विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः २४६-२५०
← अध्यायाः २४१-२४५ | विष्णुधर्मोत्तरपुराणम् अध्यायाः २४६-२५० वेदव्यासः |
अध्यायाः २५१-२५५ → |
1.246
राम उवाच ।।
ततस्तु शैशिरे प्राप्ते काले तपनवल्लभे ।।
हिमालीपटलच्छन्नदुर्विभाव्यदिशामुखे ।।१।।
सुपक्वमातुलुङ्गाढ्यवनराजिसुगन्धिनि ।।
प्रफुल्लवृत्तकुसुमचारुरागोज्ज्वलत्विषि ।। २ ।।
हिमप्रयातसञ्जातसर्वरत्नतृणोल्बणे।।
अत्यर्थशीतकुसुमे कुङ्कुमागुरुवल्लभे।।३।।
कामिन्यः कुङ्कुमार्द्राङ्ग्यः पीनोन्नवपयोधराः ।।
आलिङ्गनेन कान्तानां यत्र शीतभयापहाः ।।४।।
पुष्पितैरतसीवाटैर्नीलनीरजनिर्मलैः ।।
पूर्णतोयाशयाशङ्का जायते सुधियामपि ।।५।।
माध्यकुन्दकपुष्पाढ्या वनराज्यो मनोहराः ।।
सुशीर्णपर्णसरलानमेरुकविभूषणाः ।।६।।
संत्यक्त्वा दक्षिणामाशां व्रजमाने तथोत्तराम ।।
सूर्ये मुमोच पवनं निःश्वाममिव दक्षिणा।।७।।
रम्याश्च गंधमंजर्यः शोभयन्ति वनस्थलीः ।।
मन्मथस्य शराः कांता कामिमन्मथवर्धनाः ।। ८ ।।
हयानां मधुरः शब्दः श्रूयते दशनोद्भवः ।।
शब्दो यवभुजां यत्र स्वामिनां रतिवर्धनः ।। ९ ।।
निर्मलानां तु सरसां विनिविष्टा जलेचराः ।।
ब्रुवन्तौ मधुरं पांथा जनयन्ति परां मुदम्।।1.246.१ ०।।
जनयन्ति परां प्रीतिं कामिनीनां तु कामुकाः ।।
यत्र मेध्यैर्नवैर्वत्स मातुलुङ्गाधिवासितैः ।। ११ ।।
वापीकूपतडागेषु ह्रदप्रस्रवणेषु च ।।
यत्र काले रटन्त्यापः कम्पयन्त्यः पुरीं महत् ।। १२ ।।
तस्मिंस्त्वं शिशिरे काले कृत्वा गृहवरे स्वके ।।
प्रावेशयतु विधिना शिल्पिभिर्यन्त्र निर्मितैः ।। १३ ।।
धर्मेण पालयन्क्षोणीं वस राजीवलोचन ।।
हृदि कार्यस्त्वया धर्मो नित्यमेव नरोत्तम ।। १४ ।।
उत्तिष्ठ शीघ्रं विजयाय गच्छ दीप्तां श्रियं प्राप्नुहि राजपुत्र ।।
रक्षन्तु देवास्तव सर्वकालं पदं विधत्स्वारिगणस्य मूर्ध्नि ।। १५ ।। ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु शत्रुघ्नं प्रति रामानुशासने लवणं प्रति शत्रुघ्नप्रस्थानं नाम षट्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ।। २४६ ।।
1.247
।। नाडायन उवाच ।। ।।
इति रामवचः श्रुत्वा बाढमुक्त्वा स सत्वरः ।।
अभिवाद्य वसिष्ठस्य पादौ रामस्य चाप्यथ ।। १ ।।
पुरस्कृत्य महाभागान्भार्गवप्रमुखानृषीन् ।।
यथोक्तसेन्यानुगतः प्रययौ भीमविक्रमः ।। २ ।।
वाल्मीकेराश्रमं प्राप्य तामुवास तदा निशाम् ।।
पूजयित्वा तु वाल्मीकिमृषिणा प्रतिपूजितः ।। ३ ।।
