विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०२६-०३०

विकिस्रोतः तः
Jump to navigation Jump to search

2.26
।। पुष्कर उवाच ।। ।।
राजा सहायसंयुक्तः प्रभूतयवसेन्धनम् ।।
रम्यमानतसामन्तः पशव्यं देशमावसेत् ।। १ ।।
वैश्यशूद्रजनप्रायमनाहार्यं तथा परैः ।।
किञ्चिद्ब्राह्मणसंयुक्तं बहुकर्मकरं तथा ।। २ ।।
अदेवमातृकं कर्मस्वनुरक्तजनाचितम् ।।
करैरपीडितं चापि बहुपुष्पं फलं तथा ।। ३ ।।
अगम्यं परचक्राणां तद्वादसहमापदि ।।
समदुःखसुखं राज्ञः सततं च प्रिये स्थितम् ।। ४ ।।
सरीसृपविहीनं च व्याधितस्करवर्जितम् ।।
एवंविधं यथालाभं राजा विषयमावसेत ।। ५ ।।
तत्र दुर्गं नृपः कुर्यात्षण्णामेकतमं बुधः ।।
धन्वदुर्गं महीदुर्गं नरदुर्गं तथैव च ।। ६ ।।
वार्क्षं चेवांबुदुर्गं च गिरिदुर्गं च भार्गव ।।
सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते ।। ७ ।।
दुर्गं च परिखोपेतं नृपाट्टालकसंयुतम् ।।
शतघ्नीयन्त्रमुख्यैश्च शतशश्च तथा युतम् ।। ८ ।।
गोपुरं सङ्कपाटं च तत्र स्यात्सुमनोहरम् ।।
सपताकगजारूढो येन राजा विशेत्पुरम् ।। ९ ।।
चतस्रश्च तथा तत्र कार्याश्चापणवीथयः ।।
एकस्मिँस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम् ।। १० ।।
वीथ्यग्रे च द्वितीये वै राजवेश्माभिधीयते ।।
धर्माधिकरणं कार्यं वीथ्यग्रे च तृतीयके ।। ११ ।।
चतुर्थे चैव वीथ्यग्रे गोपुरं च विधीयते ।।
आयतं चतुरस्रं वा वृत्तं चाकारयेत्पुरम् ।। १२ ।।
मुक्तिहीनं त्रिकोणं च यवमध्यं तथैव च ।।
अर्धचन्द्रप्रकारं च वज्राकारं च वर्जयेत् ।। १३ ।।
अर्धचन्द्रं प्रशंसन्ति नदीतीरं तु तद्वशात् ।।
अन्यत्र तन्न कर्तव्यं प्रयत्नेन विजानता ।। १४ ।।
राज्ञः कोशगृहं कार्यं दक्षिणे राजवेश्मनः ।।
तस्यापि दक्षिणे भागे गजस्थानं विधीयते।।१५।।
गजानां प्राङ्मुखी शाला कर्तव्या चाप्युदङ्मुखी ।।
आग्नेये च तथा भागे आयुधागार इष्यते ।। १६।।
महानसं च धर्मज्ञः कर्मशालास्तथापराः ।।
गृहं पुरोधसः कार्यं वामतो राजवेश्मनः ।। १७ ।।
मन्त्रिदैवविदां चैव चिकित्साकर्तुरेव च ।।
तत्रैव च तथा भागे कोष्ठागारं विधीयते ।। १८ ।।
गवां स्थानं तु कर्त्तव्यं तुरगाणां तथैव च ।।
उत्तराभिमुखी श्रेणी तुरगाणां विधीयते ।। १९ ।।
प्राङ्मुखी चापि धर्मज्ञ परिशेषा विगर्हिता ।।
तुरगाश्च तथा धार्या प्रशस्तैः सार्वरात्रिकैः ।। ।। २० ।।
 कुक्कुटान्वानरांश्चैव मर्कटांश्च नराधिप ।।
धारयेदथ शालासु सवत्सां धेनुमेव च ।। २१ ।।
अजाश्च धार्या यत्नेन तुरगाणां हितैषिणा ।।
गोगजाश्वविशालासु तत्पुरीषस्य निष्क्रमम् ।। २२ ।।
अस्तङ्गते न कर्तव्यं देवदेवे दिवाकरे ।।
ततस्तत्र यथान्यायं राजा विज्ञाय सारवित् ।। २३ ।।
दद्यादावसथस्थानं सर्वेषामनुपूर्वशः ।।
योधानां शिल्पिनां चैव सर्वेषामविशेषतः ।। २४ ।।
दद्यादावसथान्दुर्गे मन्त्रकालविदां सताम ।।
गोवैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च ।। २५ ।।
आहरेत भृशं राजा दुर्गे परबलारुजः ।।
कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते ।। ।। २०५ ।।
न बहूनां न तैर्दुर्गं विना कार्यं तथा भवेत् ।।
दुर्गे च यन्त्राः कर्तव्या नानाप्रहरणान्विताः ।। २७ ।।
सहस्रघातिनो राम तैस्तु रक्षा विधीयते ।।
दुर्गे द्वाराणि गुप्तानि कार्याण्यपि च भूभुजा ।। २८ ।।
सञ्चयश्चात्र सर्वेषां चायुधानां प्रशस्यते ।।
धनुषां क्षेपणीयानां तोमराणां च भार्गव ।। २९ ।।
शराणामथ खड्गानां खनकानां तथैव च ।।
लगुडानां गुडानां च हुडानां परिघैः सह ।। ३० ।।
अश्मनां च प्रभूतानां मुद्गराणां तथैव च ।।
कणियानां त्रिशूलानां पट्टिशानां च भार्गव ।। ३१ ।।
प्रासानां च त्सरूणां च शक्तीनां च नरोत्तम ।।
परश्वधानां चक्राणां चर्मणां चर्मभिः सह ।। ३२ ।।
कुद्दालरज्जुवेत्राणां पिटिकानां तथैव च ।।
ह्रस्वकानां च पात्राणामगरस्य च संश्रयम ।। ३३ ।।
