सामग्री पर जाएँ

विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः २२१-२२५

विकिस्रोतः तः
← अध्यायाः २१६-२२० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २२१-२२५
वेदव्यासः
अध्यायाः २२६-२३० →

शैलूष उवाच ।।
श्रोतुमिच्छाम्यहं तस्य दशग्रीवस्य रक्षसः ।।
त्रिलोकविजयं ब्रह्मंस्तत्र मे संशयो महान् ।। १ ।।
नाडायन उवाच ।।
वरप्रदानात्संमत्तो दशग्रीवो निशाचरः ।।
देवगन्धर्वदैत्यानां नागेन्द्रोरगरक्षमाम्।।२।।
आक्रम्याऽक्रम्य रत्नानि स जहार तदा बलात् ।।
पत्न्यश्च राजशार्दूल तदा दुहितरः शुभाः।। ३ ।।
नरेन्द्रान्धर्मसंसक्तान्ब्राह्मणांश्च जिघांसति ।।
अयोध्यावासिनं वीरमनरण्यं च जघ्निवान् ।। ४ ।।
संग्रामे निहतस्तेन दशग्रीवं स शप्तवान् ।।
उत्पत्स्यति कुले नीच पुरुषो मम वीर्यवान् ।। ५ ।।
यस्तवादास्यति प्राणान्समरे समरप्रिय ।।
युयुधे च तथा राज्ञा मांधात्रा रणशालिना ।। ६ ।।
तत्रैनं वारयामास नारदो मुनिसत्तमः ।।
मयूरस्य ततो यज्ञे भक्षयामास वै द्विजान् ।। ७ ।।
इन्द्रो मयूररूपेण तस्माद्यज्ञादपाक्रमत् ।।
मयूरस्य वरं प्रादान्मेघे वर्षति सर्वदा ।। ८ ।।
गमिष्यस्यतुलां प्रीतिं मम नेत्रगणाकृतिम् ।।
धारयिष्यसि लोकेऽस्मिन्कलापं सुमनोहरम् ।। ९ ।।
कृकलासस्य रूपेण धनाध्यक्षो व्यपाक्रमत् ।।
वर्णं तस्य सुवर्णाभं सद्रव्यं च तथा शिरः ।। 1.221.१० ।।
प्रादाद्द्वयममेयात्मा राजराजेन दानव ।।
वरुणश्च तदा राजन्हंसरूपेण निर्गतः ।। ११ ।।
हंसस्य च वरं प्रादात्तोये रतिमवाप्स्यसि ।।
वर्णतश्चन्द्ररश्म्याभो भविष्यसि तथैव च ।। १२ ।।
यमो वायसरूपेण तस्याद्यज्ञादपाकमत् ।।
वायसस्य वरं प्रादादमरत्वं विना वधात्।। १३।।
युष्मद्दत्तेन चान्नेन घोरा मद्विषये स्थिताः ।।
परां तृप्तिं गमिष्यन्ति तदा पुण्येन योक्ष्यसे ।। १४ ।।
वक्ष्यध्वं बलिदातॄणां दिग्देशगतचेष्टितैः ।।
शुभाशुभं मनुष्याणां तत्रातिथ्यं भविष्यति ।।१५।।
वज्रतुण्डाश्च ये काका घोरा मद्विषये स्थिताः ।।
बलिपिण्डाँश्च दातॄणां भविष्यन्ति ततः शिवम् ।। १६ ।।
मरुत्तयज्ञे वित्रासं जनयित्वा दिवौकसाम् ।।
बभ्राम वसुधां राजा राक्षसानां प्रतापवान् ।। १७ ।।
ददर्श स तदा कन्यां तपस्यन्तीं महत्तपः ।।
रूपेणाप्रतिमां लोके यौवने प्रथमे स्थिताम्।।१८।।
दशग्रीवः स पप्रच्छ तां कन्यां लोकसुन्दरीम्।।
का त्वं किमर्थं सुश्रोणि चास्थिता यौवने तपः।।१९ ।।