यस्मिन्नहनि शत्रुघ्नो वाल्मीकेराश्रमं गतः ।।
उभौ प्रसूतौ तनयौ तस्मिन्नेवाह्नि जानकी ।। ४ ।।
सीताप्रसवसंहृष्टः क्रमेण रघुनन्दनः ।।
निदाघशेषेण नदीमुत्ततार स सूर्यजाम् ।। ५ ।।
शिबिरं समवस्थाप्य यथावद्यमुनातटे ।।
एक एव धनुष्पाणिः प्रविवेश मधोर्वनम् ।। ।। ६ ।।
प्रविश्य च युधा तत्र लवणस्य निवेशनम् ।।
तस्थौ द्वारमथाश्रित्य वीरो विततकार्मुकः ।। ७ ।।
एतस्मिन्नेव काले तु मृगान्हत्वा सहस्रशः ।।
बहुना मृगभारेण स ददर्श मधोः सुतम् ।। ८ ।।
वृत्ताक्षमुत्कटं भीमं दन्तोत्कृत्तोत्तरच्छदम् ।।
दंष्ट्राकरालवदनं दंतिवत्परुषच्छविम् ।। ९ ।।
स तु दृष्ट्वैव शत्रुघ्नमुवाच परुषं बहु ।।
विप्रधावत दुष्टात्मा शत्रुघ्नवधकाम्यया ।। 1.247.१० ।।
त्यक्त्वा मृगसहस्राणि द्रुमविक्षेपतत्परः ।।
द्रुमवृष्टिं सुघोरां तां लवणेन विसर्जिताम् ।। ११ ।।
चिच्छेद बाणैः सौमित्रिः शतशोऽथ सहस्रशः ।।
छिन्ने द्रुममहावर्षे लवणः शत्रुतापनः ।। १२ ।।
जघान सुरशत्रुघ्नं शत्रुघ्नं मुष्टिना भृशम् ।।
मुष्टिप्रहारनिश्चेष्टं शत्रुघ्नं लवणस्तदा ।। १३ ।।
न जग्राह च तच्छूलं मृत्युपाशवशङ्गतः ।।
प्रवेशयामास गृहं मृगसंघाननेकशः ।। १४ ।।
एतस्मिन्नेव काले तु लब्धसंज्ञः स राघवः ।।
वितत्य कार्मुकं तस्थौ द्वारमावृत्य वेश्मनः ।। १५ ।।
ततः पादपवर्षेण च्छादयन्तं निशाचरम् ।।
चकार विमुखं बाणैश्छित्त्वाश्छित्त्वा महीरुहान् ।। १६ ।।
रामदत्तं ततो बाणं सन्धाय वरकार्मुके ।।
निर्बिभेद महातेजा लवणं रघुनन्दनः ।।१७।।
सन्धीयमाने बाणे तु त्रस्तं त्रिभुवनं तदा ।।
आश्वासयामास विभुर्ब्रह्मा कमलसम्भवः ।।१८।।
तेन बाणप्रहारेण निर्भिन्नहृदयः क्षितौ ।।
व्यसुः पपात मेदिन्यां शैलो वज्राहतो यथा ।। १९ ।।
तस्मिन्निपतिते भूमौ दैत्ये देवभयङ्करे ।।
त्रैलोक्यं विगतातङ्कं क्षणेन समपद्यत ।। 1.247.२० ।।
तं च देशमथाजग्मुः सुराः सब्रह्मकास्तदा ।।
पूजितास्तेन वीरेण शत्रुघ्नं वाक्यमब्रुवन् ।। २१ ।।
।। देवा ऊचुः ।।
वरं वरय शत्रुघ्न यत्ते मनसि कांक्षितम् ।।
अपनीतं त्वयास्माकं भयं शूलवरायुधात् ।। २२ ।।
त्वया तु निहते तस्मिँल्लवणे पापराक्षसे ।।
पश्य शूलवरं यांतमेनं शार्वं विहायसा ।। २३ ।।
।। शत्रुघ्न उवाच ।। ।।
अस्मिन्देशे करिष्यामि पुरीं रामाज्ञया त्वहम् ।।
मासे समाप्यतां शीघ्रं वरमेतत्प्रदीयताम् ।। २४ ।।
।। देवा ऊचुः ।। ।।
निष्पत्तिं यास्यते धीर स्थिरा चैव भविष्यति ।।