सर्वेषां चित्रभाण्डानां सञ्चयश्चात्र इष्यते ।।
वादित्राणां च सर्वेषामौषधानां तथैव च ।। ३८४ ।।
यवसानां प्रभूतानां चेन्धनस्य च सञ्चयम् ।।
गुडस्य सर्वशैलानां गोरसानां तथैव च ।। ३९ ।।
चर्मणां च ससज्जानां स्नायूनामस्थिभिः सह ।।
गोरसस्य पटानां च धान्यानां सर्वतस्तथा ।। ३६ ।।
तथैव प्रपटानां च यवगोधूमयोरपि ।।
रत्नानां सर्ववस्त्राणां लोहानां चाप्यशेषतः ।।३७ ।।
कलायमुद्गमाषाणां चणकानां तिलैः सह ।।
तथा च सर्वसस्यानां पांशुगोमययोरपि ।।३८८।।।
सणसर्जरसं भूर्जजतुलाक्षाकटंकटाम् ।।
राजा सञ्चिनुयाद्दुर्गे यच्चान्यदपि किञ्चन ।। ३९ ।।
कुम्भाः साषीविषा धार्या व्याघ्रसिंहादयस्तथा ।।
मृगाश्च पक्षिणश्चैव पशवश्च पृथग्विधाः ।।४ ० ।।
सञ्चेयानि विरुद्धानां सुगुप्तानि पृथक्पृथक ।।
कर्तव्यानि महाभाग यत्नेन पृथिवीक्षिता ।। ४१ ।।
उक्तानि चाप्यनुक्तानि राजद्रव्याण्यशेषतः ।।
सुगुप्तानि पुरे कुर्याज्जनानां हित काम्यया ।। ४२ ।।
जीवकर्षभकाकोलीरामलक्यः परूषकम् ।।
शालिपर्णी पृश्निपर्णी मुद्गपर्णी तथैव च ।। ४३ ।।
माषपर्णी तथा चैव सारिवे द्वे बलाभयम ।।
वीराश्वगन्धा वृथ्वीका बृहती कण्टकारिका ।।४४।।
शृङ्गाटिका रोद्रगोधी वर्षाभूदर्भगुन्द्रका ।।
मधुपर्णीविदार्यौ द्वे महादुर्गा महा तथा ।। ४५ ।।
धन्वना महऋग्व्याह्या त्रिकोटी रण्डकं विषम् ।।
पर्णासनाह्वी मृद्वीका फल्गुः खर्जूरयष्टिका ।। ४६ ।।
शुक्रातिशुक्रकाश्मर्यश्छत्रातिच्छत्रवीरणा ।।
इक्षुरिक्षुविकारश्च फाणिताद्याश्च भार्गव ।। ४७ ।।
सहाश्च सहदेवाश्च विश्वेदेवाढरूपकम् ।।
मधूकपुष्पं हंसाख्या शतपुष्पमधूलिका ।। ४८ ।।
शतावरी मधूकं च प्रियालं तालमेव च ।।
आत्मगुप्ता कट्फलाख्या दरदा राजसेरुका ।।४९।।
राजर्षभकधानक्या ऋष्यप्रोक्ता तथोत्कटा ।।
कटंकटा पद्मबीजं गोवल्ली मधुवल्लिका ।।५० ।।
शीतपाकी कुलिङ्गाक्षी काकजिह्वोरुपत्रिका ।।
एर्वारुम्रपसौ चोभौ मुञ्जातकपुनर्नवा ।।५१ ।।
काशेरुका तुगाक्षीरा बिल्वेशालूककेसरम् ।।
शूकधान्यानि सर्वाणि शम्बीधान्यानि यानि च ।। ५२ ।।
क्षीरं क्षौद्रं तथा शुक्लं मज्जा तैलं वसा घृतम ।।
निकोचाभिषुकाक्षोटं वातापं सोरुखाणकम् ।। ५३ ।।
एवमादीनि चान्यानि विज्ञेयो मधुरो गणः ।।
राजा सञ्चिनुयात्सर्वं पुरे निरवशेषतः ।। ५४ ।।
दाडिमांम्रातकां लीनं तितन्तिडीकाम्लवेतसम् ।।
भव्यकः कण्डलीकश्च मकरन्दकरूपकम् ।।५५।।
बीजपूरककाण्डीरमालती राजधन्वना ।।
कोलकद्वयपर्णानि द्वयोरल्लीकयोरपि।।५६।।
पालेवतं भागरिकं प्राचीनारूकमेव च ।।
कपित्थामलकं चुक्रं कलिन्दं च शठस्य च।।५७।।
जाम्बवं नवनीतं च सौवीरकतुपोचके ।।
सुरासवं च मद्यानि मण्डं तक्रदधीनि च ।। ५८ ।।
शुक्लानि चैव सर्वाणि ज्ञेयान्यम्लगणानि वै ।।
सैन्धवोद्भेदनादेयपाक्यसामुद्ररोचसम् ।।
कूप्यसौवर्चलविडं वालकैलोपबाहुकम् ।। ५९ ।।
ऊषक्षारं कालभस्म विज्ञेयौ लावणो गणः ।।
एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे ।। ६० ।।
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् ।।
कुठेरकं समरिचं शिग्रुं भल्लात दुर्गं सुगुप्तं नृपतिस्सदैव।।८८।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्कराख्याने दुर्गसम्पत्तिर्नाम षड्विंशतितमोऽध्यायः।।२६।।
2.27
राम उवाच ।।
रक्षोघ्नानि विषघ्नानि यानि कार्याणि भूभुजा ।।
अगदानि समाचक्ष्व तानि धर्मभृतां वर ।। १ ।।
पुष्कर उवाच ।।
बिल्वाढकी यवक्षारपाटलीबाह्लिकोषणाः ।।
श्रीपर्णी सल्लकीयुक्ता निष्क्वाथः प्रोक्षणं परम् ।। २ ।।
सविषं प्रोक्षितं तेन सद्यो भवति निर्विषः ।।
यवसैन्धवपानीयवसुशय्यासनौदनम् ।। ३ ।।
कवचाभरणच्छत्रबालव्यजनमेव च ।।
शैलूपाटल्यतिविषाशिग्रुगोपीपुनर्नवाः ।। ४ ।।
ससङ्गावृक्षमूलत्वक्कपित्थं वृक्षशोणितम् ।।
सहदन्तशठं तद्वत्प्रोक्षिणं विषनाशनम् ।। ५ ।।
लाक्षा प्रियङुमञ्जिष्ठासमङ्गा सहरेणुका ।।
सयष्ट्याह्वमधूपेता बभ्रुपित्तेन कल्किताः ।। ६ ।।