श्रुत्वा तस्य तु सा कन्या सत्यं वचनमब्रवीत् ।।
बृहस्पतिसुतो विद्वान्पिता मम कुशध्वजः ।।1.221.२०।।
वेदाभ्यासप्रवृत्तस्य तस्याहं नृपबान्धवा।।
सुतापरा समुत्पन्ना तत्पत्न्या विदिता तथा ।। २१ ।।
नाम्ना वेदवतीत्येवं ख्याता लोकेषु राक्षस ।।
विष्णोर्मयेयं दातव्या तस्यासीन्मे पितुर्मतिः ।। २२ ।।
मद्याचना निरस्तेन दैत्यनाथेन शम्भुना ।।
पिता मम हतो रात्रौ तमालिङ्ग्य विभावसुम् ।। २३ ।।
प्रविष्टा जनयित्री मे यथाहं विधृता चिरम् ।।
स्वर्गस्थस्य पितुः कामं साहं सत्यमभीप्सती ।। २४ ।।
आराधयामि तपसा पत्यर्थं मधुसूदनम् ।।
ततस्तामब्रवीद्रक्षो मा त्वं क्लेशे मतिं कृथाः ।।२५ ।।
भवस्व मे वरारोहे भार्या त्रैलोक्यसुन्दरी ।।
रूपस्य वयसश्चैव नानुरूपं तपस्तव ।। २६ ।।
त्वां कृत्वोपरतो मन्ये रूपं कृत्वा स विश्वकृत् ।।
न हि रूपोपमा त्वन्या तथास्ति सदृशी यतः ।। २७ ।।
संपूर्णकान्तिमत्सौम्यं वदनं ते वरानने ।।
सकलंकेन चन्द्रेण कथमोपम्यमर्हति ।। ।।२८।।
भव भूषणजातानां भूषणं त्वं शुचिस्मिते ।।
वृणुष्व मां वरारोहे पतित्वे वरवर्णिनि ।। २९।।
आक्रम्याक्रम्य लोकस्य प्रधाना या मया हृताः।।
स्त्रियः कुरुष्व सर्वासां तासां स्वाम्यमनिन्दिते ।।1.221.३०।।
जटामालाजिनधरी त्वमेवं रतिवर्धिनी ।।
न जाने मण्डनां प्राप्य कथं भीरु भवि ष्यसि ।। ३१ ।।
रूपेण वयसा लक्ष्म्या तथैव गुणसम्पदा ।।
विक्रमे मे वरारोहे न समो हि जनार्दनः ।। ३२ ।।
जन्म तस्य न जानन्ति परेभ्यो ये परे जनाः ।।
तेन त्वमकुलीनेन किङ्करिष्यसि सुन्दरि ।। ३३ ।।
अनिन्द्रं लोकमिच्छन्ती सुराणां हितकाम्यया ।।
हता येनानुवृत्तेन योषित्काव्या रणिः पुरा ।। ३४ ।।
पुराणा ये जगत्यस्मिँस्तेभ्यः पूर्वतराश्च ये ।।
तेभ्योऽप्यति पुराणं तं भर्तारं कथमिच्छसि ।। ३५ ।।
ब्रह्मणो वरदानेन यस्त्ववध्यो दिवौकसाम् ।।
ते दैत्यनाथाः सबलाश्छद्मना तेन घातिताः ।। ३६ ।।
तत्प्रताप?निविष्टेन चेतसा रक्षसां श्रियम् ।।
यो बिभर्त्यपि तां तेन किं करिष्यति भामिनि ।। ३७ ।।
वृद्धेभ्यो न श्रुतं तस्य त्वया रूपमनिन्दिते ।।
विदितं सर्वलोकानां विश्वरूपधरस्त्वसौ ।। ३८ ।।
शेषाहिभोगपर्यङ्के तेन त्वं शयिता सह ।।
सविषैर्भोगनिश्वासैः परां ग्लानिमुपैष्यसि ।। ३१।।।
कण्ठग्रहेण निहतौ येन तौ मधुकैटभौ ।।
कथं कण्ठग्रहं तस्य समुपैष्यसि सुन्दरि ।। 1.221.४० ।।
