋषिका मर्मघ्ना गुरवस्तथा ।।२४।।
तीक्ष्णाश्छेदसहा वाङ्गा दृढा शूर्पारिकोद्भवाः ।।
सुहस्ताश्चैव विज्ञेया प्रभावन्तो विदेहजाः ।।२५ ।।
अंगदेशोद्भवास्तीक्ष्णाश्चेदि देशसमुद्भवाः ।।
कालिञ्जरा भारसहास्तथा वक्ष्यामि लक्षणम् ।। २६ ।।
सुप्रमाणांगुलास्ते तु श्रेष्ठा खड्गाः प्रमाणतः ।।
प्रमाणं तत्र विज्ञाय ततो हीनं न धारयेत् ।। २७ ।।
प्रमाणाभ्यधिकं चैव च्छिन्नवंशं तथैव च ।।
शीघ्रः सुमधुरः शब्दो यस्य खड्गस्य भार्गव ।। २८ ।।
किङ्किणी सदृशस्तस्य धारणं श्रेष्ठमुच्यते ।।
खड्गः पद्मपलाशाग्रो मण्डलाग्रश्च शस्यते ।।२९।।
करवीरपलाशाग्रसदृशस्य विशेषतः ।।
महीघृतसुगन्धश्च पद्मोत्पलसुगन्धिकः ।। ३० ।।
वर्णतश्चोत्पलाकारः सवर्णो णगनस्य च ।।
समाङ्गुलस्थाः शस्यन्ते व्रणाः खड्गेषु भार्गव ।। ३१ ।।
श्रीवृक्षपर्वता कारवंशपद्मनिभाश्च ये ।।
मङ्गल्यानां तथान्येषां सदृशा ये च भार्गव ।। ३२ ।।
काकोलूककबन्धाभा विषमाङ्गुलसंस्थिताः ।।
वंशानुगाः प्रभूताश्च न शस्तास्ते कदाचन ।। ३३ ।।
न खड्गे वदनं पश्येद्वृथा विवृणुयान्न च ।
उच्छिष्टो न स्पृशेत्खड्गं निशि कुर्याच्च शीर्षके ।।
दिवा च पूजयेदेनं गन्धमाल्यानुसंपदा ।।३४।।
खड्गं प्रशस्तं मणिहेमचित्रं कोशे सदा चन्दनचूर्णयुक्ते ।।
संस्थापयेद्भूमिपतिः प्रयत्नाद्रक्षेत्तथैनं स्वशरीरवच्च ।। ३५ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे खड्गलक्षणं नाम सप्तदशोऽध्यायः ।। १७ ।।
2.18
पुष्कर उवाच ।।
इति सम्भृतसम्भारो राज्ञस्सांवत्सरस्तथा ।।
कालेऽभिषेचनं कुर्यात्तं कालं कथयामि ते ।। १ ।।
मृते राज्ञि न कालस्य नियमोऽत्र विधीयते ।।
तत्रास्य स्नपनं कार्यं विधिवत्तिलसर्षपैः ।। २ ।।
घोषयित्वा जयं चास्य सांवत्सरपुरोहितौ ।।
अन्यासनोपविष्टस्य दर्शयेतां जनं शनैः ।। ३ ।।
स सान्त्वयित्वा स्वजनं भुक्त्वा बन्धनगांस्तथा ।।
अभयं घोषयित्वा च कालाकांक्षी तथा भवेत् ।। ४ ।।
नाभिषेच्यो नृपश्चैत्रे नाधिमासे च भार्गव ।।
न प्रसुप्ते तथा विष्णौ विशेषात्प्रावृषि द्विज ।। ५ ।।
न च भौमदिने राम चतुर्थ्यां न तथैव च ।।
नवम्यां नाभिषेक्तव्यः चतुर्दश्यां च भार्गव ।। ६ ।।
ध्रुवाणि वैष्णवं शाक्रं हस्तपुष्ये तथैव च ।।
नक्षत्राणि प्रशस्यन्ते भूमिपालाभिषेचने ।। ७ ।।
नागश्चतुष्पदं विष्टिः किंस्तुघ्नः शकुनिस्तथा ।।
करणानि न शस्यन्ते व्यतीपातदिनं तधा ।। ८ ।।
नक्षत्रमुल्काभिहतमुत्पाताभिहतं तथा ।।
सौरसूर्यकुजाक्रान्तं परिविष्टिञ्च भार्गव ।। ९ ।।
मुहूर्ताश्चोक्तनक्षत्राः सतां मानहितप्रदाः ।।
कुजहोरा तथा नेष्टा सर्वत्र कुलिकस्तथा ।। १० ।।