पुण्या च रमणीया च मथुरा नामतः शुभा ।। २५ ।।
।। नाडायन उवाच ।। ।।
एवमुक्त्वा सुराः सर्वे जग्मुर्नाकमतंद्रिताः ।।
आजगाम स तं देशं सैन्येन च्यवनः सह ।। २६ ।।
संवर्द्धयित्वा शत्रुघ्नं जगामाश्रममंजसा ।।
सर्वं रामवचश्चक्रे शत्रुघ्नोऽपि महायशाः ।। २७ ।।
कृत्वा पुरीनिवेशं च गृहप्रावेशनं तथा ।।
उषित्वा द्वादश समाः सम्प्राप्ते सुरकर्मणि ।। २८ ।।
जगाम भ्रातरं द्रष्टुं वाल्मीकेराश्रमं पुनः ।।
तत्र शुश्राव धर्मात्मा शुभां रामकथां कृताम् ।। २९ ।।
वाल्मीकिना प्रहृष्टेन गीयमानां कुशीलवैः ।।
तत्रोष्य रजनीमेकां रामं दृष्ट्वा तथैव च ।। 1.247.३० ।।
तत्रोष्य पञ्चरात्रं च भूयो रामविसर्जितः ।।
मथुरायां च वसुधां पालयामास धर्मवित् ।। ३१ ।।
एवंविधः स शत्रुघ्नो भरतोऽप्यधिकस्ततः ।।
मा तेन विग्रहं गच्छ भरतेन महात्मना ।।
अजेया रघवो येषां सहाया वानरोत्तमाः ।।३२।।
सुग्रीवनीलाङ्गदवायुपुत्रसुषेणमैन्दद्विविदप्रधानाः ।।
महाबलाः पर्वतमात्रकायाः सुरासुरैर्युद्धगता अजेयाः ।। ।। ३३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु लवणवधो नाम सप्तचत्वारिंशदुत्तरद्विशततमोऽ ध्यायः ।। २४७ ।।
1.248
।। शैलूष उवाच ।। ।।
पुलहस्य प्रजासर्गं श्रोतुमिच्छामि तत्त्वतः ।।
यस्य वंशे समुत्पन्ना वानरा बलदर्पिताः ।। १ ।।
नाडायन उवाच ।। ।।
मृगा च मृगमंदा च हरिस्ताम्रा तथा इरा ।।
भूता च कपिशा दंष्ट्री सुरसा सरमा तथा।।२।।
कश्यपो जनयामास क्रोधात्तु दश कन्यकाः ।।
कश्यपेन च ता दत्ताः पुलहाय महात्मने ।। ३ ।।
प्रजास्तासां प्रवक्ष्यामि सर्वासां त्वं निबोध मे ।।
मृगायास्तु मृगा जाता हरिणैणाः शशास्तथा।। ४ ।।
रुरव पृषतश्चैव न्यङ्कवः शशकास्तथा ।।
सृमरा मृगमंदाया गवया महिषास्तथा।।५।।
चमरोष्ट्रवराहाश्च खड्गा गौरखरास्तथा ।।
हर्याश्च वानरा जाता गोलाङ्गूला सकिन्नराः ।। ६ ।।
मण्डूका नकुलाश्चैव ये चाप्यन्ये बिलेशयाः ।।
पञ्च कन्याश्च ताम्रायाः पत्न्यस्ता वरुणस्य च ।। ७ ।।
प्रादाद्धर्मभृतां श्रेष्ठः पुलहस्तपसां निधिः ।।
श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा ।। ८ ।।
श्येनी तु जनयामास पुत्रं संपातिनं तथा ।।
जटायुषं च राजानं गृध्राणां बलदर्पितम् ।। ९ ।।
संपाती जनयामास श्येनगृध्रवटांस्तथा ।।
भासीपुत्राः स्मृता भाणाः क्रौञ्चाः क्रौञ्चीसुताः स्मृताः ।। 1.248.१० ।।
धृतराष्ट्रीसुता हंसा धार्त्तराष्ट्रास्तथैव च ।।
चक्रवाकमुखाश्चान्ये तथा ये जलचारिणः ।। ११ ।।
