सामग्री पर जाएँ

विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः २४१-२४५

विकिस्रोतः तः
← अध्यायाः २३६-२४० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २४१-२४५
वेदव्यासः
अध्यायाः २४६-२५० →

1.241
।। नाडायन उवाच ।।
वर्तमाने तदा ग्रीष्मे विकसन्मल्लिकाकुले ।।
निवृत्तपान्थसंचारे संतप्तसिकतोत्करे।।१।।
प्रफुल्लदाडिमाक्रान्ते ज्वलिताभवनान्तरे।।
चारुचम्पकपुप्पाढ्यवनराजिविराजिते।।२।।
पाटलापुष्पसंलीनद्विरेफगणमण्डिते।।
संतप्तमहिषीक्रोडलुठत्पङ्कजभूषणे ।। ३।।
पार्वतोत्तुङ्गमातङ्गविलोडितजलाशये ।।
स्वादुगावच सलिले नीहारावृतपर्वते ।।४ ।।
कर्पूरचन्दनार्द्रांग्यो मृणालवलयाः प्रियाः ।।
रमयन्ति प्रियान्यत्र वनमालाकृतस्रजः ।।५।।
सेव्याश्चन्द्रांशवो यत्र कामिनां कामवर्धनाः ।।
रमणीयप्रदोषाश्च सुतरां यत्र रात्रयः ।। ६ ।।
रात्र्यन्ते शीतलान्वातान्कुसुमाशयगन्धिनः ।।
समाघ्रायाभिजायन्ते कामिनस्तु रिरंसवः ।। ७ ।।
रात्रयः शीघ्रगामिन्यो दिवसा मन्दगामिनः ।।
मिथुनोपगमाद्भानोः संप्रतप्ता भृशं कराः ।। ८ ।।
विलीनहिमतोयौघ फेनपुञ्जसमाकुलाः ।।
अत्यर्थशीताः सरितस्तथा हैमेन पर्वताः ।। ९ ।।
तथा बहुलनिर्याससुरभीकृतचन्दनैः ।।
वर्धयन्ति तथा कामं कामिनीनां तु कामुकाः ।। 1.241.१० ।।
रत्यन्तरसमुत्पन्नमायासश्रमजं जलम् ।।
कर्पूररजसा यत्र नाशयन्ति स्म कामिनः ।। ११ ।।
यस्मिन्निदाघे सफलाम्रवृक्षे विभूषणाढ्यो नृप वत्सरस्य ।।
दिदृक्षवस्तं रघुवृन्द मुख्यं तदा प्रयाता पुनयस्त्वयोध्याम् ।। १२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येष्वयोध्या दर्शने ग्रीष्मवर्णनं नामैकचत्वारिंशदुत्तरद्विशततमोऽध्यायः ।। २४१ ।।
1.242
नाडायन उवाच ।।
ततः सभागतं रामं द्वाःस्थो वचनमब्रवीत् ।।
द्वारि तिष्ठन्ति मुनयो यमुनातीरवासिनः ।।१।।
भार्गवं तु पुरस्कृत्य च्यवनं दीप्ततेजसम् ।।
महानुभावा वरदास्तपसा दग्धकिल्बिषाः ।। २ ।।
द्वाःस्थात्तु वचनं श्रुत्वा तदा रामः पुरोधसा ।।
सहितस्त्वरया द्रष्टुं तापसाँस्तान्विनिर्गतः ।। ३ ।।
सोऽभिगम्य महातेजा ऋषिसङ्घांस्तपस्विनः ।।
अभिवाद्य प्रणम्यैतान्पुरस्कृत्य तदा गृहम् ।। ४ ।।
प्रावेशयत्ततस्तेषां पाद्यार्घ्याचमनादिकम् ।।
आसनं मधुपर्कं च तथा राज्यं न्यवेदयत् ।। ५ ।।
प्रतिगृह्य तु ते सर्वे राज्यं तस्मै पुनर्ददुः ।।
तद्वच्च तीर्थतोयानि फलानि विविधानि च ।। ६ ।।
प्रतिगृह्य च रामस्तान्पृष्ट्वा कुशलमव्यमम् ।।
पप्रच्छ तान्महाभागस्ततस्त्वागमनक्रियाम् ।। ७ ।।
रामस्य वचनं श्रुत्वा च्यवनो वाक्यमब्रवीत् ।।
राक्षसो लवणो नाम राजन्मधुवने वसन्।।८।।
लोकांस्तापयते सर्वांस्तस्य यत्नं वधे कुरु ।।
दशप्राणिसहस्राणि चाहारस्तस्य नैत्यिकः ।। ९ ।।