वृषोऽथ कीटसिंहौ च कुम्भो लग्ने च शस्यते ।।
एतेषां जन्मलग्नाभ्यां यः स्यादुपचयस्थितः ।। ११ ।।
तारा द्वितीया षष्ठी च चतुर्थी चाष्टमी च या ।।
नवमी च तथा शस्ता अनुकूलश्च चन्द्रमाः ।। १२ ।।
सौम्याः केन्द्रगता लग्ना शुभाश्चैव त्रिकोणयोः ।।
पापाश्चोपचय स्थाने शस्तो लग्ने दिवाकरः ।। १३ ।।
लग्ने नवांशः क्षितिजस्य वर्ज्यो वर्गस्तथा तस्य महानुभाव ।।
सूर्यस्य वर्गः सकलः प्रशस्तो राज्ञोऽभिषेके सग्रहो नृपाणाम् ।। १४ ।। ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादेऽअभिषेककालनिर्णयं नामाष्टादशो ऽध्यायः ।। १८ ।।
2.19
पुष्कर उवाच ।।
कार्या पौरन्दरी शांतिः प्रागेवास्य पुरोधसा ।।
प्राप्तेभिषेकदिवसे सोपवासः पुरोहितः ।। १ ।।
सोष्णीषः श्वेतवसनः सितचन्दनभूषितः ।।
सितमाल्योपवीतश्च सर्वाभरणभूषितः ।।२।।
वेदिमुल्लिख्य यत्नेन कृत्वा च विधिवत्ततः ।।
जुहुयाद्वैष्णवान्मन्त्रांस्तथा शाक्रान्विचक्षणः ।। ३ ।।
सावित्रान्वैश्वदेवांश्च सौम्यां च विधिवत्ततः ।।
शर्मवर्मगणं चैव तथा स्वस्त्ययनं गणम् ।। ४ ।।
आयुष्यमभयं चैव तथा चैवापराजितम् ।।
सपातवन्तं कलशं तथा कुर्याच्च काञ्चनम् ।। ५ ।।
वह्नेर्दक्षिणपार्श्वस्थः श्वेतचन्दनभूषितः ।।
श्वेतानुलेपनः स्रग्वी सर्वाभरणभूषितः ।। ६ ।।
आसनस्थमुखं पश्येन्निमित्तानि हुताशने ।। ७ ।।
पश्येयुरन्ये च तथा नृसिंह दैवज्ञवाक्यान्निपुणं स्वरूपम् ।।
सांवत्सरस्याथ सदस्यमुख्याः सदस्यमुख्याश्च पुरोहितस्य ।। ८ ।। ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरंदरशांतिर्नामैकोनविंशतितमोऽध्यायः ।।१९।।
2.20
पुष्कर उवाच ।।
प्रदक्षिणावर्तशिखस्तप्तजाम्बूनदप्रभः ।।
रथौघमेवनिर्घोषो विधूमश्च हुताशनः ।।१ ।।
अनुलोमसुगन्धश्च स्वस्तिकाकारसन्निभः ।।
वर्धमानाकृतिश्चैव नन्द्यावर्तनिभस्तथा ।। २ ।।
प्रसन्नार्चिर्महाज्वालः स्फुलिङ्गरहितो हितः ।।
स्वाहावमाने ज्वलनः स्वयं देवमुखं हविः ।। ३ ।।
यदा भुङ्क्ते महाभाग तदा राज्ञो हितं भवेत् ।।
हविषस्तु यदा वह्नेर्नस्यात्सिमिसिमायितम् ।। ४ ।।
न वर्जेयुश्च मध्येन मार्जारमृगपक्षिणः ।।
पिपीलकाश्च धर्मज्ञ तदा भूयाज्जयी नृपः ।। ५ ।।
मुक्ताहारमृणालाभे वह्नौ राज्ञां जयो भवेत् ।।
तथैव च जयं ब्रूयात्प्रस्तरस्य प्रदायिनि ।। ६ ।।
संक्षेपतस्तेऽभिहितं मयाद्य यल्लक्षणं चारु हुताशनस्य ।।
सर्वाग्निकर्मस्वथ तेन विद्वान्भूयात्त्रिलोके तु जयी द्विजेन्द्र ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे वह्निलक्षणं नाम विंशतितमोऽध्यायः ।। २० ।।