शुकीपुत्राः शुका ज्ञेयाः पक्षिणश्चापि कीर्तिताः ।।
कश्यपस्य तु या पत्नी इरा नाम प्रकीर्तिता ।। १२ ।।
कुञ्जरं जनयामास सुरकार्योद्यतं सदा ।।
भूतापुत्रास्तथा भूता महादेवमनुव्रताः ।। १३ ।।
उपवीरोलूखलिका आस्यकर्णा कुषण्डिका ।।
पांसवः पाणिपात्राश्च चैतन्यानि पुनस्तथा ।। १४ ।।
सूचीमुखा शोषणिकाः कुलान्येतानि षोडश ।।
कुलेष्वेतेपु जायन्ते नानाकारविचेष्टिताः ।। ३५।।
निष्कुटेषु प्रतोलीषु चत्वरेषु गुहासु च ।।
तेषां प्रादात्तदा स्थानमन्तर्धानं प्रतापिताः ।। १६ ।।
अणिमा लघिमा प्राप्तिर्यत्र कामावसायिता ।।
दंष्ट्रीपुत्रास्तथालोके दंष्ट्रिणो ये प्रकीर्तिताः ।। १७ ।।
सरमायास्तथा सर्पाः कीटजात्यश्च सर्वशः ।।
श्यामश्च धवलश्चैव सारमेयौ तथा शुनौ ।। १८ ।।
यमस्यानुचरौ तौ च महाबलपराक्रमौ ।।
इति क्रोधादुहितॄणां प्रजातिः कीर्तिता मया।। १९ ।।
कश्यपस्य तु या पत्नी सुरभिर्नाम विश्रुता ।।
कनीयसं तु शूद्राणां तस्यासीद्दुहितृद्वयम् ।। 1.248.२० ।।
रोहिणी चैव भद्रं ते गन्धर्वी च महीपते ।।
पुलहायैव ते दत्ते कश्यपेन महात्मना ।। २१ ।।
सुरुपा हेमरूपा च सर्वकामदुघा तथा ।।
रोहिण्यां जनयामास पुलहः स महातपाः ।। २२ ।।
ब्रह्मचर्यव्रतास्तास्तु धेनवो दश कीर्तिताः ।।
मानसी तु प्रजा तासां यथासंख्येन मे शृणु ।। २३ ।।
गावश्चैव महिष्यश्च अजाश्चैवावयस्तथा ।।
गन्धर्वी जनयामास तुरगान्वातरंहसः ।। २४ ।।
गरुडी च मयूरी च द्वे तु कन्ये मनोरमे ।।
पुलहेन तु ते दत्ते गरुडाय महात्मने ।। २५ ।।
गरुडी जनयामास सुपर्णान्भीमविक्रमान् ।।
मयूरी जनयामास मयूराद्यान्विहङ्गमान् ।। २६ ।।
गरुडान्वयसम्भूताः सर्वे पन्नगभोजिनः ।।
पक्षिणस्तु वया ज्ञेयाः सुपर्णान्गरुडाञ्छृणु ।। २७ ।।
सुवर्णचूडो नागश्च दारुणश्चूडतुण्डकः ।।
अनिलश्चानलश्चैव विशालाक्षोऽथ कुण्डली ।। २८ ।।
कर्कशो ध्वजविष्कम्भी विनतो वामनस्तथा ।।
वातवेगो दिशाचक्षु र्निमिषोऽनिमिषस्तथा ।। २९ ।।
त्रिवारः सप्तवारश्च वाल्मीकिर्विपुकिस्तथा ।।
दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेतनः ।। 1.248.३० ।।
सुमुखश्चित्रकेतुश्च चित्रबर्हस्तथानघ ।।
मेघः सत्कुमुदो दक्षः सर्वभुक्सामभोजनः ।। ३१ ।।
गुरुभारः कपोतश्च पूर्वनेत्रश्चिरातकः ।।
विष्णुगन्धाः कुमारश्च परिबर्हो हरस्तथा ।। ३२ ।।
अश्वाम्बरो मधुपर्कश्च हेमवर्णस्तथैव च ।।
मलयो मातरिश्वा च निशाकरदिवाकरौ।। ३३ ।।
एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः ।।