हिरण्यकशिपुर्येन नखैरुत्कान्तजीवितः ।।
कथं रत्यन्तरे तस्य नखाघातं सहिष्यसि ।। ४१ ।।
तस्माद्भावं समुत्सृज्य चारुगात्रि जनार्दने ।।
भजस्व भजमानं मां चिरं प्रीतिमवाप्नुहि ।। ४२ ।। ।।
वेदवत्युवाच ।।
गुणा एव सुरेशस्य दोषास्ते रजनीचर ।।
जगत्प्रकाशका भानोरुलूकस्येव रश्मयः ।। ४३ ।।
किं त्वया सह वादेन वरणीयः स मे प्रभुः ।।
यादृशस्तादृशो वापि पतित्वे रजनीचर ।। ४४ ।।
इति वेदवतीवाक्यं श्रुत्वा कोपसमन्वितः ।।
कामेन राक्षसेन्द्रन्तां केशपाशे परामृशत ।। ४५ ।।
त्वया संधर्षिता पाप प्रवेक्ष्यामि हुताशनम् ।।
अयोनिजा भविष्यामि वधार्थं न तथा तव ।। ४५ ।।
एवमुक्त्वा चितां कृत्वा प्रविष्टा जातवेदसम्।।
भूय सीता समुत्पन्ना जनकस्य महात्मनः ।। ४७ ।।
अयोनिजा महाभागा कर्षतो यज्ञमेदिनीम् ।।
भर्तारं तपसा विष्णुं रामं लब्धवती यथा ।। ४८ ।।
यस्या अर्थे स रामेण दशग्रीवो हतो रणे ।।
लोकापवादभीतेन दशग्रीवगृहोषिता ।। ४९ ।।
अतः पत्नी परित्यक्ता सीता भूयो जनेश्वर ।।
वाल्मीकेराश्रमे सा तु प्रसूता दारकद्वयम् ।। 1.221.५० ।।
कुशं लवं च विक्रान्तौ ययोः सर्वाः क्रियाः कृताः ।।
वाल्मीकिना महाभागौ वेदमध्यापिता यथा ।। ५१ ।।
प्रकर्षं च धनुर्वेदे पारं नीता तु तौ शिशू ।।
वाल्मीकिना तथा कृत्वा रामस्य चरितं शुभम ।। ५२ ।।
अध्यापितो विशालाक्षौ दारकौ प्रियदर्शनौ ।।
अगायतां ततस्तौ तु रामयजे कुमाग्का ।। ५३ ।।
रामस्य चरितं कृत्स्नं रामस्य पुरतः स्थितौ ।।
तस्मात्काव्यात्तु विज्ञाय पुत्रौ तौ प्रियदर्शनौ ।। ५४ ।।
यज्ञे तां च तथाभूतामानयामाम सत्वरः ।।
उवाच च वरारोहां प्रत्ययं कुरु मे शुभे ।। ५५ ।।
रामस्य वचनं श्रुत्वा सीता वचनमब्रवीत ।।
यथाऽहं राघवादन्यं मनसापि न कामये ।। ५६ ।।
तेन सत्येन मे देवी विवरं संप्रयच्छतु ।।
एतस्मिन्नेव काले तु भुवं भित्त्वा समुत्थितम् ।। ५७ ।।
धृतं सिंहासनं नागैस्तत्रैनामुपवेशयत् ।।
स्वयं वसुमती देवी पातालं सा ततो गता ।। ५८ ।।
अविच्छिन्नेन पतता पुष्पवर्णेन पार्थिव ।।
तस्यां भूमिप्रविष्टायां राघवं क्रोधसंयुतम् ।। ५९ ।।
सान्त्वयामास वै ब्रह्मा सर्वलोकनमस्र्कृतः ।।
रामोऽपि कृत्वा सौवर्णीं सीतां पत्नीं यशस्विनीम् ।। 1.221.६० ।।
ईजे यज्ञैर्बहुविधैः सह भातृभिरच्युतः ।।
नापद्भयं न विधवा न च व्यालकृतं भयम ।। ६१ ।।
न च व्याधिकृतं किञ्चिद्रामे राज्यं प्रशासति ।।
आजानुबाहुर्धर्मात्मा सिंहस्कन्धो नरेश्वरः ।। ६२ ।।
