सामग्री पर जाएँ

विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः २५१-२५५

विकिस्रोतः तः
← अध्यायाः २४६-२५० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २५१-२५५
वेदव्यासः
अध्यायाः २५६-२६० →

1.251
वज्र उवाच ।।
पुलहस्य प्रजासर्गं श्रुत्वा गन्धर्वराट् तदा ।।
पप्रच्छ किं तदा भूयस्तत्र नाडायनं द्विजम् ।। १ ।।
श्रोत्रामृतं कथयतो नन्दस्यापि तवानघ ।।
त्वं हि ज्ञाननिधिर्विप्रैः प्रोच्यसे वेदपारगैः ।।२।।
मार्कण्डेय उवाच ।।
पुलहस्य प्रजासर्गं श्रुत्वा गन्धर्वसत्तमः ।।
भूयः पप्रच्छ तं विप्रं गजोत्पत्तिं सविस्तराम् ।।३।।
शैलूष उवाच ।।
कुञ्जराणां समुत्पत्तिं श्रोतुमिच्छामि विस्तरात् ।।
कुञ्जरा हि महाभाग भृशं च दयिता मम ।।४।।
नाडायन उवाच ।।
यदा प्रसूता मार्त्तण्डमदितिर्भास्करारणिः ।। ५ ।।
तदा तदण्डमुत्पाद्य दृष्टवान्कश्यपः स्वयम् ।।
तेजोऽधिकत्वादंडस्थं नापश्यत यदा शिशुम् ।। ।। ६।।
उवाच देव्या अण्डेऽस्मिन्किमसौ बालको मृतः ।।
ततः स भासः सकलं तेजसा भासयज्जगत ।।७।।
तेन मार्त्ताण्डताथास्य कथिता द्विज सत्तमैः ।।
ततस्त्वण्डकपाले द्वे गृहीत्वा तु प्रजापतिः।।८।।
पृथक्पृथगवस्थाप्य रथन्तरमगायत ।।
मन्दः प्रवेशयामास इरायास्तौ प्रजेप्सया ।। ९।।
उदरे पुलहान्तेन जनयामास सा गजान् ।।
अष्टौ महावलान्नागांस्तेषां नामानि मे शृणु ।। 1.251.१० ।।
ऐरावणस्तथा पद्मः पुष्पदन्तश्च वामनः ।।
सप्रतीकोञ्जनो नीलः कुमुदश्च मतङ्गजः ।। ११ ।।
शक्राद्यानां दिगीशानां यथासंख्येन वाहनाः ।।
चत्वारो जातयस्तेषामेकैकस्यान्वये स्मृताः ।। १२ ।।
भद्रा मन्दा मृगा चैव संकीर्णा च जनाधिप ।।
भद्रा श्रेष्ठा भवेत्तासां मन्दा मध्या कनीयसी ।। १३ ।।
मृगा ज्ञेया च बाहुल्यात्सं कीर्णा पार्थिवोत्तम ।।
भद्रमन्दमृगाणां च तथा वक्ष्यामि लक्षणम् ।। १४ ।।
संकीर्णानां च संकीर्णं लक्षणं भविता तथा ।।
गूढोष्ठमस्तकः स्वक्षः पृथ्वायतमुखाङ्गुलिः ।।१५।।
उदग्रश्चोग्रसत्त्वश्च समसाध्यो महाकरी ।।
ताम्रताल्वीक्षणः स्निग्धः सहिष्णुः स्वासनस्तथा ।।१६।।
अन्वर्थवेदी बलवान्भद्रो ज्ञेयो मतङ्गजः ।।
गम्भीरवेदी निःशङ्कस्तीक्ष्णसाध्यो महोदरः ।। १७ ।।
दीर्घमेढ्राङ्गुलिश्चैव सुविभक्तशिरोधरः ।।
स्थिरः कचबलस्थूलो दीर्घबालधिपुष्करः ।। १८ ।।
हर्यक्षः सूक्ष्मनाभिश्च मन्दो ज्ञेयो मतङ्गुजः ।।
ह्रस्वः शुष्कवटुहनुर्भीर्रुर्बह्वाशनस्तथा ।। १९ ।।
ह्रस्वोप्तनखी दुर्मेधा यूथस्यानुचरस्तथा ।।