वधार्थं भरतं तस्य शत्रुघ्नं सहलक्ष्मणम् ।।
समा दिश महाभाग लोकाः सन्तु निरामयाः ।। 1.242.१० ।।
तथा मधुवने स्फीते देशं राम निवेशय ।।
नगरीञ्च यथा पुण्यां लोकानां हितकाम्यया ।।११ ।।
त्वया स भाज्यो रक्ष्याश्च मुनिसंघा महामते ।।
एवमुक्तस्तदा रामश्चिन्तयामास धर्मवित् ।। १२ ।।
लक्ष्मणेन महत्कर्म कृतं निवसता वने ।।
राज्यं पालयता कर्म भरतेन महत्कृतम् ।। १३ ।।
शत्रुघ्नं प्रेरयाम्यद्य लवणस्य वधेप्सया ।।
इत्येवं चिन्तयित्वा तु रामः शत्रुघ्नमब्रवीत् ।। १४ ।।
मुनींश्चैतान्पुरस्कत्य गच्छ शत्रुघ्न मा चिरम् ।।
घातयस्व दुराचारं लवणं पापकारिणम् ।। १५ ।।
घातयित्वा च लवणं जनांस्तत्र निवेशय ।।
नगरी च तथा तत्र त्वया कार्या मनोरमा ।। १६ ।।
तस्यां वस महाभाग पालयँस्त्वं वसुन्धराम् ।।
तत्राहमभिषेक्ष्यामि राज्ये त्वामृषिभिः सह ।। १७ ।।
एतावदुक्त्वा रामस्तद्वाक्यं ऋषिगणान्वितम्।।
अभिषेकेन दिव्येन योजयामास तं तदा ।। १८ ।।
उवाच च महातेजा भ्रातरं दीप्ततेजसम् ।।
इमान्यश्वसहस्राणि चत्वारि भवतोऽनघ ।। १९।।
रथानां द्वे सहस्रे च द्विपोत्तमशतं तथा ।।
अयुतं च पदातीनां सुवर्णस्य च सञ्चयम् ।। 1.242.२० ।।
अन्तरापणवीथ्यश्च नानापण्योपशोभिताः ।।
आदाय गच्छ शत्रुघ्न पर्याप्तबलवाहनः ।। २१ ।।
बलं च सुभृतं वीर तुष्टपुष्टमनुद्धतम् ।।
वशं च सान्त्वदानाभ्यां कुरुष्व रघुनन्दन ।। २२ ।।
न ह्यर्थास्तत्र तिष्ठन्ति न मित्राणि न बान्धवाः ।।
सुप्रीतो भृत्यवर्गस्तु यत्र तिष्ठति राघव ।। २३ ।।
स त्वं दुष्टजनाकीर्णां संस्थाप्य महतीं चमूम् ।।
एक एव धनुष्पाणिर्योधयेथा मधोः सुतम् ।। २४।।
यथा च त्वां न जानाति गच्छ तं युद्धकाङ्क्षिणम् ।।
लवणः स मधोः पुत्रस्तथा निःशङ्कनो व्रज ।। २५ ।।
आख्यातो न च तस्यास्ति कश्चिन्मृत्युभयान्वितः ।।
दर्शनं योऽभिगच्छेत हन्यते लवणेन सः ।। २६ ।।
माहेश्वरेण शूलेन वियुक्तं मृगयागतम् ।।
द्वारमावृत्य लवणं युध्यस्व रघुनन्दन ।। २७ ।।
माहेश्वरममोघं तु शूलं च परिवर्जितम् ।।
गृहाणेमं शरं वत्स सर्वायुधविनाशनम् ।। २८ ।।
अनेन लवणं युद्धे घातयिष्यस्यसंशयम् ।।
गच्छ त्वं ग्रीष्मशेषेण लवणस्य जिघांसया ।। २९ ।।
काले तथा प्रावृषि संप्रवृते विवृद्धतोयासु सरिद्वरासु ।।
मद्दत्तबाणेन निशाचरस्य व्यसुं क्षिप्तौ पातय तस्य देहम् ।। 1.242.३० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु लवणवधे शत्रुघ्नं प्रति रामानुशासनं नाम द्विचत्वारिंशदुत्तर द्विशततमोऽध्यायः ।। २४२ ।।
1.243
राम उवाच ।।
संप्राप्य प्रावृषं वत्स भीमतोयदनिःस्वनाम् ।।
निषिद्धपान्थसंचारां विद्युत्क्षुभिततोयदाम् ।। १ ।।
मेघैस्तोयभरानम्रैः स्थगितार्कनिशाकराम् ।।