निखनेद्गोविषाणस्था सप्तरात्रं महीतले ।।
ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ।। ।। ७ ।।
संस्पृष्टस्सविषस्तेन सद्यो भवति निर्विषः ।।
मनोह्वालशमीपुष्पत्वङ्निशाश्वेतसर्षपाः ।। ८ ।।
कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः ।।
धनोगवः कपिल्लायाः सौम्याख्योऽयं पुरो गदः ।। ९ ।।
विषजित्परमः प्रोक्तो मणिरत्र च पूर्ववत् ।।
मूषकाजिरका चापि हस्ते बद्ध्वा विषापहा ।। १० ।।
हरेणुमासी मंजिष्ठा रजनीमधुकं मधु ।।
अक्षत्वक्सुरसं.... ..श्वपित्तं पूर्ववर्मणि ।। ११ ।।
वादित्राणि पताकाश्च विष्टैरेतैः प्रलेपिता ।।
श्रुत्वा दृष्ट्वा समाधाय सद्यो भवति निर्विषः ।। १२ ।।
तत्पूषणं पञ्चलवणं मञ्जिष्ठारजनीद्वयम् ।।
सूक्ष्मैला त्रिवृतापत्रं विरुङ्गानींद्रवारुणी ।। १३ ।।
मधुकं चेति सक्षौद्रं गोविषाणैर्निधापयेत् ।।
तस्मादुष्णाम्बुना मात्रां प्रागुक्तां योजयेत्तथा ।। ।।१४।।
विषं भुक्तं जरां याति निर्विषोपि न दोषकृत् ।।
संतुसर्जरसोशीरसर्षपापत्रवालुकैः ।।१५।।
सवेल्लारुष्करपुरैः कुसुमैरर्जुनस्य च।।
धूपोवासो गृहे हन्ति विषं स्थावरजङ्गमम् ।। १६ ।।
न तत्र कीटा न विषा दर्दुरा न सरीसृपाः ।।
न कृत्याः कर्म नाऽन्यच्च धूपोयं यत्र दह्यते ।। १७ ।।
कल्कितैश्चन्दनक्षीरपलाशद्रुमवल्कलैः ।।
पूर्वैलवालुसुरसानाकुलीतण्डुलीयकैः ।। १८ ।।
क्वाथः सर्वोदकार्येषु काकमाचीजलैर्वृतः ।।
रोचनापत्र नैपालीकुंकुमैस्तिलकं वहन् ।। १९ ।।
विषं न बाधते स्याच्च नरनारीनृपप्रियः ।।
चूर्णैर्हरिद्रामंजिष्ठाकिणिहीकणनिम्बकैः ।। २० ।।
जिघ्रं न्निर्विषतामेति गात्रं सर्वविषार्दितम् ।।
शिरीषस्य फलं पत्रं पुष्पं त्वङ्मलमेव च ।। २१ ।।
गोमूत्रपिष्टो ह्यगदः सर्वकर्मकरः स्मृतः ।।
एता वीरमहौषध्यः शृणु चातः परं द्विज ।। २२ ।।
वन्ध्या कर्कोटकी राम विष्णुक्रान्ता तथोत्कटा ।।
शतमूला शतानन्दा बलास्फोटा पटोलिका ।। २३ ।।
सोमा पिण्डा निशा चैव तथा दग्धरुहा जया ।।
स्थले कमलिनी या च पिंगली शृङ्गमूलिका ।। २४ ।।
चण्डाली हस्तिचण्डाली गोचण्डाली कवन्धिका ।।
रक्ता चैव महारक्ता तथा बर्हिशिखा च या ।। २५ ।।
कोशातकी नक्रमालं पियालं च स्वलक्षणा ।।
चारणा च सुगन्धा च तथा वै गन्धनाकुली ।। २६ ।।
ईश्वरी च सलिङ्गी च सोमली वंशनालिका ।।
जतुकारी तथा श्वेता श्वेता च मधुयष्टिका ।। २७ ।।
वज्जटः पारिभद्रश्च तथा वै सिन्धुवारिका ।।
जीवानन्दी वसुमती न तं नागकटं कटम् ।। २८ ।।
तालना जालपातालं तथा च वटपत्रिका ।।।
करक्षीरा महानीली कह्लारं हंसपादिका ।। २९।।
मण्डूकपर्णी वाराही द्वे तथा तण्डुलीयके ।।
सर्पाक्षी लवणा ब्राह्मी विश्वरूपा सुखंकरी ।। ३० ।।
रुजापहा शुद्धिकरी तथा शल्यापहा च या ।।
पत्रिका रोहिणी चैव रक्तला च महौषधी ।। ३१ ।।
तथामलकवन्दारु यावचित्रा पटोलिका ।।
काकोली क्षीरकाकोली पीलुपर्णी मनोवती ।। ३२ ।।
केशनी वृश्चिका काली महानागा शतावरी ।।
तथा गरुडवेगा च स्थलेकुमुदिनी च या ।। ३३ ।।
स्थले चोत्पलिनी या च महाभूमिलता च या ।।
उन्मादिनी सोमराजी सर्वरत्नानि भार्गव ।। ३४ ।।
विशोषामरकतं तत्र कीटपक्षं विशेषतः ।।
जीवजाताश्च मणयस्सर्वे धार्या विशेषतः ।। ३५ ।।
रक्षोघ्नाश्च यशस्याश्च कृत्या वेतालनाशिनः ।।
विशेषान्तरनागाश्च गोखरोष्ट्रसमुद्भवाः ।। ३६ ।।
सर्पतित्तिरगोमायुबभ्रुमण्डूकजाश्च ये ।।
सिंहव्याघ्रर्क्षमार्जारद्वीपवानरसम्भवाः ।। ३७ ।।
कपिञ्जलाजगोधाविमहिषैणभवाश्च ये ।। ३८ ।।
इत्येवमेतैस्सकलैरुपेतं द्रव्यैः पुरं रक्षितसञ्चयं च ।।
राजा वसेत्तत्र गृहं च शुभ्रं गुणान्वितं लक्षणसंप्रयुक्तम् ।। ३९ ।।
इति श्रीविष्णुधर्मोत्तरे मा०सं० द्वितीयखण्डे अगदङ्कराध्यायो नाम सप्तविंशतितमोऽध्यायः ।। २७ ।।
2.28
।। राम उवाच ।।
राजरक्षारहस्यानि यानि दुर्गे निधापयेत् ।।
कारयेद्वा महीभर्ता कथयस्वाशु तानि मे ।। १ ।।
पुष्कर उवाच ।।