दीर्घजिह्वविषाणश्च दीर्घकक्षासनस्तथा ।। 1.251.२० ।।
क्लेशाक्षमश्च दीर्घाशी मृगो ज्ञेयो मतङ्गजः ।।
संकीर्णलक्षणो नागः संकीर्णश्च निगद्यते ।। २१ ।।
अतः परं प्रवक्ष्यामि गजानां ते वनाष्टकम् ।।
हिमवत्प्रयागलौहित्य गङ्गामध्ये महद्वनम् ।। २२ ।।
प्राच्यामे रावणस्योक्तं वनं यत्र मतङ्गजाः ।।
किञ्चित्कमलवर्णाभाश्चपलाः पृथुमस्तकाः ।। २३ ।।
कुनखा रूपवन्तश्च तथा मन्दमदागजाः ।।
उन्मत्तगङ्गा स्त्रिपुरी दशार्णं मेकलास्तथा ।।२४।।
तेषां मध्ये करूषाख्यं वनं पद्मस्य कीर्तितम् ।।
ह्रस्वाश्चण्डास्तथा श्यामाः शीत्रोदग्रमहास्वनाः।।२५।।
सूक्ष्म बिन्दुचितास्तत्र भवन्त्यत्यर्थवेदिनः।।
बिल्वशैलं वेत्रवती दशार्णं च महागिरिम्।।२६।।
तेषां दशार्णकं मध्ये पुष्पदन्तस्य काननम् ।।
सवृत्तजघनश्या माः सूक्ष्मबिन्दुविचित्रिताः।।२७।।
स्थूलहस्तशिरोग्रीवास्तत्र जाता मतङ्गजाः।।
पारियात्रकवैदेश्यनर्मदाब्रह्मवर्धनम् ।।२८।।
वामनस्य वनं मध्ये तेषां वै मार्गरेयकम्।।
सुप्रमाणाश्च मध्याक्षाः शीघ्रगाश्च सुविग्रहाः।।२९।।
करेणुनामधेयाश्च तत्रोक्ताश्च सुगन्धिनः।।
विन्ध्यसह्योत्कलानां च दक्षिणस्यार्णवस्य च।।1.251.३०।।
वनं च मध्ये कालेशं सुप्रतीकस्य कीर्त्तितम् ।।
चापवंशावृतनखाः पीनह्रस्वशिरोधराः ।। ३१ ।।
तनुत्वगुत्तरा दीर्घाः पद्माभास्तत्र दन्तिनः।।
सेवादेशः समुद्रश्च प्रेमहारं च नर्मदा ।।३२।।
तेषां मध्येञ्जनाख्यस्य वनं खल्वपरान्तकम् ।।
पीनायतविषाणास्या महाकाया बलाधिकाः ।। ।।३३।।
रक्तताल्वोष्ठजिह्वाश्च जायन्ते तत्र दन्तिनः ।।
कुशस्थली महीपाल अवन्त्यर्बुदनर्मदाः।।३४।।
तेषां मध्ये तु सौराष्ट्रं वनं नीलस्य कीर्त्तितम्।।
तस्य वंशे तु जायन्ते चण्डाश्चैवाल्पदेहकाः ।। ३५ ।।
सूक्ष्मरूक्षत्वचो व्यालास्तथा शिक्षात्यजा गजाः ।।
हिमवत्कालिकासिन्धकुरुजाङ्गलमेव च।। ।। ३६ ।।
तेषां पञ्चनदं मध्ये कुमुदस्य महद्वनम् ।।
स्फुटिताग्रद्विजास्तत्र जायन्ते मलविद्विषः ।। ३७ ।।
दानशीलाश्च भूताश्च दुर्विधेयाश्च वारणाः ।।३८।।
एतत्तवोक्तं तु मतङ्गजानां कुलाष्टकं चैव वनाष्टकं च ।।
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ।। ३९ ।।
इति श्री विष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु गजोत्पत्तिर्नामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः ।। २५१ ।।

1.252
शैलूष उवाच ।। ।।
विस्तरेण समाचक्ष्व वानराणां तु संभवम् ।।
अलंकृत इवाभाति यैर्वंशः पुलहस्य च ।। १ ।।