कुलमेतत्सुपर्णानां धन्यानां नृपसत्तम ।। ३४ ।।
सर्व एते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः ।।
कुलमेतद्धि शैलूष श्लाध्यं विष्णुपरिग्रहम् ।। ३५ ।।
दैवतं विष्णुरेतेषां विष्णुरेव परायणम् ।।
हृदि येषां सदा विष्णुर्विष्णुर्येषां परा गतिः ।। ।। ३६ ।।
एतत्तवोक्तं पुलहस्य वंशं पुत्रैः सुताभिश्च समन्वितं यत् ।।
वंशे तु सर्वोत्तमवीर्ययुक्ता जाता खगेन्द्रा हरयश्च वीराः ।। ३७ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु पुलहवंशानुकीर्तनं नामाष्टचत्वारिंशदु त्तरद्विशततमोऽध्यायः ।। २४८ ।।
1.249
।। वज्र उवाच ।।
कथाप्रसङ्गैर्बहुभिर्भवता मम कीर्तितम् ।।
सम्भवं सर्वभूतानां सर्वकल्मषनाशनम् ।।१।।
तेषां विकारेष्वाचक्ष्व राजानो मम भार्गव ।।
पालयन्ति द्विजश्रेष्ठ सकलं ये जगत्त्रयम् ।। २ ।।
मार्कण्डेय उवाच ।।
एवं प्रजासु सृष्टासु स्वयमेव पितामहः ।।
निकायेषुनिकायेषु सोऽभ्यषिंचत पार्थिवान् ।। ३ ।।
ओषधीनां द्विजातीनां नक्षत्राणां तथैव च ।।
यज्ञानां तपसां चैव सोमं राज्ये ऽभिषेचयत्।।४।।
प्रजापतीनां सर्वेषां दक्षं प्राचेतसं यथा ।।
वलीमुखानां श्वेतानामृक्षाणां धूम्र एव च।।५।।
मनः सर्वेन्द्रियाणां च सुरस्त्रीणां च मन्मथम् ।।
प्रह्लादं सर्वदैत्यानां पितॄणां च तथा यमम्।।६।।
अपां तु वरुणं राज्ये तथैव जलवासिनाम ।।
यक्षाणां राक्षसानां च पार्थिवानां धनस्य च।।७।।
पुत्रं विश्रवसो ज्येष्ठं कुबेरं नरवाहनम्।।
विप्रचित्तिं च राजानं दानवानां महाबलम्।।८।।
सर्वभूतपिशाचानां गिरीशं शूलपाणिनम्।।
शैलानां हिमवन्तं च निम्नगानां च लावणम् ।।९।।
भारतं सर्ववर्षाणां द्वीपानामथ मध्यमम् ।।
स्वादूदकं समुद्राणामश्वत्थं सर्वशाखिनाम् ।। 1.249.१० ।।
कर्मणां व्यवसायं च मेरुं सर्वशिलाभृताम् ।।
गन्धर्वाणां चित्ररथं गरुडं च पतत्रिणाम् ।। ११ ।।
उच्चैःश्रवसमश्वानां गोवृषं च तथा गवाम् ।।
सुवर्णं सर्वरत्नानामोषधीनां तथा यवम् ।। १२ ।।
सत्यलोकं च लोकानां पातालानां रसातलम् ।।
शास्त्राणां च यजुर्वेदं सर्वेषामविशेषतः ।। १३ ।।
गायत्रीं सर्वमन्त्राणां छन्दसां च यदूत्तम ।।
मृगाणामथ शार्दूलं पन्नगानाञ्च तक्षकम् ।। १४ ।।
ऐरावतं गजेन्द्राणां धर्मं सर्वसुखस्य च ।।
वासुकिं सर्वनागानामृषीणां च तथा भृगुम् ।। १५ ।।
विद्याधराणां सर्वेषां तथा देवीं सरस्वतीम् ।।
उत्पातानां तथा राहुं ग्रहाणां च दिवाकरम् ।। १६ ।।