शिरीषोदुम्बरशमीबीजपूरं घृतप्लुतम् ।।
क्षुद्योगः कथितो राम मासार्धस्य पुरातनैः ।। २ ।।
कषेरूत्पलमूलानि इक्षुमूलं तथा विमम् ।।
दूर्वाक्षीरघृतैर्मण्डः सिद्धोऽयं मासिकः परम् ।। ३ ।।
शूलप्रोतं नरं प्राप्य तस्यास्थ्नामरणी भवेत् ।।
कल्माषवीणुना तत्र जनयेत्तु विभावसुम् ।। ४ ।।
गृहे त्रिरपसव्यं तत्क्रियते यत्र भार्गव ।।
नान्योग्निर्ज्वलते तत्र नात्र कार्या विचारणा ।। ५ ।।
कर्पासास्थि भुजङ्गस्य तथा निर्मोचनं परम् ।।
सर्पनिर्वासने धूपः प्रशस्तः सततं गृहे ।। ६ ।।
सान्द्रसत्त्वा च वयसा विद्युद्दग्धा च मृत्तिका ।।
तयानुलिप्तं यद्वेश्म नाग्निना दह्यते द्विज ।। ७ ।।
दिवा च दुर्गे रक्षोऽग्निर्वाति वाते विशेषतः ।।
विषाच्च रक्ष्यो नृपतिस्तत्र युक्तिं निबोध मे ।। ८ ।।
क्रीडानिमित्तं नृपतेर्धार्याः स्युर्मृगपक्षिणः ।।
अन्नं च प्राक्प्ररीक्षेत वह्नावथ नरेषु च ।। ९ ।।
वस्त्रं पत्रमलङ्कारं भोजनाच्छादने तथा ।।
नापरीक्षितपूर्वं तु स्पृशेदपि महीपतिः ।। १० ।।
श्यावास्यवक्त्रः सन्तप्तः सोद्वेगं च परीक्षते ।।
विषदेन विषं दत्तं यत्र तत्र निरीक्षते ।। ११ ।।
स्रस्तोत्तरीयो विमनाः स्तम्भकुण्ड्यादिभिस्तथा ।।
प्रच्छादयति चात्मानं खिद्यते लज्जते तथा ।। १२ ।।
भुवं विलिखते ग्रीवां तथा चालयते द्विज ।।
कण्डूयति च मूर्धानं परिलेढ्यधरं तथा ।। १३ ।।
क्रियासु त्वरते राम विपरीतास्वपि ध्रुवम् ।।
एवमादीनि चिह्नानि विषदस्य परीक्षयेत् ।। १४ ।।
ततो विचायेदग्नौ तदन्नं त्वरयान्वितः ।।
इन्द्रायुधसवर्णस्तु वृक्षस्फोटसमन्वितः ।। १५ ।।
एकावर्तोऽथ दुर्गन्धी भृशं चटचटायते ।।
तद्धूमसेवनाज्जन्तोः शिरोरोगश्च जायते ।। १६ ।।
सविषेऽन्ने निलीयन्ते न च भार्गव मक्षिकाः ।।
निलीनाश्च विपद्यन्ते दृष्टे च सविषे तथा ।। १७ ।।
विरज्यति चकोरस्य दृष्टिर्भार्गवसत्तम ।।
विकृतिं च स्वरो याति कोकिलस्य तथा द्विज ।। १८ ।।
गतिः स्खलति हंसस्य भृङ्गराजश्च कूजति ।।
क्रौंचो मदमथाभ्येति कृकवाकुर्विरौति च ।। १९ ।।
विक्रोशति चकोरश्च शारिका वाशते तथा ।।
चामीकरोऽन्यतो याति मृत्युं कारण्डवस्तथा ।। २० ।।
मेहते वानरो राम ग्लायते जीवजीवकः ।।
हृष्टरोमा भवेद्बभ्रुः पृषतश्चैव रोदिति ।। २१ ।।
हर्षमायाति च शिखी सविषे दर्शने द्विज ।।
अन्नं च सविषं राम चिरेण च विपच्यते ।। २२ ।।
तथा भवत्यतिस्रावं पक्वं पर्युषितोपमम् ।।
व्यापन्नरसगन्धं च चन्द्रिकाभिस्तथा युतम् ।। २३ ।।
व्यञ्जनानां च शुष्कत्वं द्रवाणां बुद्बुदोद्भवः ।।
ससैन्धवानां द्रव्याणां जायते फेनमालिका ।। २४ ।।
रसस्य राजी नीला स्यात्ताम्रा च पयसस्तथा ।।
कोकिलाभा च सध्यस्य तोयस्य च भृगूत्तम ।। २५ ।।
धान्याम्लस्य तथा कृष्णा कपिला कोद्रवस्य च ।।
मधुश्यावा च तक्रस्य नीला पीता तथैव च ।। २६ ।।
घृतस्योदकसंकाशा कपोताभा च मस्तुनः ।।
हरिता साक्षिकस्यापि तैलस्य च तथारुणा ।। २७ ।।
फलानामप्यपक्वानां पाकः क्षिप्रं प्रजायते ।।
प्रकोपश्चैव पक्वानां माल्यानां म्लानता तथा ।।२८।।
मृदुता कठिनानां स्यान्मृदूनां च विपर्ययः ।।
सूक्ष्मतन्तूपसदनं तथा चैवातिरोमता ।।२९।।
श्याममण्डलता चैव वस्त्राणामविशेषतः ।।
लोहानां च मणीनां च मलपङ्कोपदिग्धता ।। ३० ।।
अनुलेपनगन्धानां स्नानानां च भृगूत्तम ।।
विगन्धता च विज्ञेया पर्णानां म्लानता तथा ।। ३१ ।।
पीता नीला सिता ज्ञेया तथा रामाञ्जनस्य च ।।
दन्तकाष्ठत्वचः शान्तास्तन्तुसत्त्वं तथैव च ।। ३२ ।।
एवमादीनि चिह्नानि विज्ञेयानि भृगूत्तम ।।
तस्माद्राजा सदा तिष्ठेन्मणिमन्त्रौषधीगणैः ।। ३३ ।।
आप्तैः संरक्षितो राम प्रमाद परिवर्जकैः ।। ३४ ।।
प्रजातरोर्मूलमिहावनीशस्तद्रक्षणाद्वृत्तिमुपैति राष्ट्रम् ।।
तस्मात्प्रयत्नेन नृपस्य रक्षा सर्वेण कार्या भृगुवंशचन्द्र ।। ३५ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० राजरक्षावर्णनन्नामाष्टाविंशतितमोऽध्यायः ।। २८ ।।
2.29