नाडायन उवाच ।।
काश्यपेयी हरिर्नाम या भार्या पुलहस्य च ।।
पुलहाज्जनयामास श्वेतं नाम वलीमुखम् ।। २ ।।
श्वेतस्तदोर्ध्वदृष्टिं च जनयामास वानरम् ।।
ऊर्ध्वदृष्टिस्तथा व्याघ्रं व्याघ्रश्च शरभं तथा।।३।।
शरभश्च तथार्क्षं च सिंहमृक्षश्च वानरम् ।।
ऋक्षी च जनयामास ऋक्षांश्चैव जनाधिप।।४।।
वानरांश्च महाका याञ्शतशोऽथ सहस्रशः ।।
येषामन्वयसम्भूता देवपुत्रा महाबलाः ।।५।।
उत्पन्ना रामसाहाय्ये रावणस्य वधैषिणः ।।
ऋक्षस्य भगिनी ऋक्षी प्रजापतिसुतावुभौ ।। ६ ।।
धूम्रं च जाम्बवन्तं च जनयामास ऋक्षजौ ।।
जाम्बवाञ्जनयामास मार्जारं भीमविक्रमम् ।। ७ ।।
मार्जारस्य च मार्जारा कुले जाता महाबलाः ।।
ऋक्षस्य वानरेन्द्रस्य दुहितां मानसीं स्वयम् ।। ८ ।।
ददौ प्रजापतिः श्रीमान्रूपयौवनसंयुताम् ।।
कामयामास तां शक्रस्ततो वालिरजायत ।। ९ ।।
तामेव कामयामास भास्करः स्वयमेव तु ।।
सुग्रीवं जनयामास भास्करात्सा सुमध्यमा ।। 1.252.१० ।।
तत्र वानरराजोऽभूद्वालिर्विक्रान्तपौरुषः ।।
यस्तु रामेण निहतः सुग्रीवस्त्वभिषेचितः ।। ११ ।।
तस्यासन्वशगाः सर्वे वानरा देवयोनयः ।।
वालिपुत्रोऽङ्गदो नाम हनुमान्वायुनन्दनः ।। १२ ।।
नीलो वह्निसुतः श्रीमान्विश्वकर्मसुतो नलः ।।
धर्मपुत्रः सुषेणश्च ऋषभो गरुडात्मजः ।। १३ ।।
द्वावश्विन सुतौ वीरौ मैन्दो द्विविद एव च ।।
धूम्रश्च जाम्बवांश्चैव वेगदर्शी च वानरः ।। १४ ।।
मृत्योः पुत्रा महावीर्या मृत्युतुल्यपराक्रमाः ।।
गजो गवाक्षो गवयः शरभो गन्धमादनः ।। १५ ।।
यमस्य तनयाः पञ्च गोलांगूला महाबलाः ।।
श्वेतो ज्योतिर्मुखश्चान्यो भास्करस्यात्मजावुभौ ।। १६ ।।
वरुणस्यावरः पुत्रो हेमकूटः प्रतापवान् ।।
देवपुत्रास्तथैवान्ये ऋक्षगोपुच्छवानराः ।। १७ ।।
शतसाहस्रयूथानां राजानो भीमविक्रमाः ।।
हिमवन्मेरुनिलयाः श्वेतनीलनिवासिनः ।। १८ ।।
शृङ्गवन्माल्यवद्विन्ध्यऋक्षवन्तनिवासिनः ।।
ये वसन्ति सदा सह्ये ऋषभे गन्धमादने ।। १९ ।।
सागरानूपपर्यन्ते तथा द्वीपेषु सप्तसु ।।
ब्रह्मण्या बलवन्त शूरा धर्मपरायणाः ।। 1.252.२० ।।
नीतिशास्त्रेषु कुशलाः सर्वशास्त्रविशारदाः ।।
सुनीताः सत्त्ववन्तश्च दृप्ता नीतिग्रहे रताः ।। २१ ।।
सखायो रामभद्रस्य रावणस्य वधैषिणः ।।
हस्तिवानरसंग्रामे पुरा रुधिरकर्दमे ।। २२ ।।
गिरिकूटनिभा नागा विजिता यैः सहस्रशः ।।
सहाया रामभद्रस्य ते वीरा भरतस्य च ।।
मा गच्छ संयुगं तस्माद्भरतेन महात्मना ।। २३ ।।