पृथ्वी ससागरां रामो धर्मेणान्वशिपत्प्रभुः ।।
देवाश्च ऋषयश्चैव गन्धर्वाप्सरसां गणाः ।। ६३ ।।
यक्षाश्च भूतानि तथा किन्नराश्चैव राक्षसाः ।।
मानुष्याणां दर्शनं ते सौम्याः सन्तो ययुस्सदा ।। ६४ ।।
यदर्थमेषा चरति गाथा लोके पुरातनी ।।
आजानुबाहुः सिंहास्यः कम्बुग्रीवो महाबलः ।। ६५ ।।
सर्वभूतशरण्यश्च विष्णुर्मानुष्यतां गतः ।।
सत्यवाननृशंसश्च जातो भक्तजनप्रियः ।। ६६ ।।
धृतियुक्तो दयाशीलो धर्मयुक्तो जितेन्द्रियः ।।
मितवागपि कार्येषु वक्ता वाचस्पतेः समः ।। ६७ ।।
वीर्यवान्न च वीर्येण महता तेन विस्मितः ।।
तेजसा भास्कग्समः क्षमया पृथिवीसमः ।। ६८ ।।
महेश्वरसमः क्रोधे नीतावुशनसा समः ।।
एवं सर्वेषु भूतेषु गुणैर्दाशरथिर्बभौ ।। ६९ ।।
वर्णानामाश्रमाणां च न साङ्कर्यं नृपोत्तमे ।।
धर्मिष्ठाश्च जनाः सर्वे रामे राज्यं प्रशासति ।। 1.221.७० ।।
निर्दस्युरभवल्लोको नानर्थः किञ्चिदस्पृशत ।।
नाकालवर्षी पर्जन्यः सर्वसस्यधरा धरा ।।
जनानुरागश्च महान्रामस्य विदितात्मनः ।।७१।।
न ते क्षमं तेन नरेन्द्रचन्द्र वैरं महात्मा स तु लोकपूज्यः ।।
तस्यास्त्रवेगस्य रणे च वेगं सोढुं न शक्तास्त्रिदशाः सशक्राः ।।७२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये रावणस्य भूर्लोकविजयं नामैकविंशत्युत्तरद्विशततमोऽध्यायः ।।२२१।।
1.222
शैलूष उवाच ।।
वह्निप्रविष्टां संप्रेक्ष्य तदा वेदवतीं द्विज ।।
किं चकार महातेजा दशग्रीवः प्रतापवान्।।१।।
नाडायन उवाच।।
जगाम स तदा लङ्कां पूज्यमानो निशाचरैः ।।
तत्रस्थं प्रेरयामास दूतं धनपतिः स्वयम् ।। २ ।।
अकार्याद्विनिवर्तस्व सुरैस्ते चिन्त्यते वधः ।।
दूतस्य वचनं श्रुत्वा दूतं हत्वा निशाचरः ।।३।।
गत्वा विजिग्ये धनदं विजहाराऽस्य पुष्पकम् ।।
पुष्पकेण विमानेन कैलासं स तदा ययौ ।। ४ ।।
पुष्पकस्य गतिं रुद्धां तत्र वीक्ष्य निशाचरः ।।
ददर्श शैलशृङ्गस्थं नन्दिनं वानराकृतिम् ।। ५ ।।
तं दृष्ट्वा मुमुचे हासं नन्दी तं शप्तवांस्ततः ।।
गिरावस्मिन्दशग्रीव स्वयं क्रीडति शङ्करः ।।६।।
विमानेन यदा तस्य समीपमुपयास्यसि।।
करोषि चावहास्यं मां तस्माच्छप्स्याम्यहं तव ।। ७ ।।
मद्वक्त्रसदृशा घोराः पुलहस्य प्रजापतेः ।।
उत्पत्स्यन्ति कुले भीमाः क्षयार्थं वानरास्तव ।। ८ ।।
श्रुत्वैनं नन्दिनो वाक्यं सकैलासं त्रिलोचनम् ।।
नेतुकामस्तदा लङ्कां भुजाञ्चिक्षेप पर्वते ।। ९ ।।