कालस्यावयवञ्चैव कालं संवत्सरं तथा ।।
व्याधीनां च ज्वरं राज्ये नृणामर्कनिशाकरौ ।। १७ ।।
अभिषिक्तो नरेन्द्रेन्द्र ब्रह्मणा स्वयमेव हि ।।
भारतेऽस्मिन्पुरा वर्षे प्राप्ते वैवस्वतेन्तरे ।। १८ ।।
तस्मादद्यापि च तयोरंशजाताश्च पार्थिवाः ।।
ततोऽभिषिक्तो देवानां राज्ये देवः शतक्रतुः ।।
संभूय राजभिः सर्वैस्त्रैलोक्यपतिरूर्जितः ।। १९।।
वज्र उवाच ।।
राज्येऽभिषिक्तः स कथं महात्मा सम्भूय सर्वैस्त्रिदशारिहर्त्ता ।।
एतन्ममाचक्ष्व भृगुप्रधान भक्तिर्ममेयं त्रिदशेन्द्रशत्रौ।।1.249.२०।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० शैलूषं प्रति नाडायनवाक्ये प्रतिसमूहे राजकीर्तनं नामैकोन ण्ञ्चाशदुत्तरद्विशततमोऽध्यायः ।। २४९ ।।
1.250
।। मार्कण्डेय उवाच ।।
सुमेरौ पर्वतश्रेष्ठे नानारत्नोज्वलत्विषि ।।
प्रजापतिरथादाय राजसंघान्प्रकीर्तितान् ।। १ ।।
अभ्यषिञ्चत देवानां राज्ये कश्यपनन्दनम् ।।
तेजस्विनमथादित्यं जज्ञे निर्धूतकल्मषम् ।। २ ।।
तस्याभिषेके प्रददौ विश्वकर्मा मनोहरम् ।।
रत्नोज्ज्वलं भद्रपीठं कामरूपधरं शुभम्।।०।।
अत्रैवमुपदिश्याथ स्वयं ब्रह्मा जगद्गुरुः ।।
अभ्यषिञ्चत देवानामाधिपत्ये शतक्रतुम् ।।४।।
ब्रह्मा विष्णुश्च शम्भुश्च साध्याश्च समरुद्गणाः।।
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः।। ५ ।।
भृगवोऽङ्गिरसः साध्या अश्विनौ च भिषग्वरौ ।।
ऋषयश्च महाभागास्त्रैकाल्यामलदर्शिनः।।६।।
यानि तोयान्युपादाय समुद्रः सरितस्तथा ।।
सरांसि च सतीर्थानि गन्धर्वाप्सरसस्तथा ।।७।।
तस्येन्दुमण्डलाकारं छत्रं जग्राह केशवः ।।
श्वेतौ च बालव्यजनौ तथा चन्द्रदिवाकरौ ।। ८ ।।
भृङ्गारं यादसां भर्ता दण्डं दण्डधरः प्रभुः ।।
मेनका चैव रंभा च तालवृन्तौ मनोहरौ ।। ९ ।।
विधिवच्च जुहावाग्निं देवाचार्यो बृहस्पतिः ।।
ततस्तस्य ददौ प्रीत्या वाहनार्थे मदोत्कटम् ।। 1.250.१० ।।
ऐरावणं चतुर्दन्तं नागं च पुलहः स्वयम् ।।
पुलहः स्वसुतं प्रादाच्छ्वेतं तुरगमेव च ।। ११ ।।
तुरगाणां सहस्रं च हरीणां वातरंहसाम् ।।
श्रिया दत्तं ततः प्रीत्या रथवाहनमुत्तमम् ।। १२ ।।
तमग्निर्योजयामास काञ्चनेन रथेन च ।।
इन्द्रायुधसवर्णाभिः पताकाभिरनन्तरम् ।। १३ ।।
वायुस्तं योजयामास ध्वजं नागेन शङ्करः ।।
बबन्ध मुकुटं तस्य स्वयं ब्रह्मा जगद्गुरुः ।। १४ ।।
उपानहौ ददौ तस्य विरूपाक्षस्तथानघ ।।
खड्गश्च विमलोदत्तस्तस्य शुक्रेण यादव ।। १५ ।।
चन्दनानि च मुख्यानि गन्धानि विविधानि च ।।