राम उवाच ।। ।।
वास्तुविद्यां समाचक्ष्व यादोगणनृपात्मज ।।।
हिताय मानवेन्द्राणां तथान्येषां च मानद ।। १ ।।
पुष्कर उवाच ।। ।।
भूमिमादौ परीक्षेत शुभलक्षणलक्षिताम् ।।
पूर्वोदक्प्रवणां धन्यां तथा वै दक्षिणोन्नताम् ।।२।।
न तथा शिकटच्छिन्नां नान्यत्तोयपरिप्लुताम् ।।
वल्मीकमूषिकावासश्वभ्रकण्टकितैर्द्रुमैः।। ३।।
विहीनां मृदुसंस्पर्शां कठिनां चाप्यनूषराम् ।।
न तथा यवसंस्थानां नेभवज्रोपमां तथा ।।४।।
न शूर्पकूर्मसंस्थानां शक्तिहीनां तथैव च।।
सम्पूर्यमाणां कृमिभिस्तथाधिकमृदं शुभाम् ।। ५ ।।
गर्भे च कुसुमं यस्यां न म्लानिमुपगच्छति ।।
न निर्वाणमवाप्नोति यस्यां दीपश्च भार्गव ।। ६ ।।
उदकं च तथा यस्यां शीघ्रं राम न जीर्यते ।।
सा प्रशस्ता क्षितिस्तस्यां निवेशं कारयेद्बुधः ।। ७ ।।
श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम्।।
विप्रादीनां प्रशस्ता स्यान्मृत्तिका च ततो द्विज ।।८।।
घृतासृगन्नमद्यानां तुल्यगन्धा तथैव च ।।
मधुरा च कषाया च अम्लोषणरसा तथा ।।९।।
कुशैः शरैस्तथा काशैर्दूर्वाभिर्या च सम्भृता ।।
परीक्ष्य यत्नतो भूमिं तिथिनक्षत्रसम्पदा ।।१०।।
सम्पूज्य ब्राह्मणान्पूर्वं निश्शल्यां तां तु कारयेत्।।
खातपूर्वां ततः कृत्वा देवभागांश्च कल्पयेत् ।। ११ ।।
चतुःषष्टिपदं कृत्वा वास्तुपूर्वं यथाविधि ।।
चतुःषष्टिविभागेन कल्पयित्वा समन्ततः ।। ।। १२ ।।
एकैकं तु गृहं तत्र तथैव परिकल्पयेत् ।।
यस्मात्पुरविभागेन द्वारन्यासः प्रकीर्तितः ।। १३ ।।
अतः परं प्रवक्ष्यामि देवभागान्यथाविधि।।
मध्ये चतुष्पदः स्वामी ब्रह्मा शुभचतुर्मुखः ।। १४.।।
प्राक्तथा निग्रहः स्वामी कथितश्च तथार्यमा ।।
दक्षिणेन विवस्वांश्च मित्रः पश्चिमतः स्थितः ।। १५ ।।
उदक्पृथ्वीधरश्चैव विकोणेष्वथ मे शृणु ।।
विकोणे शिवदैवत्ये कामपक्षावुभौ सुरौ ।। १६ ।।
सावित्रीसवितारौ तु तथाग्नेये प्रकीर्तितौ ।।
तथा नैर्ऋतकोणे तु जयेन्द्रौ राम कीर्तितौ ।। १७ ।।
भद्रव्याधी तु वायव्ये कथितौ भृगुनंदन ।।
देवतानां तथैतासां भूयो बाह्ये तु मण्डले ।।१८।।
पूर्वादिषु यथा दिक्षु देवतास्तान्निबोध मे ।।
महेन्द्रश्च रविस्सत्यो भृशः प्राग्राम कीर्तिताः ।। १९ ।।
गृहक्षितो यमो भृङ्गो गन्धर्वश्चैव याम्यतः ।।
भल्लाटश्च तथा सोम अदितिर्धनदस्तथा ।। २० ।।
उत्तरेण स्मृता देवा विकोणेष्वथ मे शृणु ।।
दितिरीशौ मेघजयौ शिवकोणे प्रकीर्तितौ ।। २१ ।।
व्योमाग्नी पूषवितथौ शिखिकोणे च भार्गव ।।
मृगपित्रीशदौवारिसुग्रीवाश्चैव नैर्ऋते ।। २२ ।।
रोगानायुश्च नागश्च मुख्याश्वानिलदिक्स्थिताः ।।
ततोऽपि बाह्यतश्चाष्टौ शृणुष्व गदतो मम ।। २३ ।।
अष्टावष्टौ विनिर्दिष्टा देवा दिक्षु विदिक्षु च ।।
आद्यन्तौ तु तयोर्देवौ प्रोक्तावथ ग्रहेश्वरौ।
पर्जन्यः प्रथमो देवो द्वितीयश्च करग्रहः ।।
महेन्द्ररविसत्याश्च भृशोऽथ गमनस्ततः ।। २५ ।।
पवनश्च महाभागाः पूर्वेणैते प्रकीर्तिताः ।।
पुष्योऽथ त्रितुदश्चैव तथैव च ग्रहर्क्षतः ।। २६ ।।
यमो भृशश्च गन्धर्वो मृगोऽथ पितरस्तथा ।।
दक्षिणेन विनिर्दिष्टा देवा भृगुकुलोद्वह ।। २७ ।।
दौवारिकश्च सुग्रीवः पुष्पदंतस्तथा सुरः ।।
वरुणस्तु तथा यक्षो रोगः शोषस्तथैव च ।। २८ ।।
पश्चिमेन विनिर्दिष्टा देवा दानवनाशनाः ।।
नागराजस्तथा मुख्यो भल्लाटश्च तथा शशी ।। २९ ।।
अदितिश्च कुबेरश्च नागश्चाथ हुताशनः ।।
एते देवा विनिर्दिष्टास्तथा चोत्तरतो द्विज ।। ३० ।।
एतेषामेव देवानां भागे द्वाराणि कारयेत् ।।
शुभानि तेषु वक्ष्यामि शेषाणि परिवर्जयेत् ।। ३१ ।।
महेन्द्रसोमदैवत्यौ पूर्वतः शुभदौ स्मृतौ ।।
गृहर्क्षतश्च पुष्पश्च तथा दक्षिणतः शुभौ ।। ३२ ।।
सुग्रीवः पुष्पदन्तश्च शुभौ पश्चिमतो द्विज ।।
भल्लाटः सोमदेवश्च द्वारे श्रेष्ठौ तथा ह्युदक् ।।३३।।
द्वात्रिंशच्च बहिर्देवास्तथान्तर्द्वादश स्मृताः ।।
मध्ये ब्रह्मा तथा प्रोक्त एवं ते पिण्डदेवताः ।। ३४ ।।