पौलस्त्यभुजसंक्षुब्धकैलासचलितासना ।।
जग्राह निर्भरं कण्ठे तदोमा त्रिपुरान्तकम् ।। 1.222.१० ।।
ततो गर्जन्महादेवो देवानां प्रवरो हरः ।।
पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ।। ११ ।।
रक्षसा तेन रोषाच्च भुजानां रुजया तथा ।।
मुक्तो विरावः सुमहांस्त्रैलोक्यं येन रावितम् ।। १२ ।।
मेनिरे वक्त्रनिष्पेषं तस्यामात्या युगक्षयम् ।।
आसनेभ्यः प्रचलिता देवाः शक्रपुरोगमाः ।। १३ ।।
तेन शब्देन वित्रस्ता सुतरां पर्वतात्मजा ।।
हरस्यालिङ्गनं चक्रे भयलोलेक्षणा भृशम् ।। १४ ।।
अकृत्रिमालिङ्गनजां प्रीतिं प्राप्य तदा हरः ।।
मुक्त्वा चास्य भुजान्राजन्प्राह वाक्यं दशाननम् ।। १५ ।।
प्रीतोऽस्मि तव वीर्यैश्च शौण्डीर्यैश्च दशानन ।।
यस्मादराक्षसो रावस्त्वया मुक्तो भयङ्करः ।। १६।।
तस्मात्त्वं रावणो नाम भविष्यसि जगत्त्रये ।।
ततः प्रभृति राजेन्द्र रावणो लोकरावणः ।। १७ ।।
शातकुम्भमयं लिङ्गं देवदेवस्य शूलिनः ।।
सम्पूजयति राजेन्द्र नित्यं श्रद्धासमन्वितः ।।१८।।
यत्रयत्र यथा याति तत्रतत्रास्य पार्थिव ।।
सौवर्णं तस्य देवस्य लिङ्गं तदनु नीयते ।। १९ ।।
ततस्तु रावणो राजा ययौ संयमनीं पुरीम् ।।
युयुधे कालपाशेभ्यो यागैश्च सह मृत्युना ।।1.222.२०।।
जित्वा पितृगणांश्चैव मोक्षयित्वा च नारकान् ।।
यमेन युयुधे सार्धं क्रोधाद्वैवस्तस्ततः ।। २१ ।।
हन्तुमिच्छन्महीपाल दण्डास्त्रेण निशाचरम्।।
वारयामास तं ब्रह्मा वाक्यं चेदमुवाच ह ।। २२ ।।
अमोघस्तव दण्डोयमवध्यश्चैव रावणः ।।
एकस्मिन्नपि निष्क्रान्ते भूयामनृतवागहम् ।। २३ ।।
पितामहवचः श्रुत्वा देवस्सोऽन्तर्दधे ततः ।।
रावणः सह सैन्येन ययौ कैलासपर्वतम् ।। २४ ।।
उवास शर्वरीं तत्र योद्धुकामो दिवालयैः ।।
स तु चन्द्रोदये रात्रौ भ्रातृपुत्राभिसारिकाम् ।। २५ ।।
ददर्श रम्भां राजन्तीं मेघस्येव शतह्रदाम् ।।
अकामां कामसंतप्तो विध्वंस्य सुरयोषितम् ।। २६ ।।
अद्यप्रभृति मूर्धा ते शतधा तु गमिष्यति ।।
प्रभातसमये गत्वा सुरसद्म स राक्षसः ।। २७ ।।
मेघनादेन सहितः कुम्भकर्णेन रक्षसा ।।
देवानां कदनं चक्रे तथान्ये राक्षसोत्तमैः ।। २८ ।।
तस्मिन्रणमुखे घोरो सावित्रेण तदाऽनघ ।।
सुमाली निहतः संख्ये रावणस्यार्भको बलात ।। २९ ।।
अजेयान्राक्षसाञ्ज्ञात्वा पुलोमा नाम दानवः ।।
जयन्तमिन्द्रतनयं दौहित्रं स्वं रणाजिरात् ।। 1.222.३० ।।