सर्वास्त्रविज्ञानविशारदेन संग्रामशौण्डेन जितेन्द्रियेण ।।
धर्माच्च रामस्य परायणेन शक्राधिकेन त्वतिपौरुषेण ।। २४ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायन वाक्येषु वानरोत्पत्तिर्नाम द्विपञ्चाशदुत्तरद्विशततमोऽध्यायः ।। २५२ ।।
1.253
।। शैलूष उवाच ।।
किंनिमित्तमभूद्वैरं वानराणां तु कुञ्जरैः ।।
कीदृशं चाभवद्युद्धं तन्ममाचक्ष्व पृच्छतः ।। १ ।।
नाडायन उवाच ।।
वनाष्टकं करीन्द्राणां यन्मयोक्तं पुरा तव ।।
तदुक्तं भारताद्वर्षाद्भागस्य नवमस्य च ।। २ ।।
द्वीपेषु राजन्सर्वेषु वर्षेषु च पृथक्पृथक् ।।
वनेषु निवसन्त्येते करीन्द्रा वानरास्तथा ।। ३ ।।
रक्षन्ति वानरास्तत्र काननेषु च शाखिनः ।।
पातयन्ति द्रुमान्नागा लीलयैव जनाधिप ।। ४ ।।
द्रुमेषु पात्यमानेषु कुञ्जराणां तरस्विनाम् ।।
वानराः कदनं चकुः क्रोधाविष्टाः पुनः पुनः ।। ५ ।।
हन्यमानेषु नागेषु करीन्द्राश्च वलीमुखान् ।।
पातयन्ति महाराज शतशोऽथ सहस्रशः ।। ६ ।।
एवं प्रवृद्धे वैरे तु वानरैः कुञ्जरैस्तथा ।।
राज्ञे निवेदितं गत्वा ऋक्षैरावणयोस्तदा ।।७।।
ततस्तौ पार्थिवौ क्रुद्धौ चक्रतुर्यत्नमुत्तमम् ।।
वानरास्तु महाकाया वीराः परमरंहसः ।।८।।
ऋक्षाश्चैव सगोपुच्छाः किष्किन्धां पुनरागताः ।।
ऐरावणाज्ञां ये नागाः सपक्षाः पर्वतोत्तमाः ।। ९ ।।
प्राच्यां वनमथाजग्मुः सर्वतः पृथिवीपते ।।
बलार्णवावुभौ क्षुब्धौ क्रोधाविष्टौ परस्परम् ।। 1.253.१० ।।
अन्तर्वेदी तदा तौ तु जग्मतुर्बलदर्पितौ ।।
ततः प्रावर्तत रणं घोररूपं भयानकम् ।। ११ ।।
भूमौ चैवान्तरिक्षे च नागानां सह वानरैः ।।
द्रुमप्रहाराभिहताः कुञ्जरा वानरोत्तमैः ।। १२ ।।
पतन्तो गगनाद्भूमिं चालयन्ति मुहुर्मुहुः ।।
खुरेषु वानरं गृह्य द्वौ नागौ गगने तथा ।। १३ ।।
पातयन्ति महाराज भिन्दन्ति दशनैस्तथा ।।
ममन्थुरपरे पादैर्देहेनाताडयँस्तथा ।। १४ ।।
वृक्षान्करैरथोन्मूल्य चुक्षुभुर्येन वानराः ।।
ऐरावणेन निहताः कोटिशस्तत्र वानराः ।। १५ ।।
पद्मेन सुप्रतीकेन वामनेनाञ्जनेन च ।।
कुमुदेन च नीलेन पुष्पदन्तेन चाप्यथ ।। १६ ।।
तेषामन्वयसम्भूतैस्तथैवान्यैश्च कुञ्जरैः ।।
भद्रेण चाथ मन्देन मृगेण च महीपते ।। १७ ।।
भद्रमन्देन मिश्रेण सार्वभौमेन वेधसा ।।
राज्ञा सुमनसा राजंस्तथैव च सुवर्चसा ।। १८ ।।
बलाहकेन मत्तेन भीमेनेन्दीवरेण च ।।
हेमकूटेन कूटेन शंखेन निषधेन च ।। १९ ।।
श्वेतेन राजन्रक्तेन काञ्चनेनांङ्ग सुप्रज ।।
विरूपाक्षेण चोग्रेण षड्दन्तेनासितेन च ।। 1.253.२० ।।