चत्वारिंशद्विनिर्दिष्टास्तथा पञ्च च भार्गव ।।
विन्यस्याजिरमेवादौ चतुष्षष्टिपदं द्विज ।। ३५ ।।
तत्र देवविभागेन गृहकर्म विधीयते ।।
चन्द्रसुग्रीवपर्जन्यसत्येन्द्रार्यमवारुणे ।। ३६ ।।
भगवत्संग्रहं कुर्याद्यथासंस्थानतो द्विज ।।
सूर्यान्तरिक्षसत्याग्निभागेषु च महानसम् ।। ३७ ।।
वाय्वन्तरिक्षसुग्रीवभल्लाटपितृदैवते ।।
गंधर्वपुष्पदन्ताख्ये भागे कूपं तु कारयेत् ।। ३८ ।।
एकवृक्षाधिकं तत्र तथा कुर्याद्द्विजोत्तम ।।
अथवा दिग्विभागेन गृहकर्म विधीयते ।। ३९ ।।
ऐशान्यां देवतावेश्म तथाग्नेय्यां महानसम् ।।
अग्न्यागारं च तत्रैव भ्रमं नैर्ऋतके तथा ।। ४० ।।
कोष्ठागारायुधागारौ वायव्यां च तथा स्मृतौ ।।
कूपादिस्थोदकं शस्तं दिक्षु चैवोत्तरासु च ।। ४१ ।।
अन्यासु गर्हितं राम प्रयत्नेन विवर्जयेत् ।।
पुराणं नवमिश्रं तु दारुवेश्मनि वर्जयेत् ।। ४२ ।।
सकुड्यं परकुड्यं च नैव कार्यं विजानता ।।
विनार्कचन्द्रग्रहणं द्वारसम्परिवर्तनम् ।। ४३ ।।
वृद्धिक्षयौ न कर्तव्यौ भूयः कर्मणि वेश्मनः ।।
प्रागुत्तरेऽथवा कार्यौ ब्राह्मणानुमते तथा ।।
ब्रह्मस्थानं शुचिर्नित्यं कार्यं भवति भार्गव ।। ४४ ।।
न पीडनीयं च तथा नागदन्तादिभिर्भवेत् ।।
मर्माणि राम जानीयाद्देवतापदसन्धिषु ।। ४५ ।।
न पीडयेत्तथा तानि नागदन्तादिभिर्द्विज ।।
ये द्रुमा वटसंसिक्तास्तथा ये च सकोटराः ।।४६ ।।
हस्तिविद्युद्धता ये च देवतावेश्मजाश्च ये ।।
वह्निस्पृष्टाः श्मशाने च ये च जाताश्चतुष्पथे।।४७।।
रोकवृक्षाश्च ये केचिन्न ते शस्ताः कथञ्चन ।।
वृक्षस्य महतीं पूजां कृत्वा तद्वासकस्य च ।। ४८ ।।
मध्वाज्यदिग्धेन तथा छिन्द्यात्परशुना द्विजः ।।
पूर्वोत्तरेण पतनं प्रशस्तं परिकीर्तितम् ।।४९।।
शेषासु पतनं दिक्षु गर्हितं द्विजसत्तम ।।
वटाश्वत्थौ च निर्गुण्डी कोविदारविभीतकौ ।।५० ।।
पुष्यकं शाल्मलिश्चैव पलाशं च विवर्जयेत ।।
विस्तारद्द्विगुणोच्छ्रायं द्वारं कार्यं तथा गृहे।।५१ ।।
निधिप्रथमको नागहंससारसचित्रितम् ।।
द्वारको नेत्रमद्वाभ्र चतुष्पथसुरालयैः।।५२।।
कूपैकवृक्षरथ्याभिर्विद्धं द्वारं विवर्जयेत्।।
द्विगुणात्तु गृहोच्छायाद्भूमिं त्यक्त्वा न दोषभाक्।।५३।।
आध्मातं सकटं राम तथाम्बुप्लवि यद्भवेत्।।
द्वारं न तत्प्रशंसन्ति तस्मात्तु परिवर्जयेत्।।५४।।
पुरद्वाराधिकं श्रीदं भागेषु च तथा भ्रमम्।।
धनदस्य तथा भागैर्धनवेश्म विधीयते।।५५।।
इन्द्रसत्येन्द्रसुग्रीवद्वारमन्यत्र कारयेत् ।।
स्तम्भं तु नवधा कृत्वा पीठे भागं तु कारयेत् ।। ५६ ।।
भागे कुम्भस्तथा कार्यो भागे पद्मं निवेशयेत् ।।
स्तम्भं भागत्रये कार्यमष्टास्रमथ वर्तुलम् ।। ५७ ।।
तस्योपरि तथा भागे भवत्यामलसारकम् ।।
भागदोषे तुला कार्या भागे कार्या तथा तुला ।। ५८ ।।
एकशालचतुश्शालौ कर्तव्यौ स्वेच्छया सदा ।।
पूर्वोत्तराभिः शालाभिर्हीनं कार्यं द्विशालकम् ।। ५५ ।।
अन्यथा गर्हितं राम सुतार्थक्षयदं मतम् ।।
अष्टहस्तोच्छ्रयादूर्ध्वं भूमिकां तु न कारयेत् ।। ६० ।।
वास्तूच्छ्रायं न कर्तव्यं तथा हस्तशताधिकम् ।।
आरम्भं सशिलान्यासं द्वारस्तम्भोच्छ्रयावुभौ ।। ६१ ।।
तथारोहणनिष्पत्ती तथा वास्तुप्रवेशनम् ।।
सर्वाण्येतानि कार्याणि दिवसे राम पूजिते ।।६२।।
शेषेष्वेतेषु कर्तव्यं देवब्राह्मणपूजनम् ।।
कालज्ञपूजनं चैव स्थपतीनां च भार्गव ।। ६३ ।।
प्रावृट्काले न कर्तव्यं वास्तुकर्म विजानता।।
कृष्णपक्षत्रिभागान्ते शुक्लाद्ये च भृगूत्तम ।। ६४ ।।
तिथिं चतुर्थी नवमीं वर्जयेच्च चतुर्दशीम् ।।
अङ्गारकदिनं राम करणं विष्टिसंज्ञितम् ।। ६५ ।।
दिव्यान्तरिक्षक्षितिजैरुत्पातैर्भं च पीडितम् ।।
ग्रहोपस्पृष्टं च तथा व्यतीपातहतं च यत् ।। ६६ ।।
चन्द्रतारानुकूले भे वास्तुकार्यं विजानता ।।
ध्रुवाणि तानि शस्तानि शाक्रं वै नैर्ऋतं तथा ।।६७।।
सौम्यं च वैष्णवं पुष्यं पौष्णं सावित्रमेव च ।।
स्थिरलग्ने स्थिरांशे च कर्तुश्चोपचयात्मके ।।६८ ।।