रक्षार्थमनयच्छ्रीमान्स्वगृहं वसुधातले ।।
अपश्यमानं पुत्रं स्वं शक्रं विह्वलचेतसम् ।। ३१ ।।
बबन्ध मेघनादस्तु ब्रह्मलव्धवरः शनैः ।।
अनयच्च तथा लङ्कां ततो देवः पितामहः ।। ३२ ।।
गत्वा तं मोचयामास शक्रं त्रिभुवनेश्वरम् ।।
मेघनादस्य चास्त्राणि मायाश्च विविधास्तथा ।। ।। ३३ ।।
अमरत्वं तदा प्रादाद्वह्निकर्मान्तरं विना ।।
नाम चक्रे तदा चास्य शक्रजित्त्वं भविष्यसि ।। ३४ ।।
मेघनादं सान्त्वयित्वा मोचयित्वा शतक्रतुम् ।।
उवाच भगवान्ब्रह्मा देवं दशशतेक्षणम् ।। ३५ ।।
गौतमस्य प्रिया भार्या मनसा निर्मिता मया ।।
रूपेणाप्रतिमा शक्र त्वया विध्वंसिता यदा ।। ३६ ।।
तदा गौतमशापेन विफलत्वं गतः स्वयम् ।।
देवैः कृतस्त्वं सम्भूय शेपस्तम्भः पुरन्दर ।। ३७ ।।
अहल्या च तदा शप्ता गौतमेन महात्मना ।।
अदृश्या सर्वभूतानां विचरिष्यसि दुःखिता ।। ३८ ।।
परदाररतश्चासौ द्वे पापं समवाप्स्यति ।।
तेन शापेन संयोगा परदारैश्च वासव ।। ३९ ।।
बन्धनं तत्त्वया प्राप्तं तस्य पापस्य कर्मणः ।।
फलात्त्रिभुवनश्रेष्ठ समरेषु पराजयम् ।। 1.222.४० ।।
तस्माद्धर्मेण धर्मज्ञ त्पालयस्व जगत्त्रयम् ।।
धर्मो धारयते लोकान्यतो धर्मस्ततो जयः ।। ४१ ।।
गते स्वलोकं भुवनप्रधानं पद्मोद्भवे दानवपूगहर्ता ।।
त्रिविष्टपं प्राप्य शशास राज्यं महानुभावस्त्रिदशाधिनाथः ।। ४२ ।।
इति श्रीविप्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे स्वर्गविजयो नाम द्वाविंशत्युत्तर द्विशततमोऽध्यायः ।। २२२ ।।
1.223
।। शैलूष उवाच ।। ।।
पातालविजयं तस्य रावणस्य महात्मनः ।।
श्रोतुमिच्छामि तत्त्वेन तत्र कौतूहलं हि मे ।। १ ।।
नाडायन उवाच ।। ततः स गत्वा पातालं युयुधे दैत्यसत्तमैः ।।
कालखञ्जैर्महाभागैः कालकेयैश्च दारुणैः ।। २ ।।
निवात कवचैश्चैव संवत्सरमतन्द्रितः ।।
पतिं शूर्पणखायास्तु विद्युज्जिह्वं तु दानवम् ।। ३ ।।
अजावक्त्रवतस्तत्र जघान रणगर्वितम् ।।
तत्रागम्य तदा ब्रह्मा निवातकवचैः सह ।। ४ ।।
चकार सख्यं सर्वात्मा दशग्रीवस्य रक्षसः ।।
ततस्तु युयुधे नागैर्घोररूपैर्विषोल्बणैः ।। ५ ।।
वशी कृत्त्वा ततो नागान्वरुणस्य पुरं ययौ ।।
ब्रह्मलोकगते राजन्वरुणे सुमहात्मनि ।। ६ ।।
पुष्करः प्रददौ युद्धं रावणस्य दुरात्मनः ।।
वरुणस्य सुतः श्रीमाञ्जामाता बलिनस्तथा ।। ७ ।।
सोमपुत्र्या महाराज ज्योत्स्नया यः स्वयं वृतः ।।
अर्थशास्त्रं विजानाति यः समग्रं महायशाः ।। ८ ।।