प्रवर्षणजलाघातविकासितसरोरुहाम् ।। २ ।।
यस्यां घनवरत्रासात्पीनोत्कम्पिपयोधराः ।।
कुर्वन्त्यालिङ्गनं कान्ताः कान्तानां मनसः प्रियम्।।३।।
भूमिर्नवतृणच्छन्ना शक्रगोपाद्यभूषिता।।
भीमौघनादविस्तीर्णा फेनवत्यश्च निम्नगाः ।।४।।
सतोयतोयदाक्रांतं स्निग्धनीलं नभस्तलम् ।।
बलाकाः शोभयन्ति स्म शारदं तारका इव ।। ५ ।।
घना घनागमारूढा धृतवासवकार्मुकाः ।।
तोयौघबाणधाराभिः प्रववर्षुर्महीतलम् ।। ६ ।।
धाराकदम्बबकुलकुटजार्जुनशोभिताः ।।
पक्वजम्ब्वाम्रशालिन्यो वनराज्यो मनोहराः ।। ७ ।।
निदाघतापसंतप्ता नवतोयसमुक्षिता ।।
मही विसृजते यस्यां गन्धमाल्यगुणं स्वकम् ।। ८ ।।
गर्जमानेषु मेघेषु मृदङ्गध्वनिसन्निभम् ।।
अस्यां मयूरा नृत्यंति विकसत्सत्कलापिनः ।। ९ ।।
समीरणेन मृदुना नुन्नाः खे च पयोधराः ।।
महिष्यश्च विसर्पन्ति पयःपूर्णपयोधराः।।1.243.१०।।
प्रत्यूषे संचरन्तीनां महिषीणां तदा समम् ।।
घण्टानिनादो मधुरः श्रूयते तृणगह्वरे।।११।।
स्थलयः कृष्णसारङ्गक्षेत्रैरनिमिषैरिव ।।
यस्यां पश्यन्ति शत्रुघ्न जलपूर्णमहीतलम् ।। ।१२ ।।
मेघपातेन हद्येन पृषतोत्करशालिना ।।
कामिन्यः कामिनां सार्धं त्याजिता रघुनन्दन ।। १३ ।।
अपारगम्याः सरितो राजानो गतविग्रहाः ।।
बलाहकगणच्छत्रा द्यौस्तथैव सविग्रहा ।। १४ ।।
न निर्वृतसुखोद्वाहकाम्याकाम्यक्रिया मही ।।
प्रहृष्टपौरानुगतैः संवत्सरपुरोहितैः ।। १५ ।।
व्यग्रा भवन्ति राजनः शक्रयष्टिप्रवेशने ।।
शैलैर्नवतृणच्छन्नैस्तथा नीलाभ्रशेखरैः ।। १६ ।।
कान्तिमद्भिर्विशेषेण विराजति वसुन्धरा ।।
तां प्रावृषं प्राप्य नदत्पयोदप्रनर्तिताशेषशिखण्डिवृन्दाम् ।।
द्वारं समाश्रित्य मधोस्तनूजं धनुर्धरस्त्वं जहि राजपुत्र ।।१७।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये प्रावृड्वर्णनं नाम त्रिचत्वारिंशदुत्तरद्विशततमोऽध्यायः ।। २४३ ।।
1.244
राम उवाच ।।
हत्वा प्रावृषि तं पापं यमुनातीरगोचरः ।।
नय त्वं शारदं कालं यावत्सुप्तो जनार्दनः ।। १ ।।
रमणीयतरा यत्र नद्यः प्रकटसैकताः ।।
सुस्वादुशीतसलिला स्सारसैरुपशोभिताः ।। २ ।।
बालार्कसदृशैः पद्मैः पद्मिन्यो यत्र भूषिताः ।।
सरसां विमलं यत्र तोयं मधुरशीतलम् ।।३।।
वरस्त्रीनयनाकारचारुपत्र विभूषणैः ।।
पश्यंतीवोत्पलैर्व्योम उत्पलिन्यः सुनिर्मलम् ।। ४ ।।
नभःसरसि विस्तीर्णे तारानुगुणचित्रिते ।।
शोभते च निशीथेषु हंसवद्विचरञ्शशी ।। ५ ।।
आदधानो महच्चापं संदधानश्च दृश्यते ।।
यावत्संपूर इत्येव बाणैर्भूमितलं शरत् ।।६।।
जातीकुसुमहृद्यासु बन्धुजीवोज्ज्वलासु च।।
मनः प्रसादमायाति हृद्यासु वनराजिषु ।। ७ ।।
पक्वसस्या वसुमती परां धारयति श्रियम् ।।
कलविङ्काः प्रहृष्टाश्च पक्वकेदारपङ्क्तिषु ।। ८ ।।
निम्नगा काथवसनाश्चक्रवाकयुगस्तनाः ।।