हिमालयः स्वयं तस्य प्रादाल्लोकगुरुर्गुरुः ।। १६ ।।
रत्नानि सुविचित्राणि समुद्रः स्वयमेव हि ।।
ददुश्च ऋतवस्तस्य पुष्पाणि च फलानि च ।। १७ ।।
ननृतुदेवगन्धर्वा जगुश्चाप्सरसां गणाः ।।
हृष्टं प्रमुदितं चासीत्त्रैलोक्यं सचराचरम् ।। १८ ।।
सर्वगन्धानुपादाय सुरभिर्मारुतो ववौ ।।
महता स वरौघेन तर्पयित्वा बृहस्पतिम् ।। १९ ।।
वरौघैस्तर्पयामास सर्वानेव द्विजोत्तमान् ।।
सप्ताहं मानसीं सिद्धिं प्रादात्सर्वेषु जन्तुषु ।। 1.250.२० ।।
व्याधिमृत्युजराशोकविनिवृत्ता जगत्त्रयी ।।
सप्ताहं नरकस्थानां नैव सर्वाश्च यातनाः ।। २१ ।।
सर्वं मुदितमेवासीत्त्रैलोक्यं सचराचरम् ।।
किरीटी स्वनुलिप्ताङ्गः कुण्डलोत्तमभूषितः ।। २२ ।।
कौशेयवसनस्तत्र श्वेतमाल्यविभूषणः ।।
श्रियं दधार सोमस्य श्वेतस्थस्य शतक्रतुः ।। २३ ।।
भद्रासनगतं शक्रं प्रणेमुः सर्वदेवताः ।।
ख्याप्यमानो महाराज तदा देवेन दण्डिना ।। २४ ।।
ऋषयस्तुष्टुवुस्तं च गन्धर्वाप्सरसस्तथा ।।
मङ्गलालंभनं चक्रे ततः शक्रः सुरारिहा ।। २५ ।।
पूर्णकुम्भं सुमनसो रत्नान्याज्यं तथा दधि ।।
फलानि श्रीफलं चैव उद्भृतानि वसुंधरा ।। २६ ।।
स्वस्तिकान्रुचिरांश्चैव नन्द्यावर्तांश्च काञ्चनम् ।।
कांचनोल्लिखिताश्चैव याश्च मुख्याः सरिद्वराः ।। २७ ।।
उदग्दानं तथा दूर्वां दर्पणं चाज्यमेव च ।।
धर्मः सत्यं च शूलं च बलं च यदुनन्दन ।। २८ ।।
उपासन्त महाभागं सशरीराः शतक्रतुम् ।।
कांतिर्लक्ष्मीर्धृतिः श्रद्धा पुष्टिर्मेधा क्रिया मतिः ।। २९ ।।
बुद्धिर्लज्जा वपुः शान्तिरनसूया तथैव च ।।
उपासन्त तदा देवं सर्वराजेश्वरं विभुम ।। 1.250.३० ।।
ततो ववन्दे पितरं मातरं शङ्करं हरिम् ।।
ब्रह्माणं वरदं सौम्यमृषींश्च यदुनन्दन ।। ३१ ।।
ततो रथेन शुक्रेण स तु मातलियंत्रिणा ।।
विनाशयामास रणे देवतानामरातयः ।। ३२ ।।
पालयामास सकलं तथैव च जगत्त्रयम् ।।
शक्राभिषेकमेतत्ते कथितं यदुनन्दन ।। ३३ ।।
श्रोतव्यमभिषेकं तु यात्राकालेषु चाप्यथ ।।।
गृहप्रवेशे वैवाह्ये पुण्याहेषु परेषु च ।। ३४ ।।
एतत्पवित्रं मङ्गल्यं धन्यं श्रुतिसुखावहम् ।।
पाप्मालक्ष्मीप्रशमनं दुःस्वप्नकिल्बिषापहम् ।। ३९ ।।।
पुण्याहकालेषु नरेन्द्रचन्द्र श्रुत्वाभिषेकं बलसूदनस्य ।।
धर्मार्थकामान्पुरुषा लभन्ते व्याधिप्रणाशं च यशस्तथाग्र्यम् ।। ३६ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राभिषेको नाम पञ्चाशदुत्तरद्विशततमोऽध्यायः ।। २५० ।।