यस्य सौम्यग्रहाः केन्द्रे त्रिकोणे चापि भार्गव ।।
पापाश्चोपचयस्थाने तस्मिन्कार्यं प्रवेशनम् ।। ६९ ।।
केन्द्रस्थं वर्जयेत्पापं सर्वयत्नेन कर्मसु ।।
केन्द्रं सौम्ययुतं देवं न तु शून्यं कदाचन ।। ७० ।।
अतः परं प्रवक्ष्यामि शिलान्यासविधिं तव ।।
चतुःषष्टिपदं कृत्वा समे स्थाने तु मण्डलम् ।।७१।।
कृत्वा तु देवतान्यासं तत्र मण्डलके द्विज ।।
श्रियः सम्पूजनं कृत्वा वासुदेवस्य चाप्यथ ।। ७२ ।।
पूजनं मण्डले कार्यं वास्तुदेवगणस्य च ।।
गन्धार्धपुष्प नैवेद्यधूपदीपैर्भृगूत्तम ।। ७३ ।।
तेषां सम्पूजनं कृत्वा समादाय हुताशनम् ।।
ओंकारपूर्वमाज्यं तु जुहुयाच्छ्रीधरस्य तु ।। ७४ ।।
श्रियः कृत्वा ततो होमं ब्रह्मणः कारयेत्ततः ।।
ब्रह्माणं तु पुरस्कृत्य वास्तुदेवगणस्य च ।। ७५ ।।
होतव्यमाज्यं धर्मज्ञ यस्य देवस्य हूयते ।।
तत्कालमाशु भजते लक्षणेग्नौ द्विजोत्तम ।। ७६ ।।
तस्य देवस्य यत्स्थानं तत्र शल्यं विनिर्दिशेत् ।।
शल्यस्योद्धरणं कार्यं राम यत्नेन जानता ।। ७७ ।।
मध्ये शैलमयं कुम्भं शंकुं च स्थापयेद्बुधः ।।
ऐशाने च ततः कोणे शिलां पूर्वं प्रतिष्ठयेत् ।। ७८ ।।
प्रदक्षिणं ततो राम शिलान्यासं विधीयते ।।
कुम्भस्य च शिलानां च ततः स्नानं विधीयते ।।७९।।
वटाश्वत्थकषायेण सर्वौषधिजलैस्ततः ।।
ततोऽनुलेपनं कार्यं चन्दनेन सुगन्धिना ।।८०।।
आच्छादनं ततः कार्यं वासोभिः कुसुमैः शुभैः ।।
धूपं प्रदीपं नैवेद्यं तेषां राम निवेदयेत् ।। ८१ ।।
दक्षिणाभिर्द्विजेन्द्राणां ततः पूजा विधीयते ।।
कालवित्स्थपती पूज्यौ ततो राम विजानता ।। ८२ ।।
ततो मन्त्रं जपेत्कर्ता कालज्ञः स्थपतिः स्वयम् ।।
गृहं पुष्टिकरं राम मुनिवक्त्राद्विनिस्सृतम् ।। ८३ ।।
नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह ।।
जये जयावहे देवि प्रजानां जयमावह ।। ८४ ।।
पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुष्व माम ।।
भद्रे कश्यपदायादे कुरु भद्रां मतिं मम ।। ८५ ।।
सर्वबीजसमायुक्ते सर्वरत्नौषधैर्वृते ।।
रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह ।। ८६ ।।
प्रजापतिसुते देवि चतुरग्रे महीमये ।।
सुभगे सुव्रते भद्रे गृहे काश्यपि रम्यताम् ।। ८७ ।।
पूजिते परमाचायैर्गन्धमाल्यैरलंकृते ।।
भवभूतिकरी देवि गृहं भार्गवि रम्यताम् ।। ८८ ।।
अव्यङ्गे चाकृते पूर्णे सुनेत्र्यङ्गिरसः सुते ।।
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कामयाम्यहम् ।। ८९।।
देशस्वामिपुरस्वामिगृहस्वामिगृहे वस ।।
मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव ।। ९० ।।
गृहप्रवेशेऽपि तथा शिलान्याससमो विधिः ।।
कर्तव्यः सकलो राम शिलान्यासविवर्जितः ।। ९१ ।।
पूजितापरलक्ष्मीकं हुत्वाग्निं चाप्यलंकृतम् ।।
पञ्चरङ्गेन सूत्रेण बद्धप्रतिसरं तथा ।। ९२ ।।
सफलेषु च बाणेषु दिशासु विदिशासु च ।।
गवाक्षकेषु कर्तव्याश्चक्रा रक्षोहणास्तथा ।। ९३ ।।
सर्वस्यास्य तथा न्यासं मन्त्रै रक्षोहणैर्भवेत् ।।
गोपृष्ठविन्यस्तकरः प्रविशेच्च गृही गृहम् ।। ९४ ।।
स्वऽनुलिप्तस्सुखी स्रग्वी सपत्नीकस्तथैव च ।।
द्विजपुण्याहघोषेण वीणावेणुरवेण च ।।
बन्दिनां च निनादेन पटहानां स्वनेन च ।। ९५ ।।
काले शुभे कालविदा प्रदिष्टे सतोरणं पूर्णघटाभिरामम् ।।
प्रविश्य कालज्ञसमर्चितानां कृत्वार्चनं तत्र सुरोत्तमानाम् ।। ९६ ।।
सम्पूज्य वह्निं द्विजपुङ्गवांश्च माङ्गल्यमालभ्य च भोजयित्वा ।।
विप्रान्मधुक्षीरघृतोत्कटान्नैः सदक्षिणांस्तांश्च तथा विसर्ज्य ।। ९७ ।।
सप्ताहमग्निं परिचर्य तत्र सम्पूज्य विप्रान्विधिवच्च राम ।।
गृहे वसेत्पूजितदेवविप्रे शुचौ सदा सर्वगुणोपपन्ने ।। ९८ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करकथासु वास्तुविद्यावर्णनन्नामैकोनत्रिंशत्तमोऽध्यायः ।। २९ ।।
2.30
।। पुष्कर उवाच ।। ।।
उत्तरेण शुभः प्लक्षो वटः प्राग्भार्गवोत्तम ।।