सारसारावहासिन्यः सुतरां रतिवर्द्धनाः ।। ९ ।।
हंसैः संघट्टनोपेतकह्लाररजसोत्करैः ।।
सरांसि दुर्विभाव्यानि कुशलैरपि मानवैः ।। 1.244.१० ।।
पाण्डुराभ्रकृतन्यासाः सर्व एव शिलोच्चयाः ।।
श्रियं विडम्बयंतीव तुषाराद्रेः समुज्ज्वलाम् ।। ११ ।।
शरत्प्रभूतोत्पलचारुपद्मां विपक्वकेदारविभूषितोर्वीम्।।
नीत्वा ततः प्राप्य हिमस्य कालं कार्यस्त्वया पत्तनसन्निवेशः।।१२।।
इति श्रीविष्णुधर्मोत्तरे प्रथम खण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु शत्रुघ्नं प्रति रामानुशासने शरद्वर्णनंनाम चतुश्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ।।२४४।।
1.245
।। राम उवाच ।।
प्रबुद्धे पुण्डरीकाक्षे हेमन्ते वैष्णवे ऋतौ ।।
कार्यः पुरनिवेशस्ते तथा जनपदस्य वा ।। १।।
पक्वनारङ्गसुभगे नीहारावृतनिम्नगे ।।
प्रलूनधान्यकेदारे गततुन्दशिलीमुखे ।। २ ।।
कृतसंग्रहणे काले प्रवृत्तनृपविग्रहे ।।
विपङ्कवसुधे रम्ये स्वादुशीतजलाशये ।। ३ ।।
विशाला यत्र यामिन्यः सुतरां सुरतक्षमाः ।।
भृशं मनोहरा यूनां पीडितालिङ्गनक्षमाः ।। ४ ।।
यत्र शीतापदेशेन मानिनीभिरपि स्वयम् ।।
क्रियते त्यक्तमानाभिः प्रियकण्ठग्रहोत्सवः ।। ५ ।।
सुखोष्णोदकगान्धर्वरम्यप्रस्रवणोदके ।।
प्ररूढपवनोद्भूते काले नीलधरातले ।। ६ ।।
वासोद्गमनसंरुद्धदुर्विभाव्यनदीतटे ।।
सारसारावविज्ञेये काले कामिजनप्रिये ।। ७ ।।
यत्रेक्षुपीडयन्त्राणां यष्ट्यः पुरुषचोदिताः ।।
भाग्यानीव मनुष्याणामुन्नमन्ति नमन्ति च ।। ८ ।।
कृताग्रायणपूजाश्च हुतहव्या द्विजातयः ।।
यत्र प्रवेशहृष्टाश्च तथा यत्र च कर्षकाः ।। ९ ।।
गृहेषु च सुखोष्णेषु गवां निःश्वास मारुतैः ।।
स्वाध्यायघोषो विप्राणां नृणां यत्र सुखावहः ।। 1.245.१० ।।
सिताभिः पच्यमानाभिः क्रियमाणैस्तथा गुडैः ।।
रम्यः सुशीतलः कालः प्राणिप्रियहुताशनः ।। ११ ।।
विचरन्ति नरा यत्र गुरुप्रावरणाम्बराः ।।
कुंकुमेनानुलिप्ताङ्गा धनिनः प्रियदर्शिनः ।। १२ ।।
अश्वायामक्षमे काले यत्र यूनां विशेषतः ।।
मृगया दयिता वत्स मन्दरश्मौ दिवाकरे ।। १३ ।।
रोहिताशनपुष्टानां साधुनारङ्गवासितम् ।।
महिषीणां तु मथितं गन्धवर्णरसान्वितम् ।। १४ ।।
इक्षवश्च विदार्यश्च तथैव मूलकानि च ।।
रसवन्ति विशेषेण यत्र पिष्टकृतानि च ।। १८ ।।
प्रवृत्तमेखलाबन्धविवाहादिक्रिये जने ।।
प्रबुद्धे पुण्डरीकाक्षे प्रवृत्ते यज्ञसंस्तरे ।। १६ ।।
काले प्रहृष्टाश्वकरीन्द्रमुख्ये कार्या त्वया राघव वास्तुपूजा ।।
आरम्भणीयं नगरस्य कर्म शिवाय सर्वस्य जनस्य वत्स ।।१७ ।। ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु शत्रुघ्नं प्रति रामसमुपदेशे हेमन्तवर्णनं नाम पञ्चचत्वारिंशदुत्तरद्विशततमोऽध्यायः ।। २४५ ।।