अस्त्रग्रामं समग्रं च तथा शस्त्राण्यनेकशः ।।
रूपदाक्षिण्यलावण्यधर्मचर्यैः समन्विते ।। ९ ।।
बले शौर्ये तथा दाने तुल्यो यस्य न विद्यते ।।
भ्रातृभिर्भ्रातृपुत्रैश्च सैन्येन महता यथा ।। 1.223.१० ।।
दत्त्वा युद्धं महाघोरं सान्त्वयामास राक्षसम् ।।
ततः स नगरं जित्वा वरुणं सुमहाबलम् ।। ११ ।।
सैन्यैर्विश्रवसः पुत्रो मानुष्यं पुनरागतः ।।
किष्किन्धां स ततो गत्वा पुरीं वानरपालिताम् ।। १२ ।।
पप्रच्छ वानरांश्चैव क्वासौ वाली महाबलः ।।
तं जगाद महातेजा तारो गहनगोचरः ।। १३ ।।
किं स्यात्ते वालिना कार्यं तन्ममाचक्ष्व पृच्छतः ।।
रावण उवाच ।।
युद्धातिथ्यमहं तस्मात्प्रार्थयामि वलीमुखात ।। १४ ।।
बलवाञ्श्रूयते राजा जिज्ञासा तस्य मे बले ।।
तार उवाच ।।
जिज्ञासितो यदा वाली त्वत्तोऽन्यैर्बलवत्तरैः ।। १५ ।।
निहताः शतशस्तेन त्वत्तो वीर्यबलाधिकाः ।
इदानीमेव निहतो दुन्दुभिस्तेन राक्षसः ।। १६ ।।
प्रविश्य विवरं घोरं मायावी तेन घातितः ।।
बिले प्रविष्टस्य तदा राजन्संवत्सरसं गतम् ।। १७ ।।
सुग्रीवेण तदा तस्य द्वारं पिहितमात्मना ।।
स तु संवत्सरस्यान्ते हत्वा मायाविनं रणे ।। १८ ।।
ददर्श राजन्सुग्रीवं किष्किन्धायां तदाऽनुजम् ।।
स्वपत्न्या रुमया सार्धं वालिपत्न्या च तारया।।१९।।
क्रीडमानं यथा शक्रं क्रोधस्य वशमन्वगात् ।।
रुमां तारां तथा हृत्वा तेन निर्वासितस्त्वसौ ।। 1.223.२० ।।
निर्वासिते तु सुग्रीवे पश्चात्ताप समन्वितः ।।
हन्तुकामस्तु सुग्रीवं वाली पर्यचरन्महीम् ।।२१।।
तदा वालिभयत्रस्तः सुग्रीवोऽपि पलायितः ।।
न स लेभे सदा त्राणं तदा सस्मार राक्षसम् ।। २२ ।।
मतङ्गशापं राजेन्द्र वालिनः स तथा स्वयम् ।।
हत्वा तु दुन्दुभिं वाली पादाडुष्ठेन योजयत्। २३ ।।
चिक्षेप राक्षसश्रेष्ठं मतङ्गस्याश्रमं प्रति ।।
मतङ्गस्याश्रमं दृष्ट्वा रुधिरेण समन्वितम् ।। २४ ।।
शशाप वालिनं रोषात्तस्यास्मिन्मे महद्वने ।।
सद्यः प्रविष्टमात्रस्य जीवितं न भविष्यति ।। २५ ।।
अगम्यं वालिनो ज्ञात्वा मतङ्गस्य महद्वनम् ।।
चतुर्भिः सचिवैः सार्धं सुग्रीवस्तमुपाश्रितः ।। २६ ।।
नलेन राजन्नीलेन तारेण च हनूमता ।।
हनूमान्सचिवस्तस्य देवानामपि निर्भयः ।। २७ ।।
जातमात्रस्तु यो बाल्ये वीक्ष्य सूर्यं खमाप्लुतः ।।
भक्ष्यार्थी तस्य पार्श्वस्थं राहुं दृष्ट्वा निशाचरम् ।। २८ ।।