उदुम्बरश्च याम्येन सौम्येनाश्वत्थ एव च ।। १ ।।
एते क्रमेण नेष्यन्ति दक्षिणादिसमुद्भवाः ।।
समीपजाताश्च तथा वर्ज्याः कण्टकिनो द्रुमाः ।। २ ।।
वामभागे तथोद्यानं कुर्याद्वासगृहाच्छुभम् ।।
वापयेत्प्राक्तिलांस्तत्र मृन्दीयात्तांश्च पुष्पितान् ।। ३ ।।
ततस्तु रोपयेद्वृक्षान्प्रयतः सुसमाहितः ।।
स्नातो द्रुममथाभ्यर्च्य ब्राह्मणांश्च शिवं तथा ।। ४ ।।
ध्रुवाणि पञ्च वायव्यं हस्तः पुष्यः सवैष्णवः ।।
नक्षत्राणि तथा मूलं शस्यते द्रुमरोपणे ५५।।
उद्यानं सजलं राम नाभिरामं यदा तदा ।।
प्रवेशयेन्न विपट (कुरुहान् )पुष्करिण्यश्च कारयेत् ।। ६ ।।
संस्कार्यमुद्भिदं तोयं कूपाः कार्याः प्रयत्नतः ।।
हस्तं मघा तथा मैत्रं सौम्यं पुष्यं च वासवम् ।। ७ ।।
उत्तरात्रितयं राम तथा पूर्वा च फल्गुनी ।।
जलाशयसमारंभे प्रशस्ते वारुणं तथा ।। ८ ।।
सम्पूज्य वरुणं देवं विष्णुं पर्जन्यमेव च ।।
तर्पयित्वा द्विजान्कामैस्तदारंभकरो भवेत् ।। ९ ।।
अथोद्याने प्रवक्ष्यामि प्रशस्तान्पादपान्द्विज ।।
अरिष्टाशोकपुन्नागशिरीषाम्रप्रियङ्गवः ।। १० ।।
पनसाशोकदचलीजम्बूलकुचदाडिमाः ।।
माङ्गल्याः पूर्वमारामे रोपणीया गृहेषु वा ।। ११ ।।
कृत्वा बहुत्वमेतेषां रोप्यास्सर्वे ह्यनन्तरम् ।।
शाल्मलिं कोविदारं च वर्जयित्वा विभीतकम् ।। १२ ।।
असनं देवदारुं च पलाशं पुष्करं तथा ।।
न विवर्ज्यस्तथा कश्चिद्देवोद्यानेषु जानता ।। १३ ।।
तत्रापि बहुता कार्या माङ्गल्यानां द्विजोत्तम ।।
सायं प्रातस्तु घर्मान्ते शीतकाले दिनान्तरे ।। १४ ।।
वर्षाकाले भुवः शोषे सेक्तव्या रोपिता द्रुमाः ।।
उत्तमं विंशतिर्हस्तं मध्यमं षोडशांतरम् ।। १५ ।।
स्थानात्स्थानान्तरं कार्यं वृक्षाणां द्वादशावरम् ।।
अभ्याशजातास्तरवः संस्पृशन्तः परस्परम् ।। १६ ।।
अव्यक्तमिश्रमूलत्वाद्भवन्ति विफला द्विज ।।
तेषां व्याधिसमुत्पत्तौ शृणु राम चिकित्सितम् ।। १७ ।।
आदौ संशोधनं तेषां किञ्चिच्छस्त्रेण कारयेत् ।।
विडङ्गघृतपङ्काक्तान्सेचयेच्छीतवारिणा ।। १६ ।।
फलनाशे कुलुत्थैश्च माषैर्मुद्गैस्तिलैर्यवेः ।।
श्रितशीतपयस्सेकः फलपुष्पाय सर्वदा ।। ।। १९ ।।
आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च ।।
गोमांसमुदकं चेति सप्तरात्रं निधापयेत् ।। २० ।।
उत्सेकं सर्ववृक्षाणां फलपुष्पादिवृद्धिदम् ।।
रंगतोयोषितं बीजं रंगतोयाभिषेचितम् ।। २१ ।।
उदग्रपुष्पं भवति यौवने नात्र संशयः ।।
मत्स्याम्भसा तु सिक्तेन वृद्धिर्भवति शाखिनाम् ।। २२ ।।
ततः प्रधानतो वक्ष्ये द्रुमाणां दोहदान्यहम् ।।
मत्स्योदकेन शीतेन चाम्राणां सेक इष्यते ।। २३ ।।
मृद्वीकानां तथा कार्यस्तेनैवं रिपुसूदन ।।
पक्वासृग्रुधिरं चैव दाडिमानां प्रशस्यते ।। २४ ।।
तुषं देयं च भव्यानां मद्यं च बकुलद्रुमे ।।
विशेषात्कामिनीवक्त्रसंसर्गात्तु गुणं च यत् ।। २५ ।।
प्रशस्तं चाप्यशोकानां कामिनीपादताडनम् ।।
सृगालमांसतोयं च नारङ्गाक्षोटयोर्हितम् ।। २६ ।।
मधुयष्ट्युदकं चैव बदराणां प्रशस्यते ।।
गन्धोदकं च गोमांसं कतकानां प्रशस्यते।। २७ ।।
क्षीरसेकेन भवति सप्तपर्णो मनोहरः ।।
मांसपूतो वसामज्जासेकः कुरबके हितः ।। २८ ।।
पूतिमत्स्यघृतं पूतिकर्पासाफलमेव च ।।
अरिमेदस्य सेकोऽयं पाटलेषु च शस्यते ।। २९ ।।
कपित्थबिल्वयोः सेकं गुडतोयेन कारयेत् ।।
जातीनां मल्लिकायाश्च गन्धतोयं परं हितम् ।। ३० ।।
तथा कुब्जकजातीनां कूर्ममांसं प्रशस्यते ।।
खर्जूरनारिकेराणां वंशस्य कदलस्य च ।। ३१ ।।
लवणेन सतोयेन सेको वृद्धिकरः स्मृतः ।।
विडङ्गः तण्डुलोपेतं मत्स्यमांसं भृगूत्तम ।।
सर्वेषामविशेषेण दोहदं परिकल्पयेत ।। ३२ ।।
एवङ्कृते चारुपलाशपुष्पाः सुगन्धिनो व्याधिविवर्जिताश्च ।।
भवन्ति नित्यं तरवः सरस्याश्चिरायुषः साधुफलान्विताश्च ।। ३३ ।। ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे वृक्षायुर्वेदवर्णनं नाम त्रिंशत्तमोऽध्यायः ।। ३० ।।