चतुर्दन्तेन यक्षेण रक्षसा भीममालिना ।।
ऋक्षेण वानरेन्द्रेण कोटिशः कुञ्जरा हताः ।। २१ ।।
शरभेण गवाक्षेण तथा कनकबिन्दुना।।
ऋक्षराजेन धूम्रेण तथा जाम्बवता नृप ।।२२ ।।
सुषेणदधिवक्त्राभ्यां तथा केसरिणा रणे ।।
रणचण्डेन वीरेण वानरेन्द्रेण जानुना ।। २३ ।।
तथा शतबलिर्यश्च तेनापि कदनं कृतम् ।।
पनसेन विशालेन गजेन गवयेन च ।।२४।।
हेमकूटेन विभुना भानुरोम्णा निशाभृता ।।
गन्धमादननाम्ना च विजयेन जयेन च ।।२५।।
कुमुदेनाथ पद्मेन कनकाक्षेण शम्भुना ।।
इत्येवं दृश्यमानेषु वानरेषु गजेषु च ।।२६।।
चचाल मेदिनी राजँस्तस्मिन्काले मुहुर्मुहुः ।।
खस्थैर्भूस्थैश्च विक्रान्तैर्वानरैः कुञ्जरैस्तथा ।। २७ ।।
हतैश्च हन्यमानैश्च घोरमायोधनं बभौ ।।
शरीरैर्यत्र संरुद्धा स्रवन्तो रुधिरापगाः ।। २८ ।।
वानराणां गजानां च महाशैलोपमैर्नृप ।।
तस्मिंस्तथाविधे युद्धे गजवानरसंक्षये ।। २९ ।।
आजगामाथ तं देशं स्वयं देवः शतक्रतुः ।।
अभ्येत्य वारयामास वानराँश्चैव कुञ्जरान् ।। 1.253.३० ।।
ततश्च वानराः सर्वे शक्रगौरवयन्त्रिताः ।।
संन्यवर्तन्त संग्रामात्प्रह्वाः प्राञ्जलयः स्थिताः ।। ३१ ।।
त्यक्तयुद्धान्रणे जघ्नुर्वानरान्कुञ्जरांस्तथा ।।
कुद्धस्तेषां महेन्द्रस्तु वज्रेण शतपर्वणा ।। ३२ ।।
पक्षाँश्चिच्छेद नागानां निहता यैर्वलीमुखाः ।।
छिन्नपक्षाँस्तदा नागान्वाहनार्थं महीतले ।। ३३ ।।
प्रददौ लोमपादाय तदाङ्गेशाय पार्थिव ।।
लोमपादोऽपि नृपतिस्तदा तेषां चिकित्सितम् ।। ३४ ।।
शिक्षां स्वस्त्ययनं चैव चक्रे सूत्रनिबन्धनम् ।।
ततः प्रभृति लोकेऽस्मिन्वाहनत्वं गता गजाः ।। ३५ ।।
गुर्विणीभिर्वनस्थाभिः करिणीभिर्जनेश्वर ।।
वने विवर्धिता वंशाः कुञ्जराणां पुनःपुनः ।। ३६ ।।
वनेष्वपि तदा जाता विपक्षाः कुञ्जरोत्तमाः ।।
छिन्नपक्षेषु जातेषु प्रभावेण शतक्रतोः ।। ३७ ।।
वानराश्च जयं लब्ध्वा प्रणिपत्य पुरन्दरम् ।।
स्थानानि जग्मुः स्वान्येव राज्ञा ऋक्षेण पूजिताः ।। ३८ ।।
एवंविधैरभूत्तेषां वानराणां तु कुञ्जरैः ।।
युद्धमासीन्महाघोरं विजिता यत्र कुञ्जराः ।। ३९ ।।
वानराश्च महाभागा वानरेन्द्रप्रमर्दनाः ।।
दैवयोगेन विजिते भरतेऽपि यदृच्छया ।।
क्षिप्रमेवोद्धरिष्यन्ति त्वां समेत्य सबान्धवम् ।। 1.253.४० ।।
तस्मान्न युद्धं मम रोचते ते रघूद्वहेनाप्रतिमेन राजन् ।।
नयात्मना च प्रतिपूरुषेण धर्माभिरामेण जनप्रियेण ।। ४१ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये गजवानरयुद्धवर्णनं नाम त्रिपञ्चाशदुत्तरद्विशततमोऽध्यायः ।। २५३ ।।