सूर्यमुत्सृज्य भक्ष्यार्थी तदा राहुं प्रदुद्रुवे ।।
राहुर्जगाम शरणं भयाद्भीतं च वासवम् ।। २९ ।।
तस्यानु प्रययावेव स तु बालो महाबलः ।।
स ददर्श महाकायं तदा शक्रस्य दन्तिनम् ।। 1.223.३० ।।
तं प्रदुद्राव भक्ष्यार्थी सशक्रं कुञ्जरोत्तमम् ।।
प्राहरत्त्वरया वज्रं ततस्तस्य सुराधिपः ।। ३१ ।।
तस्य वज्रप्रहारेण वामो हनुरभज्यत ।।
हनुमानिति तेनास्य नाम चक्रे पितामहः ।। ३२ ।।
क्रुद्धं च जगतां वायुं सान्त्वयित्वा पितामहः ।।
वरेण च्छन्दयामास हनुमन्तं महाबलम् ।।३३।।
सर्वैर्देवगणैः सापि लोकानां हितकाम्यया ।।
अजरामरतां तस्य अजेयत्वं तथा रणे ।।३४।।
प्रददुर्देवताः सर्वे बलं चाप्रतिमं तथा ।।
स्वयं भगवता तस्य सूर्येण सुमहात्मना ।।३५।।

1.224


-- - - - -

1.225
... ...विनायकं तु तुष्टाव ततः शम्भुस्त्रिलोकधृक् ।।
पुराणां सङ्गमार्थाय अविद्येनेति मानद ।। १ ।।
शङ्कर उवाच ।।
नमस्यामि महाबाहुं देवदेवं गणेश्वरम् ।।
हस्तिवक्त्रं महाकायं व्याघ्रचर्माम्बरच्छदम् ।। २ ।।
चन्द्ररश्मिप्रतीकाशं चारुदंष्ट्रोज्वलाननम् ।।
भक्तानां विघ्नशमनं सुराद्यं पार्वतीसुतम् ।।३।।
परश्वधधरं वीरमक्षमाला विभूषितम् ।।
ब्रह्मण्यं वरदं सौम्यं विघ्नानां पतिमूर्जितम् ।।४।।
पीनास्यं लम्बजठरं हारभारार्पितोदरम् ।।
अष्टमी च चतुर्थी च वृता येन चतुर्दशी ।।५।।
कुल्माषोत्क्लोपिकापूपैर्मोदकैरोदनेन च ।।
पूजयन्ति जना लोके धूपमाल्याऽनुलेपनैः ।। ६ ।।
स्वस्तिवाचनकैश्चैव तेषां नास्तीह दुर्लभम् ।।
पुत्रार्थी लभते पुत्रान्धनार्थी धनमुत्तमम् ।। ७ ।।
व्याधितश्च तथारोग्यं बद्धो मुच्येत बन्धनात् ।।
त्वां तु संपूजयित्वा वै वरदं कामरूपिणम् ।। ८ ।।
इष्टान्कामानवाप्नोति नात्र कार्या विचारणा ।।
यश्चाधीते स्तवमिमं तव नित्यं गणेश्वर ।। ९ ।।
तस्यापि सर्वकामानां सदा दाता भविष्यसि ।।
नाडायन उवाच ।।
इत्येवं संस्तुतः श्रीमाञ्शंकरेण विनायकः ।। 1.225.१० ।।
एकस्थानगतं चक्रे विना विघ्नं पुरत्रयम् ।।
एकस्थं त्रिपुरं विष्णुः शराग्रस्थो धनुश्च्युतः ।।
शंकरप्रेरितः शीघ्रं तदा चक्रे स भस्मसात् ।। ११ ।।
पुरत्रये देववरेण तेन विनिर्मितेऽभूज्जगतां प्रहर्षः ।।
जग्मुस्तदा देवगणाः प्रहष्टाः स्थानानि राजेन्द्र तथा स्वकानि ।। १२ ।।
इति श्रीविप्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये त्रिपुरदाहवर्णनो नाम पंचविशत्युत्तरद्विशततमोऽध्यायः ।। २२५ ।।