1.254
शैलूष उवाच ।।
श्रुतमेतन्मया सर्वं यत्त्वयोक्तं पुनःपुनः ।।
प्रणिपातमहं कर्तुं न शक्तो भरताय तु ।।१।।
उद्यच्छेदेव न नमेदुद्यमश्चैव पौरुषम् ।।
अद्य सर्वनिरुद्योगं न नमे चेह कस्यचित् ।। २ ।।
अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च ।।
अरेर्वा प्रणिपातेन मास्म तेषु मनः कृथाः ।। ३ ।।
आज्ञाफलं यदा राज्यं प्रणिपत्य तदा परम् ।।
किं नो राज्येन कर्त्तव्यं सामान्यजनधर्मिणा ।। ४ ।।
प्रणिपत्य नरः शत्रुं मानी शौण्डीर्यवर्जितः ।।
कथं शक्नोत्यवस्थातुं भार्यादृग्विषयेष्वपि ।। ५ ।।
अरेर्वा प्रणिपातस्य संग्रामे मरणस्य च ।।
यदन्तरं तद्भवति ब्रह्महत्याश्वमेधयोः ।।६।।
मार्कण्डेय उवाच ।।
शैलूषवचनं श्रुत्वा तदा नाडायनो द्विजः ।।
जगाम स्वगृहायैव हतं मत्वा जनेश्वरम् ।।७।।
नाडायने तदा याते राजा गन्धर्वसत्तमान् ।।
समाहूयाब्रवीत्काश्चित्काश्चित्तत्र कृताञ्जलीन् ।।
अवज्ञाय नरः शत्रुं क्षिप्रमेव विनश्यति ।। ८ ।।
तस्मात्कार्यमवज्ञानं न कदाचिदरातिषु ।।
केचिदयोध्यां गच्छन्तु गन्धर्वा बलदर्पिताः ।। ९ ।।
आनयन्तु स्त्रियः शीघ्रं तत्र गत्वा च मायया ।।
ये मुख्याः सैनिकास्तस्य भरतस्य समत्विषः ।।1.254.१०।।
सैनिकानां स्त्रियस्तेषां कृत्वा प्रमुखतो रणम् ।।
एवं विमनसां तेषां कर्तास्मि कदनं महत् ।। ११ ।।
घातयिष्यामि भरतं हतसैन्यमनन्तरम् ।।
शिबिरं चापरे यान्तु भरतस्य सुविद्विषः ।। १२ ।।
निघ्नन्तु योधान्संसुप्तान्रात्रौ तस्य सहस्रशः ।।
हतसैन्यं हनिष्यामि ततोऽहं भरतं रणे ।। १३ ।।
राज्ञो गृहं तथैवान्ये प्रविशन्तु महाबलाः ।।
निघ्नन्तु तत्र संसुप्तान्सैनिकाँस्तु युधाजितः ।। १४ ।।
हतसैन्यं हनिष्यामि भरतं सयुधाजितम् ।।
अदृश्यैर्मायया गत्वा गन्धर्वैर्बलदर्पितैः ।। १५।।
यथोक्तमेतत्कर्तव्यं वचनं मम सत्वरैः ।।
एवमुक्तास्तु गन्धर्वाः प्रणिपत्य महीपतिम्।।१६।।
राजाज्ञां शिरसाऽऽगृह्य जग्मुस्त्वरितविक्रमाः।।
दिनशेषेण संप्राप्य यथोद्दिष्टं महीक्षिता ।। १७ ।।
व्यचेष्टन्निशि राजेन्द्र यथाज्ञप्तं चिकीर्षवः ।।
विसर्जयित्वा गन्धर्वाञ्शैलूषोऽप्यथ सत्वरः।।१८।।
आज्ञापयत सैन्यानि श्वो युद्धमिति पार्थिव ।।
जगाम चास्तं सविता कमलानि विशीलयन् ।।
छादिते तमसा लोके प्रवृत्ता यामिनी तथा ।।१९।।
गन्धर्वराजोऽपि तदा विजह्रे स्त्रीभिः सहान्तःपुरमेत्य साकम् ।।
गन्धर्वपुत्राश्च तथा विजह्रुः श्वो युद्धमित्येव विवृद्धदर्पाः ।। 1.254.२० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वप्रेषणं नाम चतुष्पञ्चाशदुत्तरद्विशततमोऽध्यायः ।। २५४ ।।
1.255
।। मार्कण्डेय उवाच ।।
आज्ञप्ता ये त्वयोध्यायां गन्धर्वास्तेन भूभुजा ।।
अयोध्यां ते समासेदुर्निशीथे लघुविक्रमाः ।। १ ।।
मायाच्छन्नशरीराश्च विचेरुस्ते महीपते ।।
अयोध्याय महाराज पराञ्च ददृशुः श्रियम् ।। २ ।।
शशाङ्ककन्शुभ्राणि बहुभौमानि यादव ।।
ददृशुर्गृहमुख्यानि शतशोऽथ सहस्रशः ।। ३ ।।
सर्वरत्नोपपन्नानि शयनासनवन्ति च ।।
सुवर्णदामचित्राणि मुक्ताजालचितानि च ।। ४ ।।
प्रज्वलद्भिर्महादीपैर्दीपितानि समन्ततः ।।
बहुमाल्यानि मुख्यानि दीपोद्गारेण पार्थिव ।। ५ ।।
प्रविष्टा गृहमुख्येषु ददृशुस्तेषु मानवान् ।।
चन्दनागुरुदिग्धाङ्गान्सर्वाभरणभूषितान् ।। ६ ।।
क्रीडमानान्सह स्त्रीभिर्दिवि देवगणानिव ।।
भरतानुगतानाञ्च सैनिकानां गृहेषु च ।। ७ ।।
स्त्रीणां भर्तृविहीनानां ददृशुर्बलचेष्टितम् ।।
काचिन्न लेभे शयने निद्रामुद्भ्रान्तलोचना ।। ८ ।।
आकुलं शयनं चक्रे काचिद्भूयो विवर्त्तनैः ।।
मृणालशयने काचित्कदलीपर्णसंस्तरे ।। ९ ।।
चन्दनं चन्द्रपादेषु मृणाल वलयेषु च ।।
कामाग्निनाशाशक्तेषु काचिच्चक्रे तथा रुषम् ।। 1.255.१० ।।
अश्रुधारा निपतिताः कामाग्निपरीदीपिते ।।
अम्बरीषे यथा नाशं कस्याश्चिद्याति वक्षसि ।। ११ ।।
काचिन्मुमोह शयने वर्णयन्ती सखीजने ।।
लब्धनिद्रा तदा दैवात्कान्तसम्भोगजं सुखम् ।। १२ ।।
तालवृन्तानिलैः शीतैर्वीज्यमाना सखीजनैः ।।
दह्यताभ्यधिकं काचित्स्वनिःश्वासविनिस्सृतैः ।। १३ ।।
स्वप्नेऽपि कान्तसंयोगकारिण्यां हि सखी मम ।।
दैवान्मयि हता निद्रा सापि काचिदभाषत ।। १४ ।।
केयूरस्थानसंप्राप्ता वराङ्गदविभूषणा ।।
कामक्षामवपुः काचिज्जगाम सखि शोच्यताम् ।। १५ ।।
दत्तध्यानतया कान्ते शोच्यमाना सखीजनैः ।।
अविज्ञानात्तथा काचिन्नाभाषत सखीजनम् ।। १६।।
चित्रभित्तिगतं कान्तं काचिच्चानिमिषेक्षणा।।
बभूव चित्रन्यस्तेव पश्यन्ती विगतक्रिया ।। १७ ।।
इति गन्धर्वमुख्यानां पश्यतां रजनीमुखे ।।
नासीत्स्त्रीहरणे शक्तिः प्रभावाद्राघवस्य च।।१८।।
हितेच्छुरासां स यदा निविष्टो देवेश्वरश्चक्रधरो नृरूपी ।।
ततः प्रभावो न बभूव तेषां हर्तुं स्त्रियश्चारुशशाङ्कवक्त्राः ।। १९ ।। ।।
इति श्रीविष्णुधमोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे विरहिणीवर्णनं नाम पञ्चपञ्चाशदुत्तरद्विशततमोऽध्यायः ।। २५५ ।।